ऋग्वेदः सूक्तं १.८६
← सूक्तं १.८५ | ऋग्वेदः - मण्डल १ सूक्तं १.८६ गोतमो राहूगणः |
सूक्तं १.८७ → |
दे. मरुतः। गायत्री |
मरुतो यस्य हि क्षये पाथा दिवो विमहसः ।
स सुगोपातमो जनः ॥१॥
यज्ञैर्वा यज्ञवाहसो विप्रस्य वा मतीनाम् ।
मरुतः शृणुता हवम् ॥२॥
उत वा यस्य वाजिनोऽनु विप्रमतक्षत ।
स गन्ता गोमति व्रजे ॥३॥
अस्य वीरस्य बर्हिषि सुतः सोमो दिविष्टिषु ।
उक्थं मदश्च शस्यते ॥४॥
अस्य श्रोषन्त्वा भुवो विश्वा यश्चर्षणीरभि ।
सूरं चित्सस्रुषीरिषः ॥५॥
पूर्वीभिर्हि ददाशिम शरद्भिर्मरुतो वयम् ।
अवोभिश्चर्षणीनाम् ॥६॥
सुभगः स प्रयज्यवो मरुतो अस्तु मर्त्यः ।
यस्य प्रयांसि पर्षथ ॥७॥
शशमानस्य वा नरः स्वेदस्य सत्यशवसः ।
विदा कामस्य वेनतः ॥८॥
यूयं तत्सत्यशवस आविष्कर्त महित्वना ।
विध्यता विद्युता रक्षः ॥९॥
गूहता गुह्यं तमो वि यात विश्वमत्रिणम् ।
ज्योतिष्कर्ता यदुश्मसि ॥१०॥
सायणभाष्यम्
‘ मरुतो यस्य' इति दशर्चं द्वितीयं सूक्तं गोतमस्यार्षं गायत्रं मरुद्देवताकम् । अनुक्रम्यते च -- ‘ मरुतो दश गायत्रम्' इति । व्यूळ्हे तृतीये छन्दोमे आग्निमारुते शस्त्रे एतत्सूक्तम् ।' तृतीयस्यागन्म महः' इति खण्डे सूत्रितं —“मरुतो यस्य हि प्राग्नये वाचमित्याग्निमारुतम् ' (आश्व. श्रौ. ८. ११) इति । ऐन्द्रामारुत्यां प्रधानस्य हविषो ‘ मरुतो यस्य' इत्येषा अनुवाक्या । सूत्रितं च - ‘ ऐन्द्रामारुतीं भेदकामा मरुतो यस्य हि क्षये ' ( आश्व. श्रौ. २. ११ ) इति । एवैव वरुणप्रघासेषु मारुत्याः आमिक्षाया अनुवाक्या । सूत्रितं च - ‘ मरुतो यस्य हि क्षयेऽरा इवेदचरमा अहेव ' ( आश्व. श्रौ..२. १७ ) इति । तथा प्रातःसवने पोतुरेषा प्रस्थितयाज्या । सूत्रितं च - मरुतो यस्य हि क्षयेऽग्ने पत्नीरिहा वह ' ( आश्व. श्रौ. ५. ५) इति ॥
मरु॑तो॒ यस्य॒ हि क्षये॑ पा॒था दि॒वो वि॑महसः ।
स सु॑गो॒पात॑मो॒ जनः॑ ॥१
मरु॑तः । यस्य॑ । हि । क्षये॑ । पा॒थ । दि॒वः । वि॒ऽम॒ह॒सः॒ ।
सः । सु॒ऽगो॒पात॑मः । जनः॑ ॥१
मरुतः । यस्य । हि । क्षये । पाथ । दिवः । विऽमहसः ।
सः । सुऽगोपातमः । जनः ॥१
हे “विमहसः विशिष्टप्रकाशाः “मरुतः "दिवः अन्तरिक्षलोकादागत्य “यस्य “हि यस्य खलु यजमानस्य “क्षये यज्ञगृहे "पाथ सोमं पिबथ “सः “जनः जातो यजमानः "सुगोपातमः शोभनैः पालकैरत्यन्तं युक्तो भवति ॥ पाथ। ‘ पा पाने । लटि ‘बहुलं छन्दसि ' इति शपो लुक् । यद्वृत्तयोगादनिघातः । विमहसः । विशिष्टं महस्तेजो येषां ते तथोक्ताः । सुगोपातमः । शोभनो गोपा रक्षको यस्य स सुगोपाः । अतिशयेन सुगोपाः सुगोपातमः । तमपः पित्त्वादनुदात्तत्वे सति बहुव्रीहौ ‘ नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वमेव शिष्यते ॥
