विष्णुपुराणम्/प्रथमांशः/अध्यायः १२

विकिस्रोतः तः
Jump to navigation Jump to search
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२

श्रीपराशर उवाच
निशम्यैतदशेषेण मैत्रेय नृपते सुतः ।
निर्जगाम वनात्तस्मात्प्रणिपत्य स तानृषीन् ॥ १,१२.१ ॥
कृतकृत्यमिवात्मानं मन्यमानस्ततो द्विज ।
मधुसंज्ञं महापुण्यं जगाम यमुनातटम् ॥ १,१२.२ ॥
पुनश्च मधुसंज्ञेन दैत्येनाधिष्ठितं यतः ।
ततो मधुवनं नाम्ना ख्यातमत्र महीतले ॥ १,१२.३ ॥
हत्वा च लवणं रक्षो मधुपुत्रं महाबलम् ।
शत्रुघ्नो मधुरां नाम पुरीं यत्र चकार वै ॥ १,१२.४ ॥
यत्र वै देवदेवस्य सान्निध्यं हरिमेधसः ।
सर्वपापहरे तस्मिंस्तपस्तीर्थे चकार सः ॥ १,१२.५ ॥
मरीचिमुख्यैर्मुनिभिर्यथोद्दिष्टमभूत्तथा ।
आत्मन्यशेपदेवेशं स्थितं विष्णुममन्यत ॥ १,१२.६ ॥
अनन्यचेतसस्तस्य ध्यायतो भगवान्हरिः ।
सर्वभूतगतो विप्र सर्वभावगतोऽभवत् ॥ १,१२.७ ॥
मनस्यवस्थिते तस्मिन्विष्णौ मैत्रेय योगिनः ।
न शशाक धरा भारमुद्वोढुं भूतधारिणी ॥ १,१२.८ ॥
वामपादस्थिते तस्मिन्ननामार्धेन मेदिनी ।
द्वितीयं च ननामार्धं क्षितेर्दक्षिणतः स्थिते ॥ १,१२.९ ॥
पादांगुष्ठेन संपीड्य यथा स वसुधां स्थितः ।
तदा समस्ता वसुधा चचाल सह पर्वतैः ॥ १,१२.१० ॥
नद्यो नदाः समुद्राश्च संक्षोभं परमं ययुः ।
तत्क्षोभादमराः क्षोभं परं जग्मुर्महामुने ॥ १,१२.११ ॥
यामा नाम तदा देवा मैत्रेय परमाकुलाः ।
इन्द्रेण सह संमन्त्र्य ध्यानभङ्गं प्रचक्रमुः ॥ १,१२.१२ ॥
कूष्माण्डा विविधै रूपैर्महेन्द्रेण महामुने ।
समाधिभङ्गमत्यन्तमारब्धाः कर्तुमातुराः ॥ १,१२.१३ ॥
सुनीतिर्नाम तन्माता सास्त्रा तत्पुरतः स्थिता ।
पुत्रेति करुणां वाचमाह मायामयी तदा ॥ १,१२.१४ ॥
पुत्रकास्मान्निवर्तस्व शरीरात्ययदारुणात् ।
निर्बन्धतो मया लब्धो बहुभिस्त्वं मनोरथै ॥ १,१२.१५ ॥
दीनामेकां परित्यक्तुमनाथां न त्वमर्हसि ।
सपत्नीवचनाद्वत्स अगतेस्त्वं गतिर्मम ॥ १,१२.१६ ॥
क्व च त्वं पञ्चवर्षीयः क्वचैतद्दारूणं तपः ।
निवर्ततां मनः कष्टान्निर्बन्धात्फलवर्जितात् ॥ १,१२.१७ ॥
कालः क्रीडनकानान्ते तदन्तेऽध्ययनस्य ते ।
ततः समस्तभोगानां तदन्ते चेष्यते तपः ॥ १,१२.१८ ॥
कालः क्रीडनकानां यस्तव बालस्य पुत्रक ।
तस्मिंस्त्वमिच्छसि तपः किं नाशायात्मनो रतः ॥ १,१२.१९ ॥
मत्प्रीतिः परमो धर्मो वयोवस्थाक्रियाक्रमम् ।
अनुवर्तस्व मा मोहान्निवर्तास्मादधर्मतः ॥ १,१२.२० ॥
परित्यजति वत्साध्य यध्येतन्न भवांस्तपः ।
