विष्णुपुराणम्/प्रथमांशः/अध्यायः ४

विकिस्रोतः तः
Jump to navigation Jump to search
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२

श्रीमैत्रेय उवाच

ब्रह्मा नारायणारव्योऽसौ कल्पादौ भगवान्यथा ।
ससर्ज सर्वभूतानि तदाचक्ष्व महामुने ॥१॥

श्रीपराशर उवाच

प्रजाः ससर्ज भगवान्ब्रह्मा नारायणात्मकः ।
प्रजापतिपतिर्देवो यथा तन्मे निशामय ॥२॥

अतीतकल्पावसाने निशासुप्तोत्थितः प्रभुः ।
सत्त्वोद्रिक्तस्तथा ब्रह्मा शून्यं लोकमवैक्षत ॥३॥

नारायणः परोऽचिन्त्यः परेषामपि स प्रभुः ।
ब्रह्मस्वरूपी भगवाननादिः सर्वसम्भवः ॥४॥

इमं चोदाहरन्त्यत्र श्‍लोकं नारायणं प्रति ।
ब्रह्मस्वरूपिणं देवं जगतः प्रभवाप्ययम् ॥५॥

आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।
अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः ॥६॥

तोयान्तः स्थां महीं ज्ञात्वा जगत्येकार्णवीकृते ।
अनुमानात्तदुद्धारं कर्तुकामः प्रजापतिः ॥७॥

अकरोत्स्वतनूमन्यां कल्पादिषु यथा पुरा ।
मत्स्यकूर्मादिकां तद्वद्वाराहं वपुरास्थितः ॥८॥

वेदयज्ञमयं रूपमशेषजगतः स्थितौ ।
स्थितः स्थिरात्मा सर्वात्मा परमात्मा प्रजापतिः ॥९॥

जनलोकगतैस्सिद्धैस्सनकाद्यैरभिष्टुतः ।
प्रविवेश तदा तोयमात्माधारी धराधरः ॥१०॥

निरिक्ष्य तं तदा देवी पातालतलमागतम् ।
तुष्टाव प्रणता भूत्वा भक्तिनम्रा वसुन्धरा ॥११॥

पृथ्वीव्युवाच

नमस्ते पुण्डरीकाक्ष शंखचक्रगदाधर ।
मामुद्धरास्मादद्य त्वं त्वत्तोऽहं पूर्वमुत्थिता ॥१२॥

त्वयाहमुद्‍धृता पूर्वं त्वन्मयाहं जनार्दन ।
तथान्यानि च भूतानि गगनादीन्यशेषतः ॥१३॥

नमस्ते परमात्मात्मन्पुरुषात्मन्नमोऽस्तु ते ।
प्रधानव्यक्तभुताय कालभूताय ते नमः ॥१४॥

त्वं कर्ता सर्वभूतानां त्वं पाता त्वं विनाशकृत् ।
सर्गादिषु प्रभो ब्रह्माविष्णुरुद्रात्मरूपधृक् ॥१५॥

सम्भक्षयित्वा सकलं जगत्येकार्णवीकृते ।
शेषे त्वमेव गोविन्द चिन्त्यमानो मनीषिभिः ॥१६॥

भवतो यत्परं तत्त्वं तन्न जानाति कश्चन ।
अवतारेषू यद्रूपं तदर्चन्ति दिवौकसः ॥१७॥

त्वामाराध्य परं ब्रह्म याता मुक्तिं मुमुक्षवः ।
वासुदेवमनाराध्य को मोक्षं समवाप्स्यति ॥१८॥

यत्कित्र्चिन्मनसा ग्राह्मं यद्‌ग्राहां चक्षुरादिभिः ।
बुद्ध्या च यत्परिच्छेद्यं तद्रूपमखिलं तवं ॥१९॥

त्वन्मयाहं त्वदाधारा त्वत्सृष्टा त्वत्समाश्रया ।
माधवीमिति लोकोऽयमभिधत्ते ततो हि माम् ॥२०॥

जयाखिलज्ञानमय जय स्थूलमयाव्यय ।
जयाऽनन्त जयाव्यक्त जय व्यक्तमय प्रभो ॥२१॥

परापरात्मन्विश्वात्मत्र्जय यज्ञपतेऽनघ ।
त्वं यज्ञस्त्वं वषट्‌कारस्त्वमोड्कारस्त्वमग्नयः ॥२२॥

त्वं वेदास्त्वं तदांनि त्वं यज्ञपुरुषो हरे ।
सूर्योदयो ग्रहास्तारा नक्षत्राण्यखिलं जगत् ॥२३॥

मूर्तामूर्तमदृश्यं च दृश्यं च पुरुषोत्तम ।
यत्र्चोक्तं यत्र्च नैवोक्तं मयात्र परमेश्वर ।

तत्सर्वं त्वं नमस्तुभ्यं भूयो भूयो नमो नमः ॥२४॥

श्रीपराशर उवाच

एवं संसुत्यमानस्तु पृथिव्या धरणीधरः ।
सामस्वरध्वनिः श्रीमात्र्जगर्ज परिघर्घरम् ॥२५॥

ततः समुत्क्षिप्य धरां स्वदंष्ट्रया महावराहः स्फुटपद्मलोचनः ।
रसातलादुप्तलपत्रसन्निभः समुत्थितो नील इवाचलो महान् ॥२६॥

उत्तिष्ठता तेन मुखानिलाहतं तत्सम्भवाम्भो जनलोकसंश्रयान् ।
प्रक्षालयामास हि तान्महाद्युतीन् सनन्दनादीपकल्मषान् मुनीन् ॥२७॥

