विष्णुपुराणम्/प्रथमांशः/अध्यायः १९
श्रीपराशर उवाच 1.19
हिरण्यकशिपुः श्रुत्वा तां कृत्यां वितथीकृताम्
आहूय पुत्रं पप्रच्छ प्रभावस्यास्य कारणम् १
हिरण्यकशिपुरुवाच
प्रह्लाद सुप्रभावोसि किमेतत्ते विचेष्टितम्
एतन्मंत्रादिजनितमुताहो सहजं तव २
श्रीपराशर उवचा
एवं पृष्टस्तदा पित्रा प्रह्लादोऽसुरबालकः
प्रणिपत्य पितुः पादाविदं वचनमब्रवीत् ३
न मंत्रादिकृतं तात न च नैसर्गिको मम
प्रभाव एष सामान्यो यस्य यस्याच्युतो हृदि ४
अन्येषां यो न पापानि चिन्तयत्यात्मनो यथा
तस्य पापागमस्तात हेत्वभावान्न विद्यते ५
कर्मणा मनसा वाचा परिपीडां करोति यः
तद्बीजं जन्म फलति प्रभूतं तस्य चाशुभम् ६
सोहं न पापमिच्छामि न करोमि वदामि वा
चिन्तयन्सर्वभूतस्थमात्मन्यपि च केशवम् ७
शारीरं मानसं दुःखं दैवं भूतभवं तथा
सर्वत्र शुभचित्तस्य तस्य मे जायेत कुतः ८
एवं सर्वेषु भूतेषु भक्तिरव्यभिचारिणी
कर्तव्या पण्डितैर्ज्ञात्वा सर्वभूतमयं हरिम् ९
श्रीपराशर उवाच
इति श्रुत्वा स दैत्येन्द्र ः! प्रासादशिखरे स्थितः
क्रोधान्धकारितमुखः प्राह दैतेयकिंकरान् १०
हिरण्यकशिपुरुपाच
दुरात्मा क्षिप्यतामस्मात्प्रासादाच्छतयोजनात्
गिरिपृष्ठे पतत्वस्मिन् शिलाभिन्नाङ्गसंहतिः ११
ततस्तं चिक्षुपुः सर्वे बालं दैतेयदानवाः
पपात सोप्यधः क्षिप्तो हृदयेनोद्वहह्नरिम् १२
पतमानं जगद्धात्री जगद्धातरि केशवे
भक्तियुक्तं दधारैनमुपसंगम्य मेदिनी १३
ततो विलोक्य तं स्वस्थमविशिर्णास्थिपञ्जरम्
हिरण्यकशिपुः प्राह शम्बरं मायिनां वरम् १४
हिरण्यकशिपुरुपाच
नास्माभिः शक्यते हन्तुमसौ दुर्बुद्धिबालकः
मायां वेत्ति भवांस्तस्मान्माययैनं निषूदय १५
शम्बर उवाच
सूदयाम्येव दैत्येन्द्र पश्य मायाबलं मम
सहस्रमत्र मायानां पश्य कोटिशतं तथा १६
श्रीपराशर उवाच
ततः स ससृजे मायां प्रह्लादे शम्बरोऽसुरः
विनाशमिच्छन्दुर्बुद्धिः सर्वत्र समदर्शिनि १७
समाहितमतिर्भूत्वा शम्बरेपि विमत्सरः
मैत्रेय सोपि प्रह्लादः सस्मार मधुसूदनम् १८
श्रीपराशर उवाच
ततो भगवता तस्य रक्षार्थं चक्रमुत्तमम्
आजगाम समाज्ञप्तं ज्वालामालि सुदर्शनम् १९
तेन मायाहस्त्रं तच्छम्बरस्याशुगामिना
बालस्य रक्षता देहमेकैकं चारिशोधितम् २०
संशोषकं तथा वायुं दैत्येन्द्र स्त्विदमब्रवीत्