त्यक्ष्याम्यहमिह प्राणांस्ततो वै पश्यतस्तव ॥ १,१२.२१ ॥
श्रीपराशर उवाच
तां प्रलापवतीमेवं बाष्पाकुलविलोचनाम् ।
समाहितमना विष्णौ पश्यन्नपि न दृष्टवान् ॥ १,१२.२२ ॥
वत्स वत्स सुघोराणि रक्षांस्येतानि भीषणे ।
वनेऽभ्युद्यतशस्त्राणीः समायान्त्यपगम्यताम् ॥ १,१२.२३ ॥
इत्युक्त्वा प्रययौ साथ रक्षांस्याविर्बभुस्ततः ।
अभ्युद्यतोग्रशस्त्राणि ज्वालामालाकुलैर्मुखैः ॥ १,१२.२४ ॥
ततो नादानतीवोग्रन्राजपुत्रस्य ते पुरः ।
मुमुचुर्दीप्तशस्त्राणि भ्रामयन्तो निशाचराः ॥ १,१२.२५ ॥
शिवाश्च शतशो नेदुः सज्वालाः कवलैर्मुखैः ।
त्रासाय तस्य बालस्य योगयुक्तस्य सर्वदा ॥ १,१२.२६ ॥
हन्यतां दन्यतामेष छिद्यतां छिद्यतामयम् ।
भक्ष्यतां भक्ष्यतां चाय मित्युचुस्ते निशाचराः ॥ १,१२.२७ ॥
ततो नानाविधान्नादान् सिंहोष्ट्रमकराननाः ।
त्रासाय राजपुत्रस्य नेदुस्ते रजनीचराः ॥ १,१२.२८ ॥
रक्षांसि तानि ते नादाः शिवास्तान्यायुधानि च ।
गोविन्दासक्तचित्तस्य ययुर्नन्द्रियगोचरम् ॥ १,१२.२९ ॥
एकाग्रचेताः सततं विष्णुमेवात्मसंश्रयम् ।
दृष्टवान् पृथिवीनाथपुत्रो नान्यं कथञ्चन ॥ १,१२.३० ॥
ततः सर्वासु मायासु विलीनासु पुनः सुराः ।
संक्षोभं परमं जग्मुस्तत्पराभवशङ्किताः ॥ १,१२.३१ ॥
ते समेत्य जगद्योनिमनादिनिधनं हरिम् ।
शरण्यं शरणं यातास्तपसा तस्य तापिताः ॥ १,१२.३२ ॥
देवा ऊचुः
देवदेव जगन्नाथ परेश पुरुषोत्तम ।
ध्रुवस्य तपसा तप्तास्त्वां वयं शरणं गताः ॥ १,१२.३३ ॥
दिने दिने कलालेशैः शशाङ्क पूर्यते यथा ।
तथायं तपसा देव प्रयात्यृद्धिमहर्निंशम् ॥ १,१२.३४ ॥
औतानपादितपसा वयमित्थं जनार्दन ।
भीतास्त्वां शरणं यातास्तपसस्तं निवर्तय ॥ १,१२.३५ ॥
नविद्मः किं स शक्रत्वं सूर्यत्वं किमभीप्सति ।
वित्तपाम्बुपसोमानां साभिलाषः पदेषु किम् ॥ १,१२.३६ ॥
तदस्माकं प्रसीदेश हृदयाच्छल्यमुद्धर ।
उत्तानपादतनयं तपसः सन्निवर्तय ॥ १,१२.३७ ॥
श्रीभगवानुवाच
नेन्द्रत्वं न च सूर्यत्वं नैवाम्बुपधनेशताम् ।
प्रार्थयत्येष यं कामं तं करोम्यखिलं सुरा ॥ १,१२.३८ ॥
यात देवा यथाकाम स्वस्थानं विगतज्वराः ।
निवर्तयाम्यहं बालं तपस्यासक्तमानसम् ॥ १,१२.३९ ॥
श्रीपराशर उवाच
इत्युक्ता देवदेवेन प्रणम्य त्रिदशास्ततः ।
प्रययुः स्वानि धिष्ण्यानि शतक्रतुपुरोगमाः ॥ १,१२.४० ॥
भगवानपि सर्वात्मा तन्मयत्वेन तोषितः ।
गत्वा ध्रुवमुवाचेदं चतुर्भुजवपुर्हरिः ॥ १,१२.४१ ॥
श्रीभगवानुवाच
औत्तानपादे भद्रं ते तपसा परितोषितः ।
वरदोहमनुप्राप्तो वरं वरय सुव्रत ॥ १,१२.४२ ॥
