श्रीविष्णुपुराणम्-प्रथमांशः/अध्यायः ९

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२

पराशर उवाच ।
इदञ्च श्वृण मैत्रेय यत् पृष्टोऽहमिह त्वया ।
श्रीसम्बद्ध मया ह्म तच्छ्र तमासीनूमरीचितः ।। १ ।।

दुर्व्वासाः शङ्करस्यांशश्चचार पृथिवीमिमाम् ।
स ददर्श स्त्रजं दिव्यामषिर्विद्याधरीकरे ।। २ ।।

सन्तानाकानामखिलं यस्या गन्धेन वासितम् ।
अतिसेव्यमभूद् ब्रह्मनू तदूवनं वनचारिणाम् ।। ३ ।।

उन्मत्तव्रतधृगू विप्रस्तां दृष्ट्वा शोभनां स्त्रजम्
तां ययाचे वरारोहां विद्याधरवधूं ततः ।। ४ ।।

याचिता तेन तन्वङ्गी मालां विद्याधराङ्गना ।
ददौ तस्मै विशालाक्षी सादरं प्रणिपत्य च ।। ५ ।।

तामादायात्मनो मूर्ध्रि स्त्रजमुन्मत्तरूपधृक् ।
कृत्वा स विप्रो मैत्रय परिबभ्राम मेदिनीम् ।। ६ ।।

स ददर्श समायान्तमुन्मत्तैरावतस्थितम् ।
त्रैलोक्याधिपतिं देवं सह देवैः शचीपतिम् ।। ७ ।।

तामात्मनः स शिरसः स्त्रजमुन्मत्तषटूपदाम् ।
आदायामरराजाय चिक्षेपोन्मत्तवन्मुनिः ।। ८ ।।

गृहीत्वामराराजेन स्त्रगैरावतमूर्द्धनि ।
न्यस्ता रराज कैलासशिखरे जाह्नवी यथा ।। ९ ।।

मदान्धकारिताक्षोऽसौ गन्धाकृष्टेन वारणाः ।
करेणाघ्राय चिक्षेप तां स्रजं धरणीतले ।। १० ।।

ततश्चुक्रोध भगवातन् दुर्वासा मुनिसत्तमः ।
मैत्रेय देवराजं तं क्रु द्धश्चैतदुवाच ह ।। ११ ।।

दुर्वासा उवाच ।
ऐश्वर्यमत्त दुष्टात्मन्नतिस्तब्धोऽसि वासव ।

श्वियो धाम स्रजं यस्त्वं मद्दत्तां नाभिनन्दसि ।। १२ ।।
प्रसाद इति नोक्तं ते प्रणिपातपुरः सरम् ।

हर्षोतूफुल्लकापोलेन न चापि शिरसा धृता ।। १३ ।।

मया दत्तामिमां मालां यस्मान्न बहु मन्यसे ।
त्रैलोक्यश्रीरतो मूढ़ विनाशमुपयास्यति ।। १४ ।।

मां मन्यतेऽन्यैः सदृशं न्यूनं शक्र भवान् द्रिजैः ।
अतोऽवमानमस्माकं मानिना भवता कृतम् ।। १५ ।।

मद्दत्ता भवता यस्मात् क्षिप्ता माला महीतले ।
तस्मात् प्रनष्टलक्ष्मीकं त्रैलोक्यं ते भवतिष्यति ।। १६ ।।

यस्य सञ्जातकोपस्य भयमेति चराचरम् ।
तं त्वं मामतिगर्वेणा देवराजावमन्यसे ।। १७ ।।

महेन्द्रो वारणस्कन्धादवतीर्य्य त्वरान्वितः ।
प्रसादयामास तदा दुर्वाससमकल्मषम् ।। १८ ।।

प्रसाद्यामानः स तदा प्रणिपातपुरः सरम् ।
प्रत्युवाच सहस्राक्षं दुर्व्वासा मुनिसत्तमः ।। १९ ।।

नाहं कृपालुह्टदयो न च मां भजते क्षमा ।
अन्ये ते मुनयः शक्र दुर्व्वाससमवेहि माम् ।। २० ।।

गौतमादिबिरन्यस्त्वं गर्व्वमापादितो मुधा ।
अक्षान्तिसारसर्वस्वं दुर्वाससमवेहि माम् ।। २१ ।।