शीघ्रमेष ममादेशाद्दुरात्मा नीयतां क्षयम् २१
तथेत्युक्त्वा तु सोप्येनं विवेश पवनो लघु
शीतोतिरूक्षः शोषाय तद्देहस्यातिदुः सहः २२
तेनाविष्टमथात्मानं स बुद्ध्वा दैत्यबालकः
हृदयेन महात्मानं दधार धरणीधरम् २३
हृदयस्थस्ततस्तस्य तं वायुमतिभीषणम्
पपौ जनार्दनः क्रुद्धः स ययौ पवनः क्षयम् २४
क्षीणासुत सर्वमायासु पवने च क्षयं गते
जगाम सोपि भवनं गुरोरेव महामतिः २५
अहन्यहन्यथापाचार्यो नीतिं राज्यफलप्रदाम्
ग्राहयामास तं बालं राज्ञामुसनसा कृताम् २६
गृहीतनीतिशास्त्रं तं विनीतं च यदा गुरुः
मेने तदैनं तत्पित्रे कथयामास शिक्षितम् २७
आचार्य उवाच
गृहीतनीतिशास्त्रस्ते पुत्रो दैत्यपते कृतः
प्रह्लादस्तत्त्वतो वेत्ति भार्गवेण यदीरितम् २८
हिरण्यकशिपुरुवाच
मित्रेषु वर्तेत कथमरिवर्गेषु भूपतिः
प्रह्लाद त्रिषु लोकेषु मध्यस्थेषु कथं चरेत् २९
कथं मंत्रिष्वमात्येषु बाह्येष्वाभ्यंतरेषु च
चारेषु पौरवर्गेषु शङ्कितेष्वितरेषु च ३०
कृत्याकृत्यविधानञ्च दुर्गाटविकसाधनम्
प्रह्लाद कथ्यतां सम्यक् तथा कण्टकशोधनम् ३१
एतच्चान्यच्च सकलमधीतं भवता यथा
तथा मे कथ्यतां ज्ञातुं तवेच्छामि मनोगतम् ३२
श्रीपराशर उवाच
प्रणिपत्य पितुः पादौ तदा प्रश्रयभूषणः
प्रह्लादः प्राह दैत्येन्द्रं कृतांजलिपुटस्तथा ३३
प्रह्लाद उवाच
ममो पदिष्टं सकलं गुरुणा नात्र संशयः
गृहीतन्तु मया किन्तु न सदेतन्मतम्मम ३४
साम चोपप्रदानं च भेददण्डौ तथापरौ
उपायाः कथिताः सर्वे मित्रादिनां च साधने ३५
तानेवाहं न पश्यामि मित्रादींस्तात मा क्रुधः
साध्याभावे महाबाहो साधनैः किं प्रयोजनम् ३६
सर्वभूतात्मके तात जगन्नाथे जगन्मये
परमात्मनि गोविन्दे मित्रामित्रकथा कुतः ३७
त्वय्यस्ति भगवातन् विष्णुर्मयि चान्यत्र चास्ति सः
यतस्ततोयं मित्रं मे शत्रुश्चेति पृथक्कुतः ३८
तदेभिरलमत्यर्थं दुष्टारम्भोक्तिविस्तरैः
अविद्यान्तर्गतैर्यत्नः कर्त्तव्यस्तात शोभने ३९
विद्याबुद्धिरविद्यायामज्ञानान्तात जायते
बालोग्निं किं न खद्योतमसुरेश्व मन्यते ४०
तत्कर्म यन्न बन्धाय सा विद्या या विमुक्तये
आयासायापरं कर्म विद्यान्या शिल्पनैपुणम् ४१
तदेतदवगम्याहमसारं सारमुत्तमम्
निशामय महाभाग प्रणिपत्य ब्रवीमि ते ४२
न चिन्तयति को राज्यं को धनं नाभिवाञ्छति
तथापि भाव्यमेवैतदुभयं प्राप्यते नरैः ४३
