श्रीविष्णुपुराणम्-प्रथमांशः/अध्यायः २

विकिस्रोतः तः
Jump to navigation Jump to search
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२


श्रीपराशर उवाच

अविकाराय शुद्धाय नित्याय परमात्मने ।
सदैकरूपरूपाय विष्णवे सर्वजिष्णवे ॥१॥

नमो हिरण्यगर्भाय हरये शंकराय च ।
वासुदेवाय ताराय सर्गस्थित्यन्तकारिणे ॥२॥

एकानेकस्वरूपाय स्थूलसूक्ष्मात्मने नमः ।
अव्यक्तव्यक्तरूपाय विष्णवे मुक्तिहेतवे ॥३॥

सर्गस्थितिविनाशानां जगतो यो जगन्मयः ।
मूलभूतो नमस्तस्मै विष्णवे परमात्मने ॥४॥

आधारभूतं विश्वस्याप्यणीयांसमयीयसाम् ।
प्रणम्य सर्वभूतस्थमच्युतं पुरुषोत्तमम् ॥५॥

ज्ञानस्वरूपमत्यन्तनिर्मलं परमार्थतः ।
तमेवार्थस्वरूपेण भ्रान्तिदर्शनतः स्थितम् ॥६॥

विष्णुं ग्रसिष्णुं विश्वस्य स्थितौ सर्गे तथा प्रभुम् ।
प्रणम्य जगतामीशमजमक्षयमव्ययम् ॥७॥

कथयामि यथापूर्व दक्षाद्यैर्मुनिसत्तमैः ।
पृष्ट प्रोवाच भगवानब्जयोनिः पितामहः ॥८॥

तैश्चौक्तं पुरुकुत्साय भूभुजे निर्मदातटे ।
सारस्वताय तेनापि मह्मं सारस्वतेन च ॥९॥

परः पराणां परमः परमात्मात्मसंस्थितः ।
रूपवर्णादिनिर्देशविशेषणविवर्जितः ॥१०॥

अपक्षयविनाशाभ्यां परिणामर्धिजन्मभिः ।
वर्जितः शक्यते वक्तुंयः सदास्तीति केवलम् ॥११॥

सर्वत्रासौ समस्तं च वसत्यत्रेति वै यतः ।
ततः स वासुदेवेति विद्वद्भिः परिपठ्यते ॥१२॥

तद्‌ब्रह्म परंमं नित्यमजमक्षयमव्ययम् ।
एकस्वरूपं तु सदा हेयाभावाच्च निर्मलम् ॥१३॥

तदेव सर्वमेवैतद्‌व्यक्ताव्यक्तस्वरूपवत् ।
तथा पुरुषरूपेण कालरूपेण च स्थितम् ॥१४॥

परस्य ब्रह्मणो रूपं पुरुषः प्रथमं द्विज ।
व्यक्ताव्यक्ते तथैवान्ये रूपे कालस्तथा परम् ॥१५॥

प्रधानपुरुषव्यक्तकालानां परमं हि यत् ।
पश्यन्ति सूरयः शुद्धं तद्विष्णोः परमं पदम् ॥१६॥

प्रधानपुरुषव्यक्तकालास्तु प्रविभागशः ।
रूपाणि स्थितिसर्गान्तव्यक्तिसद्भावहेतवः ॥१७॥

व्यक्तं विष्णुस्तथाव्यक्तं पुरुषः काल एव च ।
क्रीडतो बालकस्येव चेष्टां तस्य निशामय ॥१८॥

अव्यक्तं कारणं यत्तत्प्रधानमृषिसत्तमैः ।
प्रोच्यते प्रकृतिः सूक्ष्मा नित्यं सदसदात्मकम् ॥१९॥

अक्षय्यं नान्यदाधारममेयमजरं ध्रुवम् ।
शब्दस्पर्शविहीनं तद्रूपादिभिरसंहितम् ॥२०॥

त्रिगुणं तज्जगद्योनिरनादिप्रभवाप्ययम् ।
तेनाग्रे सर्वमेवासीद्व्‌यांत्पं वै प्रलयादनु ॥२१॥

वेदवादविदो विद्दन्नियता ब्रह्मवादिनः ।
पठन्ति चैतमेवार्थ प्रधानप्रतिपादकम् ॥२२॥

नाहो न रात्रिर्न नभो न भूमि- र्नासीत्ममोज्योतिरभूच्च नान्यत् ।
श्रोत्रादिबुद्धयानुपलभ्यमेकं प्राधानिकं ब्रह्म पुमांस्तदासीत् ॥२३॥

