नारदपुराणम्- पूर्वार्धः/अध्यायः ५१

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५


अथातः संप्रवक्ष्यामि कल्पग्रन्थं मुनीश्वर।
यस्य विज्ञानमात्रेण स्यात् कर्मकुशलो नरः 1.51.१।
नक्षत्रकल्पो वेदानां संहितानां तथैव च।
चतुर्थः स्यादाङ्गिरसः शान्तिकल्पश्च पञ्चमः २।
नक्षत्राधीश्वराख्यानं विस्तरेण यथातथम्।
नक्षत्रकल्पे निर्दिष्टं ज्ञातव्यं तदिहापि च ३।
वेदकल्पे विधानं तु ऋगादीनां मुनीश्वर।
धर्मार्थकाममोक्षाणां सिद्ध्यै प्रोक्तं सविस्तरम् ४।
मन्त्राणामृषयश्चैव छन्दांस्यथ च देवताः।
निर्दिष्टाः संहिताकल्पे मुनिभिस्तत्त्वदर्शिभिः ५।
तथैवाङ्गिरसे कल्पे षट्कर्माणि सविस्तरम्।
अभिचारविधानेन निर्दिष्टानि स्वयम्भुवा ६।
शान्तिकल्पे तु दिव्यानां भौमानां मुनिसत्तम।
तथान्तरिक्षोत्पातानां शान्तयो ह्युदिताः पृथक् ७।
संक्षेपेणैतदुद्दिष्टं लक्षणं कल्पलक्षणे।
विशेषः पृथगेतेषां स्थितः शाखान्तरेषु च ८।
गृह्यकल्पे तु सर्वेषामुपयोगितयाऽधुना।
वक्ष्यामि ते द्विजश्रेष्ठ सावधानतया शृणु ९।
ॐकारश्चाथ शब्दश्च द्वावेतौ ब्रह्मणः पुरा।
कण्ठं भित्वा विनिर्यातौ तस्मान्माङ्गल्यकाविमौ १०।
कृत्वा प्रोक्तानि कर्माणि तदूर्द्ध्वानि करोति यः।
सोऽथ शब्दं प्रयुञ्जीत तदानन्त्यार्थमिष्यते ११।
कुशाः परिसमूहाय व्यस्तशाखाः प्रकीर्तिताः।
न्यूनाधिका निष्फलाय कर्मणोऽभिमतस्य च १२।
कृमिकीटपतङ्गाद्या भ्रमति वसुधातले।
तेषां संरक्षणार्थाय प्रोक्तं परिसमूहनम् १३।
रेखाः प्रोक्ताश्च यास्तिस्रः कर्तव्यास्ताः समा द्विज।
न्यूनाधिका न कर्तव्या इत्येव परिभाषितम् १४।
मेदिनी मेदसा व्याप्ता मधुकैटभदैत्ययोः।
गोमयेनोपलेप्येयं तदर्थमिति नारद १५।
वन्ध्या दुष्टा च दीनाङ्गी मृतवत्सा स च या भवेत्।
यज्ञार्थं गोमयं तस्या नाहरेदिति भाषितम् १६।
ये भ्रमन्ति सदाकाशे पतङ्गाद्या भयङ्कराः।
तेषां प्रहरणार्थाय मतं प्रोद्धरणं द्विज १७।
स्रुवेण च कुशेनापि कुर्यादुल्लेखनं भुवः।
अस्थिकण्टकसिर्द्ध्य्थं ब्रह्मणा परिभाषितम् १८।
आपो देवगणाः सर्वे तथा पितृगणा द्विज।
तेनाद्भिरुक्षणं प्रोक्तं मुनिभिर्विधिकोविदैः १९।
अग्नेरानयनं प्रोक्तं सौभाग्यस्त्रीभिरेव च।
शुभदे मृण्मये पात्रे प्रोक्ष्याद्भिस्तं निधापयेत् २०।