ब्राह्यार्थनिरपेक्षं ते मयि चित्तं यदा हितम् ।
तुष्टोहं भवतस्तेन तद्वृणीष्व वरं परम् ॥ १,१२.४३ ॥
पराशर उवाच
श्रुत्वेत्थं गदितं तस्य देवदेवस्य बालकः ।
उन्मीलिताक्षो ददृशे ध्यानदृष्टं हरिं पुरः ॥ १,१२.४४ ॥
शङ्खचक्रगदाशार्ङ्गवरासिधरमच्युतम् ।
किरीटिनं समालोक्य जगाम शिरसा महीम् ॥ १,१२.४५ ॥
रोमाञ्चिताङ्गः सहसा साध्वसं परमं गतः ।
स्तवाय देवदेवस्य स चक्रे मानसं ध्रुवः ॥ १,१२.४६ ॥
किं वदामि स्तुतावस्य केनोक्तेनास्य संस्तुतिः ।
इत्याकुल मतिर्देवं तमेव शरणं ययौ ॥ १,१२.४७ ॥
ध्रुव उवाच
भगवन्यदि मे तोषं तपसा परमं गतः ।
स्तोतुं तदहमिच्छामि वरमेनं प्रयच्छ मे ॥ १,१२.४८ ॥
(ब्रह्माद्यौर्यस्य वेदज्ञैर्ज्ञायते यस्य नो गतिः ।
तं त्वां कथमहं देव स्तोतुं शक्रोमि बालकः ।
त्वद्भक्तिप्रवणं ह्येतत्परमेश्वर मे मनः ।
स्तोतुं प्रवृत्तं त्वत्पादौ तत्र प्रज्ञां प्रयच्च मे)
श्रीपराशर उवाच
शङ्खप्रान्तेन गोविन्दस्तं पस्पर्श कृताञ्जलिम् ।
उत्तानपादतनयं द्विजवर्य जगत्पतिः ॥ १,१२.४९ ॥
अथ प्रसन्नवदनः स क्षणान्नृपनन्दनः ।
तुष्टाव प्रणतो भूत्वा भूतधातारमच्युतम् ॥ १,१२.५० ॥
ध्रुव उवाच
भूमिरापोनलो वायुः खं मनो बुद्धिरेव च ।
भूतादिरादि प्रकृतिर्यस्य रूपं नतोस्मि तम् ॥ १,१२.५१ ॥
शुद्धः सूक्ष्मोखिलव्यापी प्रधानात्परतः पुमान् ।
यस्य रूपं नमस्तस्मै पुरुषाय गुणात्मने ॥ १,१२.५२ ॥
भूतादीनां समस्तानां गन्धादीनां च शाश्वतः ।
बुध्यादीनां प्रधानस्य पुरुषस्य च यः परः ॥ १,१२.५३ ॥
तं ब्रह्मभूतमात्मानमशेषजगतः पतिम् ।
प्रपद्ये शरणं शुद्धं त्वद्रूपं परमेश्वर ॥ १,१२.५४ ॥
बृहत्त्वाद्बृंहणत्वाच्च यद्रूपं ब्रह्मसंज्ञितम् ।
तस्मै नमस्ते सर्वात्मन्योगिचिन्त्याविकारिणे ॥ १,१२.५५ ॥
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
सर्वव्यापी भुवः स्पर्शादत्यतिष्ठद्दशाङ्गुलम् ॥ १,१२.५६ ॥
यद्भूतं यच्च वै भव्यं पुरूषोत्तम तद्भवान् ।
त्वत्तौ विराट्स्वराट्सम्राट्त्वत्तश्चप्यधिपूरुषः ॥ १,१२.५७ ॥
अत्यरिच्यत सोधश्च तिर्यगूर्ध्वं च वै भुवः ।
त्वत्तो विश्वमिदं जातं त्वत्तौ भूतं भविष्यति ॥ १,१२.५८ ॥
त्वद्रूपधारिणश्चान्तः सर्वभूतमिदं जगत् ।
त्वत्तो यज्ञः सर्वहुतः पृषदाज्यं पशुर्द्विधा ॥ १,१२.५९ ॥
त्वत्तो ऋचोथ सामानि त्वत्तश्छन्दांसि जज्ञिरे ।
त्वत्तो यजूंष्यजायन्त त्वत्तोश्वाश्चैकतो दतः ॥ १,१२.६० ॥
गावस्त्वत्तः समुद्भूतास्त्व त्तोजा अवयो मृगाः ।
