ऋग्वेदः सूक्तं १.११

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १.११ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं १.१० ऋग्वेदः - मण्डल १
सूक्तं १.११
जेता माधुच्छन्दसः
सूक्तं १.१२ →
दे. इन्द्रः। अनुष्टुप्।


इन्द्रं विश्वा अवीवृधन्समुद्रव्यचसं गिरः ।
रथीतमं रथीनां वाजानां सत्पतिं पतिम् ॥१॥
सख्ये त इन्द्र वाजिनो मा भेम शवसस्पते ।
त्वामभि प्र णोनुमो जेतारमपराजितम् ॥२॥
पूर्वीरिन्द्रस्य रातयो न वि दस्यन्त्यूतयः ।
यदी वाजस्य गोमत स्तोतृभ्यो मंहते मघम् ॥३॥
पुरां भिन्दुर्युवा कविरमितौजा अजायत ।
इन्द्रो विश्वस्य कर्मणो धर्ता वज्री पुरुष्टुतः ॥४॥
त्वं वलस्य गोमतोऽपावरद्रिवो बिलम् ।
त्वां देवा अबिभ्युषस्तुज्यमानास आविषुः ॥५॥
तवाहं शूर रातिभिः प्रत्यायं सिन्धुमावदन् ।
उपातिष्ठन्त गिर्वणो विदुष्टे तस्य कारवः ॥६॥
मायाभिरिन्द्र मायिनं त्वं शुष्णमवातिरः ।
विदुष्टे तस्य मेधिरास्तेषां श्रवांस्युत्तिर ॥७॥
इन्द्रमीशानमोजसाभि स्तोमा अनूषत ।
सहस्रं यस्य रातय उत वा सन्ति भूयसीः ॥८॥

[सम्पाद्यताम्]

सायणभाष्यम्

‘इन्द्रं विश्वा' इत्यष्टर्चस्य सूक्तस्य मधुच्छन्दसः पुत्रो जेतृनामक ऋषिः । तथा चानुक्रान्तम्-- ‘इन्द्रमष्टौ जेता माधुच्छन्दसः' इति । छन्दस्त्वानुष्टुभमिति पूर्वसूक्तोक्तम् । इन्द्रो देवतानुवर्तते । विनियोगस्तु- महाव्रते निष्केवल्ये कृत्स्नसूक्तं शंसनीयम् । “ऊरू' इति खण्डे शौनकेन सूत्रितम्-‘इन्द्रं विश्वा अवीवृधन्नित्यानुष्टुभं तस्य प्रथमायाः पूर्वमर्धर्चं शस्त्वोत्तरेणार्धर्चेनोत्तरस्याः पूर्वमर्धर्चं व्यतिषजति पादैः पादाननुष्टुप्कार प्रागुत्तमायाः' (ऐ. आ. ५. ३. १ ) इति । ब्राह्मणं च प्रथमारण्यके पठ्यते ‘प्र वो महे' इति खण्डे–' इन्द्रं विश्वा अवीवृधन्निति पदानुषङ्गाः ' ( ऐ. आ. १. ५. २ ) इति । तथा पृष्ठ्यस्य पञ्चमेऽहनि निष्केवल्ये शस्त्रे ‘इन्द्रं विश्वा अवीवृधन्' इत्यनुरूपस्तृचः । स्तोमे वर्धमाने' इति खण्डे सूत्रितम्-’उप नो हरिभिः सुतमिन्द्रं विश्वा अवीवृधन्' (आश्व. श्रौ. ७. १२) इति ॥