अमृतस्य क्षयं दृष्ट्वा ब्रह्माद्यैः सर्वदैवतैः।
वेद्यां निधापितस्तस्मात्समिद्गर्भो हुताशनः २१।
दक्षिणस्यां दानवाद्याः स्थिता यज्ञस्य नारद।
तेभ्यः संरक्षणार्थाय ब्रह्माणं तद्दिशि न्यसेत् २२।
उत्तरे सर्वपात्राणि प्रणीताद्यानि पश्चिमे।
यजमानः पूर्वतः स्युर्द्विजाः सर्वेऽपि नारद २३।
द्यूते च व्यवहारे च यज्ञकर्मणि चेद्भवेत्।
कर्त्तोदासीनचित्तस्तत्कर्म नश्येदिति स्थितिः २४।
ब्रह्माचार्यौ स्वशाखौ हि कर्तव्यौ यज्ञकर्मणि।
ऋत्विजां नियमो नास्ति यथालाभं समर्चयेत् २५।
द्वे पवित्रे त्र्यङ्गुलेस्तः प्रोक्षिणी चतुरङ्गुला।
आज्यस्थाली त्र्यङ्गुलाथ चरुस्थाली षडङ्गुला २६।
द्व्यङ्गुलं तूपयमनमेकं सम्मार्जनाङ्गुलम्।
स्रुवं षडङ्गुलं प्रोक्तं स्रुचं सार्द्धत्रयाङ्गुलम् २७।
प्रादेशमात्रा समिधः पूर्णपात्रं षडङ्गुलम्।
प्रोक्षिण्या उत्तरे भागे प्रणीतापात्रमष्टभिः २८।
यानि कानि च तीर्थानि समुद्राः सरितस्तथा।
प्रणीतायां समासन्नात्तस्मात्तां पूरयेज्जलैः २९।
वैदिका वस्त्रहीना च नग्ना संप्रोच्यते द्विज।
परिस्तीर्य्य ततो दर्भैः परिदध्यादिमां बुधः ३०।
इन्द्र वज्रं विष्णुचक्रं वामदेवत्रिशूलकम्।
दर्भरूपतया त्रीणि पवित्रच्छेदनानि च ३१।
प्रोक्षणी च प्रकर्तव्या प्रणीतोदकसंयुता।
तेनातिपुण्यदं कर्म पवित्रमिति कीर्तितम् ३२।
आज्यस्थाली प्रकर्तव्या पलमात्रप्रमाणिका।
कुलालचक्रघटितं आसुरं मृण्मयं स्मृतम् ३३।
तदेव हस्तघटितं स्थाल्यादि दैविकं भवेत्।
स्रुवे च सर्वकर्माणि शुभान्यप्यशुभानि च ३४।
तस्य चैव पवित्रार्थं वह्नौ तापनमीरितम्।
अग्रे धृतेन वैधव्यं मध्ये चैव प्रजाक्षयः ३५।
मूले च म्रियते होता तस्माद्धार्यं विचार्य तत्।
अग्निः सूर्यश्च सोमश्च विरञ्चिरनिलो यमः ३६।
स्रुवे षडेते दैवास्तु प्रत्यङ्गुलमुपाश्रिताः।
अग्निर्भोगार्थनाशाय सूर्यो व्याधिकरो भवेत् ३७।
निष्फलस्तु स्मृतः सोमो विरञ्चिः सर्वकामदः।
अनिलो वृद्धिदः प्रोक्तो यमो मृत्युप्रदो मतः ३८।
सम्मार्जनोपयमनं कर्तव्यं च कुशद्वयम्।
पूर्वं तु सर्वशाखं स्यात्पञ्चशाखं तथा परम् ३९।
श्रीपर्णी च शमी तद्वत्खदिरश्च विकङ्कतः।
पलाशश्चैव विज्ञेयाः स्रुवे चैव तथा स्रुचि ४०।
