विष्णुपुराणम्/प्रथमांशः/अध्यायः ६

विकिस्रोतः तः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२

श्रीमैत्रेय उवाच
अर्वाक्स्रोतास्तु कथितो भवता यस्तु मानुषः ।
ब्रह्मन्विस्तरतो ब्रूहि ब्रह्म तमसृजद्यथा ॥ १,६.१ ॥
यथा च वर्णानसृजद्यद्गुणां श्च प्रजापतिः ।
यच्च तेषां स्मृतं कर्म विप्रादीनां तदुच्यताम् ॥ १,६.२ ॥
श्रीपराशर उवाच
सत्याभिध्यायिनः पूर्वं सिसृक्षेर्ब्रह्मणो जगत् ।
अजायन्त द्विजश्रेष्ठ सत्त्वोद्रिक्ता मुखात्प्रजाः ॥ १,६.३ ॥
वक्षमो रजसोद्रिक्तास्तथा वै ब्रह्मणोऽभवन् ।
रजसा तमसा चैव समुद्रिक्तास्तथोरुतः ॥ १,६.४ ॥
पद्भ्यामन्याः प्रजा ब्रह्मा ससर्ज द्विजसत्तम ।
तमःप्रधानास्ताः सर्वश्चातुर्वर्ण्यमिदं ततः ॥ १,६.५ ॥
ब्रह्मणाः क्षत्रिया वेश्याः शूद्राश्च द्विजसत्तम ।
पादोरुवक्षस्थलतो मुखतश्च समुद्गताः ॥ १,६.६ ॥
यज्ञनिष्पत्तये सर्वमेतद्ब्रह्या चकार वै ।
चातुर्वर्ण्यं महाभाग यज्ञसाधनमुत्तमम् ॥ १,६.७ ॥
यज्ञैराप्यायिता देवा वृष्ट्युत्सर्गेण वै प्रजाः ।
आप्याययन्ते धर्मज्ञ यज्ञाः कल्याणहेतवः ॥ १,६.८ ॥
निष्पाद्यन्ते नरैस्तैस्तु स्वधर्माभिरतैः सदा ।
विशुद्धाचरणैपेतैः सद्भिः सन्मार्गगामिभिः ॥ १,६.९ ॥
स्वर्गापवर्गौ मानुष्यात्प्राप्नुवन्ति नरा मुने ।
यच्चाभिरुचितं स्थानं तद्यान्ति मनुजा द्विज ॥ १,६.१० ॥
प्रजास्ता ब्रह्मणा सृष्टाश्चातुर्वर्ण्यव्यवस्थि ताः ।
सम्यक्छ्रद्धाः समाचारप्रवणा मुनिसत्तम ॥ १,६.११ ॥
यथेच्छावासनिरताः सर्वबाधाविवर्जिताः ।
शुद्धान्तः करणाः शुद्धाः कर्मानुष्ठा ननिर्मलाः ॥ १,६.१२ ॥
शुद्धे च तासां मनसि शुद्धेन्तःसंस्थिते हरौ ।
सुद्धज्ञानं प्रपश्यन्ति बिल्वाख्यं येन तत्पदम् ॥ १,६.१३ ॥
ततः कालात्म को योऽसौ स चांशः कथितो हरेः ।
स पातयत्यघं घोरमल्पमल्पाल्पसारवत् ॥ १,६.१४ ॥
अधर्मबीजमुद्भुतं तमोलोभसमुद्भवम् ।
प्रजासु तासु मैत्रेय रागादिकमसाधकम् ॥ १,६.१५ ॥
ततः सा सहजा सिद्धस्तासां नातीव जायते ।
रसोल्लासादयश्चान्याः सिद्धयोष्टौ भवन्ति याः ॥ १,६.१६ ॥
तासु क्षीणास्वशेषासु वर्धमाने च पातके ।
द्वन्द्वाभिभवदुःखार्तास्ता भवन्ति ततः प्रजाः ॥ १,६.१७ ॥
ततो दुर्गाणि ताश्चक्रुर्धान्वं पार्वतमौदकम् ।
कृत्रिमं च तथा दुर्गं पुरखर्वटकादिकम् ॥ १,६.१८ ॥
गृहीणि च यथान्यायं तेषु चकुः पुरादिषु ।
शीतातपादिबाधानां प्रशमाय महामते ॥ १,६.१९ ॥
प्रतीकारमिमं कत्वा शीतादेस्ताः प्रजाः पुनः ।
वार्तोपायं ततश्चक्रुर्हस्तसिद्धिं च कर्मजाम् ॥ १,६.२० ॥
व्रीहयश्च यवाश्चैव गोधूमाश्चणवस्तिलाः ।
