ऋग्वेदः सूक्तं १.१५२

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १.१५२ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं १.१५१ ऋग्वेदः - मण्डल १
सूक्तं १.१५२
दीर्घतमा औचथ्यः।
सूक्तं १.१५३ →
दे. मित्रावरुणौ । त्रिष्टुप्।


युवं वस्त्राणि पीवसा वसाथे युवोरच्छिद्रा मन्तवो ह सर्गाः ।
अवातिरतमनृतानि विश्व ऋतेन मित्रावरुणा सचेथे ॥१॥
एतच्चन त्वो वि चिकेतदेषां सत्यो मन्त्रः कविशस्त ऋघावान् ।
त्रिरश्रिं हन्ति चतुरश्रिरुग्रो देवनिदो ह प्रथमा अजूर्यन् ॥२॥
अपादेति प्रथमा पद्वतीनां कस्तद्वां मित्रावरुणा चिकेत ।
गर्भो भारं भरत्या चिदस्य ऋतं पिपर्त्यनृतं नि तारीत् ॥३॥
प्रयन्तमित्परि जारं कनीनां पश्यामसि नोपनिपद्यमानम् ।
अनवपृग्णा वितता वसानं प्रियं मित्रस्य वरुणस्य धाम ॥४॥
अनश्वो जातो अनभीशुरर्वा कनिक्रदत्पतयदूर्ध्वसानुः ।
अचित्तं ब्रह्म जुजुषुर्युवानः प्र मित्रे धाम वरुणे गृणन्तः ॥५॥
आ धेनवो मामतेयमवन्तीर्ब्रह्मप्रियं पीपयन्सस्मिन्नूधन् ।
पित्वो भिक्षेत वयुनानि विद्वानासाविवासन्नदितिमुरुष्येत् ॥६॥
आ वां मित्रावरुणा हव्यजुष्टिं नमसा देवाववसा ववृत्याम् ।
अस्माकं ब्रह्म पृतनासु सह्या अस्माकं वृष्टिर्दिव्या सुपारा ॥७॥


सायणभाष्यम्

‘युवं वस्त्राणि ' इति सप्तर्चं द्वादशं सूक्तं दैर्घतमसम् । अनादेशपरिभाषया त्रैष्टुभम् । मैत्रावरुणं पूर्वत्र ‘मैत्रावरुणं हि ' इत्युक्तत्वात् । सूक्तविनियोगो लैङ्गिकः । मैत्रावरुणे पशावाद्या वपायाज्या । ‘ प्रदानानाम् ' इति खण्डे सूत्रितं - ‘ युवं वस्त्राणि पीवसा वसाथे प्र बाहवा सिसृतं जीवसे नः ( आश्व. श्रौ. ३. ८) इति । सैव समावर्तने नववस्त्रधारणे विनियुक्ता । सूत्रितं च - ‘ युवं वस्त्राणि पीवसा वसाथे इत्यहते वाससी आच्छाद्य' ( आश्व. गृ. ३. ८. ९) इति ॥


यु॒वं वस्त्रा॑णि पीव॒सा व॑साथे यु॒वोरच्छि॑द्रा॒ मन्त॑वो ह॒ सर्गा॑ः ।

अवा॑तिरत॒मनृ॑तानि॒ विश्व॑ ऋ॒तेन॑ मित्रावरुणा सचेथे ॥१

यु॒वम् । वस्त्रा॑णि । पी॒व॒सा । व॒सा॒थे॒ इति॑ । यु॒वोः । अच्छि॑द्राः । मन्त॑वः । ह॒ । सर्गाः॑ ।

अव॑ । अ॒ति॒र॒त॒म् । अनृ॑तानि । विश्वा॑ । ऋ॒तेन॑ । मि॒त्रा॒व॒रु॒णा॒ । स॒चे॒थे॒ इति॑ ॥१

युवम् । वस्त्राणि । पीवसा । वसाथे इति । युवोः । अच्छिद्राः । मन्तवः । ह । सर्गाः ।