विष्णोः स्वरूपात्मरतो हि ते द्वे रूपे प्रधानं पुरुषश्च विप्र ।
तस्यैव तेऽन्येन धूते वियुक्ते रूपांन्तरं तद्‌द्विज कालसंज्ञम् ॥२४॥

प्रकृतौ संस्थितं व्यक्तमतीतप्रलये तु यत् ।
तस्मात्प्राकृतसंज्ञोऽयमुच्यते प्रतिसत्र्चरः ॥२५॥

अनादिर्भगवान्कालो नान्तोऽस्य द्विज विद्यते ।
अव्युच्छिन्नास्ततस्त्वेते सर्गस्थित्यन्तसंयमाः ॥२६॥

गुणसाम्ये ततस्तस्मिन्पृथक्पूंसि व्यवस्थिते ।
कालस्वरूपं तद्विष्णोर्मैत्रेय परिवर्त्तते ॥२७॥

ततस्तु तप्तरं ब्रह्मं परमात्मा जगन्मयः ।
सर्वगः सर्वभूतेशः सर्वात्मा परमेश्वरः ॥२८॥

प्रधानपुरुषौ चापि प्रविश्यात्मेच्छया हरिः ।
क्षोभयामास सम्प्राप्ते सर्गकाले व्ययाव्ययौ ॥२९॥

यथा सन्निधिमात्रेण गन्धः क्षोभाय जायते ।
मनसो नोपकर्तृत्वात्तथाऽसौ परमेश्वरः ॥३०॥

स एव क्षोभको ब्रह्मन् क्षोभ्यश्र्च पुरुषोत्तमः ।
स संकोचविकासाभ्यां प्रधानत्वेऽपिच स्थितः ॥३१॥

विकासाणुस्वरूपैश्च ब्रह्मरूपादिभिस्तथा ।
व्यक्तस्वरूपश्च तथा विष्णुः सर्वेश्वरेश्वरः ॥३२॥

गुणसाम्यात्ततस्तस्मात्क्षेत्रज्ञाधिष्ठितान्मुने ।
गुणव्यत्र्जनसम्भूतिः सर्गकाले द्विजोत्तम ॥३३॥

प्रधानतत्त्वमुद्भतं महान्तं तत्समावृणोत् ।
सात्विको राजसश्चैव तामसश्च त्रिधा महान् ॥३४॥

प्रधानतत्वेन समं त्वचा बीजमिवावृतम् ।
वैकारिकस्तैजसश्च भूतादिश्चैव तामस्वः ॥३५॥

त्रिविधोऽयमहंकारो महत्तत्त्वादजायत ।
भुतेन्द्रियाणां हेतुस्स त्रिगुणत्वान्महामुने ।

यथा प्रधानेन महान्महता स तथावृतः ॥३६॥

भूतादिस्तु विकुर्वाणः शब्दतन्मात्रकं ततः ।
ससर्ज शब्दतन्मात्रादाकाशं शब्दलक्षणम् ॥३७॥

शब्दमात्रं तथाकाशं भूतादिः स समावृणोत् ।
आकाशस्तु विकुर्वाणः स्पर्शमात्रं ससर्ज ह ॥३८॥

बलवानभवद्वायुस्तस्य स्पर्शो गुणो मतः ।
आकाशं शब्दमात्रं तु स्पर्शमात्रं समावृणोत् ॥३९॥

ततो वायुर्विकुर्णाणो रूपमात्रं ससर्ज ह ।
ज्योतिरुत्पद्यते वायोस्तद्रूपगुणमुच्यते ॥४०॥

स्पर्शमात्रं तु वै वायू रूपमात्रं समावृणोत् ।
ज्योतिश्चापि विकृर्वाणं रसमात्रं ससर्ज ह ॥४१॥

सम्भवन्ति ततोऽम्भांसि रसाधाराणि तानि च र। रसमात्राणि चाम्भांसि रूपमात्रं समावृणोत् ॥४२॥

विकुर्वाणानि चाम्भांसि गन्धमात्रं ससर्जिरे ।
संघातो जायते तस्मात्तस्य गन्धो गुणो मतः ॥४३॥

तस्मिंस्तस्मिंस्तु तन्मात्रं तेन तन्मात्रता स्मृता ॥४४॥

तन्मात्राण्यविशेषाणि अविशेषास्ततो हि ते ॥४५॥

न शान्ता नापि घोरास्ते न मूढाश्चाविशेषिणः ।
भूततन्मात्रसर्गोऽयमहकांरात्तु तामसात् ॥४६॥

तैजसानीन्द्रीयाण्याहूर्देवा वैकारिका दश ।
एकादशं मनश्चात्र देवा वैकारिकाः स्मृताः ॥४७॥