वसिष्ठाद्यदैयासारैः स्तोत्रं कुर्व्वद्भिरुज्वकैः ।
गर्व्व गतोऽसि येनैवं मामप्यद्यावमन्यसे ।। २२ ।।

ज्वलज्जटाकलापस्य भृकुटीकुटिलं मुखम ।
निरीक्ष्य कस्त्रिभुवने मम यो न गतो भयम् ।। २३ ।।

नाहं क्षमिष्ये बहुना किमुक्तन शतक्रतो ।
विड़म्बनामिमां भूयः करोष्यनुनयात्मिकाम् ।। २४ ।।

इत्युत्तवा प्रययौ विप्रो देवराजोऽपि तं पुनः ।
आरुह्म रावतं ब्रह्मन् प्रययावमरावतीम् ।। २५ ।।

ततः प्रभृति निःश्रीकं सशक्र भुवनत्रयम् ।
मैत्रैयासीदपध्वस्तं संक्षीणौषधिवीरुधम् ।। २६ ।।

न यज्ञाः संप्रवर्त्तन्ते न तपस्यन्ति तापसाः ।
न च दानादिधर्मषु मनश्चक्रे तदा जनः ।। २७ ।।

निसत्त्वा सकला लोका लोभाद्यु पहतेन्दिरियाः ।
स्वल्पेऽपि हि बभूवुस्ते साभिलाषा द्रिजोत्तम ।। २८ ।।

यतः सत्त्वं ततो लक्ष्मीः सत्त्वं भूत्यनुसारि च ।
निःश्रीकाणां कुतः सत्वं विना तेन गुणाः कुतः ।। २९ ।।

बलशौर्य्याद्यभावश्च पुरुषाणां गुणौर्व्विना ।
लङ्वनीयः समस्तस्य बलशौर्य्य विवर्जितः ।। ३० ।।

भवत्यपध्वस्तमतिर्लङूघितः प्रथितः पुमान्
एवमत्यन्तनिःश्रीके त्रैलोक्ये सत्त्ववर्ज्जिते ।। ३१ ।।

देवान् प्रति बलोद्योगं चक्रु र्दैतेयदानवाः ।
लोभाभिभूता निश्रीका दैत्याः सत्त्वविवर्जिताः ।। ३२ ।।

श्रिया विहीनैर्निः सत्त्वैर्देवैश्चक्रु स्ततो रणम् ।
विजितास्त्रिदशा दैत्य रिन्द्राद्याः शरणां ययुः ।। ३३ ।।

पितामहं महाभागं हुताशनपुरोगमाः ।
यथावत् कथिते देवैर्ब्र ह्मा प्राह ततः सुरान् ।। ३४ ।।

परापरेशं शरणां ब्रजध्वमसुरार्द्दनम् ।
उत्पत्तिस्थितिनाशानामहेतुं हेतुमीश्वरम् ।। ३५ ।।

प्रजापतिपतिं विष्णुमनन्तमपराजितम् ।
प्रधानपुंसोरजयोः कारणं कार्य्य भूतयोः ।। ३६ ।।

प्रणतार्त्तिहरं विष्णुं स वः श्र यो विधास्यति ।
एवभुतवा सुरान् सर्व्वान् ब्रह्मा लोकपितामहः ।
क्षीरोदस्योत्तरे तीरं तैरेव सहितो ययौ ।। ३७ ।।

स गत्वा त्रिदशः सर्व्वैः समवेतः पितामहः ।
तुष्टाव वागुभिरिष्टाभिः परापरपतिं हरिम् ।। ३८ ।।

नमाम सर्व्व सर्व्वशमनन्तमजमव्ययम् ।
लोकधामधराधारमप्रकाशमभदिनम् ।। ३९ ।।

नारायणमणीयांसमशेषाणानणीयसाम् ।
समस्तानां गरिष्ठं यदू भूरादीनां गरीयसाम् ।। ४० ।।

यत्र सर्व्व यतः सर्व्वमुत्पन्नं सतुपुरःसरम् ।
सर्व्वभूतश्च यो देवः पराणामपि यः परः ।। ४१ ।।

परः परस्मात् पुरुषात् परमात्मस्वरूपधृक् ।
योगिभिश्चिन्त्यते योऽसौ मुक्तिहेतुर्म्मुक्षुभिः ।। ४२ ।।