हस्तोन्मितं स्रुवं शस्तं त्रिदशाङ्गुलिकं स्रुचम्।
विप्राणां चैतदाख्यातं ह्यन्येषामङ्गुलोनकम् ४१।
शूद्रा णां पतितानां च खरादीनां च नारद।
दृष्टिदोषविनाशार्थं पात्राणां प्रोक्षणं स्मृतम् ४२।
अकृते पूर्णपात्रे तु यज्ञच्छिद्रं समुद्भवेत्।
तस्मिन् पूर्णीकृते विप्र यज्ञसम्पूर्णता भवेत् ४३।
अष्टमुष्टिर्भवेत् किञ्चित् पुष्कलं तच्चतुष्टयम्।
पुष्कलानि तु चत्वारि पूर्णपात्रं विदुर्बुधाः ४४।
होमकाले तु सम्प्राप्ते न दद्यादासनं क्वचित्।
दत्ते तृप्तो भवेद् वह्निः शापं दद्याच्च दारुणम् ४५।
आघारौ नासिके प्रौक्तौ आज्यभागौ च चक्षुषी।
प्राजापत्यं मुखं प्रोक्तं कटिर्व्याहृतिभिः स्मृता ४६।
शीर्षं हस्तौ च पादौ च पञ्चवारुणमीरितम्।
तथास्विष्टकृतं विप्र श्रोत्रे पूर्णाहुतिस्तथा ४७

अग्निः। चत्वारि शृङ्गेति वेदा वा एत उक्तास्। त्रयो अस्य पादा इति सवनान्य् एव द्वे शीर्षे इति ब्रह्मौदनप्रवर्ग्याव् एव सप्त हस्तासो अस्येति छन्दांस्य् एव त्रिधा बद्ध इति मन्त्रः कल्पो ब्राह्मणम् - गो.ब्रा. १.२.१६

द्विमुखं चैकहृदयं चतुःश्रोत्रं द्विनासिकम्।
द्विशीर्षकं च षण्नेत्रं पिङ्गलं सप्तजिह्वकम् ४८।
सव्यभागे त्रिहस्तं च चतुर्हस्तञ्च दक्षिणे।
स्रुक्स्रुवौ चाक्षमाला च या शक्तिर्दक्षिणे करे ४९।
त्रिमेखलं त्रिपादं च घृतपात्रं द्विचामरम्।
मेषारूढं चतुःशृंङ्गं बालादित्यसमप्रभम् ५०।
उपवीतसमायुक्तं जटाकुण्डलमण्डितम्।
ज्ञात्वैवमग्निदेहं तु होमकर्म समाचरेत् ५१।
पयो दधि घृतं चैव स्नेहपक्वं तथैव च।
जुहुयाद्यस्तु हस्तेन स विप्रो ब्रह्महा भवेत् ५२।
यदन्नं पुरुषोऽश्नाति तदन्नं तस्य देवताः।
सर्वकामसमृद्ध्यर्थं तिलाधिक्यं हविर्मतम् ५३।
होमे मुद्रा त्रयं प्रोक्तं मृगी हंसी च सूकरी।
अभिचारे सूकरी स्यान्मृगी हंसी शुभात्मके ५४।
सर्वाङ्गुलीभिः क्रौडी स्याद्धंसी मुक्तकनिष्ठिका।
मध्यमानामिकाङ्गुष्ठैर्मृगी मुद्रा प्रकीर्तिता ५५।
पूर्वप्रमाणयाहुत्या पञ्चाङ्गुलिगृहीतया।
दधिमध्वाज्यसंयुक्तं ऋत्विग्भिर्जुहुयात्तिलैः ५६।
कुशास्त्वनामिकासक्ताः कार्याः स्युः पुण्यकर्मणि ५७।
विनायकः कर्मविघ्नसिर्द्ध्य्थं विनियोजितः।
गणानामाधिपत्ये च रुद्रे ण ब्रह्मणा तथा ५८।
तेनोपसृष्टो यस्तस्य लक्षणानि निबोध मे।
