श्रीविष्णुपुराणम्-प्रथमांशः/अध्यायः ६

विकिस्रोतः तः
Jump to navigation Jump to search
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२

मैत्रेय उवाच ।
अर्वाकूस्त्रोतस्तु कथितो भवता यस्तु मानुषः ।
ब्रह्मन् विस्तरतो ब्रू हि बह्मा तमसृजद् यथा ।। १ ।।

यथा च वर्णांनसृजद् यदूगुणांश्च महामुने ।
यच्च तेषां स्सृतं कर्म्म विप्रादीनां तदुच्यताम् ।। २ ।।

पराशर उवाच ।
सत्याभिध्यायिनः पूर्व्व सिंसृक्षोर्ह्र ह्मणो जगत् ।
अजायन्त द्रिजश्रेष्ठ सत्त्वोद्रिक्ता मुखात् प्रजाः ।। ३ ।।

वक्षसो रजसोद्रिक्तास्तथा वै ब्रह्मणोऽभवन् ।
रजसा तमसा तैव समुद्रिक्तास्तथोरुजाः ।। ४ ।।

पदूब्यामन्याः प्रजा ब्रह्मा ससर्ज्ज द्रिजसत्तम ।
तमः प्रधानास्थाः सर्व्वाशचातुर्व्वर्ण्यमिदं ततः ।। ५ ।।

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च द्रिजसत्तम ।
पादोरुवक्षःस्थलतो मुखतश्च समुदूगताः ।। ६ ।।

चातुर्व्वर्ण्य महाभाग यज्ञसाधनमुत्तमम् ।। ७ ।।

यज्ञैराप्यायिता देवा वृष्टयु त्सर्गेण वै प्रजाः ।
आप्याययन्ते धर्म्मज्ञ यज्ञाः कल्याणहेतवः ।। ८ ।।

निष्पाद्यन्ते नरैस्तैस्तु स्वधर्म्माभिरतैस्ततः ।
विशुद्धाचरणोपेतेः सदूभिः सन्मार्गगामिभिः ।। ९ ।।

स्वार्गापवर्गौ मानुष्यात् प्राप्तुवन्ति नरा मुने ।
यथाभिरुचितं स्थानं तदू यान्ति मनुजा द्रिज ।। १० ।।

प्रजास्ता ब्रह्मणा सृष्टाश्चातुर्वर्ण्यव्यवस्थितौ ।
सम्यकूश्रद्धासमाचारप्रवणा मुनिसत्तम ।। ११ ।।

ययेच्छावासनिरताः सर्व्वबाधाविवर्जिताः ।
शुद्धान्तः करणाः शुद्धाः सर्व्वानुष्ठाननिर्म्मलाः ।। १२ ।।

शुद्ध च तासां मनसि शुद्ध ऽन्तःसंस्थिते हरौ ।
शुद्ध ज्ञानं प्रपश्यति विष्ण्वाख्य येन ततूपदम् ।। १३ ।।

ततः कालात्मको योऽसौ स चांशः कथितो हरेः !
स पातयत्यघं धोरमल्पमल्पाल्पसारवत् ।। १४ ।।

अधर्म्मबीजसंभूतं तमोलोभसमुदूभवम् ।
प्रजासु तासु मैत्रेय रागादिकमसाधकम् ।। १५ ।।

ततः सा सहसा सिद्धिस्तेषां नातीव जायते ।
रसोल्लासादयश्चान्याः सिद्धयोऽष्टौा भवन्ति याः ।। १६ ।।

तासु क्षीणास्वशेषंसु वर्द्ध माने च पातके ।
दून्द्राभिभवदुःखार्त्तास्ता भवन्ति ततः प्रकजाः ।। १७ ।।

ततो दुर्गाणि ताश्चक्रु र्वार्क्ष पार्व्वतमौदकम् ।
कुत्रिमं च तथा दुर्ग पुरं शर्व्वटकादिकम् ।। १८ ।।

गुहाणि च यथान्यायं तेषु चक्रुः पुरादिषु ।
शीतातपादिबाघानां प्रशमाय महामुने ।। १९ ।।

प्रतीकारमिदं कृत्वा शीतादेश्ताः प्रजाः पुनः ।
वार्त्तोपायं ततश्चक्रु ईस्तसिद्धिं च कर्मजाम् ।। २० ।।

