श्रीविष्णुपुराणम्-प्रथमांशः/अध्यायः २२

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२

यदाभिषिक्तः स पृथुः पूर्व्वं राज्ये महर्षिभिः ।
ततः क्रमेण राज्यानि ददौ लोकपितामहः ।। १ ।।

नक्षत्र-ग्रह-विप्राणां वीरुधाञ्चाप्यशेषतः ।
सोमं राज्येऽदधादू ब्रह्मा यज्ञानां तपसामपि ।। २ ।।

राज्ञां वैश्ववंणं राज्ये जलानां वरुणां तथा ।
आदित्यानं पतिं विष्णुं वसूनामथ पावकम् ।। ३ ।।

प्रजापतीनां दक्षन्तु वासवं मरुतामपि ।
दैत्यानां दानवानाञ्च प्रह्लादमधिपं ददौ ।। ४ ।।

पितृ णां धर्म्मराजं तं यमं राज्येऽभ्यषेचयत् ।
ऐरावतं गजेन्द्राणाम् अशेषाणां पतिं ददौ ।। ५ ।।

पतत्रिणाञ्च गरुडं देवानामपि वासवम् ।
उज्वैःश्ववसमश्वानां वृषभन्तु गवामपि ।। ६ ।।

शेषन्तु नागराजानं मृगाणां सिंहमीश्वरम् ।
वनस्पतीनां राजानं प्लक्षमेवाभ्यषेचयत् ।। ७ ।।

एवं विभज्य राज्यानि दिशां पालानन्तरम् ।
प्रजापतिपतिर्ब्रह्मा स्थापयामास सर्व्वतः ।। ८ ।।

पूर्व्वस्यां दिशि राजानं वैराजस्य प्रजापतेः ।
दिशः पालं सुधन्वानं सुतं वै सोऽब्यषेचयत् ।। ९ ।।

दक्षिणस्यां दिशि तथा कर्द्द मस्य प्रजापतेः ।
पुत्रं शङ्खपदं नाम राजानं सोऽभ्यषेचयत् ।। १० ।।

पश्विमस्यां दिशि तथा रजसः पुत्रमच्युतम् ।
केतुमन्तं महात्मानं राजानमभिषिक्तवान् ।। ११ ।।

तथा हिरण्यरोमाणां पर्ज्जन्यस्य प्रजापतेः ।
उदीच्यां दिशि दुर्द्धर्ष राजानमब्यषेचयत् ।। १२ ।।

तैरियं पृथिवी सर्व्वा सप्तद्रीपा सपत्तना ।
यथाप्रदेशमद्यापि धर्म्मतः परिपात्यते ।। १३ ।।

एते सर्व्वे प्रवृत्तस्य स्थितौ विष्णोर्महात्मनः ।
विभूतिभूता राजानो ये चान्ये मुनिसत्तम ।। १४ ।।

ये भविष्यन्ति ये भूताः सर्व्वे भूतेश्वरा द्रिज ।
ते सर्वे सर्व्वभूतस्य विष्णोरंशा द्रिजोत्तम ।। १५ ।।

ये तु देवाधिपतयो ये च दैत्याधिपास्तथा ।
दानवानाञ्च ये नाथा ये नाथाः पिशिताखिनाम् ।। १६ ।।

पशूनां ये च पतयः पतयो य च पक्षिणाम् ।
मनुष्याणाञ्च सर्पाणां नागानाञ्चाधिपाश्च ये ।। १७ ।।

वृक्षाणां पर्व्वतानाञ्च ग्रहणाञ्चापि येऽधिपाः ।
अतीता वर्त्तानाश्च ये भविष्यन्ति चापरे ।। १८ ।।

ते सर्व्वे सर्व्वभूतस्य विष्णोरंशसमुद्भवाः ।
न हि पालनसामर्थ्यमृते सर्व्वेश्वरं हरिम् ।। १९ ।।

स्थितौ स्थिरं महाप्राज्ञ भवत्यन्यस्य कस्यचित् ।। २० ।।
सजत्येष जगत्सृष्टौ स्थितौ पाति सनातनः ।

हन्ति चैवान्तकत्वे च रजः सत्त्वादिसंश्वयः ।। २१ ।।

चतुर्विभागः संसृष्टौ चतुर्भेदो जनार्दनः ।। २२ ।।

एकेनांशेन ब्रह्मासौ भवत्यव्यक्तमूर्त्तिमान् ।
मरीचिमिश्वाः पतयः प्रजानामन्यभागतः ।। २३ ।।