सत्तादयो न सन्तीशे यत्र च प्राकृता गुणाः ।
स शुद्धः सर्व्वशुद्ध भ्यः पुमानाद्यः प्रसीदतु ।। ४३ ।।

कला - काष्ठा-निमेषादिकालसूत्रस्य गोचरे ।
यस्य शक्तिर्न शुद्धस्य प्रसीदतु स नो हरिः ।। ४४ ।।

प्रोच्यते परमेशो हि यः शुद्धोऽप्युपचारतः ।
प्रसीदतु स नो विष्णुरात्मा यः सर्व्वदेहिनाम् ।। ४५ ।।

यः कारणञ्च कार्य्य ञ्च कारणस्यापि कारणम् ।
कार्य्यापि च यः कार्य्य प्रसीदतु स नो हरिः ।। ४६ ।।

कार्य्यकार्य्यश्य यः कार्य्य तत्कार्यस्यापि यः स्वयम् ।
तत्कार्य्यकार्य्यभूतो यस्ततश्च प्रणताः स्म तम् ।। ४७ ।।

कारणां कारणस्यापि तस्य कांरणकारणम् ।
तत्कारणानां हेतुं त्वां प्रणताः स्म सुरेश्वरम् ।। ४८ ।।

भोक्तारं भोज्यभूतञ्ज स्त्रष्टारं सृस्टमेव च ।
कार्य्य कर्म्मस्वरूपं तं प्रणताः स्म परं पदम् ।। ४९ ।।

विशुद्ध बोधनं नित्यमजमक्षयमव्ययम् ।
अव्यक्तमविकारं यत् तद्रिष्णोः परमं पदम् ।। ५० ।।

न स्थूलं न च सूक्ष्मं यन्न विशेषणगोचरम् ।
तत्पदं परमं विष्णोः प्रणमामः सदामलम् ।। ५१ ।।

यस्यायुतायुतांशांशे विश्वशक्तिरियं स्थिता ।
परं ब्रह्मस्वरूपं यत् प्रणमामस्तमव्ययम् ।। ५२ ।।

यन्न देवा न मुनयो न चाहं न च शंकरः ।
जानन्ति परमेशस्य तद्रिष्णोः परम पदम् ।। ५३ ।।

यदू योगिनः सदोदूयुक्ताः पुण्यपापक्षयेऽक्षयम् ।
पश्यन्ति प्रणावे चिन्त्यं तद्रिष्णोः परमं पदम् ।। ५४ ।।

शक्तयो यस्य देवस्य ब्रह्मविष्णुशिवादिकाः ।
भवन्त्यभूतपूर्वस्य तद्रिष्णोः परमं पदम् ।। ५५ ।।

सव्वेश सर्व्वभूतात्मन् सर्व्व सर्वाश्रयाच्युत ।
प्रसीद विष्णो भक्तानां भक्तानां व्ररकज नो दृष्टिगोचरम् ।। ५६ ।।

इत्युदीरितमाकर्ण्य ब्रह्मणस्त्रिदशास्ततः ।
प्रणम्योचुः प्रसीदेति व्रज नो दृष्टिगोचरम् ।। ५७ ।।

यन्नाय भगवान् ब्रह्मा जानाति परमं पदम् ।
तन्नताः स्म जगद्धा तव सर्व्व गताच्युत ।। ५८ ।।

इत्यन्ते वचसस्तेषां देवानां ब्रह्मणस्तथा ।
ऊचुर्देवर्षयः सर्व्वै बृहस्पतिपुरोगमाः ।। ५९ ।।

आद्यो यज्ञपुमानिडयो यः सर्व्वेषाञ्च पूर्व्वजः ।
तं नताः स्म जगत्स्त्रष्टुः स्त्रष्टारमविशेषणम् ।। ६० ।।

भगवन् भूतभव्येश जगन्मूर्त्तिधराव्यय ।
प्रसीद प्रणतानां त्वं सर्व्वेषां देहि दर्शनम् ।। ६१ ।।

एष ब्रह्मा तथैवायं सह रुदैस्त्रिलोचनः ।
सर्वादित्यः समं पूषा पावकोऽय सहाग्निभिः ।। ६२ ।।

अश्विनौ वसवश्चेमे सव चैते मरुदूगणाः ।
साध्या विश्वे तथा देवा देवेन्द्रश्चायमीश्वरः ।। ६३ ।।