अव । अतिरतम् । अनृतानि । विश्वा । ऋतेन । मित्रावरुणा । सचेथे इति ॥१

हे मित्रावरुणौ “पीवसा पीनौ “युवं युवाम् । यद्वा । पीवसा पीनानि अच्छिन्नानि “वस्त्राणि आच्छादनयोग्यानि वासांसि “वसाथे आच्छादयथः । यद्वा । पीवसा स्थूलेन प्रभूतेन तेजसा वस्त्राणि दधाथे अविच्छिन्नानि वस्त्रस्थानीयानि तेजांसि धारयथ इत्यर्थः। किंच युवयोः “सर्गाः सृष्टयः “अच्छिद्राः अच्छिन्नाः “मन्तवो "ह मननीयाश्च । ईदृशौ युवां “विश्वा विश्वानि सर्वाणि “अनृतानि असत्यानि अप्रियाणि पापानि "अवातिरतं नाशयतम् ॥ विश्व इत्यत्र संहितायाम् ‘ ऋत्यकः' इति प्रकृतिभावो ह्रस्वत्वं च ॥ “ऋतेन फलेन तत्साधनेन यज्ञेन वा "सचेथे संगच्छेथे । अस्मभ्यं योजयथ इत्यर्थः ॥


ए॒तच्च॒न त्वो॒ वि चि॑केतदेषां स॒त्यो मन्त्र॑ः कविश॒स्त ऋघा॑वान् ।

त्रि॒रश्रिं॑ हन्ति॒ चतु॑रश्रिरु॒ग्रो दे॑व॒निदो॒ ह प्र॑थ॒मा अ॑जूर्यन् ॥२

ए॒तत् । च॒न । त्वः॒ । वि । चि॒के॒त॒त् । ए॒षा॒म् । स॒त्यः । मन्त्रः॑ । क॒वि॒ऽश॒स्तः । ऋघा॑वान् ।

त्रिः॒ऽअश्रि॑म् । ह॒न्ति॒ । चतुः॑ऽअश्रिः । उ॒ग्रः । दे॒व॒ऽनिदः॑ । ह॒ । प्र॒थ॒माः । अ॒जू॒र्य॒न् ॥२

एतत् । चन । त्वः । वि । चिकेतत् । एषाम् । सत्यः । मन्त्रः । कविऽशस्तः । ऋघावान् ।

त्रिःऽअश्रिम् । हन्ति । चतुःऽअश्रिः । उग्रः । देवऽनिदः । ह । प्रथमाः । अजूर्यन् ॥२

“एषाम् एतयोर्मध्ये ॥ बहुवचनं पूजार्थम् । यद्वा । तदनुचरापेक्षया बहुवचनम् ॥ एतयोर्मध्ये “त्वः “चन एक एव “एतत् वक्ष्यमाणं सामर्थ्यरूपं कर्म “वि “चिकेतत् विशेषेण चेतति अनुतिष्ठतीत्यर्थः । सः विशेष्यते । स एकः "सत्यः अबाध्यः सत्सु भवो वा “मन्त्रः मननवान् “कविशस्तः कविभिर्मेधाविभिः शंसनीयः “ऋघावान हिंसावान् । अनेन वक्ष्यमाणस्य सामर्थ्यस्य संभाविता। प्रतिपादिता अभवदित्युक्तम् । किं तत् इत्याशङ्क्याह । “त्रिरश्रिम् । अश्रित्रयोपेतमायुधं त्रिरश्रि । तद्वन्तम् ॥ मत्वर्थो लुप्यते ॥ उपलक्षणमेतत् । सर्वायुधसंपन्नमित्यर्थः । एतन्नामानं वा । “चतुरश्रिः ततोऽप्यधिकायुधवान्। न केवलमायुधसामर्थ्यं किंतु "उग्रः स्वयमुद्गूर्णबलः "हन्ति हिनस्ति अतिबलं शत्रुम् । किंच युवयोः एकस्यैव सामर्थ्येन "देवनिदो “ह देवनिन्दकास्तु "प्रथमाः समर्थाः सन्तोऽपि “अजूर्यन् स्वयमेव जीर्णा भवन्ति ।। जीर्यतेः श्यनि ‘ बहुलं छन्दसि इति उत्वम् ॥ युवयोर्मध्ये एकोऽपि महाबलः । मिलितयोस्तु सामर्थ्ये किमु वक्तव्यमिति भावः । अथवा । एषां युवयोः एतत् उत्तरत्र वक्ष्यमाणं सामर्थ्यम् एकः सत्यादिलक्षणो वि चिकेतत् विशेषेण जानाति । शेषं पूर्ववत् ॥