त्वमन्मुखाद्ब्राह्मणा बाह्वोस्त्वत्तो क्षत्रमजायत ॥ १,१२.६१ ॥
वैश्वास्तवोरुजाः शूद्रास्तव पद्भ्यां समुद्गताः ।
आक्ष्णोः सूर्योऽनिलः प्राणाच्चन्द्रमा मनसस्तव ॥ १,१२.६२ ॥
प्राणोन्तः मुषिराज्जातो मुखादग्निरजायत ।
नाभितो गगनं द्यौश्च शिरसः समवर्तत ॥ १,१२.६३ ॥
दिशः श्रोत्रात्क्षितिः पद्भ्यां त्वत्तः सर्वमभूदिदिम् ॥ १,१२.६४ ॥
न्यग्रोधः सुमहानल्पे यथा बीजे व्यवस्थितः ।
संयमे विस्वमखिलं बीजभूते तथात्वायि ॥ १,१२.६५ ॥
बीजादङ्कुरसम्भूते न्यग्रोधस्तु समुत्थितः ।
विस्तारं च यथा याति त्वत्तः सृष्टौ तथा जगत् ॥ १,१२.६६ ॥
यथा हि कदली नान्या त्वक्पत्रादपि दृस्यते ।
एवं विश्वस्य नान्यस्त्वं त्वस्थयीश्वर दृश्येत ॥ १,१२.६७ ॥
ह्लादिनी संधिनी संवित्त्वय्येका सर्वसंस्थितौ ।
ह्लादतापकरी मिश्रा त्वयि नो गुणवर्जिते ॥ १,१२.६८ ॥
पृथग्भूतैकभूताय भूतभूताय ते नमः ।
प्रभूतभूतभूताय तुभ्यं भूतात्मने नमः ॥ १,१२.६९ ॥
व्यक्तं प्रधानपुरुषौ विराट्सम्राट्स्वराट्तथा ।
विभाव्यतेन्तःकरणे पुरुषेष्वक्षयो भवान् ॥ १,१२.७० ॥
सर्वस्मिन्सर्वभूतस्त्वं सर्वः सर्वस्वरूपधृक् ।
सर्वं त्वत्तस्ततश्च त्वं नमः सर्वात्मनेऽस्तु ते ॥ १,१२.७१ ॥
सर्वात्मकोसि सर्वेश सर्वभूतस्थितो यतः ।
कथयामि ततः किं ते सर्वं वेत्सि हृति स्थितम् ॥ १,१२.७२ ॥
सर्वात्मन्सर्वभूतेश सर्वसत्त्वसमुद्भव ।
सर्वभूतो भवान्वेत्ति सर्वसत्त्वमनोरथम् ॥ १,१२.७३ ॥
यो मे मनोरथो नाथ सफलः स त्वया कृतः ।
तपश्च तप्तं सफलं यद्दृष्टोऽसि जगत्पते ॥ १,१२.७४ ॥
श्रीभगवानुवाच
तपसस्तत्फलं यद्दृष्टोऽहं त्वया ध्रुव ।
मदृर्शनं हि विफलं राजपुत्र न जायते ॥ १,१२.७५ ॥
वरं वरय तस्मात्त्वं यथाभिमतमात्मनः ।
सर्वं संपद्यते पुंसां मयि दृष्टिपथं गते ॥ १,१२.७६ ॥
ध्रुव उवाच
भगवन्भूतभव्येश सर्वस्यास्ते भवान् हृदि ।
किमज्ञातं तव ब्रह्मन्मनसा यन्मयेक्षितम् ॥ १,१२.७७ ॥
तथापि तुभ्यं देवेश कथयिष्यामि यन्मया ।
प्रार्थ्यते दुर्विनीतेन हृदयेनातिदुर्लभम् ॥ १,१२.७८ ॥
किं वा सर्वजगत्स्त्रष्टः प्रसन्ने त्वयि दुर्लभम् ।
त्वत्प्रसादफलं भुङ्क्ते त्रैलोक्यं मघ वानपि ॥ १,१२.७९ ॥
नैतद्राजासनं योग्यमजातस्य ममोदरात् ।
इति गर्वदवोचन्मां सपत्नीमातुरुच्चकैः ॥ १,१२.८० ॥
आधारभूतं जगतः सर्वेषामुत्तमोत्तमम् ।
प्रार्थयामि प्रभो स्थानं त्वत्प्रसादादतोव्ययम् ॥ १,१२.८१ ॥
श्रीभगवानुवाच
यत्त्वया प्रार्थ्यते स्थानमेतत्प्राप्स्यति वै भवान् ।