य॒ज्ञैर्वा॑ यज्ञवाहसो॒ विप्र॑स्य वा मती॒नाम् ।
मरु॑तः शृणु॒ता हव॑म् ॥२
य॒ज्ञैः । वा॒ । य॒ज्ञ॒ऽवा॒ह॒सः॒ । विप्र॑स्य । वा॒ । म॒ती॒नाम् ।
मरु॑तः । शृ॒णु॒त । हव॑म् ॥२
यज्ञैः । वा । यज्ञऽवाहसः । विप्रस्य । वा । मतीनाम् ।
मरुतः । शृणुत । हवम् ॥२
हे "यज्ञवाहसः यज्ञस्य वोढारः “मरुतः यूयं “यज्ञैर्वा । वाशब्दः समुच्चये । यज्ञैश्च यजमानस्य “मतीनां स्तुतीनां संबन्धिनः “विप्रस्य “वा अयजमानस्य मेधाविनश्च “हवम् आह्वानं “शृणुत । यज्ञवतो यजमानस्य यागरहितस्य स्तोतुश्चाह्वानमवश्यं भवद्भिः श्रोतव्यं यतः भवन्तो यज्ञस्य वोढारः स्तुतिप्रियाश्चेति भावः ॥ यज्ञवाहसः । ‘ गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च ' इति वचनात् ‘ वहिहाधाञ्भ्यश्छन्दसि' इति कारकपूर्वात् वहतेरसुन्। ‘णित्' इत्यनुवृत्तेः उपधावृद्धिः। मतीनाम् । ‘ मन ज्ञाने'। अस्मात् करणे क्तिन् । नामन्यतरस्याम्' इति नाम उदात्तत्वम् । शृणुत। ‘ श्रुवः शृ च' इति श्नुः । ‘सतिशिष्टस्वरबलीयस्त्वमन्यत्र विकरणेभ्यः' इति वचनात् तिङ एव स्वरः शिष्यते । मरुत इत्यस्य आमन्त्रितस्य आमन्त्रितं पूर्वमविद्यमानवत् ' इति अविद्यमानवत्त्वेन पदादपरत्वात् निघाताभावः । हवम् । भावेनुपसर्गस्य ' इति ह्वयतेरप् संप्रसारणं च ॥
उ॒त वा॒ यस्य॑ वा॒जिनोऽनु॒ विप्र॒मत॑क्षत ।
स गन्ता॒ गोम॑ति व्र॒जे ॥३
उ॒त । वा॒ । यस्य॑ । वा॒जिनः॑ । अनु॑ । विप्र॑म् । अत॑क्षत ।
सः । गन्ता॑ । गोऽम॑ति । व्र॒जे ॥३
उत । वा । यस्य । वाजिनः । अनु । विप्रम् । अतक्षत ।
सः । गन्ता । गोऽमति । व्रजे ॥३
“उत “वा अपि च “यस्य यजमानस्य “वाजिनः हविर्लक्षणान्नोपेता ऋत्विजः “विप्रं मेधाविनं मरुद्गणम् “अनु “अतक्षत हविष्प्रदानादिना तीक्ष्णीकुर्वन्ति “सः यजमानः “गोमति बहुभिर्गोंभिर्युक्ते “व्रजे गोष्ठे “गन्ता गमनशीलो भवति । अतक्षत। ‘ तक्षु त्वक्षू तनूकरणे'। छान्दसो लङ् । व्यत्ययेन मध्यमः । गन्ता । गमेस्ताच्छीलिकः तृन् ।
अ॒स्य वी॒रस्य॑ ब॒र्हिषि॑ सु॒तः सोमो॒ दिवि॑ष्टिषु ।
उ॒क्थं मद॑श्च शस्यते ॥४
अ॒स्य । वी॒रस्य॑ । ब॒र्हिषि॑ । सु॒तः । सोमः॑ । दिवि॑ष्टिषु ।
उ॒क्थम् । मदः॑ । च॒ । श॒स्य॒ते॒ ॥४
अस्य । वीरस्य । बर्हिषि । सुतः । सोमः । दिविष्टिषु ।
