विष्णुपुराणम्/प्रथमांशः/अध्यायः १

विकिस्रोतः तः
Jump to navigation Jump to search
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२

श्रीसूत उवाच

ॐ पराशरं मुनिवरं कृतपौर्वाह्णिकक्रियम् ।
मैत्रेयः परिपप्रच्छ प्रणिपत्याभिवाद्य च ॥१॥

त्वत्तो हि वेदाध्ययनमधीतमखिलं गुरो ।
धर्मशास्त्राणि सर्वाणि तथांगनि यथाक्रमम् ॥२॥

त्वत्प्रसादान्मुनिश्रेष्ठ मानन्ये नाकृतश्रमम् ।
वक्ष्यन्ति सर्वशास्त्रेषु प्रायशो येऽपि विद्विषः ॥३॥

सोऽहमिच्छामि धर्मज्ञ श्रोतुं त्वत्तो यथा जगत् ।
बभूत भूयश्र्च यथा महाभाग भविष्यति ॥४॥

यन्मयं च जगद्बह्मन्यतश्चैतच्चराचरम् ।
लीनमासीद्यथा यत्र लयमेष्यति यत्र च ॥५॥

यत्प्रमाणानि भूतानि देवादीनां च सम्भवम् ।
समुद्रपर्वतानां च संस्थानं च यथा भुवः ॥६॥

सूर्यादीनां च संस्थानं प्रमाणं मुनिसत्तम ।
देवादीनां तथा वंशान्मनून्मन्वन्तराणि च ॥७॥

कल्पान् कल्पविभागांश्च चातुर्युगविकल्पितान् ।
कल्पान्तस्य स्वरूपं च युगधर्माश्च कृत्स्नशः ॥८॥

देवर्षिपार्थिवानां च चरितं यन्महामुने ।
वेदशाखाप्रणयनं यथावद्व्‌यासकर्तृकम् ॥९॥

धर्माश्च ब्राह्मणादीनां तथा चाश्रमवासिनाम् ।
श्रोतुमिच्छाम्यहं सर्वं त्वृत्तो वासिष्ठनन्दन ॥१०॥

ब्रह्मन्प्रसादप्रवणं कुरुष्व मयि मानसम् ।
येनाहमेतज्जानीयां त्वत्प्रसादान्महामुने ॥११॥

श्रीपराशर उवाच

साधु मैत्रेय धर्मज्ञ स्मारितोऽस्मि पुरातनम् ।
पितुः पिता मे भगवान् वसिष्ठो यदुवाच ह ॥१२॥

विश्वामित्रप्रयुक्तेन रक्षसा भक्षितः पुरा ।
श्रुतस्तातस्ततः क्रोधो मैत्रेयाभून्ममातुलः ॥१३॥

ततोऽहं रक्षसां सत्रं विनाशाय समारभम् ।
भस्मीभूताश्च शतशस्तस्मिन्सत्रे निशाचराः ॥१४॥

ततः सड्‌क्षीयमाणेषु तेषु रक्षस्स्वशेषतः ।
मामुवाच महाभागो वसिष्ठो मत्पितामहः ॥१५॥

अलमत्यन्तकोपेन तात मन्युमिमं जहि ।
राक्षसा नापराध्यन्ति पितुस्ते विहितं हि तत् ॥१६॥

मूढानामेव भवति क्रोधो ज्ञानवतां कृतः ।
हन्यते तात कः केन यतः स्वकृतभुक्पुमान् ॥१७॥

सत्र्चितस्यापि महता वत्स क्लेशेन मानवैः ।
यशसस्तपसश्र्चैव क्रोधो नाशकरः परः ॥१८॥

स्वर्गापवर्गव्यासेधकारणं परमर्षयः ।
वर्जयन्ति सदा क्रोधं तात मा तद्वशो भव ॥१९॥

अलं निशाचरैर्दग्धैदीनैरनपकारिभिः ।
सत्रं ते विरमत्वेतत्क्षमासारा हि साधवः ॥२०॥

एवं तातेन तेनाहमनुनीतो महात्मना ।
उपसंहृतवान्सत्रं सद्यस्तद्वाक्यगौरवात् ॥२१॥

ततः प्रीतः स भगवान्वसिष्ठो मुनिसत्तमः ।
सम्प्राप्तश्च तदा तत्र पुलस्त्यो ब्रह्मणः सुतः ॥२२॥

पितामहेन दत्तार्घ्यः कृतासनपरिग्रहः ।
मामुवाच महाभागो मैत्रेय पुलहाग्रजः ॥२३॥

वैरे महति यद्दाक्याद्‌गुरोरद्याश्रिता क्षमा ।
त्वया तस्मात्समस्तानि भवात्र्च्छास्त्राणि वेत्स्यति ॥२४॥

सन्ततेर्न ममोच्छेदः क्रुद्धेनापि यतः कृतः ।
त्वया तस्मान्महाभाग ददाम्यन्यं महावरम् ॥२५॥

पुराणसंहिताकर्ता भवान्वत्स भविष्यति ।
देवतापारमार्थ्यं च यथावद्वेत्स्यते भवान् ॥२६॥

प्रवृत्ते च निवृत्ते च कर्मण्यस्तमला मतिः ।
मत्प्रसादादसन्दिग्धा तव वत्स भविष्यति ॥२७॥

ततश्च प्राह भगवान्वसिष्ठो मे पितामहः ।
पुलस्त्येन यदुक्तं ते सर्वमेतद्भविष्यति ॥२८॥

इति पूर्वं वसिष्ठेन पुलस्त्येन च धीमता ।
यदुक्तं तत्स्मृतिं याति त्वत्प्रश्नादखिलं मम ॥२९॥

सोऽहं वदाम्यशेषं ते मैत्रेय परिपृच्छते ।
पुराणसंहितां सम्यक् तां निबोध यथातथम् ॥३०॥

विष्णोः सकाशादुद्भूतं जगत्तत्रैव च स्थितम् ।
स्थितिसंयमकर्ताऽसौ जगतोऽस्य जगच्च सः ॥३१॥