त्वयाहं तोषितः पूर्वमन्यजन्मनि वालक ॥ १,१२.८२ ॥
त्वमासीर्ब्रह्मणः पूर्वं मय्येकाग्रमतिः सदा ।
मातापित्रोश्च शुश्रषुर्निजधर्मानुपालकः ॥ १,१२.८३ ॥
कालेन गच्छता मित्रं राजपुत्रस्तवाभवत् ।
योवनेखिलभोगाढ्यो दर्शनीयोज्ज्वलाकृतिः ॥ १,१२.८४ ॥
तत्सङ्गात्तस्य तामृद्धिमवलोक्यादिदुर्लभाम् ।
भवेयं राजपुत्रोहमिति वाञ्छा त्वया कृता ॥ १,१२.८५ ॥
ततो यथाभिलषिता प्राप्ता ते राजपुत्रता ।
उत्तानपादस्य गृहे जातोसि ध्रुव दुर्लभे ॥ १,१२.८६ ॥
अन्येषां दुर्लभं स्थानं कुले स्वायम्भुवस्य यत् ॥ १,१२.८७ ॥
तस्यैतदपरं बाल येनाहं परितोषितः ।
मामाराध्य नरो मुक्तिमवाप्नोत्यविलम्बिताम् ॥ १,१२.८८ ॥
मय्यर्पितमना बाल किमु स्वर्गादिकं पदम् ॥ १,१२.८९ ॥
त्रैलोक्यादधिके स्थाने सर्वताराग्रहाश्रयः ।
भविष्यति न संदेहो मत्प्रसादाद्भावन्ध्रुव ॥ १,१२.९० ॥
सूर्यात्सोमात्तथा भौमात्सोमपुत्राद्बृहस्पतेः ।
सितार्कतनयादीनां सर्वर्क्षाणां तथा ध्रुवः ॥ १,१२.९१ ॥
सप्तर्षिणामशेषाणां ये च वैमानिकाः सुराः ।
सर्वेषामुपरि स्थानं तव दत्तं मया ध्रुव ॥ १,१२.९२ ॥
केचिच्चतुर्युगं यावत्केचिन्मन्वन्तरं सुराः ।
तिष्ठन्ति भवतो दत्ता मया वै कल्पसंस्थितिः ॥ १,१२.९३ ॥
सुनीतिरपि ते माता त्वदासन्नातिनिर्मला ।
विमाने तारका भूत्वा तावत्कालं निवत्स्यति ॥ १,१२.९४ ॥
ये च त्वां मानवाः प्रातः सायं च सुसमाहि ताः ।
कीर्तयिष्यन्ति तेषां च महत्पुण्यं भविष्यति ॥ १,१२.९५ ॥
श्रीपराशर उवाच
एवं पूर्वं जगन्नाथाद्देवदेवाज्जनार्दनात् ।
वरं प्राप्य ध्रुवः स्थान मध्यास्ते स महामते ॥ १,१२.९६ ॥
स्वयं शुश्रूषणाद्धर्म्यान्मातापित्रोश्च वै तथा ।
द्धादशाक्षरमाहत्म्यात्तपसश्च प्रभावतः ॥ १,१२.९७ ॥
तस्याभिमानमृद्धिं च महिमानं निरिक्ष्य हि ।
देवासुराणामाचार्यः श्लोकमत्रोशना जगौ ॥ १,१२.९८ ॥
अहोस्य तपसो वीर्यमहोस्य तपसः फलम् ।
यदेनं पुरतः कृत्वा ध्रुवं सप्तर्षयः स्थिताः ॥ १,१२.९९ ॥
ध्रुवस्य जननी चेयं सुनीतिर्नाम सूनृता ।
अस्याश्च महिमानं कः शक्तो वर्णयितुं भुवि ॥ १,१२.१०० ॥
त्रैलोक्यश्रयतां प्राप्तं परं स्थानं स्तिरायति ।
स्थानं प्राप्ता परं धृत्वा या कुक्षिविवरे ध्रुवम् ॥ १,१२.१०१ ॥
यश्चैतत्कीर्तयेन्नित्यं ध्रुवस्यारोहणं दिवि ।
सर्वपापविनिर्मुक्तः स्वर्गलोके महीयते ॥ १,१२.१०२ ॥
स्थानभ्रंशं न चाप्नोति दिवि वा यदि वा भुवि ।
सर्वकल्याणसंयुक्तो दीर्घकालं स जीवति ॥ १,१२.१०३ ॥
इति श्रीविष्णुपुराणे प्रथमेऽंशे द्वादशोऽध्यायः (१२)