प्रयान्ति तोयानि खुराग्रविक्षत रसोतलेऽधः कृतशब्दसन्तति ।
श्वासानिलास्ताः परितः प्रयान्ति सिद्धा जने ये नियता वसन्ति ॥२८॥

उत्तिष्ठतस्तस्य जलार्द्रकुक्षे र्महावराहस्य महीं विगृह्म ।
विधुन्वतो वेदमयं शरीरं रोमान्तरस्था मुनयः स्तुवन्ति ॥२९॥

तं तुष्टुवुस्तोषपरितचेतसो लोके जने ये निवसन्ति योगिनः ।
सनन्दनाद्या ह्मतिनम्रकन्धरा धराधरं धीरतरोद्धतेक्षणम् ॥३०॥

जयेश्वराणां परमेश केशव प्रभो गदाशंख रासिचक्रधृक् ।
प्रसूतिनाशस्थितिहेतुरीश्वर स्त्वमेव नान्यत्परमं च यत्पदम् ॥३१॥

पादेषु वेदास्तव यूपदंष्ट्र दन्तेषु यज्ञाश्चितयश्च वक्त्रे ।
हुताशजिह्वोऽसि तनूरुहाणि दर्भाः प्रभो यज्ञपुमांस्त्वमेव ॥३२॥

विलोचने रात्र्यहनी महात्मन्सर्वाश्रयं ब्रह्म परं शिरस्ते ।
सूक्तान्यशोषाणि सटाकलापो घ्राणं समस्तानि हवींषि देव ॥३३॥

स्त्रुक्‌तुण्ड सामस्वरधीरनाद प्राग्वंशकायाखिलसत्रसन्धे ।
पूर्तेष्टधर्मश्रवणोऽसि देव सनातनात्मन्भगवन्प्रसीद ॥३४॥

पदक्रमाक्रान्तभूवं भवन्तमादिस्थितं चाक्षर विश्वमूर्ते ।
विश्वस्य विद्यः परमेश्वरोऽसि प्रसीद नाथोऽसि परावरस्य ॥३५॥

दंष्ट्राग्रविन्यस्तमशेषमेतद्भूमंडलं नाथ विभाव्यते ते ।
विगाहतः पद्मवनं विलग्नं सरोजिनीपत्रमिवोढपड्कम् ॥३६॥

द्यावापृथिव्योरतुलप्रभाव यदन्तरं तद्वपुषा तवैव ।
व्याप्तं जगद्‌व्याप्तिसमर्थदीप्ते हिताय विश्वस्य विभो भव त्वम् ॥३७॥

परमार्थस्त्वमेवैको नान्योऽस्ति जगतः पते ।
तवैष महिमा येन व्याप्तमेतच्चराचरम् ॥३८॥

यदेतद् दृश्यते मूर्तमेतज्ज्ञानात्मनस्तव ।
भ्रान्तिज्ञानानेन पश्यन्ति जगद्रूपमयोगिनः ॥३९॥

ज्ञानस्वरूपमखिलं जगदेतदबुद्धयः ।
अर्थस्वरूपं पश्यन्तो भ्राम्यन्ते म्होहसम्प्लवे ॥४०॥

ये तु ज्ञानविदः शुद्धचेतसस्तेऽ‍खिलं जगत् ।
ज्ञानात्मकं प्रपश्यन्ति त्वद्रूपं परमेश्वर ॥४१॥

प्रसीद सर्व सर्वात्मन्वासाय जगतामिमाम् ।
उद्धरोर्वीममेयात्मज्छन्नो देह्राब्जलोचन् ॥४२॥

सत्त्वोद्रोक्तोऽसि भगवन् गोविन्द पृथिवीमिमाम् ।
समुद्धर भवायेश शन्नो देह्राब्जलोचन ॥४३॥

सर्गप्रवृत्तिर्भवतो जगतामुपकारिणी ।
भवत्वेषा नमस्तेऽस्तु शन्नो देह्मब्जलोचन ॥४४॥

श्रीपराशर उवाच

एवं संस्तुयमानस्तु परमात्मा महीधरः ।
उज्जहार क्षितिं क्षिप्रं न्यस्तवांश्च महाम्भसि ॥४५॥

तस्योपरि जलौघस्य महती नौरिव स्थिता ।
विततत्वात्तु देहस्य न मही याति सम्प्लवम् ॥४६॥

ततः क्षितिं समां कृत्वा पृथिव्यां सोऽचिनोद्गिरीन् ।
यथाविभागं भगवाननादिः परमेश्वरः ॥४७॥

प्राक्सर्गदग्धानखिलान्पर्वतान्पृथिवीतले ।
अमोघेन प्रभावेण ससर्जामोघवात्र्छितः ॥४८॥

भूविभागं ततः कृत्वा सप्तद्वीपान्यथाथम् ।
भूराद्यांश्चतुरो लोकान्पूर्ववत्समकल्पयत् ॥४९॥

ब्रह्मरूपधरो देवस्ततोऽसौ रजसा वृतः ।
चकार सृष्टीं भगवांश्चतुर्वक्त्रधरो हरिः ॥५०॥

निमित्तमात्रमेवा‍ऽसौ सृज्यानां सर्गकर्मणि ।
प्रधानकारणीभूता यतो वै सृज्यशक्तयः ॥५१॥

निमित्तमात्रं मुक्त्वैवं नान्यत्कित्र्चिदपेक्षते ।
नीयते तपतां श्रेष्ठ स्वशक्त्या वस्तु वस्तुताम् ॥५२॥