उक्थम् । मदः । च । शस्यते ॥४
"दिविष्टिषु यजनीयदिवसेषु “बर्हिषि यज्ञे “वीरस्य शत्रुक्षेपणकुशलस्य “अस्य मरुद्गणस्य यागाय “सोमः सुतः । ऋत्विग्भिरभिषुतो भवति । “उक्थं मरुद्देवताकं शस्त्रं “मदश्च मदिधातुना युक्ता ‘ मरुतो देवाः सोमस्य मत्सन्' इत्यादिका मारुती निवित् च अस्य मरुद्गणस्य हर्षाय “शस्यते होत्रा पठ्यते ॥ अस्य । ऊडिदम्' इति विभक्तेरुदात्तत्वम् । दिविष्टिषु । इष्टय एषणानि गमनानि । दिवो द्योतमानस्य सूर्यस्येष्टयो येषु दिवसेषु ते तथोक्ताः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । व्यत्ययेन उत्वाभावः ॥
अ॒स्य श्रो॑ष॒न्त्वा भुवो॒ विश्वा॒ यश्च॑र्ष॒णीर॒भि ।
सूरं॑ चित्स॒स्रुषी॒रिषः॑ ॥५
अ॒स्य । श्रो॒ष॒न्तु॒ । आ । भुवः॑ । विश्वाः॑ । यः । च॒र्ष॒णीः । अ॒भि ।
सूर॑म् । चि॒त् । स॒स्रुषीः॑ । इषः॑ ॥५
अस्य । श्रोषन्तु । आ । भुवः । विश्वाः । यः । चर्षणीः । अभि ।
सूरम् । चित् । सस्रुषीः । इषः ॥५
“अस्य यजमानस्य स्तुतिं मरुतः “आ आभिमुख्येन “श्रोषन्तु शृण्वन्तु । "यः मरुद्गणः “विश्वाः “चर्षणीः सर्वान् शत्रुभूतान्मनुष्यान् “अभि "भुवः अभिभवति । तादृग्गणाकारा मरुतः शृण्वन्त्वित्यर्थः। “सूरं “चित् स्तुतेः प्रेरयितारं यजमानमपि “इषः मरुद्भिः प्रत्तान्यन्नानि “सस्रुषीः प्राप्तानि भवन्तु ॥ श्रोषन्तु । श्रु श्रवणे '। लोटि • सिब्बहुलं लेटि' इति बहुलवचनात् सिप् । भुवः । भवतेर्लेटि तिपः ‘ तिङां तिङो भवन्ति' इति सिप् । ‘लेटोऽडाटौ ' इति अडागमः । ‘ बहुलं छन्दसि ' इति शपो लुक् ।' भूसुवोस्तिङि' इति गुणप्रतिषेधः । सूरम् । “षू प्रेरणे'। “ सुसूधागृधिभ्यः क्रन्' इति क्रन्प्रत्ययः । सस्रुषीः । ‘ स्रु गतौ ' । अस्मात् लिटः क्वसुः । ‘ उगितश्च ' इति ङीप् । भसंज्ञायां ‘ वसोः संप्रसारणम् ' इति संप्रसारणम् । शासिवसिघसीनां च ' इति षत्वम् । जसि ‘ वा छन्दसि ' इति पूर्वसवर्णदीर्घत्वम् ॥ ॥ ११ ॥
पू॒र्वीभि॒र्हि द॑दाशि॒म श॒रद्भि॑र्मरुतो व॒यम् ।
अवो॑भिश्चर्षणी॒नाम् ॥६
पू॒र्वीभिः॑ । हि । द॒दा॒शि॒म । श॒रत्ऽभिः॑ । म॒रु॒तः॒ । व॒यम् ।
अवः॑ऽभिः । च॒र्ष॒णी॒नाम् ॥६
पूर्वीभिः । हि । ददाशिम । शरत्ऽभिः । मरुतः । वयम् ।
अवःऽभिः । चर्षणीनाम् ॥६
