ऋग्वेदः सूक्तं १.५४

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १.५४ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं १.५३ ऋग्वेदः - मण्डल १
सूक्तं १.५४
सव्य आङ्गिरसः।
सूक्तं १.५५ →
दे. इन्द्रः । जगती, ६, ८-९, ११ त्रिष्टुप्।


मा नो अस्मिन्मघवन्पृत्स्वंहसि नहि ते अन्तः शवसः परीणशे ।
अक्रन्दयो नद्यो रोरुवद्वना कथा न क्षोणीर्भियसा समारत ॥१॥
अर्चा शक्राय शाकिने शचीवते शृण्वन्तमिन्द्रं महयन्नभि ष्टुहि ।
यो धृष्णुना शवसा रोदसी उभे वृषा वृषत्वा वृषभो न्यृञ्जते ॥२॥
अर्चा दिवे बृहते शूष्यं वचः स्वक्षत्रं यस्य धृषतो धृषन्मनः ।
बृहच्छ्रवा असुरो बर्हणा कृतः पुरो हरिभ्यां वृषभो रथो हि षः ॥३॥
त्वं दिवो बृहतः सानु कोपयोऽव त्मना धृषता शम्बरं भिनत् ।
यन्मायिनो व्रन्दिनो मन्दिना धृषच्छितां गभस्तिमशनिं पृतन्यसि ॥४॥
नि यद्वृणक्षि श्वसनस्य मूर्धनि शुष्णस्य चिद्व्रन्दिनो रोरुवद्वना ।
प्राचीनेन मनसा बर्हणावता यदद्या चित्कृणवः कस्त्वा परि ॥५॥
त्वमाविथ नर्यं तुर्वशं यदुं त्वं तुर्वीतिं वय्यं शतक्रतो ।
त्वं रथमेतशं कृत्व्ये धने त्वं पुरो नवतिं दम्भयो नव ॥६॥
स घा राजा सत्पतिः शूशुवज्जनो रातहव्यः प्रति यः शासमिन्वति ।
उक्था वा यो अभिगृणाति राधसा दानुरस्मा उपरा पिन्वते दिवः ॥७॥
असमं क्षत्रमसमा मनीषा प्र सोमपा अपसा सन्तु नेमे ।
ये त इन्द्र ददुषो वर्धयन्ति महि क्षत्रं स्थविरं वृष्ण्यं च ॥८॥
तुभ्येदेते बहुला अद्रिदुग्धाश्चमूषदश्चमसा इन्द्रपानाः ।
व्यश्नुहि तर्पया काममेषामथा मनो वसुदेयाय कृष्व ॥९॥
अपामतिष्ठद्धरुणह्वरं तमोऽन्तर्वृत्रस्य जठरेषु पर्वतः ।
अभीमिन्द्रो नद्यो वव्रिणा हिता विश्वा अनुष्ठाः प्रवणेषु जिघ्नते ॥१०॥
स शेवृधमधि धा द्युम्नमस्मे महि क्षत्रं जनाषाळिन्द्र तव्यम् ।
रक्षा च नो मघोनः पाहि सूरीन्राये च नः स्वपत्या इषे धाः ॥११॥


सायणभाष्यम्

‘मा नः' इति एकादशर्चं चतुर्थं सूक्तम् । षष्ठ्यष्टमीनवम्येकादश्यस्त्रिष्टुभः । शिष्टाः सप्त जगत्यः । सव्य ऋषिः । इन्द्रो देवता । तथा चानुक्रान्तम्-' मा नोऽन्त्या त्रिष्टुप् षष्ठ्यष्टमी नवमी च' इति । अतिरात्रे प्रथमे पर्याये अच्छावाकशस्त्रे इदं सूक्तम् । तथा च सूत्रितम्-' मा नो अस्मिन्मघवन्निन्द्र पिब तुभ्यं सुतो मदायेति याज्या' ( आश्व. श्रौ. ६. ४ ) इति ॥


मा नो॑ अ॒स्मिन्म॑घवन्पृ॒त्स्वंह॑सि न॒हि ते॒ अन्त॒ः शव॑सः परी॒णशे॑ ।

अक्र॑न्दयो न॒द्यो॒३॒॑ रोरु॑व॒द्वना॑ क॒था न क्षो॒णीर्भि॒यसा॒ समा॑रत ॥१

मा । नः॒ । अ॒स्मिन् । म॒घ॒ऽव॒न् । पृ॒त्ऽसु । अंह॑सि । न॒हि । ते॒ । अन्तः॑ । शव॑सः । प॒रि॒ऽनशे॑ ।