अ॒पादे॑ति प्रथ॒मा प॒द्वती॑नां॒ कस्तद्वां॑ मित्रावरु॒णा चि॑केत ।

गर्भो॑ भा॒रं भ॑र॒त्या चि॑दस्य ऋ॒तं पिप॒र्त्यनृ॑तं॒ नि ता॑रीत् ॥३

अ॒पात् । ए॒ति॒ । प्र॒थ॒मा । प॒त्ऽवती॑नाम् । कः । तत् । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । आ । चि॒के॒त॒ ।

गर्भः॑ । भा॒रम् । भ॒र॒ति॒ । आ । चि॒त् । अ॒स्य॒ । ऋ॒तम् । पिप॑र्ति । अनृ॑तम् । नि । ता॒री॒त् ॥३

अपात् । एति । प्रथमा । पत्ऽवतीनाम् । कः । तत् । वाम् । मित्रावरुणा । आ । चिकेत ।

गर्भः । भारम् । भरति । आ । चित् । अस्य । ऋतम् । पिपर्ति । अनृतम् । नि । तारीत् ॥३

हे मित्रावरुणा मित्रावरुणौ "पद्वतीनां पादवतीनां मनुष्यादीनां प्रजानां “प्रथमा प्रथमभाविनी “अपात् पादरहिता उषाः । प्रतिदिनं सूर्यचन्द्रादिवत् स्वस्याः परिभ्रमणाभावात् सूर्यगमनेनैव स्वगमनात् अपात् इति च एति इति च उपचर्यते । “तत् तादृशं “वां युवयोः प्रसिद्धं कर्म “कः “आ “चिकेत कः आभिमुख्येन जानाति ॥ ‘ कित ज्ञाने ॥ तत्स्तुत्यमित्यर्थः । मित्रावरुणयोः अहोरात्रदेवत्वात् अहोरात्रयोः अन्तरालस्यैव उषस्त्वात् एतत्कर्मत्वम् । किंच “अस्य लोकस्य “भारं निर्वाहं “गर्भः युवयोर्गर्भस्थानीयः शिशुरादित्यः । अहोरात्रयोर्मध्यकाले उत्पत्तेः ताभ्यामेव मित्रावरुणत्वात् अहोरात्रे वै मित्रावरुणौ । (तै. सं. २. ४. १०. १ ) इति श्रुतेः । स आहरति “चित् । समन्तान्निर्वहत्येव । हरति वा अस्य भारं जाड्यम् । चित् इत्यवधारणे । तत्कथमिति तदुच्यते । “ऋतं सत्यं जगतः प्रकाशगमनादिरूपं “पिपर्ति पूरयति । “अनृतम् उक्तविलक्षणमन्धकारं गमनादिनिरोधं च “नि “तारीत् नितरति निमज्जयति नाशयतीत्यर्थः । शिशोर्जगद्भारवहनरूपं कर्म युष्मत्सामर्थ्यादिति ॥


प्र॒यन्त॒मित्परि॑ जा॒रं क॒नीनां॒ पश्या॑मसि॒ नोप॑नि॒पद्य॑मानम् ।

अन॑वपृग्णा॒ वित॑ता॒ वसा॑नं प्रि॒यं मि॒त्रस्य॒ वरु॑णस्य॒ धाम॑ ॥४

प्र॒ऽयन्त॑म् । इत् । परि॑ । जा॒रम् । क॒नीना॑म् । पश्या॑मसि । न । उ॒प॒ऽनि॒पद्य॑मानम् ।