कालस्तृतीयस्तस्यांशः सर्व्वभूतानि चापरः ।
इत्थ चतुर्धा संसृष्टौ वर्त्ततेऽसौ रजोगुणः ।। २४ ।।

एकांशेन स्थितौ विष्णुः करोति प्रतिपालनम् ।
मन्वादिरूपश्चान्येन कालरूपोऽपरेण च ।। २५ ।।

सर्व्वबूतेषु चान्येन संस्थितः कुरुते रतिम् ।
सत्त्वं गुणां समाश्रित्य जगतः पुरुषोत्तमः ।। २६ ।।

आश्रित्य तमसो वृत्तिमन्तकाले तथा पुनः ।
रुद्रस्वरूपो भगवानेकांशेन भवत्यजः ।। २७

अग्न्यन्तकादिरूपेणा भागेनान्येन वर्त्तते ।
कालखरूपो भागोऽन्यः सर्वभूतानि चापरः ।। २८ ।।

विनाशं कुवेतस्तस्य चतुर्धैवं महात्मनः ।
विभगकल्पना ब्रह्मन् कथ्यते सार्वकालिकी ।। २९ ।।

ब्रह्मा दक्षादयः कालस्तथैवाखिलजन्तवः ।
विभूतयो हरेरेता जगतः सृष्टिहेतवः ।। ३० ।।

विष्णुर्म्मन्वादयः कालः सर्वभूतानि च द्रिज ।
स्थितेर्निमित्तभूतस्य विष्णोरेता विभूतयः ।। ३१ ।।

रुद्रकालान्तकाद्याश्च समस्ताशचैव जन्तवः ।
चतुर्धा प्रलयायैता जनार्दृनविभूतयः ।। ३२ ।।

जगदादौ तथा मध्ये सृष्टिरा प्रलयाद द्रिज ।
धात्रा मरीचिमिश्रश्च क्रियते जन्तुभिस्तथा ।। ३३ ।।

ब्रह्मा सृजत्यादिकाले मरीचिप्रमुखास्ततः ।
उत्पादयन्त्यपत्यानि जन्तवश्च प्रतिक्षणम् ।। ३४ ।।

न कालेन विना ब्रह्मा सृष्टिनिष्पादको द्रिज ।
न प्रजापतयः सर्वे न चैवाखिलजन्तवः ।। ३५ ।।

एवमेव विभागोऽयं स्थितावप्युपदिश्यते ।
चतुर्धा देवदेवस्य मैत्रेय प्रलये तथा ।। ३६ ।।

यत्किञ्चित् सज्यते येन सत्त्वजातेन वै द्रिज ।
तस्य सृज्यस्य संभूतौ तत् सर्वं वै हरेस्तनुः ।। ३७ ।।

हन्ति वा यत् क्वचितू किञ्चिदू भूतं स्थाबरजंगमम् ।
जनार्दनस्य तद रौद्र मैत्रेयान्तकरं वपुः ।। ३८ ।।

एवमेव जगत्स्त्रष्टा जगत्पाता तथैव च ।
जगदू भक्षयता चेशः समस्तस्य जनार्दनः ।। ३९ ।।

सर्गस्थित्यन्तकालेषु त्रिधैवं सम्प्रवर्त्तते ।
गुणप्रवृत्त्या परमं पदं तस्यागुणां महत् ।। ४० ।।

तत्त्वज्ञानमयं वापि खसंवेद्यमनौपमम् ।
चतुः प्रकारं तदपि स्वरूपं परमात्मनः ।। ४१ ।।

मैत्रेय उवाच ।
चतुःप्रकारतां तस्य ब्रह्मभूतस्य वै मुने ।
ममाचक्ष्व यथान्यायं यदुक्तं परमं पदम् ।। ४२ ।।

पराशर उवाच ।
मैत्रेय कारणं प्रोक्त साधनं सर्व्ववस्तुषु ।
साध्यञ्च वस्त्वभिमत यत्साधयितुमात्मनः ।। ४३ ।।

साध्यञ्च वस्त्वभिमत प्राणायामादिसाधनम् ।
साध्यञ्च परमब्रह्म पूनर्नावर्त्तते यतः ।। ४४ ।

साधनालम्बनं ज्ञानं मुक्तये योगिनो हि यत् ।
स भेदः प्रथमस्तस्य ब्रह्मभूतस्य वै मुने ।। ४५ ।।

युञ्जतः क्ल शमुत्तय्रथं साध्यं यदू ब्रह्म योगिनः ।
तदालम्बनविज्ञानं द्रितीयोऽशो महामुने ।। ४६ ।।

