विष्णुपुराणम्/प्रथमांशः/अध्यायः ८
श्रीपारशर उवाच
कथितस्तामसः सर्गो ब्रह्मणस्ते महामुने ।
रुद्रसर्गं प्रवक्ष्यामि तन्मे निगदतः शृणु ॥ १,८.१ ॥
कल्पादावात्मनस्तुल्यं सुतं प्रध्यायतस्ततः ।
प्रादुरासीत्प्रभोरङ्के कुमारो नीललोहितः ॥ १,८.२ ॥
रुरोद सुस्वरं सोथ प्राद्रवद्दि जसत्तम ।
किं त्वं रोदिषि तं ब्रह्म रुदन्तं प्रत्युवाच ह ॥ १,८.३ ॥
नाम देहीति तं सोऽथ प्रत्युवाच प्रजापतिः ।
रुद्रस्त्वं देवनाम्नासि मारो दीर्धैर्यमावह ।
एवमुक्तः पुनः सोऽथ सप्तकृत्वो रुरोद वै ॥ १,८.४ ॥
ततोन्यानि ददौ तस्मै सप्त नामानि वै प्रभुः ।
स्थानानि चैषामष्टानां पत्नीः पुत्रांश्च स प्रभुः ॥ १,८.५ ॥
भवं शर्वमथेशानं तथा पशुपतिं द्विज ।
भीममुग्रं महादेवमुवाच स पितामहः ॥ १,८.६ ॥
चक्रे नामान्यथैतानि स्थानान्येषां चकार सः ।
सूर्यो जलं मही वायुर्वह्निराकाशमेव च ।
दीक्षितो ब्रह्मणः सोम इत्येतास्तनवः क्रमात् ॥ १,८.७ ॥
सुवर्चला तथैवोषा विकेशी चापरा शिवा ।
स्वाहा दिशस्तथा दीक्षा रोहिणी च यथाक्रमम् ॥ १,८.८ ॥
सूर्यादीनां द्विजश्रेष्ठ रुद्राद्यैर्नामभिः सह ।
पत्न्यः स्मृता महाभाग तदपत्यानि मे शृणु ॥ १,८.९ ॥
एषां सूतिप्रसूतिभ्यामिदमापूरितं जगत् ॥ १,८.१० ॥
शनैश्चरस्तथा शुक्रो लोहिताङ्गो मनोजवः ।
स्कन्दः सर्गोऽथ सन्तानो बुधश्चानुक्रमात्सुताः ॥ १,८.११ ॥
एवंप्रकारो रुद्रोऽसौ सतीं भार्यामनिन्दिताम् ।
उपयेमे दुहितरं रक्षस्यैव प्रजापतेः ॥ १,८.१२ ॥
दक्षकोपाच्च तत्याज स सती स्वकलेवरम् ।
हिमवद्दुहित साभून्मेनायां द्विजसत्तम ॥ १,८.१३ ॥
उपयेमे पुनश्चोमामनन्यां भगवान्हरः ॥ १,८.१४ ॥
देवौ धातृविधातारौ भृगोः ख्यातिरसूयत ।
श्रियं च देवदेवस्य पत्नी नारायणस्य या ॥ १,८.१५ ॥
श्रीमैत्रेय उवाच
क्षीराब्धौ श्रीः समुत्पन्ना श्रूयतेऽमृतमन्थने ।
भृगोः ख्यात्यां समुत्पन्नेत्येतदाह कथं भवात् ॥ १,८.१६ ॥
श्रीपराशर उवाच
नित्यैवैषा जगन्माता विष्णोः श्रीरनपायिनि ।
यथा सर्वगतो विष्णुस्तथैवेयं द्विजोत्तम ॥ १,८.१७ ॥
अर्थो विष्णुरियं वाणी नीतिरेषा नयो हरिः ।