अक्र॑न्दयः । न॒द्यः॑ । रोरु॑वत् । वना॑ । क॒था । न । क्षो॒णीः । भि॒यसा॑ । सम् । आ॒र॒त॒ ॥१

मा । नः । अस्मिन् । मघऽवन् । पृत्ऽसु । अंहसि । नहि । ते । अन्तः । शवसः । परिऽनशे ।

अक्रन्दयः । नद्यः । रोरुवत् । वना । कथा । न । क्षोणीः । भियसा । सम् । आरत ॥१

हे “मघवन् धनवन्निन्द्र “अस्मिन् परिदृश्यमाने “अंहसि पापे “पृत्सु पृतनासु पापफलभूतेषु संग्रामेषु च “नः अस्मान् “मा प्रक्षैप्सीरिति शेषः । यस्मात् “ते तव “शवसः बलस्य “अन्तः अवसानं “परीणशे परितो व्याप्तुं “नहि शक्यते । सर्वोऽपि जनस्त्वदीयं बलमतिक्रमितुं न शक्नोतीत्यर्थः । तस्मात् त्वमन्तरिक्षे वर्तमानः "रोरुवत् अत्यर्थं शब्दं कुर्वन् “नद्यः नदीः "वना तत्संबन्धीन्युदकानि च "अक्रन्दयः शब्दयसि । “क्षोणीः क्षोण्यः । क्षोणीति पृथिवीनाम। तदुपलक्षितास्त्रयो लोकाः “भियसा त्वद्भयेन "कथा कथं “न “समारत न संगच्छन्ते । त्वदीयं बलमवलोक्य त्रयोऽपि लोका बिभ्यतीति भावः ॥ पृत्सु । ' पदादिषु मांस्पृत्स्नूनामुपसंख्यानम् ' ( पा. सू. ६. १. ६३. १ ) इति पृतनाशब्दस्य पृद्भावः । परीणशे । नशतिर्व्याप्तिकर्मा । ‘ कृत्यार्थे तवैकेन् ' इति केन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । निपातस्य च ' इति पूर्वपदस्य दीर्घत्वम्। नद्यः। द्वितीयार्थे प्रथमा । रोरुवत् । ‘रु शब्दे । यङ्लुगन्तात् लटः शतृ । ‘ अदादिवच्च ' इति वचनात् शपो लुक् । शतुर्ङित्त्वात् गुणाभावे उवङादेशः । ‘ नाभ्यस्ताच्छतुः' इति नुम्प्रतिषेधः । ‘ अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । कथा । ‘ था हेतौ च च्छन्दसि ' इति किंशब्दात् प्रकारवचने थाप्रत्ययः । तस्य विभक्तिसंज्ञायां • किमः कः ( पा. सू. ७. २. १०३ ) इति कादेशः । आरत । ‘ ऋ गतौ । ‘ समो गम्युच्छि० ' इत्यात्मनेपदम् । छान्दसे वर्तमाने लङि अदादित्वात् शपो लुक् । झस्य अदादेशः । आडागमो वृद्धिश्च ॥


अर्चा॑ श॒क्राय॑ शा॒किने॒ शची॑वते शृ॒ण्वन्त॒मिन्द्रं॑ म॒हय॑न्न॒भि ष्टु॑हि ।

यो धृ॒ष्णुना॒ शव॑सा॒ रोद॑सी उ॒भे वृषा॑ वृष॒त्वा वृ॑ष॒भो न्यृ॒ञ्जते॑ ॥२

अर्च॑ । श॒क्राय॑ । शा॒किने॑ । शची॑ऽवते । शृ॒ण्वन्त॑म् । इन्द्र॑म् । म॒हय॑न् । अ॒भि । स्तु॒हि॒ ।

यः । धृ॒ष्णुना॑ । शव॑सा । रोद॑सी॒ इति॑ । उ॒भे इति॑ । वृषा॑ । वृ॒ष॒ऽत्वा । वृ॒ष॒भः । नि॒ऽऋ॒ञ्जते॑ ॥२

अर्च । शक्राय । शाकिने । शचीऽवते । शृण्वन्तम् । इन्द्रम् । महयन् । अभि । स्तुहि ।

यः । धृष्णुना । शवसा । रोदसी इति । उभे इति । वृषा । वृषऽत्वा । वृषभः । निऽऋञ्जते ॥२