प्रणामप्रवणा नाथ दैत्यसैन्यपराजिताः ।
शरणां त्वामनुप्राप्ताः समस्ता देवतागणाः ।। ६४ ।।

एव संस्तूयमानस्तु भगवाञ्छरङ्वचक्रधूक् ।
जगाम दर्शनं तेषां मैत्रेय परमेश्वरः ।। ६५ ।।

तं दृष्ट्वा ते तदा देवाः शर्ङ्वचक्रगदाधरम् ।
अपूर्व्वरूपसंस्थानं तेजसां राशिमूर्ज्जितम् ।। ६६ ।।

प्रणम्य प्रणताः पूर्व्वं संक्षोभस्तिमितेक्षणाः ।
तुष्टुवुः पुण्डरीकाक्षं पितामहपुरोगमाः ।। ६७ ।।

नमो नमोऽविशेषस्त्वं त्वं ब्रह्मा त्वं पिनाकधृक् ।
इन्द्रस्त्वमग्रिः पवनो वरुणः सविता यमः ।। ६८ ।।

वसवो मरुतः साध्या विश्वे देवगणा भवान् ।
योऽयं तवागतो देव समीपं देवतागणः ।। ६९ ।।

स त्वमेव जगत्स्त्रष्टा यतः सर्व्वगतो भवान् ।
त्वं यज्ञस्त्वं वषटूकारस्त्वमोङ्करः प्रजापतिः ।। ७० ।।

वेद्यावेद्यञ्च सर्व्वात्मंस्त्वन्मयञ्चाखिलं जगत् ।
त्वामत्र शरणां विष्णो प्रयाता दैत्यनिर्ज्जिताः ।। ७१ ।।

वयं प्रसीद सर्वात्मंस्तेजस्याप्याययस्व नः ।
तावदर्त्तिस्तथा वाञ्छा तावन्मोहस्तथासुखम् ।। ७२ ।।

यावन्नायाति शरणं त्वामशेषाघनाशनम् ।
त्वं प्रसादं प्रसन्नात्मन् प्रपन्नानां कुरुष्व नः ।। ७३ ।।

तेजसां नाथ सर्वेषां स्वशत्त्याप्यायनं कुरु ।। ७४ ।।

एवं संस्तूयमानस्तु प्रणतैरमरैर्हरिः ।
प्रसन्नदृष्टिर्भगवानिदमाह स विश्वकृत् ।। ७५ ।।

तेजसो भवतां देवाः करिष्याम्युपबृ हणम् ।
वदाम्यहं यत् क्रियतां भवद्भिस्तदिद सुराः ।। ७६ ।।

आनीय सहिता दत्यैः क्षीराब्धौ सकलौषधीः ।
मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकिम् ।। ७७ ।।

मथ्यतामभृतं देवाः सहाये मय्यवस्थिते ।
सामपूर्व्वञ्च दैतेयास्तत्र साहाय्यकर्मणि ।। ७८ ।।

सामान्यफलभोक्तारो यूयं वाच्या भविष्यथ
मथ्यमाने च तत्राब्धौ यतू समुत्पद्यतेऽमृतम् ।। ७९ ।।

तत्पानाद् बलिनो यूयममराश्व भविष्यथ ।
तथा चाहं करिष्यामि यथा त्रिदशाविद्रिषः ।
न प्राप्स्यन्त्यमृतं देवाः केवलं क्लेशभागिनः ।। ८० ।।

इत्युत्तवा देवदेवेन सर्व्व एव ततः सुराः ।
सन्धानमसुरैः कृत्वा यत्नवन्तोऽमृतेऽभवन् ।। ८१ ।।

नानौषधीः समानीय देव-दैतेयदानवाः ।
क्षिप्त्वा क्षिराब्धीपयसि शरदभ्रामलत्विषि ।। ८२ ।।

मन्थानं मन्दरं नेत्रं कृत्वा च वासुकिम् ।
ततो मथितुमारब्धा मैत्रैय तरसामृतम् ।। ८३ ।।

विबुधाः सहिताः सर्व्वे यतः पुच्छं ततःकृताः ।
कृष्णेन वासुकेर्दैत्याः पूर्व्वकाये निवेशिताः ।। ८४ ।।