त्वक् चक्षुर्नासिका जिह्वा श्रोत्रमत्र च पत्र्चमम् ।
शब्दादीनामवाप्त्यर्थं बुद्धीयुक्तानि वै द्विज ॥४८॥

पायूपस्थौ करौ पादौ वाक् च मैत्रेय पत्र्चमी ।
विसर्गशिल्पगत्युक्ति कर्म तेषां च कथ्यते ॥४९॥

आकाशवायुतेजांसि सलिलं पृथिवी तथा ।
शब्दादिभिर्गुणैर्ब्रह्मन्संयुक्तान्युत्तरोत्तरैः ॥५०॥

शान्ता घोराश्च मूढाश्च विशेषास्तेन ते स्मृताः ॥५१॥

नानावीर्याः पृथग्भूतास्ततस्ते संहतिं विना ।
नाशक्रुवन्प्रजाः स्त्रष्टुमसमागम्य कृत्स्त्रशः ॥५२॥

समेत्यान्योन्यसंयोगं परस्परसमाश्रयाः ।
एकसंघातलक्ष्याश्च सम्प्राप्यैक्यमशेषतः ॥५३॥

पुरुषाधिष्ठितताच्च प्रधानानुग्रहेण च महदाद्या विशेषान्ता ह्माण्डमुत्पादयन्ति ते ॥५४॥

तत्क्रमेण विवृद्धं सज्जलबुदबुदवत्समम् ।
भूतेभ्योऽण्डं महाबुद्धें महत्तदुदकेशयम् ।

प्राकृतं ब्रह्मरूपयस्य विष्णोः स्थानमनुत्तमम् ॥५५॥

तत्राव्यक्तस्वरूपोऽसौ व्यक्तरूपो जगत्पतिः ।
विष्णुर्ब्रह्मस्वरूपेण स्वयमेव व्यवस्थितः ॥५६॥

मेरुरुल्बमभूत्तस्य जरायुश्च महीधराः ।
गर्भोदकं समुद्राश्च तस्यासन्सुमहात्मनः ॥५७॥

साद्रिद्वीपसमुद्राश्च सज्योतिर्लोकसंग्रहः ।
तस्मिन्नण्डेऽभवद्विप्र सदेवासुरमानुषः ॥५८॥

वारिवह्‌न्यनिलाकाशैस्ततो भूतादिना बहिः ।
वृतं दशगुणैरण्डं भूतादिर्महता तथा ॥५९॥

अव्यक्तेनावृतो ब्रह्मांस्तैः सर्वोः सहितो महान् ।
एभिरावरणैरण्डं सप्तभिः प्राकृतैर्वृतम् ।

नारिकेलफलस्यान्तर्बीजं बाह्मदलैरिव ॥६०॥

जुषन रजो गुणं तत्र स्वयं विश्वेश्वरो हरिः ।
ब्रह्मा भूत्वास्य जगतो विसृष्टौ सम्प्रवर्त्तते ॥६१॥

सृष्टं च पात्यनुयुगं यावत्कल्पविकल्पना ।
सत्त्वभृद्भगवान्विष्णुरप्रमेयपराक्रमः ॥६२॥

तमोद्रेकी चा कल्पान्ते रुद्ररूपी जनार्दनः ।
मैत्रेयाखिलभूतानि भक्षयत्यतिदारुणः ॥६३॥

भक्षयित्वा च भूतानि जगत्येकार्णवीकृते ।
नागपर्यंकशयने शेते च परमेश्वरः ॥६४॥

प्रबुद्धश्च पुनः सृष्टिं करोति ब्रह्मरूपधृक् ॥६५॥

सृष्टिस्थित्यन्तकरणीं ब्रह्मविष्णुशिवात्मिकाम् ।
स संज्ञां याति भगवानेक एव जनार्दनः ॥६६॥

स्त्रष्टा सृजाति चात्मानं विष्णुः पाल्यंच पाति च ।
उपसंह्रियते चान्ते संहर्ता च स्वयं प्रभुः ॥६७॥

पृथिव्यापस्तथा तेजो वायुराकाश एव च ।. सर्वोन्द्रियान्तः करणं पुरुषाख्यं हि यज्जगत् ॥६८॥

स एव सर्वभूतात्मा विश्वरूपो यतोऽव्ययः ।
सर्गादिकं तु तस्यैव भूतस्थमुपकारकम् ॥६९॥

स एव सृज्यः स च सर्गकर्ता स एव पात्यत्ति च पाल्यते च ।
ब्रह्माद्यवस्थाभिरशेषमूर्ति र्विष्णुर्वरिष्ठो वरदो वरेण्यः ॥७०॥