सर्व एव महाभाग महत्त्वं प्रति सोद्यमाः
तथापि पुंसां भाग्यानि नोद्यमा भूतिहेतवः ४४
जडानामविवेकानामशूराणमपि प्रभो
भाग्यभोज्यानि राज्यानि सन्त्यनीतिमतामपि ४५
तस्माद्यतेत पुण्येषु य इच्छेन्महतीं श्रियम्
यतितव्यं समत्वे च निर्वाणमपि चेच्छता ४६
देवा मनुष्याः पशवः पक्षिवृक्षसरीसृपाः
रूपमेतदनन्तस्य विष्णोर्भिन्नमिव स्थितम् ४७
एतद्विजानता सर्वं जगत्स्थावरजङ्गमम्
द्र ष्टव्यमात्मवद्विष्णुर्यतोयं विश्वरूपधृक् ४८
एवं ज्ञाते स भगवाननादिः परमेश्वरः
प्रसीदत्यच्युतस्तस्मिन्प्रसन्ने क्लेशसंक्षयः ४९
श्रीपराशर उवाच
एतच्छ्रुत्वा तु कोपेन समुत्थाय वरासनात्
हिरण्यकशिपुः पुत्रं पदा वक्षस्यताडयत् 1.19.५०
उवाच च स कोपेन सामर्षः प्रज्वलन्निव
निष्पिष्य पाणिना पाणिं हन्तुकामो जगद्यथा ५१
हिरण्यकशिपुरुवाच
हे विप्रचित्ते हे राहो हे बलैष महार्णवे
नागपाशैर्दृढैर्बद्धा क्षिप्यतां मा विलंब्यताम् ५२
अन्यथा सकला लोकास्तथा दैतेयदानवाः
अनुयास्यन्ति मूढस्य मतमस्य दुरात्मनः ५३
बहुशो वारि तोस्माभिरयं पापस्तथाप्यरेः
स्तुतिं करोति दुष्टानां वध एवोपकारकः ५४
पराशर उवाच
ततस्ते सत्वरा दैत्या बद्धा तं नागबन्धनैः
भर्तुराज्ञां पुरस्कृत्य चिक्षिपुः सलिलार्णवे ५५
ततश्चचाल चलता प्रह्लादेन महार्णवः
उद्वेलोभूत्परं क्षोभमुपेत्य च समन्ततः ५६
भूर्लोकमखिलं दृष्ट्वा प्लाव्यमानं महाम्भसा
हिरण्यकशिपुर्दैत्यानिदमाह महामते ५७
हिरण्यकशिपुरुवाच
दैतेयाः सकलैः शैलैरत्रैव वरुणालये
निश्छिद्रै ः! सर्वशः सर्वैश्चीयतामेष दुर्मतिः ५८
नाग्निर्दहति नैवायं शस्त्रैश्छिन्नो न चोरगैः
क्षयं नीतो न वातेन न विषेण न कृत्यया ५९
न मायाभिर्न चैवोच्चात्पातितो न च दिग्गजैः
बालोतिदुष्टचित्तोयं नानेनार्थोस्ति जीवता ६०
तदेष तोयमध्ये तु समाक्रान्तो महीधरैः
तिष्ठत्वब्दसहस्रान्तं प्राणान्हास्यति दुर्मतिः ६१
ततो दैत्यादानवाश्च पर्वतैस्तं महोदधौः
आक्रम्य चयनं चक्रुर्योजनानि सहस्रशः ६२
स चितः पर्वतैरन्तः समुद्र स्य महामतिः
तुष्टावाह्निकवेलायामेकाग्रमतिरच्युतम् ६३
प्रह्लाद उवाच
नमस्ते पुण्डरीकाक्ष नमस्ते पुरुषोत्तम
नमस्ते सर्वलोकात्मन्नमस्ते तिग्मचक्रिणे ६४
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च
