श्रीविष्णुपुराणम्-प्रथमांशः/अध्यायः ८

विकिस्रोतः तः
Jump to navigation Jump to search
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२


पराशर उवाच ।
कथितस्तामसः सर्गो ब्रह्मणस्ते महामुने
रुद्रसर्ग प्रवक्ष्यामि तन्मे निगदतः श्वृगु ।। १ ।।

कल्पादावात्मनस्तुल्य सुतं प्रध्यायतस्ततः ।
प्रादुरासीत् प्रभोरङ्क कुमारो नीललोहितः ।।२ ।।

रुदन् वै सुस्वरं सोऽथ द्रवंश्च द्रिजसतम ।
किं रोदिषीति तं ब्रह्मा रुदन्तं प्रत्युवाच ह ।। ३ ।।

नाम देहीति तं सोऽथ प्रत्युवाच प्रजापतिम् ।
रुद्रस्त्वं देव नाम्नासि मा रोदीर्धैर्य मावह ।। ४ ।।

एवमुक्तः पुनः सोऽथ सप्तकृत्वो रुरोद वै ।
ततोऽन्यानि तदौ तस्मै सप्त नामानि वै प्रभुः ।

स्थानानि चैषामष्टानां पत्नीः पुत्रांश्च वै प्रभुः ।। ५ ।।

भवं सर्व्व महेशानं तथा पशुपतिं द्रिज ।
भममुग्रं महादेवं उवाच स पितामहः ।। ६ ।।

चक्र नामान्यथ तानि स्थानान्येषां चकार सः ।
सूर्य्यो जलं मही वह्निर्वायुराकाशमेव च ।
दीक्षितो ब्राह्मणः सोम इत्येतास्तनवः क्रमात् ।। ७ ।।

सुवर्चला तथैवोमा सुकेशी चापरा शिवा ।
स्वाहा दिशस्तथा दीक्षा रोहणी च यथाक्रमम् ।। ८ ।।

सूर्य्यदीनां नरश्वेष्ठ रुद्राद्य नैमिभिः सह ।
पल्यः स्मृता महाभाग तदपत्यानि मे श्वृणु ।
येषां सूतिप्रसूतैर्वा इदमापूरितं जगत् ।। ९ ।।

शनैश्वरस्तथा शुक्रो लोहिताङ्गो मनोजवः ।
स्कन्दः खर्गोऽथ सन्तानो बुधश्वानुक्रमात् सुताः ।। १० ।।

एवम्प्रकारो रुद्रोऽसौ सतीं भार्य्यामविन्दत ।
दक्षकोपाज्व तत्याज सा सती स्वं कलेवरम् ।। ११ ।।

हिमवद्दु हिता साभून्मेनायां द्रिजसतम ।
उपयेमे पुनश्वोमामनन्यां भगवात् भवः ।। १२ ।।

देवौ धातृविधातारौ भृगोः ख्यातिरसूयत ।
श्वियञ्च देवदेवस्य पली नारायणस्य या ।। १३ ।।

मैत्रेय उवाच ।
क्षीराब्धौ श्रीः समुत्पन्ना श्रू यतेऽमृतमन्थने ।
भृगोः ख्यात्यां समुत्पन्नेत्येतदाह कथं भवान् ।। १४ ।।

पराशर उवाच ।
नित्यैव सा जगन्माता बिष्णोः श्रीरनपायिनी ।
यथा सर्वगतो विष्णुस्तथैवेयं द्रिजोत्तम ।। १५ ।।

अर्थो विष्णुरिय वाणी नीतिरेषा नयो हरिः ।
बोधो विष्णुरियं बुद्धिर्धम्मोऽसौ सतक्रिया त्वियम् ।। १६ ।।

स्त्रष्टा विश्णुंरियं सृष्टिः श्रीर्भूमिर्भूधरो हरिः ।
सन्तोषो भगवान् लक्ष्मीस्तुष्टिर्मैत्रेय शाश्वती ।। १७ ।।

इच्छा श्रीर्भगवान् कामो यज्ञोऽसौ दक्षिणा तुसा ।
आज्याहुतिरसौ देवी पुरोडाशो जनार्द्द नः ।। १८ ।।

पलीशाला मुने लक्ष्मीः प्राग्वंशो मधुसूदनः ।
चितिर्लक्ष्मीर्हरिर्यूप इध्मा श्रीर्भगवान् कुशः ।।१९ ।।

सामखरूपी भगवानुदगीतिः कमलालया।
चितिर्लक्ष्मीर्जगन्नाथो वासुदेवो हुताशनः ।। २० ।।

शङ्गरो भगवाञ्छौरिर्भूतिर्गौरी द्रिजोत्तम ।
मैत्रेय कैशवः सूर्य्यस्ततूप्रभा कमालालया ।। २१ ।।

विष्णुः पितृगणः पद्मा स्वधा शाश्वततुष्टिदा ।
द्यौः श्रीः सर्व्वात्मको विष्णुरवकाशोऽतिविस्तरः ।। २२ ।।

शशाङ्कः श्रीधरः कान्तिः श्रीस्तस्थैवानपायिनी ।
धृतिर्सक्ष्मीर्जगज्वेष्टा वायुः सर्व्वन्नगो हरिः ।। २३ ।।

जलधिर्द्रिज गोविन्दस्तद्रलो श्रीर्महामते ।
लक्ष्मीस्वरूपमिन्द्राणी देवन्द्रो मधुसूदनः ।। २४ ।।

यमश्वक्रधरः साक्षादू धूमोर्णा कमलालया ।
ऋद्धिः श्रीः श्रीधरो देवः स्वयमेव धनेश्वरः ।। २५ ।।

गौरी लक्ष्मीर्महाभागा केशवो वरुणः स्वयम् ।
श्रीर्देवसेना विप्रेन्द्र देवसेनापतिर्हरिः ।। २६ ।।

अवष्टम्भो गदापाणिः शक्तिर्लक्ष्मीर्द्रिजोत्तम ।
काष्ठा लक्ष्मीर्निमेषोऽसौ मुहूर्त्तोऽसौ कला तु सा ।। २७ ।।

ज्योत्स्ना लक्ष्मीः प्रदीपोऽसौ सर्व्वः सर्व्वेश्वरो हरिः ।
लताभूता जगनामाता श्रीविंष्णुर्द्रुमसंस्थितः ।। २८ ।।

विभावरी श्रीर्दिवसो देवश्चक्रगदाधरः ।
वरप्रदो वरोविष्णर्वधूः पझवनालया ।। २९ ।।

नदस्वरूपी भगवाञ्छोर्नदीरूपसंस्थितिः ।
ध्वजश्च पुण्डरीकाक्षः पताका कमालालया ।। ३० ।।

तृष्णालक्ष्मीर्जगत्स्वामी लोभो नारायणः परः ।
रति-रागौ च धर्मज्ञ लक्ष्मीर्गोविन्द एव च ।। ३१ ।।

किञ्चातिबहुनोक्तन संक्षेपेणेदमुच्यते ।
देवतिर्य्यङूमनुष्यादौ पुंनाम्नि भगवान् हरिः ।
स्त्रोनाम्नि लक्ष्मीर्मैत्रेय नानयोर्बिद्यते परम् ।। ३२ ।।