हे अध्वर्यो “शाकिने शक्तियुक्ताय “शचीवते प्रज्ञावते “शक्राय इन्द्राय "अर्च एवंविधमिन्द्रं पूजय । किंच स्तुतीः “शृण्वन्तं समीचीनेयं स्तुतिरिति जानन्तं तम् “इन्द्रं “महयन् पूजयन् “अभि “ष्टुहि आभिमुख्येन तस्य स्तोत्रं कुरु । “यः इन्द्रः “धृष्णुना शत्रूणां धर्षकेण “शवसा बलेन “उभे “रोदसी द्यावापृथिव्यौ “न्यृञ्जते नितरां प्रसाधयति । ‘ ऋञ्जतिः प्रसाधनकर्मा ' (निरु. ६. २१ ) इति यास्कः। स इन्द्रः “वृषा सेचनसमर्थः “वृषत्वा वृषत्वेनानेनैव सेचनसामर्थ्येन “वृषभः वर्षिता कामानां यद्वा वृष्ट्युदकानाम् ॥ अर्च । शपः पित्त्वादनुदात्तत्वे धातुस्वरः । ‘ द्व्यचोऽतस्तिङः ' इति दीर्घत्वम् । शाकिने । शक्तिः शाकः। शक्लृ शक्तौ । भावे घञ् । मत्वर्थीय इनिः । ‘ क्रियाग्रहणं कर्तव्यम्' इति कर्मणः संप्रदानत्वात् चतुर्थी । अभि ष्टुहि । स्तौतेः अदादित्वात् शपो लुक् । ' उपसर्गात्सुनोति इति षत्वम् । ष्टुना ष्टुः' इति ष्टुत्वम् । वृषत्वा । सुपां सुलुक्' इति विभक्तेः आकारः । न्यृञ्जते । ‘ ऋजि भृजी भर्जने ' । इदित्त्वात् नुम् । शपि प्राप्ते व्यत्ययेन शः ॥


अर्चा॑ दि॒वे बृ॑ह॒ते शू॒ष्यं१॒॑ वच॒ः स्वक्ष॑त्रं॒ यस्य॑ धृष॒तो धृ॒षन्मन॑ः ।

बृ॒हच्छ्र॑वा॒ असु॑रो ब॒र्हणा॑ कृ॒तः पु॒रो हरि॑भ्यां वृष॒भो रथो॒ हि षः ॥३

अर्च॑ । दि॒वे । बृ॒ह॒ते । शू॒ष्य॑म् । वचः॑ । स्वऽक्ष॑त्रम् । यस्य॑ । धृ॒ष॒तः । धृ॒षत् । मनः॑ ।

बृ॒हत्ऽश्र॑वाः । असु॑रः । ब॒र्हणा॑ । कृ॒तः । पु॒रः । हरि॑ऽभ्याम् । वृ॒ष॒भः । रथः॑ । हि । सः ॥३

अर्च । दिवे । बृहते । शूष्यम् । वचः । स्वऽक्षत्रम् । यस्य । धृषतः । धृषत् । मनः ।

बृहत्ऽश्रवाः । असुरः । बर्हणा । कृतः । पुरः । हरिऽभ्याम् । वृषभः । रथः । हि । सः ॥३

हे स्तोतः “दिवे दीप्ताय "बृहते महते इन्द्राय “शूष्यम्। शूषम् इति सुखनाम। तत्र साधु शूष्यम्। तादृशं स्तुतिलक्षणं “वचः “अर्च उच्चारय । “यस्य इन्द्रस्य “धृषतः शत्रून् धर्षयतः "स्वक्षत्रं स्वभूत बलवत् “मनः “धृषत् धृष्टं भवति । “हि “षः स हि स खल्विन्द्रः “बृहच्छ्रवाः प्रभूतयशाः "असुरः शत्रूणां निरसिता । यद्वा । असुः प्राणो बलं वा । तद्वान् । रो मत्वर्थीयः । अथवा। असवः प्राणाः तेन च आपो लक्ष्यन्ते, ‘ प्राणा वा आपः ' ( तै. ब्रा. ३. २. ५. २ ) इति श्रुतेः । तान् राति ददातीति असुरः । “बर्हणा शत्रूणां निबर्हयिता “हरिभ्याम् अश्वाभ्यां “पुरः “कृतः पूजितः “वृषभः कामानां वर्षिता “रथः रंहणशीलः ॥ शूष्यम् । तत्र साधुः' इति यत् । ‘ सर्वे विधयश्छन्दसि विकल्प्यन्ते' इति ‘ यतोऽनावः' इत्याद्युदात्तस्वाभावे ‘ तित्स्वरितम्' इति स्वरितत्वम् । धृषतः। ‘ ञिधृषा प्रागल्भ्ये' । व्यत्ययेन शः। ‘ शतुरनुमः०' इति विभक्तेरुदात्तत्वम् । बृहच्छ्रवाः । बृहत् श्रवो यस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । असुरः । ‘ असु क्षेपणे '। ' असेरुरन्' ( उ. सू. १. ४२ ) इति उरन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । बर्हणा । सुपां सुलुक्' इति विभक्तेः आकारः । पुरः। ‘पूर्वाधर' इत्यादिना असिप्रत्ययान्तः अन्तोदात्तः ॥