स्वमेव गाहतेत्यर्थं जलं मुण्डांश्च पश्यति ५९।
कामाय वाससश्चैव क्रव्यादांश्चाधिरोहति।
अन्त्यजैर्गर्द्दभैरुष्ट्रैः सहैकत्रावतिष्ठते ६०।
व्रजन्नपि तथात्मानं मन्यतेऽनुगतं परैः।
विमना विफलारंभःसंसीदत्यनिमित्ततः ६१।
तेनोपसृष्टो लभते न राज्यं राजनन्दनः।
कुमारी न च भर्तारमपत्यं गर्भमङ्गना।
आचार्यत्वं श्रोत्रियश्च न शिष्योऽध्ययनं तथा ६२।
वणिग्लाभं न चाप्नोति कृषिं चापि कृषीवलः।
स्नपनं तस्य कर्तव्यं पुण्येऽह्नि विधिपूर्वकम्।
गौरसर्षपकल्केन स्वस्ति वाच्या द्विजैः शुभाः ६३।
अश्वस्थानाद्गजस्थानाद्वल्मीकात्सङ्गमाद्ध्रदात्।
मृत्तिकां रोचनां गन्धान् गुग्गुलुं चाशु निक्षिपेत् ६४।
पात्र्! याहृता ह्येकवर्णैश्चतुर्भिः कलशैर्ह्रदात्।
चर्मण्यानुडुहे रक्ते स्थाप्यं भद्रा सनं ततः ६५।
सहस्राक्षं शतधारं ऋषिभिः पावनं कृतम्।
तेन त्वामभिषिञ्चामि पावमान्याः पुनन्तु ते ६६।
भगं ते वरुणो राजा भगं सूर्यो बृहस्पतिः।
भगमिंद्र श्च वायुश्च भगं सप्तर्षयो ददुः ६७।
यत्ते केशेषु दौर्भाग्यं सीमन्ते यच्च मूर्द्धनि।
ललाटे कर्णयोरक्ष्णोरापस्तुदन्तु सर्वदा ६८।
स्नानस्य सार्षपं तैलं स्रुवेणौदुम्बरेण तु।
जुहुयान्मूर्द्धनि कुशान्सव्येन परिगृह्य च ६९।
मितश्च सम्मितश्चैव तथा शालकटङ्कटौ।
कूष्माण्डो राजपुत्रश्चेत्येते स्वाहासमन्वितैः ७०।
नामभिर्बलिमन्त्रैश्च नमस्कारसमन्वितैः।
दद्याच्चतुष्पथे सूर्ये कुशानास्तीर्य्य सर्वतः ७१।
कृता कृतांस्तण्डुलीश्च पललौदनमेव च।
मत्स्यांन्पक्वांस्तथैवामान् मांसमेता वदेव तु ७२।
पुष्पं चित्रसुगन्धं च सुरां च त्रिविधामपि।
मूलकं पूरिकापूपांस्तथैवोटस्रजोपि च ७३।
दध्यन्नं पायसं चैव गुडपिष्टं समोदकम्।
एतान्सर्वानुपाहृत्य भूमौ कृत्वा ततः शिरः ७४।
विनायकस्य जननीमुपतिष्ठेत्ततोऽम्बिकाम्।
दूर्वा सर्षपपुष्पाणां दत्वार्घ्यं पूर्णमञ्जलिम् ७५।
रूपं देहि यशो देहि भगं भगवति देहि मे।
पुत्रान्देहि धनं देहि सर्वान् कामांश्च देहि मे ७६।
उपस्थाय शिवां दुर्गामुमापतिमथार्चयेत्।
धूपैर्दीपैश्च नैवेद्यैर्गन्धमाल्यानुलेपनैः ७७।
ततः शुक्लाम्बरधरः शुक्लमाल्यानुलेपनः।
ब्राह्मणान् भोजयेत् पश्चाद्वस्त्रयुग्मं गुरोरपि ७८।