इंद्रं॒ विश्वा॑ अवीवृधंत्समु॒द्रव्य॑चसं॒ गिरः॑ ।

र॒थीत॑मं र॒थीनां॒ वाजा॑नां॒ सत्प॑तिं॒ पतिं॑ ॥१

इन्द्र॑म् । विश्वाः॑ । अ॒वी॒वृ॒ध॒न् । स॒मु॒द्रऽव्य॑चसम् । गिरः॑ ।

र॒थिऽत॑मम् । र॒थिना॑म् । वाजा॑नाम् । सत्ऽप॑तिम् । पति॑म् ॥

इन्द्रम् । विश्वाः । अवीवृधन् । समुद्रऽव्यचसम् । गिरः ।

रथिऽतमम् । रथिनाम् । वाजानाम् । सत्ऽपतिम् । पतिम् ॥


स॒ख्ये त॑ इंद्र वा॒जिनो॒ मा भे॑म शवसस्पते ।

त्वाम॒भि प्र णो॑नुमो॒ जेता॑र॒मप॑राजितं ॥२

स॒ख्ये । ते॒ । इ॒न्द्र॒ । वा॒जिनः॑ । मा । भे॒म॒ । श॒व॒सः॒ । प॒ते॒ ।

त्वाम् । अ॒भि । प्र । नो॒नु॒मः॒ । जेता॑रम् । अप॑राऽजितम् ॥

सख्ये । ते । इन्द्र । वाजिनः । मा । भेम । शवसः । पते ।

त्वाम् । अभि । प्र । नोनुमः । जेतारम् । अपराऽजितम् ॥


पू॒र्वीरिंद्र॑स्य रा॒तयो॒ न वि द॑स्यंत्यू॒तयः॑ ।

यदी॒ वाज॑स्य॒ गोम॑तः स्तो॒तृभ्यो॒ मंह॑ते म॒घं ॥३

पू॒र्वीः । इन्द्र॑स्य । रा॒तयः॑ । न । वि । द॒स्य॒न्ति॒ । ऊ॒तयः॑ ।

यदि॑ । वाज॑स्य । गोऽम॑तः । स्तो॒तृऽभ्यः॑ । मंह॑ते । म॒घम् ॥

पूर्वीः । इन्द्रस्य । रातयः । न । वि । दस्यन्ति । ऊतयः ।

यदि । वाजस्य । गोऽमतः । स्तोतृऽभ्यः । मंहते । मघम् ॥


पु॒रां भिं॒दुर्युवा॑ क॒विरमि॑तौजा अजायत ।

इंद्रो॒ विश्व॑स्य॒ कर्म॑णो ध॒र्ता व॒ज्री पु॑रुष्टु॒तः ॥४

पु॒राम् । भि॒न्दुः । युवा॑ । क॒विः । अमि॑तऽओजाः । अ॒जा॒य॒त॒ ।

इन्द्रः॑ । विश्व॑स्य । कर्म॑णः । ध॒र्ता । व॒ज्री । पु॒रु॒ऽस्तु॒तः ॥

पुराम् । भिन्दुः । युवा । कविः । अमितऽओजाः । अजायत ।

इन्द्रः । विश्वस्य । कर्मणः । धर्ता । वज्री । पुरुऽस्तुतः ॥


त्वं व॒लस्य॒ गोम॒तोऽपा॑वरद्रिवो॒ बिलं॑ ।

त्वां दे॒वा अबि॑भ्युषस्तु॒ज्यमा॑नास आविषुः ॥५

त्वम् । व॒लस्य॑ । गोऽम॑तः । अप॑ । अ॒वः॒ । अ॒द्रि॒ऽवः॒ । बिल॑म् ।

त्वाम् । दे॒वाः । अबि॑भ्युषः । तु॒ज्यमा॑नासः । आ॒वि॒षुः॒ ॥

त्वम् । वलस्य । गोऽमतः । अप । अवः । अद्रिऽवः । बिलम् ।

त्वाम् । देवाः । अबिभ्युषः । तुज्यमानासः । आविषुः ॥


तवा॒हं शू॑र रा॒तिभिः॒ प्रत्या॑यं॒ सिंधु॑मा॒वद॑न् ।

उपा॑तिष्ठंत गिर्वणो वि॒दुष्टे॒ तस्य॑ का॒रवः॑ ॥६

तव॑ । अ॒हम् । शू॒र॒ । रा॒तिऽभिः॑ । प्रति॑ । आ॒य॒म् । सिन्धु॑म् । आ॒ऽवद॑न् ।

उप॑ । अ॒ति॒ष्ठ॒न्त॒ । गि॒र्व॒णः॒ । वि॒दुः । ते॒ । तस्य॑ । का॒रवः॑ ॥

तव । अहम् । शूर । रातिऽभिः । प्रति । आयम् । सिन्धुम् । आऽवदन् ।

उप । अतिष्ठन्त । गिर्वणः । विदुः । ते । तस्य । कारवः ॥


मा॒याभि॑रिंद्र मा॒यिनं॒ त्वं शुष्ण॒मवा॑तिरः ।

वि॒दुष्टे॒ तस्य॒ मेधि॑रा॒स्तेषां॒ श्रवां॒स्युत्ति॑र ॥७

मा॒याभिः॑ । इ॒न्द्र॒ । मा॒यिन॑म् । त्वम् । शुष्ण॑म् । अव॑ । अ॒ति॒रः॒ ।

वि॒दुः । ते॒ । तस्य॑ । मेधि॑राः । तेषा॑म् । श्रवां॑सि । उत् । ति॒र॒ ॥

मायाभिः । इन्द्र । मायिनम् । त्वम् । शुष्णम् । अव । अतिरः ।

विदुः । ते । तस्य । मेधिराः । तेषाम् । श्रवांसि । उत् । तिर ॥


इंद्र॒मीशा॑न॒मोज॑सा॒भि स्तोमा॑ अनूषत ।

स॒हस्रं॒ यस्य॑ रा॒तय॑ उ॒त वा॒ संति॒ भूय॑सीः ॥८

इन्द्र॑म् । ईशा॑नम् । ओज॑सा । अ॒भि । स्तोमाः॑ । अ॒नू॒ष॒त॒ ।

स॒हस्र॑म् । यस्य॑ । रा॒तयः॑ । उ॒त । वा॒ । सन्ति॑ । भूय॑सीः ॥

इन्द्रम् । ईशानम् । ओजसा । अभि । स्तोमाः । अनूषत ।

सहस्रम् । यस्य । रातयः । उत । वा । सन्ति । भूयसीः ॥

मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.११&oldid=182527" इत्यस्माद् पुनः प्राप्तिः