ब्रीहयश्च यवाश्चैव गोधूमा अणवस्तिलाः ।
प्रियङ्गवो ह्मु दाराश्च कोरदूषाः सचीकाणाः ।। २१ ।।

माषा मुदूगा मसूराश्च निष्पावाः सकुलत्थकाः ।
आढ़क्यश्चनकाश्चैव शणाः सप्तदशः स्मृताः ।। २२ ।।

इत्येताश्चौषधीनान्तु ग्राम्याणां जातयो मुने ।
ओषध्यो यज्ञियाश्चैव ग्राम्यारण्याश्चतुर्दश ।। २३ ।।

ब्रीहयः सयवा माषा गोधूमा अणवस्तिलाः ।
प्रियङ्गु सप्तमा ह्मतो अष्टमास्तु कुलत्थकाः ।। २४ ।।

श्यामाकास्त्वथ नीवारा जर्त्तिलाः सगवेधुकाः ।
तथा वेणुयवाः प्रोक्तास्तदूत् मर्कटका मुने ।। २५ ।।

ग्राम्यारण्याः स्मृता ह्मतो ओषध्यस्तु चतुर्द्दश ।
यज्ञनिष्पत्तये यज्ञस्तथासां हेतूरुत्तमः ।। २६ ।।

एताश्व सह यज्ञेन प्रजानां कारणं परम् ।
परापरविदः प्राज्ञस्ततो यज्ञान् वितन्वते ।। २७ ।।

अहन्यहन्यनुष्ठानं यज्ञानां मुनिसत्तम ।
उपकारकरं पुसां क्रियमाणास्य शान्तिदम् ।। २८ ।।

येषान्तु कालरूपोऽसौ पापविन्दुर्महामते ।
चेतःसुं ववृधे चक्रुस्ते न यज्ञेषु मानसम् ।। २९ ।।

वेदवादांस्तथा वेदान् यज्ञनिष्पादकं च यत् ।
तत्सर्व्व निन्दमानास्ते यज्ञव्यासेधकारिणः ।। ३० ।।

प्रवृत्तिमार्गव्युच्छित्तिकारिणो वेदनिन्दकाः ।
दुरात्मानो दुराचारा बहूवुः कुटिलाशयाः ।। ३१ ।।

संसिद्धायान्तु वार्त्तायां प्रजाः सृष्टूवा प्रजापतिः ।
मर्य्यादां स्थापयामास यथास्थानं यथागुणाम् ।। ३२ ।।

वर्णानामाश्रमाणाञ्च धर्म्मान् धर्म्मभृतां वर ।
लोकांश्च सर्व्ववर्णानां सम्यगू धर्म्मानुपालिनाम् ।। ३३ ।।

प्राजपत्यं ब्राह्मणानां स्मृतं स्थानं क्रियावताम् ।
स्थानमैन्द्र क्षत्रियाणां संग्रामेष्वनिवर्त्तिनाम् ।। ३४ ।।

वैश्यानां मारुतं स्थानं स्वधर्म्ममनुवर्त्तिनाम् ।

गान्धर्व्व शूद्रजातीनां परिचर्य्यानुवर्त्तिनाम् ।। ३५ ।।

अष्टाशीतिसहसाणि मुनीनामूर्ध्वरेतसाम् ।
स्मृतं तेषां मरुत्स्थानं तदेव गुरुवासिनाम् ।। ३६ ।।

सप्तर्षीणान्तु यत् स्थानं स्मृतं तदू वनोकसाम् ।
प्राजापत्य गृहस्थानां न्यासिनां ब्रह्मसंज्ञितम् ।। ३७ ।।

योगिनाममृतं स्थानं यदूविष्णोः परमं पदम् ।
एकान्तिनः सदा ब्रह्मध्यायिनो योगिनो हि ये ।
तेषां ततू परमं स्थानं यत् तु पश्यन्ति सूरयः ।। ३८ ।।

गत्वा गत्वा निवर्त्तन्ते द्रादशाक्षरचिन्तकाः ।। ३९ ।।

तामिसूमन्धतामिस्र महारौरवरौरवौ ।
असिपत्रवनं घोरं कालसूत्रमवीचिमत् ।। ४० ।।

विनिन्दकानां वेदस्य यज्ञव्याघातकारिणाम् ।
स्थानमेतत् समाख्यातं स्वधर्म्मत्यागिनश्च ये ।। ४१ ।।