अन॑वऽपृग्णा । विऽत॑ता । वसा॑नम् । प्रि॒यम् । मि॒त्रस्य॑ । वरु॑णस्य । धाम॑ ॥४

प्रऽयन्तम् । इत् । परि । जारम् । कनीनाम् । पश्यामसि । न । उपऽनिपद्यमानम् ।

अनवऽपृग्णा । विऽतता । वसानम् । प्रियम् । मित्रस्य । वरुणस्य । धाम ॥४

“कनीनां कमनीयानां दीप्तानां कन्यकास्थानीयानामुषसाम् ॥ कनतेः कान्तिकर्मण इञ् । ‘ कृदिकारादक्तिनः' इति ङीष् । आमि कन्याशब्दस्य वा छान्दसं संप्रसारणम् ॥ तासां “जारम् आदित्यं “प्रयन्तमित प्रगच्छन्तमेव “परि “पश्यामसि वयं परिपश्यामः “उपनिपद्यमानं क्षणमात्रमपि निषीदन्तं “न पश्याम:। एतदपि तयोः सामर्थ्यम् । पुनस्तदेव विशेष्यते । अनवपृग्णा अनवपृग्णानि अत एव विततानि तेजांसि “वसानम् आच्छादयन्तं "प्रियं सर्वेषां प्रियभूतं “मित्रस्य “वरुणस्य च “धाम तेजःस्थानभूतम् । यद्वा । प्रियं धामेति संबध्यते । तयोः प्रेमस्थानम् । ईदृशमादित्यं युष्मदनुज्ञया संचरन्तं पश्यामसि ॥


अ॒न॒श्वो जा॒तो अ॑नभी॒शुरर्वा॒ कनि॑क्रदत्पतयदू॒र्ध्वसा॑नुः ।

अ॒चित्तं॒ ब्रह्म॑ जुजुषु॒र्युवा॑न॒ः प्र मि॒त्रे धाम॒ वरु॑णे गृ॒णन्त॑ः ॥५

अ॒न॒श्वः । जा॒तः । अ॒न॒भी॒शुः । अर्वा॑ । कनि॑क्रदत् । प॒त॒य॒त् । ऊ॒र्ध्वऽसा॑नुः ।

अ॒चित्त॑म् । ब्रह्म॑ । जु॒जु॒षुः॒ । युवा॑नः । प्र । मि॒त्रे । धाम॑ । वरु॑णे । गृ॒णन्तः॑ ॥५

अनश्वः । जातः । अनभीशुः । अर्वा । कनिक्रदत् । पतयत् । ऊर्ध्वऽसानुः ।

अचित्तम् । ब्रह्म । जुजुषुः । युवानः । प्र । मित्रे । धाम । वरुणे । गृणन्तः ॥५

स एवादित्यः “अनश्वः यद्यपि शीघ्रगाम्यश्वरहितः तथा “अनभीशुः आलम्बनाधारप्रग्रहस्थानीयरश्मिरहितः तथापि “अर्वा “जातः शीघ्रगमनवान् संपन्नः । तथाविधोऽयमादित्यः “कनिक्रदत् अत्यर्थं क्रन्दयन् । क्रन्देर्यङ्लुगन्तात् शतरि दाधर्त्यादौ निपात्यते ॥ “ऊर्ध्वसानुः उपर्युपरि समुच्छ्रयणः सन् "पतयत् गच्छति । “अचित्तं चित्ताविषयं “ब्रह्म परिवृढम् उक्तरूपं कर्म "मित्रे “वरुणे च उभयोः “धाम तेजःस्थानं “युवानः मिश्रयन्तः तयोर्धाम्नि आरोपयन्तः तथा “प्र “गृणन्तः युवयोः तेजःप्रभवमिति प्रकर्षेण स्तुवन्तः “जुजुषुः सेवन्ते । मनुष्याः सूर्यस्य निरालम्बान्तरिक्षसंचारात्मकं कर्म वरुणमित्रयोरधीनम् इति स्तुवन्तीत्यर्थः ॥


आ धे॒नवो॑ मामते॒यमव॑न्तीर्ब्रह्म॒प्रियं॑ पीपय॒न्सस्मि॒न्नूध॑न् ।

पि॒त्वो भि॑क्षेत व॒युना॑नि वि॒द्वाना॒साविवा॑स॒न्नदि॑तिमुरुष्येत् ॥६

आ । धे॒नवः॑ । मा॒म॒ते॒यम् । अव॑न्तीः । ब्र॒ह्म॒ऽप्रिय॑म् । पी॒प॒य॒न् । सस्मि॑न् । ऊध॑न् ।

पि॒त्वः । भि॒क्षे॒त॒ । व॒युना॑नि । वि॒द्वान् । आ॒सा । आ॒ऽविवा॑सन् । अदि॑तिम् । उ॒रु॒ष्ये॒त् ॥६

