ऋग्वेदः सूक्तं १.९८
← सूक्तं १.९७ | ऋग्वेदः - मण्डल १ सूक्तं १.९८ कुत्स आङ्गिरसः |
सूक्तं १.९९ → |
दे. अग्निः, वैश्वानरोऽग्निर्वा। त्रिष्टुप् |
वैश्वानरस्य सुमतौ स्याम राजा हि कं भुवनानामभिश्रीः ।
इतो जातो विश्वमिदं वि चष्टे वैश्वानरो यतते सूर्येण ॥१॥
पृष्टो दिवि पृष्टो अग्निः पृथिव्यां पृष्टो विश्वा ओषधीरा विवेश ।
वैश्वानरः सहसा पृष्टो अग्निः स नो दिवा स रिषः पातु नक्तम् ॥२॥
वैश्वानर तव तत्सत्यमस्त्वस्मान्रायो मघवानः सचन्ताम् ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥३॥
सायणभाष्यम्
‘वैश्वानरस्य' इति तृचं पञ्चमं सूक्तं कुत्सस्यार्षं त्रैष्टुभम् । वैश्वानरगुणकोऽग्निः शुद्धाग्निर्वा देवता । तथा चानुक्रान्तम्- वैश्वानरस्य तृचं वैश्वानरीयम्' इति । व्यूढस्य चतुर्थेऽहन्याग्निमारुते इदं सूक्तं वैश्वानरीयनिविद्धानम् । ‘ व्यूळ्हश्चेत्' इति खण्डे सूत्रितम्- वैश्वानरस्य सुमतौ क ईं व्यक्ताः' ( आश्व. श्रौ. ८. ८) इति ॥
वै॒श्वा॒न॒रस्य॑ सुम॒तौ स्या॑म॒ राजा॒ हि कं॒ भुव॑नानामभि॒श्रीः ।
इ॒तो जा॒तो विश्व॑मि॒दं वि च॑ष्टे वैश्वान॒रो य॑तते॒ सूर्ये॑ण ॥१
वै॒श्वा॒न॒रस्य॑ । सु॒ऽम॒तौ । स्या॒म॒ । राजा॑ । हि । क॒म् । भुव॑नानाम् । अ॒भि॒ऽश्रीः ।
इ॒तः । जा॒तः । विश्व॑म् । इ॒दम् । वि । च॒ष्टे॒ । वै॒श्वा॒न॒रः । य॒त॒ते॒ । सूर्ये॑ण ॥१
वैश्वानरस्य । सुऽमतौ । स्याम । राजा । हि । कम् । भुवनानाम् । अभिऽश्रीः ।
इतः । जातः । विश्वम् । इदम् । वि । चष्टे । वैश्वानरः । यतते । सूर्येण ॥१
"वैश्वानरस्य विश्वेषां नराणां लोकान्तरनेतृत्वेन स्वामित्वेन वा संबन्धिनोऽग्नेः "सुमतौ शोभनायामनुग्रहात्मिकायां बुद्धौ "स्याम अनुग्राह्यत्वेन वर्तमाना भवेम । "हि "कम् इत्येतत् हिशब्दार्थे । स हि वैश्वानरः "अभिश्रीः अभिश्रयणीयः अभिमुख्येन सेवितव्यः सन् “भुवनानां सर्वेषां भूतजातानां "राजा स्वामी भवति । यः "वैश्वानरः अग्निः “इतः अस्मादरणिद्वयात् जातमात्रः एव "इदं सर्वं जगत् "वि “चष्टे विशेषेण पश्यति प्रातरुद्यता "सूर्येण च "यतते संयतते संगच्छते । ‘ उद्यन्तं वावादित्यमग्निरनुसमारोहति' (तै. ब्रा. २. १. २. १०) इति तैत्तिरीयकम् । यद्वा । पार्थिवस्याग्नेस्तेजांस्युद्गच्छन्ति सूर्यकिरणाश्चाधोमुखं प्रसरन्ति । तयोः संगमनं दृष्ट्वा ‘वैश्वानरो यतते सूर्येण ' इति ऋषिर्ब्रूते । तथा च यास्कः-’ अमुतोऽमुष्य रश्मयः प्रादुर्भवन्तीतोऽस्यार्चिषस्तयोर्भासोः संसंगं दृष्ट्वैमवक्ष्यत् ' ( निरु. ७. २३ ) इति । एवंभूतस्य महानुभावस्य वैश्वानरस्य सुमतौ स्यामेति संबन्धः ॥ वैश्वानरस्य । विश्वेषां नराणां संबन्धी । “ नरे संज्ञायाम् ' ( पा. सू. ६. ३. १२९ ) इति पूर्वपदस्य दीर्घत्वम् । ‘ तस्येदम्' इति अण् । सुमतौ । शोभना मतिः सुमतिः । ‘ तादौ च° ' इति गतेः प्रकृतिस्वरे प्राप्ते ‘ मन्क्तिन्° ' इत्यादिना उत्तरपदान्तोदात्तत्वम् । ननु तत्र ‘ कारकात्' इत्यनुवृत्तेर्गतेरुत्तरस्य क्तिनो न प्राप्नोति । एवं तर्हि मतिर्मननम् । भावे क्तिन् । शोभनं मननं यस्यां बुद्धौ सा सुमतिः । ‘ नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । चष्टे । ‘ चक्षिङ् व्यक्तायां वाचि' । अयं पश्यतिकर्मा च । अदादित्वात् शपो लुक् ।' स्कोः संयोगाद्योः' इति कलोपः । यतते । ‘ यती प्रयत्ने ' ॥
चातुर्मास्यान्वारम्भणीया वैश्वानरपार्जन्या । तस्यां वैश्वानरस्य हविषः ‘पृष्टो दिवि ' इति याज्या । ‘ चातुर्मास्यानि ' इति खण्डे सूत्रितं - पृष्टो दिवि पृष्टो अग्निः पृथिव्यां पर्जन्याय प्रगायत ' ( आश्व. श्रौ. २. १५) इति ॥
पृ॒ष्टो दि॒वि पृ॒ष्टो अ॒ग्निः पृ॑थि॒व्यां पृ॒ष्टो विश्वा॒ ओष॑धी॒रा वि॑वेश ।
वै॒श्वा॒न॒रः सह॑सा पृ॒ष्टो अ॒ग्निः स नो॒ दिवा॒ स रि॒षः पा॑तु॒ नक्तं॑ ॥२
पृ॒ष्टः । दि॒वि । पृ॒ष्टः । अ॒ग्निः । पृ॒थि॒व्याम् । पृ॒ष्टः । विश्वाः॑ । ओष॑धीः । आ । वि॒वे॒श॒ ।
वै॒श्वा॒न॒रः । सह॑सा । पृ॒ष्टः । अ॒ग्निः । सः । नः॒ । दिवा॑ । सः । रि॒षः । पा॒तु॒ । नक्त॑म् ॥२
पृष्टः । दिवि । पृष्टः । अग्निः । पृथिव्याम् । पृष्टः । विश्वाः । ओषधीः । आ । विवेश ।
वैश्वानरः । सहसा । पृष्टः । अग्निः । सः । नः । दिवा । सः । रिषः । पातु । नक्तम् ॥२
अयं वैश्वानरः "अग्निः "दिवि द्युलोके आदित्यात्मना "पृष्टः संस्पृष्टः यद्वा निषिक्तो निहितो वर्तते । तथा “पृथिव्यां भूमौ गार्हपत्यादिरूपेण "पृष्टः संस्पृष्टो निहितो वा । तथा "विश्वाः सर्वाः “ओषधीः "पृष्टः संस्पृष्टः सः अग्निः “आ “विवेश पाकार्थमन्तः प्रविष्टवान् । अन्तःप्रविष्टेन पार्थिवेनाग्निना' हि सर्वा ओषधयः पच्यन्ते। "सहसा परेषामसाधारणेन बलेन “पृष्टः संस्पृष्टः वैश्वानरः “नः अस्मान् "दिवा अह्नि “रिषः हिंसतः शत्रोः "पातु रक्षतु । तथा “सः वैश्वानरः "नक्तं रात्रवप्यस्मान् हिंसकात् पातु ॥ पृष्टः । ‘ स्पृश संस्पर्शने '। छान्दसः सकारलोपः । यद्वा । ‘ पृषु सेचने ' । निष्ठायां यस्य विभाषा ' इति इट्प्रतिषेधः । दिवि । ‘ ऊडिदम्' इति विभक्तेरुदात्तत्वम् । पृथिव्याम् ।' उदात्तयण: ' इति विभक्तिरुदात्ता । रिषः । रिष हिंसायाम् ' । ‘ क्विप् च' इति क्विप् ।' सावेकाचः' इति पञ्चम्या उदात्तत्वम् ।
वैश्वा॑नर॒ तव॒ तत्स॒त्यम॑स्त्व॒स्मान्रायो॑ म॒घवा॑नः सचंतां ।
तन्नो॑ मि॒त्रो वरु॑णो मामहंता॒मदि॑तिः॒ सिंधुः॑ पृथि॒वी उ॒त द्यौः ॥३
वैश्वा॑नर । तव॑ । तत् । स॒त्यम् । अ॒स्तु॒ । अ॒स्मान् । रायः॑ । म॒घऽवा॑नः । स॒च॒न्ता॒म् ।
तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥३
वैश्वानर । तव । तत् । सत्यम् । अस्तु । अस्मान् । रायः । मघऽवानः । सचन्ताम् ।
तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥३
हे "वैश्वानर “तव "तत् त्वदीयं तत् अस्माभिः क्रियमाणं कर्म "सत्यमस्तु अवितथफल भवतु । ततः "अस्मान् "मघवानः मघवन्तः धनवन्तः "रायः धनवदतिप्रियाः पुत्राः "सचन्तां सेवन्ताम् । एवं यदस्माभिः प्रार्थितं "नः अस्मदीयं "तत् "मित्रः अहरभिमानी देवः "वरुणः रात्र्यभिमानी "अदितिः अदीना देवमाता "सिन्धुः स्यन्दनशीलोदकाभिमानी देवः । उतशब्दः समुच्चये । एते सर्वे मित्रादयः “ममहन्तां पूजयन्ताम् पालयन्तामित्यर्थः ॥ ॥ ६ ॥
टिप्पणी
वैश्वानरोपरि डा. फतहसिंहेन कृता टिप्पणी एवं वैदिकसंदर्भाः
१.९८.१ वैश्वानरस्य सुमतौ स्याम इति
दशरात्रे चतुर्थेअहनि तृतीयसवने वैश्वानरीयम् -- वैश्वानरस्य सुमतौ स्यामेत्याग्निमारुतस्य प्रतिपदितो जात इति जातवच्चतुर्थेऽहनि चतुर्थस्याह्नो रूपं - ऐ.ब्रा ५.५
१.९८.२ पृष्टो दिवि पृष्टो इति
सर्वचित्यन्तसाधारणोपस्थानम् -- पृष्टो दिवि पृष्टो अग्निः पृथिव्यामिति वैश्वानरीभ्यां तृतीयाभ्यामेतद्वै देवा वैश्वानरेण पाप्मानं दग्ध्वापहतपाप्मान एतत्कर्माकुर्वत तथैवैतद्यजमानो वैश्वानरेण पाप्मानं दग्ध्वापहतपाप्मैतत्कर्म कुरुते – मा.श. [https://sa.wikisource.org/s/g2s ९.५.२.६
मण्डल १ | ||||||
---|---|---|---|---|---|---|
|