ते तस्य फणनिः श्वास- वह्निनापहतत्विषः ।
निस्तेजसोऽसुराः सर्वे बभुवुरमितद्यु ते ।। ८५ ।।

तेनैव मुखनिःशास-वायुनास्तबलाहकैः
पुच्छप्रदेशे वर्षद्भिस्तथा चाप्यायिताः सुराः ।। ८६ ।।

क्षीरोदमध्ये भगवान् कूर्म्मरूपो स्वयं हरिः ।
मन्थनाद्रे रधिष्ठानं भ्रमतोऽभून्महामुने ।। ८७ ।।

रूपेणान्येन देवानां मध्ये चक्रगदाधरः ।
चकर्ष भोगिराजानं दैत्यमध्येऽपरेण च ।। ८८ ।।

उपर्य्यक्रान्तवान् शैलं बृहदूरूपेण केशवः ।
तथापरेण मैत्रय यन्न दृष्टं सुरासुरैः ।। ८९ ।।

तेजसा नागराजानं तथाप्यायितवान् हरिः ।
अन्येन तेजसा देवान् उपबृं हितवान् विभुः ।। ९० ।।

मथ्यमाने ततस्तस्मिन् क्षीराब्धौ देव-दानवैः ।
हविर्धामाभवत् पूर्व्व सुरभिः सुरपूजिता ।। ९१ ।।

जग्मुर्म्मुदं ततो देवा दानवाश्च महामुने ।
व्याक्षिप्तचेतसश्चैव बभूवुस्तिमितेक्षणाः ।। ९२ ।।

किमेतदिति सद्धानां दिवि चिन्तयतां ततः ।
बभूव वारुणो देवी मदाधूर्णितलोचना ।।९३ ।।

कृतावर्त्तातू ततस्तस्मात् क्षीरोदादू वासयन् जगत् ।
गन्धेन पारिजातोऽभूदू देवस्त्रीनन्दस्तरुः ।। ९४ ।।

रूपौदार्य्यगुणोपेतस्ततश्चाप्सरसां गणः ।
क्षीरोदधेः समुत्पन्नो मैत्रय परमाद्भुतः ।। ९५ ।।

ततः शीतांशुरभवजूजगृहे त्वं महेश्वरः ।
जगृहुश्च विषं नागाः क्षीरोदाज्व समुत्थितम् ।। ९६ ।।

ततो धन्वन्तरिर्देवः श्वे ताम्बधरः खयम् ।
विभ्रतूकमण्डलुं पुर्णाममृतस्य समुत्थितः ।। ९७ ।।

ततः स्वस्थमनस्कास्ते सर्व्वे दैतेय-दानवाः ।
बभूवुर्म्मुदिताः सर्व्वे मैत्रेय मुतिभिः सह ।। ९८ ।।

ततः स्फुरत्कान्तिमती विकासिकमले स्थिता ।
श्रीर्देवी पयसस्तस्मादुत्थिता भृतपंकजा ।। ९९ ।।

तां तुष्टु वुर्म्मुदा युक्ताः श्रीसूक्तेने महर्षयः ।
विशावसुमुखास्तस्या गन्धर्वाः पुरतो जगुः ।। १०० ।।

घृताचीप्रमुखा ब्रह्मन् ननृतुश्चाप्सरोगणाः ।
गङ्गाद्याः सरितस्तोयैः स्नानार्थमुपतस्थिरे ।। १०१ ।।

दीगूगजा हेमपात्रस्थम् आदाय विमलं जलम् ।
स्नापयाञ्चक्रिरे देवीं सर्व्वलोकामम्लहेश्वरीम् ।। १०२ ।।

क्षीरोदो रुपधृक् तस्यै मालामम्लानपङ्कजाम् ।
ददौ विभूषणान्यङ्ग विश्वकर्मा चकार च ।। १०३ ।।

दिव्यमाल्याम्बरधरा स्नाता भूषणभूषिता ।
पश्यतां सर्व्वदेवानां ययौ वक्षःस्थलं हरेः ।। १०४ ।।

तयावलोकिता देवा हरिवक्षःस्थलस्थया ।
लक्ष्म्या मैत्रय सहसा परां निर्वृतिमागताः ।। १०५ ।।

उद्रगं परमं जग्मुर्दैत्या विष्णुपराङूमुखाः ।
त्यक्ता लक्षम्या महाभाग विप्रचित्तिपुरोगमाः ।। १०६ ।।

