ऋग्वेदः सूक्तं १.१३४
← सूक्तं १.१३३ | ऋग्वेदः - मण्डल १ सूक्तं १.१३४ परुच्छेपो दैवोदासिः |
सूक्तं १.१३५ → |
दे. वायुः । अत्यष्टिः, ६ अष्टिः |
आ त्वा जुवो रारहाणा अभि प्रयो वायो वहन्त्विह पूर्वपीतये सोमस्य पूर्वपीतये ।
ऊर्ध्वा ते अनु सूनृता मनस्तिष्ठतु जानती ।
नियुत्वता रथेना याहि दावने वायो मखस्य दावने ॥१॥
मन्दन्तु त्वा मन्दिनो वायविन्दवोऽस्मत्क्राणासः सुकृता अभिद्यवो गोभिः क्राणा अभिद्यवः ।
यद्ध क्राणा इरध्यै दक्षं सचन्त ऊतयः ।
सध्रीचीना नियुतो दावने धिय उप ब्रुवत ईं धियः ॥२॥
वायुर्युङ्क्ते रोहिता वायुररुणा वायू रथे अजिरा धुरि वोळ्हवे वहिष्ठा धुरि वोळ्हवे ।
प्र बोधया पुरंधिं जार आ ससतीमिव ।
प्र चक्षय रोदसी वासयोषसः श्रवसे वासयोषसः ॥३॥
तुभ्यमुषासः शुचयः परावति भद्रा वस्त्रा तन्वते दंसु रश्मिषु चित्रा नव्येषु रश्मिषु ।
तुभ्यं धेनुः सबर्दुघा विश्वा वसूनि दोहते ।
अजनयो मरुतो वक्षणाभ्यो दिव आ वक्षणाभ्यः ॥४॥
तुभ्यं शुक्रासः शुचयस्तुरण्यवो मदेषूग्रा इषणन्त भुर्वण्यपामिषन्त भुर्वणि ।
त्वां त्सारी दसमानो भगमीट्टे तक्ववीये ।
त्वं विश्वस्माद्भुवनात्पासि धर्मणासुर्यात्पासि धर्मणा ॥५॥
त्वं नो वायवेषामपूर्व्यः सोमानां प्रथमः पीतिमर्हसि सुतानां पीतिमर्हसि ।
उतो विहुत्मतीनां विशां ववर्जुषीणाम् ।
विश्वा इत्ते धेनवो दुह्र आशिरं घृतं दुह्रत आशिरम् ॥६॥
सायणभाष्यम्
विंशेऽनुवाके षट् सूक्तानि । तत्र ‘ आ त्वा जुवः' इति षडृचं प्रथम सूक्तं पारुच्छेपमात्यष्टम् । ‘ त्वं नो वायो' इत्यन्त्या अष्टिः चतुःषष्ट्यक्षरा। ‘ वायव्यं तु ' इत्युच्यमानत्वात् इदमुत्तरं च वायुदेवत्यम् । अत्रानुक्रमणिका - ‘ आ त्वा षड्वायव्यं त्वन्त्याष्टिः' इति । विनियोगो लैङ्गिकः ।।
आ त्वा॒ जुवो॑ रारहा॒णा अ॒भि प्रयो॒ वायो॒ वह॑न्त्वि॒ह पू॒र्वपी॑तये॒ सोम॑स्य पू॒र्वपी॑तये ।
ऊ॒र्ध्वा ते॒ अनु॑ सू॒नृता॒ मन॑स्तिष्ठतु जान॒ती ।
नि॒युत्व॑ता॒ रथे॒ना या॑हि दा॒वने॒ वायो॑ म॒खस्य॑ दा॒वने॑ ॥१
आ । त्वा॒ । जुवः॑ । र॒र॒हा॒णाः । अ॒भि । प्रयः॑ । वायो॒ इति॑ । वह॑न्तु । इ॒ह । पू॒र्वऽपी॑तये । सोम॑स्य । पू॒र्वऽपी॑तये ।
ऊ॒र्ध्वा । ते॒ । अनु॑ । सू॒नृता॑ । मनः॑ । ति॒ष्ठ॒तु॒ । जा॒न॒ती ।