हे “मरुतः “पूर्वीभिः बह्वीभिः “शरद्भिः संवत्सरैः “चर्षणीनां सर्वस्य द्रष्टॄणां सर्वज्ञानां भवतां संबन्धिभिः “अवोभिः रक्षणैर्युक्ताः सन्तः “वयं “ददाशिम युष्मभ्यं हवींषि दत्तवन्तः । “हि यस्मादर्थे । यस्मादेवं तस्मादिदानीमप्यस्मदीयहविःस्वीकरणायागच्छत इत्यर्थः ॥ पूर्वीभिः । पुरुशब्दात् 'वोतो गुणवचनात्' इति ङीष् । यणादेशे ‘ हलि च' इति दीर्घत्वम् । ददाशिम ।' दाशृ दाने '। लिटि इडागमः । ‘ हि च' इति निघातप्रतिषेधः । चर्षणीनाम्। 'नामन्यतरस्याम्' इति नाम उदात्तत्वम् ॥
सु॒भग॒ः स प्र॑यज्यवो॒ मरु॑तो अस्तु॒ मर्त्यः॑ ।
यस्य॒ प्रयां॑सि॒ पर्ष॑थ ॥७
सु॒ऽभगः॑ । सः । प्र॒ऽय॒ज्य॒वः॒ । मरु॑तः । अ॒स्तु॒ । मर्त्यः॑ ।
यस्य॑ । प्रयां॑सि । पर्ष॑थ ॥७
सुऽभगः । सः । प्रऽयज्यवः । मरुतः । अस्तु । मर्त्यः ।
यस्य । प्रयांसि । पर्षथ ॥७
हे “प्रयज्यवः प्रकर्षेण यष्टव्याः “मरुतः “सः “मर्त्यः मनुष्यो यजमानः “सुभगः “अस्तु शोभनधनो भवतु । “यस्य यजमानस्य “प्रयांसि हविर्लक्षणान्यन्नानि “पर्षथ आत्मनि सिञ्चथ स्वीकुरुथ . इत्यर्थः ।। सुभगः । भग इति धननाम । शोभनो भगो यस्य । ‘क्रत्वादयश्च' इत्युत्तरपदाद्युदात्तत्वम् । पर्षथ। ‘ पृषु वृषु मृषु सेचने' । भौवादिकः । यद्वृत्तान्नित्यम्' इति निघातप्रतिषेधः ॥
श॒श॒मा॒नस्य॑ वा नर॒ः स्वेद॑स्य सत्यशवसः ।
वि॒दा काम॑स्य॒ वेन॑तः ॥८
श॒श॒मा॒नस्य॑ । वा॒ । न॒रः॒ । स्वेद॑स्य । स॒त्य॒ऽश॒व॒सः॒ ।
वि॒द । काम॑स्य । वेन॑तः ॥८
शशमानस्य । वा । नरः । स्वेदस्य । सत्यऽशवसः ।
विद । कामस्य । वेनतः ॥८
हे “सत्यशवसः अवितथबलाः “नरः नेतारो मरुतः “शशमानस्य युष्मान् स्तुतिभिः संभजमानस्य “स्वेदस्य स्तावकमन्त्रोच्चारणजनितेन श्रमेण स्विद्यमानगात्रस्य “वेनतः । वेनतिः कान्तिकर्मा । कामयमानस्य । वाशब्दः समुच्चये। एवंभूतस्य स्तोतुश्च "कामस्य काममभिलाषं "विद लम्भयत प्रयच्छतेत्यर्थः ॥ शशमानस्य । ‘शश प्लुतगतौ । ताच्छीलिकः चानश् । स्वेदस्य । ‘ ञिष्विदा गात्रप्रक्षरणे । अन्तर्भावितण्यर्थात् कर्मणि घञ् । ञित्त्वादाद्युदात्तत्वम् । विद्लृ लाभे'। लोटि मध्यमपुरुषबहुवचनस्य व्यत्ययेन झादेशः । ‘ बहुलं छन्दसि' इति विकरणस्य लुक् । झस्य अदादेशः । ‘ लोपस्त आत्मनेपदेषु' इति तलोपः । प्रत्ययाद्युदात्तत्वम् । पादादित्वात् निघाताभावः । ‘ द्व्यचोऽतस्तिङः' इति संहितायां दीर्घः । कामस्य । वृषादिषु पाठादाद्युदात्तत्वम् । ‘ क्रियाग्रहणं कर्तव्यम्' इति कर्मणः संप्रदानत्वात् चतुर्थ्यर्थे षष्ठी ॥
यू॒यं तत्स॑त्यशवस आ॒विष्क॑र्त महित्व॒ना ।
विध्य॑ता वि॒द्युता॒ रक्षः॑ ॥९
यू॒यम् । तत् । स॒त्य॒ऽश॒व॒सः॒ । आ॒विः । क॒र्त॒ । म॒हि॒ऽत्व॒ना ।