ततस्ते जगृहुर्द्दैत्या धन्वन्तरिकरे स्थितम् ।
कमण्डलुं महावीर्य्या यत्रास्ते तदू द्रिजामृतम् ।। १०७ ।।

मायया लोभयित्वा तान् विष्णुः स्त्रीरूपमास्थितः ।
दानवेभ्यस्तदादाय देवेभ्यः प्रददौ विभुः ।। १०८ ।।

ततः पपुः सुरगणाः शक्राद्यास्तत् तदामृतम् ।
उद्यतायुधनिस्त्रिंशा दैत्यास्तांश्व समभ्ययुः ।। १०९ ।।

पीतेऽमृते च बलिभिर्देवैर्दैत्यचमुस्तदा ।
वध्यमाना दिशो भेजे पातालं तु विवेश वै ।। ११० ।।

तदा देवा मुदा युक्ताः शङ्र्वचक्रगदाभृतम् ।
प्रणिपत्य यथापूर्वम् आशासत त्रिविष्टपम् ।। १११ ।।

ततः प्रसन्नभाः सूर्य्यः प्रययौ स्वेन वर्त्मना ।
ज्योतींषि च यथामार्ग प्रययुर्मु निसत्तम ।। ११२ ।।

जज्वाल भगवांश्वोज्व श्वौरुदीप्तिर्व्विभावसुः ।
धर्म्मे च सर्व्वभूतानां तदा मतिरजायत ।। ११३ ।।

त्रैलोक्यञ्च श्रिया जुष्टं बभूव मुनिसत्तम ।
शक्रश्व त्रिदशश्रेष्ठः पुनः श्रीमानजायत ।। ११४ ।।

सिंहासनगतः शक्रः सम्प्राप्य त्रिदिवं पुनः ।
देवराज्ये स्थितो देवीं तुष्टावाब्जकरां ततः ।। ११५ ।।

नमस्ये सर्व्वभूतांनां जननीमब्जसम्भवाम् ।
श्रियमुन्नद्रपह्माक्षी विष्णोर्वक्षः स्थलस्थिताम् ।। ११६ ।।

त्वं सिद्धिस्त्वं सुधा स्वाहा स्वधा त्वं लोकपावनि ।
सन्धाय रात्रिः प्रभा भूतिर्मेधा श्रद्धा सरस्वती ।। ११७ ।।

यज्ञविद्या महाविद्या गुह्मविद्या च शोभने ।
आत्मविद्या च देवि त्वं विमुक्तिफलदायिनी ।। ११८ ।।

आन्वीक्षिकी त्रयी वार्त्ता दण्डनीतिस्त्वमेव च ।
सौम्यासौम्यैर्ज्जगद्रू पैस्त्वयैतद्द वि पूरितम् ।। ११९ ।।

का त्वन्या त्वामृते देवि सर्व्वयज्ञमयं वपुः ।
अध्यास्ते देवदेवस्य योगिचिन्त्यं गदाभृतः ।। १२० ।।

त्वया देवि परित्यक्तं सकलं भुवनत्रयम् ।
विनष्टप्रायमभवत् त्वयेदानीं समेधितम् ।। १२१ ।।

दाराः पुत्रास्तथागारं सुह्टदू धान्यधनादिकम् ।
भवत्येतन्महाभागे नित्यं त्वदूवीक्षणान्नृणाम् ।। १२२ ।।

शरीरारोग्यमैश्वर्य्यमरिपक्षक्षयः सुखम् ।
देवि त्वदूदृष्टिदृष्टानां पुरुषाणां दुर्ल्ल भम् ।। १२३ ।।

त्वं माता सर्व्वभूतानां देवदवो हरिः पिता ।
त्वयैतद विष्णुना चाद्य जगदूव्याप्तं चराचरम् ।। १२४ ।।

मा नः कोशं तथा गोष्ठं मा गृहं मा परिच्दम् ।
मा शरीरं कलत्रञ्च त्यजेथाः सर्व्वपावनि ।। १२५ ।।

मा पुत्त्रान् मा सुह्टदूवर्ग मा पशून् मा विभूषणम् ।
त्यजेथा मम देवस्य विष्णोर्व्वक्षःस्थलालये ।। १२६ ।।