नि॒युत्व॑ता । रथे॑न । आ । या॒हि॒ । दा॒वने॑ । वायो॒ इति॑ । म॒खस्य॑ । दा॒वने॑ ॥१
आ । त्वा । जुवः । ररहाणाः । अभि । प्रयः । वायो इति । वहन्तु । इह । पूर्वऽपीतये । सोमस्य । पूर्वऽपीतये ।
ऊर्ध्वा । ते । अनु । सूनृता । मनः । तिष्ठतु । जानती ।
नियुत्वता । रथेन । आ । याहि । दावने । वायो इति । मखस्य । दावने ॥१
हे “वायो “त्वा त्वां “जुवः गमनशीलाः "ररहाणाः शीघ्रगामिनो बलवन्तो वा सामर्थ्यात् नियुत्संज्ञकाः अश्वाः ॥ ‘ रहि गतौ । लिटः कानच् । छान्दसोऽनुनासिकलोपः ॥ “इह अस्मिन् यज्ञे “प्रयः चरुपुरोडाशादि हविर्लक्षणमन्नं “वहन्तु प्रापयन्तु । किमर्थम् । पूर्वपीतये° पूर्ववत्पानाय । पुनः किमर्थम् । “पूर्वपीतये इतरदेवेभ्यः पुरा पानाय । मरुद्वृधादित्वात् पूर्वपदान्तोदात्तत्वम् ।। किंच हे वायो “ते तव संबन्धि “मनः “अनु “सूनृता प्रियसत्यात्मिका स्तुतिरूपा अस्मदीया वाक् “तिष्ठतु आश्रित्य सर्वदा वर्ततां हर्षयत्वित्यर्थः । सूनृतेति वाङ्नाम, ‘ सूनृता ब्रह्म इति तन्नामसु उक्तत्वात् । “ऊर्ध्वा उन्नता तथा “जानती तव गुणान् विशेषेणावगच्छन्ती । सोमपानार्थं स्तुत्यर्थं च हे “वायो “मखस्य यज्ञस्य "दावने दातव्याय हविषे तत्स्वीकाराय । पुनः किमर्थम् । “दावने अस्मभ्यमभिमतदानाय । उभयत्र ददातेः कर्मणि भावे च क्रमेण औणादिको वनिः । छान्दसः उपधालोपः ॥ “नियुत्वता “रथेन नियुद्भिर्युक्तेन रथेन “आ “याहि आगच्छ ।
मन्द॑न्तु त्वा म॒न्दिनो॑ वाय॒विन्द॑वो॒ऽस्मत्क्रा॒णास॒ः सुकृ॑ता अ॒भिद्य॑वो॒ गोभि॑ः क्रा॒णा अ॒भिद्य॑वः ।
यद्ध॑ क्रा॒णा इ॒रध्यै॒ दक्षं॒ सच॑न्त ऊ॒तय॑ः ।
स॒ध्री॒ची॒ना नि॒युतो॑ दा॒वने॒ धिय॒ उप॑ ब्रुवत ईं॒ धिय॑ः ॥२
मन्द॑न्तु । त्वा॒ । म॒न्दिनः॑ । वा॒यो॒ इति॑ । इन्द॑वः । अ॒स्मत् । क्रा॒णासः॑ । सुऽकृ॑ताः । अ॒भिऽद्य॑वः । गोभिः॑ । क्रा॒णाः । अ॒भिऽद्य॑वः ।
यत् । ह॒ । क्रा॒णाः । इ॒रध्यै॑ । दक्ष॑म् । सच॑न्ते । ऊ॒तयः॑ ।
स॒ध्री॒ची॒नाः । नि॒ऽयुतः॑ । दा॒वने॑ । धियः॑ । उप॑ । ब्रु॒व॒ते॒ । ई॒म् । धियः॑ ॥२
मन्दन्तु । त्वा । मन्दिनः । वायो इति । इन्दवः । अस्मत् । क्राणासः । सुऽकृताः । अभिऽद्यवः । गोभिः । क्राणाः । अभिऽद्यवः ।
यत् । ह । क्राणाः । इरध्यै । दक्षम् । सचन्ते । ऊतयः ।