विध्य॑त । वि॒ऽद्युता॑ । रक्षः॑ ॥९
यूयम् । तत् । सत्यऽशवसः । आविः । कर्त । महिऽत्वना ।
विध्यत । विऽद्युता । रक्षः ॥९
हे “सत्यशवसः सत्यबला अन्यैरप्रधृष्यबला मरुतः "यूयं तत् वृत्रवधादिषु प्रसिद्धं युष्मदीयं माहात्म्यम् “आविष्कर्त आविष्कुरुत प्रकाशयत । “विद्युता विद्योतमानेन “महित्वना तेन महत्त्वेन माहात्म्येन “रक्षः अस्माकमुपद्रवकारिणं राक्षसादिकं “विध्यत ताडयत नाशयतेत्यर्थः ॥ कर्त । करोतेर्लोटि ‘ बहुलं छन्दसि ' इति विकरणस्य लुक्। ‘ तप्तनप्तनथनाश्च' इति तबादेशः । गुणः । इदुदुपधस्य चाप्रत्ययस्य ' ( पा. सू. ८. ३. ४१ ) इति आविःशब्दे विसर्जनीयस्य षत्वम् । महित्वना । भावप्रत्ययादुत्तरस्य आङः व्यत्ययेन नाभावः उदात्तत्वं च । यद्वा । ‘ सुपां सुलुक्° ' इति तृतीयाया आजादेशो नकारोपजनश्च। विध्यत । ‘ व्यध ताडने ' । श्यनि ग्रहिज्यादिना संप्रसारणम् । तशब्दस्य ‘सार्वधातुकमपित्' इति ङित्त्वे सति ऋचि तुनुघमक्षुतङ्' इति संहितायां दीर्घः ॥
गूह॑ता॒ गुह्यं॒ तमो॒ वि या॑त॒ विश्व॑म॒त्रिण॑म् ।
ज्योति॑ष्कर्ता॒ यदु॒श्मसि॑ ॥१०
गूह॑त । गुह्य॑म् । तमः॑ । वि । या॒त॒ । विश्व॑म् । अ॒त्रिण॑म् ।
ज्योतिः॑ । क॒र्त॒ । यत् । उ॒श्मसि॑ ॥१०
गूहत । गुह्यम् । तमः । वि । यात । विश्वम् । अत्रिणम् ।
ज्योतिः । कर्त । यत् । उश्मसि ॥१०
हे मरुतः "गुह्यं गुहायां स्थित सर्वत्र व्याप्य वर्तमानं “तमः अन्धकारं “गूहत संवृतं कुरुत । यथा अस्माभिर्न दृश्यते तथा अदर्शनं प्रापयत विनाशयतेत्यर्थः । “विश्वं सर्वम् “अत्रिणम् अत्तारं राक्षसादिकं “वि “यात विविधं यापयत अस्मत्सकाशात् निर्गमयत । “यत् “ज्योतिः सूर्यादिकं वयम् “उश्मसि कामयामहे तत् “कर्त कुरुत । यद्वा । गुह्यं गुहायां शरीरान्तर्गतगुहारूपे हृदये भवं तमो भावरूपाज्ञानं तद्गूहत विनाशयत । अत्रिणं पुरुषार्थस्यात्तारं कामक्रोधादिकं सर्वं विनिर्गमयत । यज्ज्योतिः परतत्त्वसाक्षात्काररूपं ज्ञानं कामयामहे प्राणापानादिपञ्चवृत्तिरूपा हे मरुतस्तत्कर्त कुरुत ।। गूहत । ‘गुहू संवरणे' । शपि लघूपधगुणे ‘ ऊदुपधाया गोहः' (पा. सू. ६. ४. ८९ ) इति उपधाया ऊकारः । यात । ‘ या प्रापणे ' । अस्मात् अन्तर्भावितण्यर्थात् लोट् । अत्रिणम् । अदेस्त्रिनि च' ( उ. सू. ४. ५०८) इति त्रिनिप्रत्ययः । उश्मसि । ‘ वश कान्तौ । इदन्तो मसिः ।। अदादित्वात् शपो लुक् । ग्रहिज्यादिना संप्रसारणम् ॥ ॥ १२ ॥
