आश्वलायन श्रौतसूत्रम्/अध्यायः ८/खण्डः ११

विकिस्रोतः तः
सोम व्यूळ्ह दशरात्र तृतीय छन्दोम अहः

तृतीयस्यागन्म महेत्याज्यं । प्रवीरया शुचयो दद्रि रेते ते सत्येन मनसा दीध्याना दिवि क्षयंता रजसः पृथिव्यामाविश्ववाराऽश्विनागतं नोऽयं सोम इन्द्र तुभ्यं सुन्व आतु प्र ब्रह्माणो अङ्गिरसो नक्षन्त सरस्वतीं देवयन्तो हवन्त आ नो दिवो बृहतः पर्वतादासरस्वत्यभि नो नेषिवस्य इति प्रउगं १ एकपातिन्य उत्तमः २ दोषो आगात् प्रवां महिद्यवी अभीति तृचाविन्द्र इषे ददातु नस्तेनो रत्नानि धत्तनेत्येका द्वे च ये त्रिंशतीति वैश्वदेवं ३ वैश्वानरो न ऊतय आ प्रयातु परावतः । अग्निर्नः सुष्टुतीरुप । वैश्वानरो न आगमदिमं यज्ञं सजूरुप । अग्निंरुक्थेन वाहसा । वैश्वानरो अङ्गिरोभ्यः स्तोम उक्थञ्च चाकनत् । एषु द्युम्नं स्वर्यमत् । मरुतो यस्य हि प्राग्नये वाचमित्याग्निमारुतं ४


८.११।१ तृतीयस्य अगन्म मह इत्य् आज्यम् प्र वीरया शुचयो दद्रिरे ते सत्येन मनसा दीध्याना दिवि क्षयन्त रजसः पृथिव्याम् आ विश्व वारा अश्विना आ गतम् नो अयम् सोम इन्द्र तुभ्यम् सुन्व आतु प्र ब्रह्माणो अङ्गिरसो नक्षन्त सरस्वतीम् देवयन्तो हवन्त आ नो दिवो बृहतः पर्वताद् आ सरस्वत्य् अभि नो नेषि वस्य इति प्रउगम् । (सोम व्यूळ्ह दशरात्र तृतीय छन्दोम अहः)
८.११।२ एक पातिन्य उत्तमः । (सोम व्यूळ्ह दशरात्र तृतीय छन्दोम अहः)
८.११।३ दोषो आगात् प्रवाम् महि द्यवी अभि इति तृचाव् इन्द्र इषे ददातु नस् ते नो रत्नानि धत्तन इत्य् एका द्वे च ये त्रिंशति इति वैश्वदेवम् । (सोम व्यूळ्ह दशरात्र तृतीय छन्दोम अहः)
८.११।४ वैश्वानरो न ऊतय आ प्र यातु परावतः । अग्निर् नः सुष्टुतीर् उप । वैश्वानरो न आगमद् इमम् यज्ञम् सजुर् उप । अग्निर् उक्थेन वाहसा । वैश्वानरो अङ्गिरोभ्यः स्तोम उक्थम् च चाकनत् । एषु द्युम्नम् स्वर्यमत् । [१]मरुतो यस्य हि प्र अग्नये वाचम् इत्य् आग्निमारुतम् । (सोम व्यूळ्ह दशरात्र तृतीय छन्दोम अहः)

  1. १.८६.१