एवं विनायकं पूज्य ग्रहांश्चैव प्रपूजयेत्।
श्रीकामः शान्तिकामो वा पुष्टिवृद्ध्य्याउ!र्वीर्य्यवान् ७९।
सूर्य्यः सोमो महीपुत्रो बुधो जीवो भृगुः शनिः।
राहुकेतू नवाप्येते स्थापनीया ग्रहाः क्रमात् ८०।
ताम्रकाद्र जताद्र क्तचन्दनात् स्वर्णकादपि।
हेम्नो रजतादयसः सीसात्कार्या शुभाप्तये ८१।
स्ववर्णैर्वा पटे लेख्या गन्धैर्मण्डलकेषु च।
यथावर्णं प्रदेयानि वासांसि कुसुमानि च ८२।
गन्धाश्च बलयश्चैव धूपो देयश्च गुग्गुलुः।
कर्तव्या मन्त्रवन्तश्च चरवः प्रतिदैवतम् ८३।
आकृष्णेन इमं देवा अग्निर्मूर्द्धादिवः ककुत्।
उद्बुध्यस्वाति यदर्यस्तथैवान्नात् परिस्रुतः ८४।
शन्नोदेवीस्तथा काण्डात्केतुं कृण्वन्नकेतवः ८५।
अर्कः पलाशः खदिरस्त्वपामार्गोऽथ पिप्पलः।
उदुम्बरः शमी दूर्वा कुशाश्च समिधः क्रमात् ८६।
एकैकस्मादष्टशतमष्टाविंशतिरेव च।
होतव्या मधु सर्पिर्भ्यां दध्ना क्षीरेण वा पुनः ८७।
गुडौदनं पायसं च हविष्यं क्षीरषाष्टिकम्।
दध्योदनं हविश्चूर्णं मांसं चित्रान्नमेव च ८८।
दद्यात् ग्रहक्रमादेतत् द्विजेभ्यो भोजनं बुधः।
शक्तितोऽपि यथालाभं सत्कृत्य विधिपूर्वकम् ८९।
धेनुः शङ्खस्तथाऽनड्वान्हिमवासो हयः क्रमात्।
कष्णा गौरायसं छाग एता वै दक्षिणाः स्मृताः ९०।
यस्य यस्य तु यद् द्र व्यं पलेनार्च्यः स तेन च।
ब्रह्मन्नेषां वरो दत्तः पूजिताः पूजयिष्यथः ९१।
ग्रहाधीना नरेन्द्रा णां धनजात्युच्छ्रयास्तथा।
भवाभावौ च जगतस्तस्मात् पूज्यतमा ग्रहाः ९२।
आदित्यस्य सदा पूजा तिलकस्वामिनस्तथा।
महागणपतेश्चैव कुर्वन्सिद्धिमवाप्नुयात् ९३।
कर्मणां सफलत्वं च श्रियं वाप्नोत्यनुत्तमाम् ९४।
अकृत्वा मातृयागं तु यो ग्रहार्चां समारभेत्।
कुप्यन्ति मातरस्तस्य प्रत्यूहं कुर्वते तथा ९५।
वसोः पवित्रमन्त्रेण वसोर्द्धारां प्रकल्प्य च।
गौर्याद्या मातरः पूज्या माङ्गल्येषु शुभार्थिभिः ९६।
गौरी पद्मा शची मेधा सावित्री विजया जया।
देवसेना स्वधा स्वाहा मातृका वैधृतिर्धृतिः ९७।
पुष्टिर्हृष्टिस्तथा तुष्टिरात्मदेवतया सह।
गणेशेनाधिका ह्येता वृद्धौ पूज्यास्तु षोडश ९८।
आवाहनं तथा पाद्यमर्घ्यं स्नानं च चन्दनम्।
अक्षतांश्चैव पुष्पाणि धूपं दीपं फलानि च ९९।
नैवेद्याचमनीयं च ताम्बूलं पूगमेव च।