सत्त्वैन सत्यशौचाभ्यां तथा शीलादिभिर्गुणैः ।
त्यज्यन्ते ते नराः सद्यः सन्त्यक्ता ये त्वयामले ।। १२७ ।।

त्वयावलोकिताः मुह्मन्ते पुरुषा निर्गुणा अपि ।। १२८ ।।
स श्लाध्यः स गुणी धन्यः स कुलीनः स बुद्धिमान् ।

स शूरः स च विक्रान्तो यस्त्वया देवि वीक्षितः ।। १२९ ।।

सद्यो वैगुण्यमायान्ति शीलाद्याः सकला गुणाः ।
पराङूमुखी जगद्धात्रि यस्य त्वं विष्णुवल्लभे ।। १३० ।।

न ते वर्णायितुं शक्ता गुणान् जिह्वापि वेधसः ।
प्रसीद देवि पह्माक्षि मास्मांस्त्याक्षीः कदाचन ।। १३१ ।।

एवं श्रीः संस्तुता सम्यक् प्राह देवी शतक्रतुम् ।
श्वृण्वतां सर्वदेवानां सर्व्वभूतस्थिता द्रिज ।। १३२ ।।

परितुष्टास्मि देवेश स्त्रोत्रेणानेन ते हरे ।
वरं वृणीष्व यस्त्विष्टो वरदाहं तवागता ।। १३३ ।।

वरदा यदि मे देवि वरार्हो यदि वाप्यहम् ।
त्रैलोक्यं न त्वया त्याज्यमेष मेऽस्तु वरः परः ।। १३४ ।।

स्त्रोत्रणे यस्तथेतेन त्वां स्तोष्यत्यब्धिसम्भवे ।
स त्वया न परित्याज्यो द्रितीयोऽस्तु वरो मम ।। १३५ ।।

त्रैलोक्यं त्रिदशश्रष्ठे न सत्यक्ष्यामि वासव ।
दत्तो वरो मया यस्ते स्तोत्राराधनतुष्टया ।। १३६ ।।

यश्च सायं तथा प्रातः स्तोत्रेणानोन मानवः ।
मां स्तोष्यति न तस्याहं भविष्यामि पराङूमुखी ।। १३७ ।।

एवं वरं ददौ देवी देवराजाय वै पुरा ।
मेत्रेय श्रीर्महाभागा स्तोत्राराधनतोषिता ।। १३८ ।।

भृगोः ख्यात्यां समुतूपन्ना श्रीः पूर्व्वमुदधेः पुनः ।
देव-दानवयत्नेन प्रसूतामृतमन्थने ।। १३९ ।।

एवं यथा जगत्स्वामी देवदेवो जनार्द्दनः ।
अवतारं करोत्येष करोत्येष तथा श्रीस्तत्सहायिनी ।। १४० ।।

पुनश्व पह्मादुदूभूता आदित्योऽभूद् यदा हरिः ।
यदा तु भार्गवो रामस्तदाभूद् धरणी त्वियम् ।। १४१ ।।

राघवत्वेऽभवत् सीता रुक्मिणो कृष्णजन्मनि ।
अन्येषु चावतारेषु विष्णोरेषा सहायिनी ।। १४२ ।।

देवत्वे देवदेहेय मनुष्यत्वे च मानुषी ।
विष्णोर्देहानुरूपां वै करोत्येषात्मनस्तनुम् ।। १४३ ।।

यश्चैतच्छणुयाज्जन्म लक्ष्म्या यश्व पठेन्नरः ।
श्वियो न विच्युतिस्तस्य गृहे यावत् कुलत्रयम् ।। १४४ ।।

पठ्यते येषु चैवैष गृहेषु श्रीस्तवो मुने ।
अलक्ष्मीः कलहाधारा न तेष्वास्ते कदाचन ।। १४५ ।।

एतत् ते कथितं ब्रह्मने यन्मां त्वं परिपृच्छसि ।
क्षीराब्धौ श्रीर्यथा जाता पूर्व्व भृगुसुता सती ।। १४६ ।।

इति सकलविभूत्यवाप्तिहेतुः
स्तुतिरियमिन्द्रमुखोदूगता हि लक्ष्म्याः ।
अनुदनमिह पठ्यते नृबिर्यै र्वसति नेषु कदाचिदप्यलक्ष्मीः ।। १४७ ।।