सध्रीचीनाः । निऽयुतः । दावने । धियः । उप । ब्रुवते । ईम् । धियः ॥२
हे “वायो “त्वा त्वाम् “अस्मत् अस्माकं संबन्धिनः “इन्दवः क्लेदयितारः सोमाः “मन्दन्तु मादयन्तु । व्यत्ययेन परस्मैपदम् ।। कीदृशाः सोमाः । “मन्दिनः मादयितारः “क्राणासः कुर्वाणाः स्वकार्य हर्षादिकं “सुकृताः अभिषवदशापवित्रशोधनग्रहणादिभिः सुष्ठु कृताः "अभिद्यवः अभितो द्योतयन्तः “गोभिः वाग्भिर्मन्त्ररूपाभिः “क्राणाः क्रियमाणा हूयमानाः । यद्वा । गोभिः गन्तृभिः आहवनीयं प्रति आनेतृभिः क्राणा हूयमानाः ॥ करोतेः शानच् । छान्दसः शपो लुक् । तथा “अभिद्यवः अभिगन्तारः । हे वायो “यत् यस्मात् कारणात् । हशब्दः प्रसिद्धौ। “दक्षम् अस्मद्यागदेशं प्रति गन्तुमुत्साहवन्तं समर्धयितारम् “ईं त्वां “नियुतः एतसंज्ञकास्तवाश्वा: “दावने दानाय हविःस्वीकारनिमित्तं “धियः कर्माणि उद्दिश्य “सचन्ते त्वां संगच्छन्ते यागदेशं वा । किमर्थम् । “इरध्यै प्रापयितुं परिचरितुं वा ॥ ‘ ईर गतौ । तुमर्थे कध्यैप्रत्ययः । ह्रस्वश्छान्दसः ॥ इरध्यतिः परिचरणकर्मा, इरध्यति विधेम' (नि. ३. ५. १) इति तन्नामसूक्तत्वात् । कीदृशास्ताः। “क्राणाः स्वव्यापारं रथवाहनादिकं कुर्वाणाः । ‘ क्राणाः कुर्वाणाः ' ( निरु. ४. १९) इति यास्कः । “ऊतयः रक्षणवत्यः प्रीतियुक्ता वा तथा “सध्रीचीनाः त्वया सह अञ्चन्त्यो गच्छन्त्यः ॥ ‘ सहस्य सध्रिः' । ‘विभाषाञ्चेः० इति स्वार्थे खः । व्यत्ययेनान्तोदात्तः ॥ किंच “धियः कर्मवन्तो बुद्धिमन्तो वा ऋत्विजो यजमाना वा “उप “ब्रुवते उपेत्य ब्रुवन्ति स्वाभिमतं विज्ञापयन्ति वा ॥
वा॒युर्यु॑ङ्क्ते॒ रोहि॑ता वा॒युर॑रु॒णा वा॒यू रथे॑ अजि॒रा धु॒रि वोळ्ह॑वे॒ वहि॑ष्ठा धु॒रि वोळ्ह॑वे ।
प्र बो॑धया॒ पुरं॑धिं जा॒र आ स॑स॒तीमि॑व ।
प्र च॑क्षय॒ रोद॑सी वासयो॒षस॒ः श्रव॑से वासयो॒षस॑ः ॥३
वा॒युः । यु॒ङ्क्ते॒ । रोहि॑ता । वा॒युः । अ॒रु॒णा । वा॒युः । रथे॑ । अ॒जि॒रा । धु॒रि । वोळ्ह॑वे । वहि॑ष्ठा । धु॒रि । वोळ्ह॑वे ।
प्र । बो॒ध॒य॒ । पुर॑म्ऽधिम् । जा॒रः । आ । स॒स॒तीम्ऽइ॑व ।
प्र । च॒क्ष॒य॒ । रोद॑सी॒ इति॑ । वा॒स॒य॒ । उ॒षसः॑ । श्रव॑से । वा॒स॒य॒ । उ॒षसः॑ ॥३
वायुः । युङ्क्ते । रोहिता । वायुः । अरुणा । वायुः । रथे । अजिरा । धुरि । वोळ्हवे । वहिष्ठा । धुरि । वोळ्हवे ।