नीराजनं दक्षिणां च क्रमाद् दद्याच्चतुष्टये १००।
पितृकल्पं प्रवक्ष्यामि धनसन्ततिवर्द्धनम्।
अमावस्याष्टका वृद्धिः कृष्णपक्षायनद्वयम् १०१।
द्र व्यं ब्राह्मणसम्पत्तिर्विषुवत् सूर्यसङ्क्रमः।
व्यतीपातो गजच्छाया ग्रहणं चन्द्र सूर्ययोः १०२।
श्राद्धं प्रतिरुचिश्चैव श्राद्धकालाः प्रकीर्तिताः।
अग्र्याः सर्वेषु वेदेषु श्रोत्रियो ब्रह्मविद्युवा १०३।
वेदार्थविज्ज्येष्ठसामा त्रिमधुस्त्रिसुपर्णकः।
स्वस्री य ऋत्विग्जामाता याज्यश्वसुरमातुलाः १०४।
त्रिणाचिकेतदौहित्रशिष्यसम्बन्धिबान्धवाः।
कर्मनिष्ठास्तपोनिष्ठाः पञ्चाग्निब्रह्मचारिणः १०५।
पितृमातृपराश्चैव ब्राह्मणाः श्राद्धसम्पदः।
रोगी न्यूनातिरिक्ताङ्गः काणः पौनर्भवस्तथा १०६।
अवकीर्णी कुण्डगोलौ कुनखी श्यावदन्तकः।
भृतकाध्यापकः क्लीबः कन्यादूष्यभिशस्तकः १०७।
मित्रध्रुक् पिशुनः सोमविक्रयी परिविन्दकः।
मातृपितृगुरुत्यागी कुण्डाशी वृषलात्मजः १०८।
परपूर्वापतिः स्तेनः कर्मभ्रष्टाश्च निन्दिताः।
निमन्त्रयीत पूर्वेद्युर्ब्राह्मणानात्मवान् शुचिः १०९।
तैश्चापि संयतैर्भाव्यं मनोवाक्कायकर्मभिः।
अपराह्णे समभ्यर्च्य स्वागतेनागतांस्तु तान् ११०।
पवित्रपाणिराचान्तानासने चोपवेशयेत्।
विप्रान् दैवे यथाशक्ति पित्र्! येऽयुग्मांस्तथैव च १११।
पराश्रिते शुचौ देशे दक्षिणाप्रवणं तथा।
द्वौ दैवे प्राक् त्रयः पित्र्! ये उदगेकैकमेव च ११२।
मातामहानामप्येवं तत्र वा वैश्वदैविकम्।
पाणिप्रक्षालनं दत्त्वा विष्टरार्थं कुशानपि ११३।
आवाहयेदनुज्ञातो विश्वेदेवास इत्यृचा।
यवैरन्वावकीर्याथ भाजने सपवित्रके ११४।
शन्नो देव्या अपः क्षिप्त्वा यवोसीति यवांस्तथा।
यादिव्या इति मन्त्रेण हस्ते पाद्यं विनिःक्षिपेत् ११५।
दत्वोदकं गन्धमाल्यं प्रदायान्नं सदीपकम्।
अपसव्यं ततः कृत्वा पितॄणां सप्रदक्षिणम् ११६।
द्विगुणांस्तु कुशान्दत्वा ह्युशन्तस्त्वेत्यृचा पितॄन्।
आवाह्य तदनुज्ञातो जपेदायन्तु नस्ततः ११७।
यवार्थास्तु तिलैः कार्याः कुर्यादर्घ्यादि पूर्ववत्।
दत्वार्घ्यं सयवांस्तेषां पात्रे कृत्वा विधानतः ११८।
पितृभ्यः स्थानमसीति न्युब्जं पात्रं करोत्यधः।
अग्नौ करिष्यन्नादाय पृच्छत्यन्नं घृतप्लुतम् ११९।
कुरुष्वेत्यभ्यनुज्ञातो दत्वाग्नौ पितृयज्ञवत्।