टिप्पणी
अ २०.१.२, वा.सं. ८.३१,
चातुर्मास्येषु वरुणप्रघासे याज्यानुवाक्याः -मरुतो यस्य हि क्षये पाथा दिवो विमहसः । स सुगोपातमो जनः ॥ तै.सं. ४.२.११.१,
मरुतो यस्य हि क्षय इति मारुतं क्षेतिवदन्तरूपं क्षेतीव वा अन्तं गत्वा नवमेऽहनि नवमस्याह्नो रूपं - ऐ.ब्रा. ५.२१.१७,
मरुतो यस्य हि क्षय इति पोता यजति स सुगोपातमो जन इतीन्द्रो वै गोपास्तदैन्द्रं रूपं तेनेन्द्रं प्रीणाति - ६.१०.३,
तदाहुर्य आहिताग्निर्यस्य भार्या गौर्वा यमौ जनयेत्का तत्र प्रायश्चित्तिरिति सोऽग्नये मरुत्वते त्रयोदशकपालम्पुरोळाशं निर्वपेत्तस्य याज्यानुवाक्ये मरुतो यस्य हि क्षयेऽरा इवेदचरमा अहेवेत्याहुतिं वाहवनीये जुहुयादग्नये मरुत्वते स्वाहेति सा तत्र प्रायश्चित्तिः - ७.९.८,
तृतीयछन्दोमः - मरुतो यस्य हि क्षय इति मारुतम् । क्षय इति क्षितिवत् । तद् अन्त रूपम् । अन्तो नवमम् अहः । क्षियति इव वा अन्तम् गत्वा । कद्र्यन् हि तत इयात् ।- कौ.ब्रा. २६.१७,
प्रस्थितयाज्याः - मरुतो यस्य हि क्षय इति मारुत्यो पोता । यत्र ह तद् इन्द्रम् मरुतः पुपुवुः । तद् एनान् इन्द्रः सोम पीथे अन्वाभेजे । तस्मात् स मारुत्या पोता प्रथमतश् च अन्ततश् च यजति ।- २८.३,
मरुतो यस्य हि क्षये इति पोता यजति स सुगोपातमो जनः इति इन्द्रो वै गोपास् तद् ऐन्द्रं रूपम् गो.ब्रा. २.२.२०,
...स हुत्वैव समिष्टयजूंषि । प्रथमावशान्तेष्वङ्गारेष्वेतं सोष्णीषं गर्भमादत्ते तं प्राङ्तिष्ठञ्जुहोति मारुत्यर्चा मरुतो यस्य हि क्षये पाथा दिवो विमहसः स सुगोपातमो जन इति न स्वाहाकरोत्यहुतादो वै देवानां मरुतो विडहुतमिवैतद्यदस्वाहाकृतं देवानां वै मरुतस्तदेनं मरुत्स्वेव प्रतिष्ठापयति - श.ब्रा. ४.५.२.१७,
आश्व.श्रौ. २.११.१४, २.१७.१५, ५.५.१८,
मरुतो यस्य हि क्षय इति गर्भं गर्भपुरोडाशं चोत्तरेण गार्हपत्यस्य शामित्रस्य वा शीते भस्मन्युपोप्य मही द्यौः पृथिवी च न इति शीतेन भस्मनाभिसमूह्यैतं युवानमिति पञ्चभिरुपतिष्ठते। तदिदं गर्भिणिप्रायश्चित्तं सर्वत्र क्रियेतेत्याश्मरथ्यः ।आप.श्रौ. ९.१९.१३,
ज्योतिष्टोमे ग्रहचमसयागप्रकरणम् - मरुतो यस्येति पोता - शांश्रौ ७.४.८,
दशरात्रे नवममहः - ...मरुतो यस्याग्निर्होता पुरोहित इत्याग्निमारुते - १०.११.९,
समिष्टयजुरन्ते शामित्र एव जुहुयात्तिष्ठन्मरुत इत्यस्वाहाकृत्या महीद्यौरित्यङ्गारैरभ्यूहति - कात्या.श्रौ. २५.१०.१६
मण्डल १ | ||||||
---|---|---|---|---|---|---|
|