बोधो विष्णुरियं बुद्धिर्धर्मोऽसौ सत्क्रिया त्वियम् ॥ १,८.१८ ॥
स्त्रष्टा विष्णुरियं सृष्टिः श्रीर्भूमिर्भूधरो हरिः ।
सन्तोषो भगवाल्लङ्क्ष्मीस्तुष्टिर्मैत्रेय शाश्वती ॥ १,८.१९ ॥
इच्छा श्रीर्भगवान्कामो यज्ञोऽसौ दक्षिणा त्वियम् ।
आज्याहुतिरसौ देवी पुरोडाशो जनार्दनः ॥ १,८.२० ॥
पत्नीशाला मुने लक्ष्मीः प्राग्वंशौ मधुसूदनः ।
चितिर्लक्ष्मीर्हरिर्यूप इध्मा श्रीर्भगवान्कुशः ॥ १,८.२१ ॥
सामास्वरूपी भगवानुद्गीतिः कमलालया ।
स्वाहा लक्ष्मीर्जगन्नाथो वासुदेवो हुता शनः ॥ १,८.२२ ॥
शङ्करो भगवाञ्छौरिर्गौरीलक्ष्मीर्द्विजोत्तम ।
मैत्रेय केशवः सूर्यस्तत्प्रभा कमलालया ॥ १,८.२३ ॥
विष्णुः पितृगणः पद्मा स्वधा शाश्वतपुष्टिदा ।
द्यौः श्रीः सर्वात्मको विष्णुरवकाशोतिविस्तरः ॥ १,८.२४ ॥
शशाङ्कः श्रीधरः कान्तिः श्रीस्तथैवानपायिनी ।
धृतिर्लक्ष्मीर्जगच्चेष्टा वायुः सर्वत्रगो हरिः ॥ १,८.२५ ॥
जलधिर्द्विजगोविन्दस्तद्वेला श्रीर्महामुने ।
लक्ष्मीस्वरूपमिन्द्राणी देवेन्द्रो मधुसूदनः ॥ १,८.२६ ॥
यमश्चक्रधरः साक्षाद्धूमोर्णा कमलालया ।
ऋद्धिः श्रीः श्रीधरो देवः स्वयमेव धनेश्वरः ॥ १,८.२७ ॥
गौरी लक्ष्मीमंहाबागा केशवो वरुणः स्वयम् ।
श्रीर्देवसेना विप्रेन्द्र देवसेनापतिर्हरिः ॥ १,८.२८ ॥
अवष्टंभो गदापाणिः शक्तिर्लक्ष्मीर्द्विजोत्तम ।
काष्ठा लक्ष्मीर्निमेषोऽसौ मुहूर्तोऽसौ कला त्वियम् ॥ १,८.२९ ॥
ज्योत्स्ना लक्ष्मीः प्रदीपोऽसौ सर्वः सर्वेश्वरो हरिः ।
लताभूता जगन्माता श्रीर्विष्णुर्द्रुमसंज्ञितः ॥ १,८.३० ॥
विभावरी श्रीर्दिवसो देवचक्रगदाधरः ।
वरप्रदो वरो विष्णुर्वधूः पद्मवनाल या ॥ १,८.३१ ॥
नदस्वरूपी भगवाञ्छ्रीर्नदीरूपसंस्थिता ।
ध्वजश्च पुण्डरीकाक्षः पताका कमलालया ॥ १,८.३२ ॥
तृष्णा लक्ष्मीर्जगन्नाथो लोभो नारायणः परः ।
रती रागश्च मैत्रेय लक्ष्मीर्गोविन्द एव च ॥ १,८.३३ ॥
किं चातिबहुनोक्तेन संक्षेपेणेदमुच्यते ॥ १,८.३४ ॥
देवतिर्यङ्मनुष्यादौ पुन्नामा भगवान्हरिः ।
स्त्रीनाम्नी श्रीश्च विज्ञेया नानयोर्विद्यते परम् ॥ १,८.३५ ॥
इति श्रीविष्णुपुराणे प्रथमेऽंशे अष्टमोऽध्यायः (८)