उभयोस्त्वविभागेन साध्य-साधनयोर्हि यत् ।
विज्ञानमद्र तैमयं तदूभागोऽन्यो मयोदितः ।। ४७ ।।

ज्ञानत्रयस्य चैतस्य विशेषो यो महामुने ।
तन्निराकरणद्रारा दर्शितात्मस्वरूपवत् ।। ४८ ।।

निर्व्यापारमनाख्येयं व्याप्तिमात्रमलक्षणम् ।
आत्मसम्बोधविषयं सत्तामात्रमलक्षणम् ।। ४९ ।।

प्रशान्तमभयं शुद्धमविभाव्यमसंश्रितम् ।
विष्णोर्ज्ञानमयस्योक्तं तज्ज्ञानं परमं पदम् ।। ५० ।।

तत्रान्यज्ञानरोधेन योगिनो यान्ति ये लायम् ।
संसारकर्षणोप्तौ ते यन्ति निर्बीजतां द्रिज ।। ५१ ।।

एवम्प्रकारममलं नित्यं व्यापकमक्षयम् ।
समस्तेभेदरहितं विष्ण्वाख्यं परमं पदम् ।। ५२ ।।

तदू ब्रह्म परमं योगी यतो नावर्त्तते पुनः ।
अपुण्यपुण्योपरमे क्षीणाक्लशोऽतिनिर्म्मलः ।। ५३ ।।

द्रे रूपे ब्रह्मणस्तस्य पूर्त्तञ्चामूर्त्तमेव च ।
क्षराक्षरस्वरूपे ते सर्व्वभूतेष्ववस्थिते ।। ५४ ।।

अक्षरं तत् परं बह्म क्षरं सर्व्वमिदं जगत् ।
एकदेशस्तितस्याग्तेर्ज्योत्स्ना विस्तारिणी यथा ।। ५५ ।।

परस्य ब्रह्मणः शक्तिस्तदेतदखिलं जगत् ।
तत्राप्यासन्नदूरत्वाद् बहुत्वस्वल्पतामयः ।
ज्योत्स्नाभेदोऽस्ति तच्छक्तेस्तेदून्मैत्रेय विद्यते ।। ५६ ।।

ब्रह्म-विष्णु-शिवा ब्रह्मन् प्रधाना ब्रह्मशक्तयः ।
ततश्व देवा मैत्रेय न्यूना दक्षादयस्ततः ।। ५७ ।।

ततो मनुष्याः पशवो मृग-पक्षि-सरीसृपाः ।
न्यूना न्यूनतराश्चैव वृक्ष-गुल्मादयस्ततः ।। ५८ ।।

तदेतदक्षरं नित्यं जगन्मुनिवराखिलम् ।
आविर्भाव-तिरोभाव-जन्म-नाश-विकल्पवत् ।। ५९ ।।

सर्व्वशक्तिमयो विष्णुः स्वरूपं ब्रह्मणोऽपरम् ।
मूर्त्तं यदू योगिभिः पूर्व्व योगारम्भेषु चिन्त्यते ।। ६० ।।

सालम्बनो महायोगः सबीजो यत्रसंस्थितः ।
मनस्यव्याहते सम्यम् युञ्जतां जायते मुने ।। ६१ ।।

स परः सर्व्वशक्तीनां ब्रह्मणः समनन्तरः ।
मूर्त्त ब्रह्म महाभाग सर्व्वब्रह्ममयो हरिः ।। ६२ ।।

तत्र सर्व्वमिदं प्रोतमोतञ्च वौखिलं जगत् ।
ततो जगज्जगत् तस्मिन् स जगच्चाखिलं मुन् ।। ६३ ।।

क्षराक्षरमयो विष्णुर्विभर्त्त्यखिलमीश्वरः ।
पुरुषाव्याकृतमयं भूषणापश्त्रस्वरूपवत् ।। ६४ ।।

मैत्रेय उवाच ।
भूषणास्त्रस्वरूपस्थ यच्चैतदखिलं जगत् ।
बिभर्ति भगवान् विष्णुस्तनुममाख्यातुमर्हसि ।। ६५ ।।

पराशार उवाच ।
नमस्कृत्वाप्रमेयाय विष्णवे प्रभविष्णवे ।
कथयामि यथाख्यातं वशिष्ठेन ममाभवत् ।। ६६ ।।

आत्मानमस्य जगतो निर्लेपमुगुणामलम ।
बिभर्त्ति कौस्तुभममिस्वरूपं भगवान् हरिः ।। ६७ ।।

श्रीवत्ससंस्थानधरमनन्ते च समाक्षितम् ।
प्रधानं बुद्धिरप्यास्ते गदारूपेण माधवे माधवे ।। ६८ ।।