त्वं दि॒वो बृ॑ह॒तः सानु॑ कोप॒योऽव॒ त्मना॑ धृष॒ता शम्ब॑रं भिनत् ।

यन्मा॒यिनो॑ व्र॒न्दिनो॑ म॒न्दिना॑ धृ॒षच्छि॒तां गभ॑स्तिम॒शनिं॑ पृत॒न्यसि॑ ॥४

त्वम् । दि॒वः । बृ॒ह॒तः । सानु॑ । को॒प॒यः॒ । अव॑ । त्मना॑ । धृ॒ष॒ता । शम्ब॑रम् । भि॒न॒त् ।

यत् । मा॒यिनः॑ । व्र॒न्दिनः॑ । म॒न्दिना॑ । धृ॒षत् । शि॒ताम् । गभ॑स्तिम् । अ॒शनि॑म् । पृ॒त॒न्यसि॑ ॥४

त्वम् । दिवः । बृहतः । सानु । कोपयः । अव । त्मना । धृषता । शम्बरम् । भिनत् ।

यत् । मायिनः । व्रन्दिनः । मन्दिना । धृषत् । शिताम् । गभस्तिम् । अशनिम् । पृतन्यसि ॥४

हे इन्द्र “त्वं “बृहतः महतः “दिवः द्युलोकस्य "सानु समुच्छ्रितमुपरिप्रदेशं “कोपयः अकम्पयः । “धृषता शत्रूणां धर्षयित्रा “त्मना आत्मना स्वयमेव “शम्बरम् एतत्संज्ञमसुरम् “अवाभिनत् अवधीः । “यत् यदा “व्रन्दिनः शत्रून् जेतुं मृदुभावं प्राप्तान् । यद्वा । वृन्दं समूहः असुरसमूहवतः । “मायिनः मायाविनोऽसुरान् “मन्दिना हृष्टेन “धृषत् “धृषता प्रागल्भ्यं प्राप्नुवता मनसा युक्तस्त्वं “शितां तीक्ष्णीकृतां “गभस्तिं हस्तेन गृहीताम् । यद्वा । गभस्तिः इति रश्मिनाम् । तद्वतीम् “अशनिं वज्रं “पृतन्यसि तानसुरान् जेतुं पृतनारूपेणेच्छसि । तान्प्रति प्रेरयसीत्यर्थः । तदानीं बृहतो दिवः सानु कोपयः इति पूर्वेणान्वयः ॥ कोपयः । कुप कोपे। ण्यन्तात् लङि ‘ बहुलं छन्दस्यमाङयोगेऽपि इति अडभावः । त्मना । मन्त्रेष्वाङ्यादेरात्मनः ' इति आकारलोपः । धृषत् । “सुपां सुलुक् ' इति तृतीयाया लुक् । शिताम् । ‘ शो तनूकरणे'। निष्ठायां ‘शाच्छोरन्यतरस्याम् ' (पा. सू. ७. ४. ४१ ) इति इकारादेशः । पृतन्यसि । पृतनाशब्दात् ‘सुप आत्मनः क्यच् ' । ‘ कव्यध्वरपृतनस्य ' इति अन्तलोपः। प्रत्ययस्वरः ॥


नि यद्वृ॒णक्षि॑ श्वस॒नस्य॑ मू॒र्धनि॒ शुष्ण॑स्य चिद्व्र॒न्दिनो॒ रोरु॑व॒द्वना॑ ।

प्रा॒चीने॑न॒ मन॑सा ब॒र्हणा॑वता॒ यद॒द्या चि॑त्कृ॒णव॒ः कस्त्वा॒ परि॑ ॥५

नि । यत् । वृ॒णक्षि॑ । श्व॒स॒नस्य॑ । मू॒र्धनि॑ । शुष्ण॑स्य । चि॒त् । व्र॒न्दिनः॑ । रोरु॑वत् । वना॑ ।