आ । धेनवः । मामतेयम् । अवन्तीः । ब्रह्मऽप्रियम् । पीपयन् । सस्मिन् । ऊधन् ।

पित्वः । भिक्षेत । वयुनानि । विद्वान् । आसा । आऽविवासन् । अदितिम् । उरुष्येत् ॥६

“मामतेयं ममतायाः पुत्रं दीर्घतमसं मां “ब्रह्मप्रियं परिवृढस्य कर्मणः प्रियतमं परिवृढस्याग्नेः प्रीणयितारं वा “अवन्तीः अवन्त्यः प्रीणयन्त्यः ”धेनवः गावः "सस्मिन् स्वकीये “ऊधन् ऊधसि “आ “पीपयन् सर्वत आप्याययन्तु ॥ प्यायतेर्णिचि छान्दसः पीभावः ॥ ऊधोगतेन क्षीरेण युवाभ्यां प्रदेयेन नोऽस्मान् रक्षन्ति इत्यर्थः। मित्रावरुणाभ्यां पयस्या' (तै.सं.७.५.२२.१) इति श्रुतेः। एवं प्रदत्तहविः “वयुनानि अनुष्ठानविषयज्ञानानि “विद्वान् जानन् हुतशेषो भक्षणीय इत्यवगच्छन् दीर्घतमाः “पित्वः पितोर्हुतशिष्टस्य अन्नस्य तादृगन्नम् “आसा आस्येन भक्षयितुं "भिक्षेत याचेत युष्मान् । किंच “विवासन् युवां परिचरन् “अदितिम् अखण्डितम् अन्यूनमेतत्कर्म “उरुष्येत् । यथा शिष्टं भिक्षेत यथा च कर्म समापनेन रक्षेत् तथा अपीपयन्नित्यर्थः ॥


मैत्रावरुणपशौ वपाया एषानुवाक्या । सूत्रितं च - ‘ आ वां मित्रावरुणा हव्यजुष्टिमा यातं मित्रावरुणा ' (आश्व. श्रौ. ३. ८) इति ।।

आ वां॑ मित्रावरुणा ह॒व्यजु॑ष्टिं॒ नम॑सा देवा॒वव॑सा ववृत्याम् ।

अ॒स्माकं॒ ब्रह्म॒ पृत॑नासु सह्या अ॒स्माकं॑ वृ॒ष्टिर्दि॒व्या सु॑पा॒रा ॥७

आ । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । ह॒व्यऽजु॑ष्टिम् । नम॑सा । दे॒वौ॒ । अव॑सा । व॒वृ॒त्या॒म् ।

अ॒स्माक॑म् । ब्रह्म॑ । पृत॑नासु । स॒ह्याः॒ । अ॒स्माक॑म् । वृ॒ष्टिः । दि॒व्या । सु॒ऽपा॒रा ॥७

आ । वाम् । मित्रावरुणा । हव्यऽजुष्टिम् । नमसा । देवौ । अवसा । ववृत्याम् ।

अस्माकम् । ब्रह्म । पृतनासु । सह्याः । अस्माकम् । वृष्टिः । दिव्या । सुऽपारा ॥७

हे “देवौ देवनशीलौ “मित्रावरुणा मित्रावरुणौ “वां युवां "हव्यजुष्टिं हविःसेवां “नमसा नमस्कारोपलक्षितेन स्तोत्रेण “अवसा रक्षणेन निमित्तभूतेन “आ ”ववृत्याम् आवर्तयेयम् । यद्वा । नमस्कारेण अवसा अन्नेन च आ ववृत्याम् । किंच हे मित्रावरुणौ “अस्माकं संबन्धि “ब्रह्म इदानीं क्रियमाणं परिवृढं कर्म “पृतनासु संग्रामेषु “सह्याः सह्यात् शत्रून् अभिभूयात् । अनेन कर्मणा शत्रून् अभिभवेयमित्यर्थः । किंच “अस्माकं “दिव्या दिवि भवा “वृष्टिः "सुपारा सुष्ठु पारयित्री भवत्विति शेषः । वृष्टौ सत्यां व्रीह्यादिद्वारा कर्मसमाप्तेरिति भावः ॥ ॥ २२ ॥


मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१५२&oldid=205450" इत्यस्माद् पुनः प्राप्तिः