जगद्धिताय कृष्णाय गोविन्दाय नमोनमः ६५
ब्रह्मत्वे सृजते विश्वं स्थितौ पालयते पुनः
रुद्र रूपाय कल्पान्ते नमस्तुभ्यं त्रिमूर्तये ६६
देवा यक्षाः सुराः सिद्धा नागा गन्धर्वकिन्नराः
पिशाचा राक्षसाश्चैव मनुष्याः पशवस्तथा ६७
पक्षिणस्थावराश्चैव पिपीलिकसरीसृपाः
भूम्यापोग्निर्नभोवायुः शब्दः स्पर्शस्तथा रसः ६८
रूपं गन्धो मनो बुद्धिरात्मा कालस्तथा गुणाः
एतेषां परमार्थश्च सर्वमेतत्त्वमच्युत ६९
विद्याविद्ये भवान्सत्यमसत्यं त्वं विषामृते
प्रवृत्तं च निवृत्तं च कर्म वेदोदितं भवान् ७०
समस्तकर्मभोक्ता च कर्मोपकरणानि च
त्वमेव विष्णो सर्वाणि सर्वकर्मफलं च यत् ७१
मय्यन्यत्र तथान्येषु भूतेषु भुवनेषु च
तवैवाव्याप्तिरैश्वर्यगुणसंसूचिकी प्रभो ७२
त्वां योगिनश्चिंतयन्ति त्वां यजंति च याजकाः
हव्यकव्यभुगेकस्त्वं पितृदेवस्वरूपधृक् ७३
रूपं महत्ते स्थितमत्र विश्वं ततश्च सूक्ष्मं जगदेतदीश
रूपामि सर्वाणि च भूतभेदास्तेष्वन्तरात्माख्यमतीव सूक्ष्मम् ७४
तस्माच्च सूक्ष्मादिविश्षोणानामगोचरे यत्परमात्मरूपम्
किमप्यचिन्त्यं तव रूपमस्ति तस्मै नमस्ते पुरुषोत्तमाय ७५
सर्वभूतेषु सर्वात्मन्या शक्तिरपरा तव
गुणाश्रया नमस्तस्यै शाश्वतायै सुरेश्वर ७६
यातीतगोचरा वाचां मनसां चाविश्षोणा
ज्ञानिज्ञानपरिच्छेद्या तां वन्दे स्वेश्वरीं पराम् ७७
ॐ नमो वासुदेवाय तस्मै भगवते सदा
व्यतिरिक्तं न यस्यास्ति व्यतिरिक्तोखिलस्य यः ७८
नमस्तस्मै नमस्तस्मै नमस्तस्मै महात्मने
नाम रूपं न यस्यैको योस्तित्वेनोपलभ्यते ७९
यस्यावताररूपाणि समर्चन्ति दिवौकसः
अपश्यन्तः परं रूपं नमस्तस्मै महात्मने ८०
योन्तस्तिष्ठन्नशेषस्य पश्यतीशः शुभाशुभम्
तं सर्वसाक्षिणं विश्वं नमस्ये परमेश्वरम् ८१
नमोस्तु विष्णवे तस्मै यस्या भिन्नमिदं जगत्
ध्येयः स जगतामाद्यः स प्रसीदतु मेऽव्ययः ८२
यत्रोतमेतत्प्रोतं च विश्वमक्षरमव्ययम्
आधारभूतः सर्वस्य स प्रसीदतु मे हरिः ८३
ॐ नमो विष्णवे तस्मै नमस्तस्मै पुनः पुनः
यत्र सर्वं यतः सर्वं यः सर्वसंश्रयः ८४
सर्वगत्वादनन्तस्य स एवाहमवस्थितः
मत्तः सर्वमहं सर्वं मयि सर्वं सनातने ८५
अहमेवाक्षयो नित्यः परमात्मात्मसंश्रयः
ब्रह्मसंज्ञोऽहमेवाग्रे तथान्ते च परः पुमान् ८६
इति श्रीविष्णुपुराणे प्रथमेंश एकोनविंशतितमोऽध्यायः १९