प्र । बोधय । पुरम्ऽधिम् । जारः । आ । ससतीम्ऽइव ।
प्र । चक्षय । रोदसी इति । वासय । उषसः । श्रवसे । वासय । उषसः ॥३
अयं “वायुः “रोहिता रोहितवर्णावश्वौ “धुरि धारणप्रदेशे रथस्याग्रभागे यद्वा भारवहने “युङ्क्ते क्वचिद्योजयति । तथा क्वचित् “अरुणा अरुणवर्णौ धुरि युङ्क्ते। तथा “अजिरा अजिरौ गमनशीलौ वर्णविशेषयुक्तौ कदाचिद्युङ्क्ते । यद्वा । एतदुभयत्र संबध्यते । किमर्थं युङ्क्ते इति तदाह । "वोळ्हवे धुरं वोढुं भारवहनाय । किंच "वहिष्ठा वहिष्ठौ अतिशयेन वोढारावश्वौ ॥ वोढृशब्दात् इष्टनि तुरिष्ठेमेयःसु' इति तृलोपः । ढत्वादिकम् असिद्धत्वान्निवर्तते । द्विवचनस्य आकारः ॥ “धुरि “वोळ्हवे महद्भारं वोढुं महति भारे वोढव्ये सति । पुनःपुनर्वायुग्रहणम् अश्वयोजनवचनं च अतिशीघ्रमागच्छतीति ज्ञापनार्थम् । इदानीं प्रत्यक्षेणाह । हे वायो “पुरंधिं बहुप्रज्ञं सामर्थ्यात् यजमानमिति गम्यते । पुरंधिर्बहुधीः " (निरु. ६. १३) इति यास्कः । तं “प्र “बोधय । रथेन शीघ्रमागत्य प्रज्ञापय हविःस्वीकारायेति भावः । तत्र दृष्टान्तः । “जारः पारदारिकः “आ “ससतीम् उपपत्यागमनध्यानेन ईषत् स्वपन्तीं पुरंधिमिव प्रकृष्टशरीरधारिणीं योषितमिव । तां यथा स्वसङ्केतेन स प्रबोधयति तद्वत् त्वमपि कर्मव्यग्रेण ईषत्स्वपन्तं यजमानं प्र बोधय । किंच तदर्थं "रोदसी द्यावापृथिव्यौ “प्र “चक्षय प्रकर्षेण प्रख्यापय प्रकाशयेत्यर्थः । तत्प्रकाशार्थम् “उषसः “वासय उषःकालानपि यथावत्स्थापय प्रभातं कुर्वित्यर्थः। पुनस्तदेव प्रार्थ्यते । “श्रवसे । श्रव इत्यन्ननाम । तव हवीरूपान्नस्वीकाराय “उषसः “वासय ॥
तुभ्य॑मु॒षास॒ः शुच॑यः परा॒वति॑ भ॒द्रा वस्त्रा॑ तन्वते॒ दंसु॑ र॒श्मिषु॑ चि॒त्रा नव्ये॑षु र॒श्मिषु॑ ।
तुभ्यं॑ धे॒नुः स॑ब॒र्दुघा॒ विश्वा॒ वसू॑नि दोहते ।
अज॑नयो म॒रुतो॑ व॒क्षणा॑भ्यो दि॒व आ व॒क्षणा॑भ्यः ॥४
तुभ्य॑म् । उ॒षसः॑ । शुच॑यः । प॒रा॒ऽवति॑ । भ॒द्रा । वस्त्रा॑ । त॒न्व॒ते॒ । दंऽसु॑ । र॒श्मिषु॑ । चि॒त्रा । नव्ये॑षु । र॒श्मिषु॑ ।
तुभ्य॑म् । धे॒नुः । स॒बः॒ऽदुघा॑ । विश्वा॑ । वसू॑नि । दो॒ह॒ते॒ ।
अज॑नयः । म॒रुतः॑ । व॒क्षणा॑भ्यः । दि॒वः । आ । व॒क्षणा॑भ्यः ॥४