हुतशेषं प्रदद्यात्तु भाजनेषु समाहितः १२०।
यथा लाभोपपन्नेषु रौप्येषु च विशेषतः।
दत्वान्नं पृथ्वीपात्रमिति पात्राभिमन्त्रणम् १२१।
कृत्वेदं विष्णुरित्यन्ने द्विजाङ्गुष्ठं निवेशयेत्।
सव्याहृतिकां गायत्रीं मधुवाता इति त्यृचम् १२२।
जप्त्वा यथासुखं वाच्यं भुञ्जीरंस्तेपि वाग्यताः।
अन्नमिष्टं हविष्यं च दद्यादक्रोधनोऽत्वरः १२३।
आतृप्तेस्तु पवित्राणि जप्त्वा पूर्वजपं तथा।
अन्नमादाय तृप्ताःस्थ शेषं चैवानुमान्य च १२४।
तदन्नं विकिरेद्भूमौ दद्याच्चापः सकृत्सकृत्।
सर्वमन्नमुपादाय सतिलं दक्षिणामुखः १२५।
उच्छिष्टसन्निधौ पिण्डान् दद्याद्वै पितृयज्ञवत्।
मातामहानामप्येवं दद्यादाचमनं ततः १२६।
स्वस्तिवाचं ततः कुर्यादक्षय्योदकमेव हि।
दत्वा च दक्षिणां शक्त्या स्वधाकारमुदाहरेत् १२७।
वाच्यतामित्यनुज्ञातः प्रकृतेभ्यः स्वधोच्यताम्।
ब्रूयुरस्तु स्वधेत्युक्ते भूमौ सिञ्चेत्ततो जलम् १२८।
विश्वेदेवाश्च प्रीयन्तां विप्रैश्चोक्त इदं जपेत्।
दातारो नोऽभिवर्द्धन्तां वेदाः सन्ततिरेव च १२९।
श्रद्धा च नो मा व्यगमद्बहुदेयं च नोस्त्विति।
इत्युक्तोक्ताः प्रिया वाचः प्रणिपत्य विसर्जयेत् १३०।
वाजे वाजे इति प्रीतः पितृपूर्वं विसर्जनम्।
यस्मिंस्ते संश्रवाः पूर्वमर्घ्यपात्रे निवेशिताः १३१।
पितृपात्रं तदुत्थानं कृत्वा विप्रान् विसर्जयेत्।
प्रदक्षिणमनुव्रज्य भुञ्जीत पितृसेवितम् १३२।
ब्रह्मचारी भवेत्तां तु रजनीं ब्राह्मणैः सह।
एवं प्रदक्षिणावृत्या वृद्धौ नान्दीमुखान् पितॄन् १३३।
यजेत दधिकर्कन्धूमिश्रान्पिण्डान्यवैः कृतान्।
एकोद्दिष्टं देवहीनमेवार्घ्यैकपवित्रकम् १३८।
आवहनाग्नौकरणरहितं ह्यपसव्यवत्।
उपतिष्ठतामक्षय्यस्थाने विप्रविसर्जने १३५।
अभिरम्यतामिति वदेत् ब्रूयुस्तेऽभिरताः स्म ह।
गन्धोदकं तिलैर्युक्तं कुर्यात् पात्रचतुष्टयम् १३६।
अर्घ्यार्थं पितृपात्रेषु प्रेतपात्रं प्रसेचयेत्।
ये समाना इति द्वाभ्यां शेषं पूर्ववदाचरेत् १३७।
एतत्सपिण्डीकरणमेकोद्दिष्टं स्त्रिया अपि।
अर्वाक् सपिण्डीकरणं यस्य संवत्सराद्भवेत् १३८।
तस्याप्यन्नं सोदकुम्भं दद्यात् संवत्सरं द्विजे।
मृतेऽहनि तु कर्तव्यं प्रतिमासं तु वत्सरम् १३९।
प्रतिसम्वत्सरं चैव मासमेकादशेऽहनि।