प्रियङ्गवो ह्युदा राश्च कोरदूषाः सतीनकाः ॥ १,६.२१ ॥
माषा मुद्गा मसूराश्च निष्पावाः सकुलात्थकाः ।
आढक्यश्चणकाश्चैव शणाः सप्तदश स्मृताः ॥ १,६.२२ ॥
इत्येता ओषधीनां तु ग्राम्यानां जातयो मुने ।
ओषध्यो यज्ञियाश्चैव ग्राम्यारण्याश्चतुर्दश ॥ १,६.२३ ॥
व्रीहयःसयवा माषा गोधूमाश्चाणव स्तिलाः ।
प्रियङ्गुसप्तमा ह्येते अष्टमास्तु कुलत्थकाः ॥ १,६.२४ ॥
श्यामाकास्त्वथ नीवारा जर्तिलाः सगवेधुकाः ।
तथा वेणुयवाः प्रोक्तस्तथा मर्कटका मुने ॥ १,६.२५ ॥
ग्राम्यारण्याः स्मृता ह्येता ओषध्यस्तु चतुर्दश ।
यज्ञनिष्पत्तये यज्ञस्तथासां हेतुरुत्तमः ॥ १,६.२६ ॥
एताश्च सह यज्ञेन प्रजानां कारणं परम् ।
परावरविदः प्राज्ञास्ततो यज्ञान्वितन्वेत ॥ १,६.२७ ॥
अहन्यहन्यनुष्ठानं यज्ञानां मुनिसत्तम ।
उपकारकरं पुंसां क्रियमाणा घशान्तिदम् ॥ १,६.२८ ॥
येषां तु कालसृषोऽसौ पापबन्दुर्महामुने ।
चेतःसु ववृधे चक्रुस्ते न यज्ञेषु मानसम् ॥ १,६.२९ ॥
वेदवादांस्तथा वेदान्यज्ञ कर्मादिकं च यत् ।
तत्सर्वं निन्दयामासुर्यज्ञव्यासेधकारिणः ॥ १,६.३० ॥
प्रवृत्तिमार्गव्युच्छित्तिकारिणो वेदनिन्दकाः ।
दुरात्मानो दुराचारा बभूवुः कुटिलाशयाः ॥ १,६.३१ ॥
संसिद्धायां तु वार्तायां प्रजाः सृष्ट्वा प्रजापतिः ।
सर्यादां स्थापयामास यथास्थानं यथागुणम् ॥ १,६.३२ ॥
वर्णा नामाश्रमाणां च धर्मधर्मभृतां वर ।
लोकांश्च सर्ववर्णानां सम्यग्धर्मानुपालिनाम् ॥ १,६.३३ ॥
प्रजापत्यं ब्रह्मणानां स्मृतं स्थानं क्रियावताम् ।
स्थानमैन्द्रं क्षत्रियाणां संग्रमेष्वनिवर्तताम् ॥ १,६.३४ ॥
वैश्यानां मारुतं स्थानं स्वधर्ममनुवर्तिनाम् ।
गान्धर्वं शूद्रजातीनां.परिचर्यानुवर्तिनाम् ॥ १,६.३५ ॥
अष्टाशीतिसहस्राणि मुनीनामूर्ध्वरेतसाम् ।
स्मृतं तेषां तु यत्स्थानं तदेव गुरुवासिनाम् ॥ १,६.३६ ॥
सप्तर्षिणां तु यत्स्थानं स्मृतं तद्वै वनौकसाम् ।
प्राजापत्यं गृहस्थानां न्यासिनां ब्रह्मसंज्ञितम् ॥ १,६.३७ ॥
योगिनाममृतं स्थानं स्वात्मसंतोषकारिणाम् ॥ १,६.३८ ॥
एकान्तिनः सदा ब्रह्मध्यायिनो योगिनश्च ये ।
तेषां तु परमं स्थानं यत्तत्पश्यन्ति सूरयः ॥ १,६.३९ ॥
गत्वागत्वा निवर्तन्ते चन्द्रसूर्यादयो ग्रहाः ।
अद्यापि न निवर्तन्ते द्वादशाक्षरचिन्तकाः ॥ १,६.४० ॥
तामिस्त्रमन्धतामिस्त्रं महारौरवरौरवौ ।
असिपत्रवनं घोरं कालसूत्रमवीचिकम् ॥ १,६.४१ ॥
विनिन्दकानां वेदस्य यज्ञव्याघातकारिणाम् ।
स्थानमेतत्समाख्यातं स्वधर्मत्यागिनश्च ये ॥ १,६.४२ ॥
इति श्रीविष्णुरुराणे प्रथमेऽंशे षष्ठोऽध्यायः (६)