तुभ्यम् । उषसः । शुचयः । पराऽवति । भद्रा । वस्त्रा । तन्वते । दंऽसु । रश्मिषु । चित्रा । नव्येषु । रश्मिषु ।
तुभ्यम् । धेनुः । सबःऽदुघा । विश्वा । वसूनि । दोहते ।
अजनयः । मरुतः । वक्षणाभ्यः । दिवः । आ । वक्षणाभ्यः ॥४
हे वायो “तुभ्यं त्वदर्थम् "उषासः उषसः पूर्वोक्तरीत्या त्वया प्रकाशिताः “शुचयः शुद्धा दीप्ता वा “परावति अत्यन्तदूरदेशे अन्तरिक्षे “दंसु दंसेषु कर्मवत्सु। यद्वा । गृहनामैतत् ॥ अन्त्यलोपश्छान्दसः ॥ गृहवत् आच्छादकेषु । “रश्मिषु स्वकीयेषु तैः "भद्रा भन्दनीयानि कल्याणानि “वस्त्रा आच्छादनयोग्यानि वस्त्राणि “तन्वते विस्तारयन्ति । यद्वा । उषसो दंसु यागगृहेषु देवयजनेषु रश्मिषु होमाय प्रदीप्ताग्निज्वालावत्सु आगताय तुभ्यं भद्रा वस्त्रा तन्वते अग्निज्वाला एव वस्त्राणि विस्तारयन्तीत्यर्थः । उषःकाले अग्नीनां प्रज्वाल्यमानत्वात् ता एव वस्त्राणीत्युपचर्यते । ननु केवलं साधारणानि वस्त्राणि नेत्याह । “नव्येषु नूतनेषु स्तूयमानेषु ॥ ‘णु स्तुतौ ' । अचो यत् । ‘वान्तो यि प्रत्यये ' इति अवादेशः । यतोऽनावः' इत्याद्युदात्तत्वम् ॥ रश्मिषु चित्राणि नानावर्णयुक्तानि आश्चर्यभूतानि “तन्वते । उषःकाले रश्मीनां नानावर्णत्वादिति भावः । अग्निद्वारेति पक्षे ज्वालानां कालीकरालीत्यादिरूपेण नानावर्णत्वाच्चित्रत्वम् ॥ किंच हे वायो “तुभ्यं त्वदर्थं त्वद्यागार्थमेव “धेनुः घृतादिना प्रीणयित्री गौः । जातानेकवचनम् । 'सबर्दुघा । सबरिति अमृतनाम । तस्य दोग्ध्री ॥ ‘ दुहः कब्धश्च ' इति कप् ॥ सती “विश्वा “वसूनि सर्वाणि धनानि आज्यादिरूपाणि "दोहते स्वयमेव दुग्धे प्रीणयतीत्यर्थः । कर्मकर्तरि ' न दुहस्नुनमाम् ' (पा. सू. ३. १. ८९ ) इति यगभावः । छान्दसः शपो लुगभावः ।। कस्तत्र विशेषः इति चेत् उच्यते । हे वायो “दिवः दीप्तादन्तरिक्षात् "मरुतः एतन्नामकान् मेघं विशीर्य वृष्ट्युत्पादकान् त्वदंशभूतान् देवान् “अजनयः जनयसि उत्पादयसि । किमर्थमिति तदुच्यते । “वक्षणाभ्यः प्रवहणशीलाभ्यः अद्भ्यो वृष्टिलक्षणाभ्यः । तथा “वक्षणाभ्यः । नदीनामैतत्, ‘वक्षणाः रुजानाः' ( नि. १. १३. ९) इति तन्नामसु पाठात् । तासामर्थाय ॥
तुभ्यं॑ शु॒क्रास॒ः शुच॑यस्तुर॒ण्यवो॒ मदे॑षू॒ग्रा इ॑षणन्त भु॒र्वण्य॒पामि॑षन्त भु॒र्वणि॑ ।