पिण्डांश्च गोऽजविप्रेभ्यो दद्यादग्नौ जलेपि वा १४०।
प्रक्षिपेत्सत्सुविप्रेषु द्विजोच्छिष्टं न मार्जयेत्।
हविष्यान्नेन वै मासं पायसेन तु वत्सरम् १४१।
मात्स्यहारिणकौरभ्रशाकुनच्छागपार्षतैः।
एणरौरववाराहशाशैर्मांसैर्यथा क्रमम् १४२।
मासवृद्ध्याभितृप्यन्ति दत्तैरिह पितामहाः।
खड्गामिषं महाकल्पं मधु मुन्यन्नमेव च १४३।
लोहामिषं महाशाकं मांसं वार्ध्रीणसस्य च।
यो ददाति गयास्थश्च सर्वमानन्त्यमश्नुते १४४।
तथा वर्षात्रयोदश्यां मघासु च विशेषतः।
कन्यां कन्यावेदिनश्च पशून्वै सत्सुतानपि १४५।
द्यूतं कृषिं च वाणिज्यं द्विशफैकशफांस्तथा।
ब्रह्मवर्चस्विनः पुत्रान् स्वर्णरूप्ये सकुप्यके १४६।
ज्ञातिश्रैष्ठ्यं सर्वकामानाप्नोति श्राद्धदः सदा।
प्रतिपत्प्रभृतिष्वेकां वर्जयित्वा चतुर्दशीम् १४७।
शस्त्रेण तु हता ये वै तेभ्यस्तत्र प्रदीयते।
स्वर्गं ह्यपत्यमोजश्च शौर्य्यं क्षेत्रं बलं तथा १४८।
पुत्रान् श्रेष्ठांश्च सौभाग्यं समृद्धिं मुख्यतां शुभम्।
प्रवृत्तं चक्रतां चैव वाणिज्यप्रभृतीनि च १४९।
अरोगित्वं यशो वीतशोकतां परमां गतिम्।
धनं विद्यां भिषक्सिद्धिं कुप्यङ्गा अप्यजाविकम् १५०।
अश्वानायुश्च विधिवद्यः श्राद्धं सम्प्रयच्छति।
कृत्तिकादिभरण्यतं सकामानाप्नुयादिमान् १५१।
आस्तिकः श्रद्दधानश्च व्यपेतमदमत्सरः।
वसुरुद्रा दिति सुताः पितरः श्राद्धदेवताः १५२।
प्रीणयन्ति मनुष्याणां पितॄन् श्राद्धेन तर्पिताः।
आयुः प्रजां धनं विद्यां स्वर्गं मोक्षं सुखानि च १५३।
प्रयच्छन्ति तथा राज्यं नृणां प्रीताः पितामहाः।
इत्येवं कथितं किञ्चित् कल्पाध्याये विशेषतः १५४।
ज्ञातव्यं वैदिके तन्त्रे पुराणान्तरकेपि च।
य इमं चिन्तयेद्विद्वान् कल्पाध्यायं मुनीश्वर १५५।
स भवेत् कर्मकुशल इहान्यत्र गतिं शुभाम्।
यः शृणोति नरो भक्त्या दैवे पित्र्! ये च कर्मणि १५६।
कल्पाध्यायं स लभते दैवं पित्र्! यक्रियाफलम्।
धनं विद्यां यशः पुत्रान् परत्र च गतिं पराम् १५७।
अतः परं व्याकरणं तुभ्यं वेदमुखाभिधम्।
कथयिष्ये समासेन शृणुष्व सुसमाहितः १५८।
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे द्वितीयपादे बृहदुपाख्यानेएकपञ्चाशत्तमोऽध्यायः५१।

नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५