विष्णुपुराणम्/प्रथमांशः/अध्यायः ३

विकिस्रोतः तः
Jump to navigation Jump to search
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२

श्रीमैत्रेय उवाच

निर्गुणस्याप्रमेयस्य शुद्धस्याप्यमलात्मनः ।
कथं सर्गादिकर्तृत्वं ब्रह्मणोऽभ्युपगम्यते ॥१॥

श्रीपराशर उवाच

शक्तयः सर्वभावानामचिन्त्यज्ञानगोचराः ।
यतोऽतो ब्रह्मणस्तास्तु सर्गाद्या भावशक्तयः ।

भवन्ति तपतां श्रेष्ठ पावकस्य यथोष्णता ॥२॥

तन्निबोध यथा सर्गे भगवान्सम्प्रवर्त्तते ।
नारायणाख्यो भगवान्ब्रह्म लोकपितामहः ॥३॥

उप्तन्नः प्रोच्यते विद्वन्नित्यमेवोपचारतः ॥४॥

निजेन तस्य मानेन आयुर्वर्षशतं स्मृतम् ।
तत्पराख्यं तदर्द्ध च परार्द्धमभिधीयते ॥५॥

कालस्वरूपं विष्णोश्च यन्मयोक्तं तवानघ ।
तेन तस्य निबोध त्वं परिमाणोपपादनम् ॥६॥

अन्येषां चैव जन्तूनां चराणामचराश्च ये ।
भूभूभृत्सागरादीनामशेषाणां च सत्तम ॥७॥

काष्ठा पत्र्चदशाख्याता निमेषा मुनिसत्तम ।
काष्ठा पत्र्चदशाख्याता निमेषा मनिसत्तम ।

काष्ठा त्रिंशत्कला त्रिंशत्कला मौहूर्तिको विधिः ॥८॥

तावत्संख्यैरहोरात्रं मुहूर्तैर्मानुषं स्मृतम् ।
अहोरात्राणि तावानित मासः पक्षद्वयात्मकः ॥९॥

तैः षड्‌भिरयनं वर्ष द्वेऽयनें दक्षिणोत्तरे ।
अयनं दक्षिणं रात्रिर्देवानामुत्तरं दिनम् ॥१०॥

दिव्यैर्वर्षसहस्त्रैस्तु कृतत्रेतदिसंज्ञितम् ।
चतुर्युगं द्वादशभिस्तद्विभागं निबोध मे ॥११॥

चत्वारि त्रीणि द्वै चैकं कृतादिषु यथाक्रमम् ।
दिव्याब्दानां सहस्त्राणि युगेष्वाहुः पुराविदः ॥१२॥

तत्प्रमाणैः शतैः सन्ध्या पूर्वा तत्राभिधीयते ।
सन्ध्यांशश्चैव तत्तुल्यो युगस्यानन्तरो हि सः ॥१३॥

सन्ध्यासध्यांशयोरन्तर्यः कालो मुनिसत्तम ।
युगाख्यः स तु विज्ञेयः कृतत्रेतादिसंज्ञितः ॥१४॥

कृतं त्रेता द्वाररश्च कलिश्चैव चतुर्युगम् ।
प्रोच्यते तस्तहस्त्र च ब्रह्मणो दिवसं मुने ॥१५॥

ब्रह्मणो दिवसे ब्रह्मन्मनवस्तु चतुर्दश ।
भवन्ति परिमाणं च तेषां कालकृतं श्रृणु ॥१६॥

सप्तर्षयः सुराः शक्रो मनुस्तत्सूनवो नृपाः ।
एककाले हि सृज्यन्ते संह्रियन्ते च पूर्ववत् ॥१७॥

चतुर्यगुणां संख्याता साधिका ह्रोकासप्ततिः ।
मन्वन्तरं मनोः कालः सुरादीनां च सत्तम ॥१८॥

अष्टौ शत सहस्त्राणि दिव्ययां संख्यया स्मृतम् ।
द्विपत्रचाशत्तथान्यानि सहस्त्राण्यधिकानि तु ॥१९॥

त्रिंशत्कोट्यस्तु सम्पूर्णाः संख्याताः संख्याया द्विज ।
सप्तषष्टिस्तथान्यानि नियुतानि महामुने ॥२०॥

विंशतिस्तु सह्स्त्राणि कालोऽयमधिकं विना ।
मन्वन्तरस्य सड्खयेयं मानुषैर्वत्सरैर्द्विज ॥२१॥

चतुर्दशगुणो ह्योष कालो ब्राह्ममहः स्मृतम् ।
ब्राह्मो नैमित्तिको नाम तस्यान्ते प्रतिसत्र्चरः ॥२२॥

तदा ही दह्राते सर्वं त्रैलोक्यं भूर्भुवादिकम् ।
जनं प्रयान्ति तापार्था महर्लोकनिवासिनः ॥२३॥

एकार्णवे तु त्रैलोक्ये ब्रह्म नारायणात्मकः ।
भोगिशय्यां गतः शेते त्रैलोक्यग्रासबृंहितः ॥२४॥

जनस्थैर्योगिभिर्देवाश्चिन्त्यमानोऽब्जसम्भवः ।
तत्प्रमाणां हि तां रात्रिं तदन्ते सृजते पुनः ॥२५॥

एवं तु ब्रह्मणो वर्षमेवं वर्षशतं च यत् ।
शतं हि तस्य वर्षाणां परमायुर्महात्मनः ॥२६॥

एकमस्य व्यतीतं तु परार्द्ध ब्रह्मणोऽनघ ।
तस्यान्तेऽभून्महाकल्पः पाद्य इत्यभिविश्रुतः ॥२७॥

द्वितीयस्य परार्द्धस्य वर्तमानस्य वै द्विज ।
वाराह इति कल्पोऽयं प्रथमः परिकीर्तितः ॥२८॥