त्वां त्सा॒री दस॑मानो॒ भग॑मीट्टे तक्व॒वीये॑ ।
त्वं विश्व॑स्मा॒द्भुव॑नात्पासि॒ धर्म॑णासु॒र्या॑त्पासि॒ धर्म॑णा ॥५
तुभ्य॑म् । शु॒क्रासः॑ । शुच॑यः । तु॒र॒ण्यवः॑ । मदे॑षु । उ॒ग्राः । इ॒ष॒ण॒न्त॒ । भु॒र्वणि॑ । अ॒पाम् । इ॒ष॒न्त॒ । भु॒र्वणि॑ ।
त्वाम् । त्सा॒री । दस॑मानः । भग॑म् । ई॒ट्टे॒ । त॒क्व॒ऽवीये॑ ।
त्वम् । विश्व॑स्मात् । भुव॑नात् । पा॒सि॒ । धर्म॑णा । अ॒सु॒र्या॑त् । पा॒सि॒ । धर्म॑णा ॥५
तुभ्यम् । शुक्रासः । शुचयः । तुरण्यवः । मदेषु । उग्राः । इषणन्त । भुर्वणि । अपाम् । इषन्त । भुर्वणि ।
त्वाम् । त्सारी । दसमानः । भगम् । ईट्टे । तक्वऽवीये ।
त्वम् । विश्वस्मात् । भुवनात् । पासि । धर्मणा । असुर्यात् । पासि । धर्मणा ॥५
हे वायो “तुभ्यं त्वदर्थं “शुक्रासः दीप्ताः “शुचयः शुद्धाः । सोमस्य पातारोऽत्यन्तं शुद्धा भवन्ति । किमु वक्तव्यं तेषां शुद्धत्वे। “तुरण्यवः त्वरणयुक्ताः त्वां प्राप्तुं “उग्राः उद्गूर्णतेजसः सोमाः “मदेषु तव मदेषु निमित्तभूतेषु "भुर्वणि भरणवति यागे “इषणन्त आहवनीयं प्रति गच्छन्ति इच्छन्ति वा ॥ व्यत्ययेन आत्मनेपदम् । शश्नमौ द्वौ विकरणौ ॥ किंच अपां "भुर्वणि मेघे “इषन्त उदकमिच्छन्ति उत्पादयितुम् । अग्नौ हूयमानस्य आहुतेरादित्यद्वारा वृष्ट्युत्पादकत्वात् । यद्वा । यजमानाः त्वामुद्दिश्य आजुह्वाना अपां वर्षणम् इषन्त इच्छन्ति। किंच हे वायो "भगं भजनीयं “त्वां “त्सारी त्सरणवान् अत्यन्तभीतः “दसमानः उपक्षीणो यज्ञविघातकैः पयोव्रतादिनियमैर्वा यजमानः “तक्ववीये तस्कराणां यज्ञविघातिनाम् अन्यत्र गमनाय “ईट्टे स्तौति ॥ ‘ ईड स्तुतौ '। अदादित्वात् शपो लुक् ॥ यतः “त्वं “विश्वस्माद्भुवनात् सर्वस्माल्लोकात् भूतजाताद्वा लोकत्रयसंबन्धिनो भयात् “धर्मणा अस्मदीयहविषां धारणेन “पासि पालयसि । किंच “असुर्यात् असुरसंबन्धिनो भयात् विशेषेण “पासि “धर्मणा अस्मद्धारणेन पोषणेन वा युक्तः सन् । यत एवं करोषि अतः स्तौमीत्यर्थः ॥
त्वं नो॑ वायवेषा॒मपू॑र्व्य॒ः सोमा॑नां प्रथ॒मः पी॒तिम॑र्हसि सु॒तानां॑ पी॒तिम॑र्हसि ।
उ॒तो वि॒हुत्म॑तीनां वि॒शां व॑व॒र्जुषी॑णाम् ।
विश्वा॒ इत्ते॑ धे॒नवो॑ दुह्र आ॒शिरं॑ घृ॒तं दु॑ह्रत आ॒शिर॑म् ॥६