भूतादिमिन्द्रियादिञ्च द्रिधाहंकारमीश्वरः ।
बिभर्ति शङ्खरूपेण शार्ङरूपेण च स्थितम् ।। ६९ ।।

बलस्वरूपमत्यन्तजवेनान्तरितानिलम् ।
चक्रस्वपञ्च मनो धत्ते विष्णुः करे स्थितम् ।। ७० ।।

पञ्चरूपा तु या माला वैजयन्ती गदाभृतः ।
सा भूतहेतुसंघातो भूतमाला च वै द्रिज ।। ७१ ।।

यानीन्द्रियाणयशेषाणि बुद्धिकर्म्मत्मकानि वै ।
शररूपाणयशेषाणि तानि धत्ते जनार्दनः ।। ७२ ।।

बिभर्त्ति यज्वासिरत्नमच्युतोऽत्यन्तनिर्म्मलम् ।
विद्यामयन्तु तज्ज्ञानमविद्याकोशसंस्थितम् ।। ७३ ।।

इत्थं पुमान् प्रधानञ्च बुद्ध्यहङ्कारमेव च ।
भूतानि च हृषीकेशे मनः सर्व्वेन्द्रयाणि च ।
विद्याविद्य च मैत्रेय सर्व्वमेतत् समाश्रितम् ।। ७४ ।।

अस्त्रभूषणसंस्थानस्वरूपं रूपवर्जितः ।
बिभर्त्ति मायारूपोऽसौ श्रयसे प्राणिनां हरिः ।। ७५ ।।

सवकारं प्रधानञ्च पुमाश्चैवाखिलं जगत् ।
बिभर्त्ति पुण्डरीकाक्षस्तदेवं परमेश्वरः ।। ७६ ।।

या विद्या या तथाऽविद्या यत् सद् यज्वासदव्ययम् ।
तत् सर्व्वं सर्व्वभूतेशे मैत्रेय मधूसूदने ।। ७७ ।।
कला-काष्ठा-निमेषादि-दिनर्त्वयन-हायनैः ।
कालस्वरूपो भगवानपरो हरिरव्ययः ।। ७८ ।।

भूर्लोकोऽथ भुवर्लोकः स्वर्लोको मुनिसत्तम !
महर्जनस्तपः सत्यं सप्तलोका इमे विभुः ।। ७९ ।।

लोकात्ममूत्तिः सर्व्वेषां पूर्व्वेषामपि पूर्व्वजः ।
आधारः सर्व्वविद्यानां स्वयमेव हरिः स्थितः ।। ८० ।।

देव-मानुष-पश्वादिस्वरूपैर्बहुभिः स्थितः ।
ततः सर्व्वेश्वरोऽनन्तो भूतमूर्त्तिरमूर्त्तिमान् ।। ८१ ।।

ऋचो यजूंषि सामानि तथैवाथर्व्वणानि वै ।
इतिहासोपवेदास्तु वेदान्तेषु तश्वोक्तयः ।। ८२ ।।

वेदाङ्गानि समस्तानि मन्वादिगदितानि च ।
शस्त्राण्यशेषाण्याख्यानाम्यनुवाकाश्व ये क्वचित् ।। ८३ ।।

कात्यालापाश्व ये केचिद् गोतकान्यखिलानि च ।
शब्दमूर्त्तिधरस्यैतद् वपुर्विष्णोर्म्महात्मनः ।। ८४ ।।

यानि पूर्त्तान्यमूर्त्तानि यान्यत्रान्यत्र वा क्कचित् ।
सन्ति वै वस्तुजातानि तानि सर्व्वाणि तदूवपुः ।। ८५ ।।

अहं हरिः सर्वमिदं जनार्द्दनो नान्यत् ततः कारणकार्य्यजातम् ।
ईदृङूमनो यस्य न तस्य भूयो भवोद्भवा दून्दूगदा भवन्ति ।। ८६ ।।

इत्येष नेऽशः प्रथमःपुराणस्यास्य वै द्रिज!
यथावत कथितो यस्मिन् श्रुते पापैः प्रनुच्यते ।। ८७ ।।

कार्त्तिक्यां पुष्करस्नाने द्रादशाब्देन यत् फलम् ।
तदस्य श्रवणात् सर्वं मैत्रेयाप्नोति मानवः ।। ८८ ।।

देवर्षिपितृगन्धर्वयक्षादीनाञ्च सम्भवम ।
भवन्ति श्वृणवतः पु सो देवाद्या वरदा मुने ।। ८९ ।।