ऋग्वेदः सूक्तं १.९९
← सूक्तं १.९८ | ऋग्वेदः - मण्डल १ सूक्तं १.९९ वार्षागिराः ऋज्राश्वाऽम्बरीष-सहदेव-भयमान-सुराधसः |
सूक्तं १.१०० → |
दे. इन्द्रः। त्रिष्टुप्। |
जातवेदसे सुनवाम सोममरातीयतो नि दहाति वेदः ।
स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः ॥१॥
सायणभाष्यम्
‘जातवेदसे ' इति एकर्चं षष्ठं सूक्तं मरीचिपुत्रस्य कश्यपस्यार्षं त्रैष्टुभम् । जातवेदोगुणकोऽग्निः शुद्धाग्निर्वा देवता । तथा चानुक्रान्तम्- जातवेदस एका जातवेदस्यमेतदादीन्येकभूयांसि सूक्तसहस्रमेतत्तु कश्यपार्षम्' इति । अहर्गणेषु द्वितीयादिष्वहःस्वाग्निमारुते जातवेदस्यनिविद्धानात् पूर्वमेषा शंसनीया । सूत्रितं च-’ जातवेदसे सुनवाम सोममित्याग्निमारुते जातवेदस्यानाम् ' (आश्व. श्रौ. ७. १ ) इति ॥
जा॒तवे॑दसे सुनवाम॒ सोम॑मरातीय॒तो नि द॑हाति॒ वेदः॑ ।
स नः॑ पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा॑ ना॒वेव॒ सिंधुं॑ दुरि॒तात्य॒ग्निः ॥१
जा॒तऽवे॑दसे । सु॒न॒वा॒म॒ । सोम॑म् । अ॒रा॒ति॒ऽय॒तः । नि । द॒हा॒ति॒ । वेदः॑ ।
सः । नः॒ । प॒र्ष॒त् । अति॑ । दुः॒ऽगानि॑ । विश्वा॑ । ना॒वाऽइ॑व । सिन्धु॑म् । दुः॒ऽइ॒ता । अति॑ । अ॒ग्निः ॥१
जातऽवेदसे । सुनवाम । सोमम् । अरातिऽयतः । नि । दहाति । वेदः ।
सः । नः । पर्षत् । अति । दुःऽगानि । विश्वा । नावाऽइव । सिन्धुम् । दुःऽइता । अति । अग्निः ॥१
“जातवेदसे जातानामुत्पत्तिमतां सर्वेषां वेदित्रे यद्वा जातैः सर्वैः प्राणिभिर्ज्ञायमानाय जातधनाय जातप्रज्ञाय वा अग्नये लतारूपं "सोमं "सुनवाम अभिषुणुयाम । जातवेदोगुणकमग्निं यष्टुं सोमाभिषवं करवामेत्यर्थः । सः अग्निः "अरातीयतः अरातिं शत्रुमिवास्मानाचरतः शत्रोः "वेदः धनं “नि "दहाति नितरां दहतु भस्मीकरोतु । अपि च "सः अग्निः "नः अस्मान् "विश्वा विश्वानि सर्वाणि “दुर्गाणि दुर्गमनानि भोक्तुमशक्यानि दुःखानि "अति “पर्षत् अतिपारयतु अतिक्रमय्य दुःखरहितं सुखं प्रापयतु । तत्र दृष्टान्तः । “नावेव "सिन्धुम् । यथा कश्चित् कर्णधारो ग्राहादिभिर्दुष्टसत्त्वैराकुलितां नदीं नावा तारयति तद्वत् । तथा “दुरिता दुरितानि दुःखहेतुभूतानि पापानि अस्मान् "अग्निः "अति पारयतु । दुःखनिमित्तात् पापादपि अस्मानुत्तारयत्वित्यर्थः । अत्र निरुक्तं-जातवेदाः कस्मात् जातानि वेद जातानि वैनं विदुर्जाते जाते विद्यत इति वा जातवित्तो वा जातधनो वा जातविद्यो वा जातप्रज्ञो वा यत्तज्जातःपशूनविन्दतेति तज्जातवेदसो जातवेदस्त्वमिति हि ब्राह्मणम्' ( निरु. ७. १९) इत्यादि ।। जातवेदसे । जातानि वेत्तीति जातवेदाः। गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च' इति वचनात् कारकपूर्वात् वेत्तेरसुन् पूर्वपदप्रकृतिस्वरत्वं च । अरातीयतः । न विद्यते रातिर्दानमस्मिन्नित्यरातिः शत्रुः । तमिव अस्मानाचरति । 'उपमानादाचारे ' ( पा. सू. ३. १. १०) इति उपमानभूतात् कर्मणः क्यच् । क्यजन्तात् लटः शतृ । ‘ शतुरनुमः' इति ङसः उदात्तत्वम् । दहाति । ‘ दह भस्मीकरणे '। लेटि आडागमः । विद्यते लभ्यते इति वेदः धनम् । विद्लृ लाभे '। औणादिकः कर्मणि असुन् । पर्षत् । ‘ पॄ पालनपूरणयोः' । अस्मात् अन्तर्भावितण्यर्थात् लेटि अडागमः । ‘ सिब्बहुलं लेटि' इति सिप् । दुर्गाणि । दुःखेन गम्यते एष्विति ‘सुदुरोरधिकरणे ' इति गमेः डः ॥ ॥ ७ ॥
मण्डल १ | ||||||
---|---|---|---|---|---|---|
|