त्वम् । नः॒ । वा॒यो॒ इति॑ । ए॒षा॒म् । अपू॑र्व्यः । सोमा॑नाम् । प्र॒थ॒मः । पी॒तिम् । अ॒र्ह॒सि॒ । सु॒ताना॑म् । पी॒तिम् । अ॒र्ह॒सि॒ ।
उ॒तो इति॑ । वि॒हुत्म॑तीनाम् । वि॒शाम् । व॒व॒र्जुषी॑णाम् ।
विश्वाः॑ । इत् । ते॒ । धे॒नवः॑ । दु॒ह्रे॒ । आ॒ऽशिर॑म् । घृ॒तम् । दु॒ह्र॒ते॒ । आ॒ऽशिर॑म् ॥६
त्वम् । नः । वायो इति । एषाम् । अपूर्व्यः । सोमानाम् । प्रथमः । पीतिम् । अर्हसि । सुतानाम् । पीतिम् । अर्हसि ।
उतो इति । विहुत्मतीनाम् । विशाम् । ववर्जुषीणाम् ।
विश्वाः । इत् । ते । धेनवः । दुह्रे । आऽशिरम् । घृतम् । दुह्रते । आऽशिरम् ॥६
हे वायो “त्वम् "अपूर्व्यः । न विद्यते पूर्वं यस्मात् तत्पानमपूर्वम् । तदर्हतीत्यपूर्व्यः । तादृशः अत एव "प्रथमः इतरदेवेभ्यः पूर्वभूतः सन् “सोमानां “पीतिं पानम् “अर्हसि प्राप्नोषि। “सुतानाम् अभिषवकृतानां सोमानां “पीतिं पानम् “अर्हसि । यत्र यत्र अभिषवोऽस्ति तत्र सर्वत्र नियमेन पिबसीत्यर्थः । पूर्वं प्राथम्याभिप्रायेण इदानीं तु सर्वत्र सोमवति यागे अस्य पानमस्तीति ज्ञापयितुं पृथगभिधानम् । न केवलं सोमपानमात्रम् “उतो अपि तु “विहुत्मतीनां विशेषेण होमवतीनामाह्वानवतीनां वा ।। जुहोतेः संपदादिलक्षणो भावे क्विप् । ततो मतुब्ङीपौ ॥ “ववर्जुषीणाम् अनभिमतपापं वर्जयन्तीनाम् ॥ वर्जयतेर्लिटः क्वसुङीप्संप्रसारणत्वानि ॥ “विशाम् ऋत्विग्यजमानरूपाणां प्रजानां संबन्धि हविः स्वीकरोषीति शेषः । यद्वा । तेषां यष्टॄणां “विश्वाः “इत् “धेनवः सर्वा अपि गावः “ते त्वदर्थम् “आशिरम् आश्रयणद्रव्यं क्षीरं “दुहे दुहन्ति स्वयमेव ॥ कर्मकर्तरि ‘ न दुहस्नुनमाम्° इति यगभावः । ‘ लोपस्त आत्मनेपदेषु' इति तलोपः । ‘ बहुलं छन्दसि ' इति रुट् ॥ तथा “आशिरं “घृतम् उपस्तरणाभिघारणाद्याश्रयणाय योग्यं करणं द्रव्यं “दुह्रते ॥ ॥ २३ ॥
टिप्पणी
१.१३४.२ यद्ध क्राणा इरध्यै द....उप ब्रुवत ईं धियः
ईं धियः। डा. फतहसिंहः कथयति स्म यत् वेदे भूम्यस्तरे ईं शक्तिः अस्ति, स्वर्गस्य स्तरे ऊं। ऋग्वेदे १.१४३.७ ऊं धियस्य उल्लेखः अस्ति - इन्धानो अक्रो विदथेषु दीद्यच्छुक्रवर्णामुदु नो यंसते धियम् ॥ एकः बहुवचने अस्ति, अन्यः एकवचने।
१.१३४.६
आशिरं - तृतीयसवने सोममिश्रणार्थं पयोदध्यादिकं आशिरमित्युच्यते।
मण्डल १ | ||||||
---|---|---|---|---|---|---|
|