प्रा॒चीने॑न । मन॑सा । ब॒र्हणा॑ऽवता । यत् । अ॒द्य । चि॒त् । कृ॒णवः॑ । कः । त्वा॒ । परि॑ ॥५

नि । यत् । वृणक्षि । श्वसनस्य । मूर्धनि । शुष्णस्य । चित् । व्रन्दिनः । रोरुवत् । वना ।

प्राचीनेन । मनसा । बर्हणाऽवता । यत् । अद्य । चित् । कृणवः । कः । त्वा । परि ॥५

हे इन्द्र त्वं “रोरुवत् मेघैरत्यर्थं शब्दयन् “श्वसनस्य अन्तरिक्षे श्वसितीति श्वसनो वायुः । तस्य “व्रन्दिनः स्वकिरणैराम्रफलादीन् मृदुभावं प्रापयतः “शुष्णस्य “चित् रसानां शोषयितुरादित्यस्यापि "मूर्धनि उपरिप्रदेशे "वना वनान्युदकानि “यत् यस्मात् “नि "वृणक्षि आवर्जयसि । प्रापयसीत्यर्थः । वायुना सूर्यकिरणैश्च वृष्टा आपः सूर्यस्योपरि पुनरवस्थाप्यन्ते । तदेवावस्थापनमिन्द्रः करोतीत्युपचर्यते । "प्राचीनेन प्रकर्षेण गन्त्रा । अपराङ्मुखेनेत्यर्थः । "बर्हणावता । निबर्हयतीति वधकर्मसु पाठात् बर्हणा शत्रूणां हिंसा तद्वता । एवंभूतेन “मनसा युक्तस्त्वं “यत् यस्मात् "अद्या चित् अद्यापि “कृणवः घर्मकाले सूर्यस्योपरि भौमान् रसानवस्थापयसि वर्षासु च वर्षयसीति । यस्मादेतत् कुरुषे तस्मात् कारणात् “त्वा त्वां “परि उपरि "कः वर्तते न कोऽपीत्यर्थः । अतस्त्वमेव सर्वाधिक इति भावः ॥ वृणक्षि । ‘ वृजी वर्जने'। रौधादिकः । सिपः पित्त्वादनुदात्तत्वे विकरणस्वरः । यद्वृत्तयोगादनिघातः । प्राचीनेन । प्रपूर्वात् अञ्चतेः ‘ऋत्विक् ' इत्यादिना क्विन् । “ अनिदिताम्' इति नलोपः । ‘ विभाषाञ्चे रदिक्स्त्रियाम्' इति स्वार्थे खः । खस्य ईनादेशः । ‘ अचः' इति अकारलोपे “चौ ' इति दीर्घत्वम् । खप्रत्ययस्य सतिशिष्टत्वात् तदादेशस्य उपदेशिवद्भावेन ईकार उदात्तः । अद्या चित् ।' निपातस्य च ' इति दीर्घत्वम् । कृणवः । ‘ कृवि हिंसाकरणयोश्च । इदित्त्वात् नुम् । लेटि सिपि अडागमः । ‘ धिन्विकृण्व्योर च' इति उप्रत्ययः, वकारस्य अकारादेशश्च । तस्य अतो लोपे सति स्थानिवद्भावात् लघूपधगुणाभावः । गुणावादेशौ । आगमानुदात्तत्वे विकरणस्वरः । अत्र निरुक्तं - ' व्रन्दी व्रन्दतेर्मृदूभावकर्मणः । निवृणक्षि यच्छ्वसनस्य मूर्धनि शब्दकारिणः शुष्णस्यादित्यस्य च शोषयितू रोरूयमाणो वनानीति वा धनानीति वा ' (निरु. ५.१५-१६ ) इति । धनानीति पक्षे मेघस्य धनानीति व्याख्येयम् ॥ ॥ १७ ॥


त्वमा॑विथ॒ नर्यं॑ तु॒र्वशं॒ यदुं॒ त्वं तु॒र्वीतिं॑ व॒य्यं॑ शतक्रतो ।

त्वं रथ॒मेत॑शं॒ कृत्व्ये॒ धने॒ त्वं पुरो॑ नव॒तिं द॑म्भयो॒ नव॑ ॥६

त्वम् । आ॒वि॒थ॒ । नर्य॑म् । तु॒र्वश॑म् । यदु॑म् । त्वम् । तु॒र्वीति॑म् । व॒य्य॑म् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।

त्वम् । रथ॑म् । एत॑शम् । कृत्व्ये॑ । धने॑ । त्वम् । पुरः॑ । न॒व॒तिम् । द॒म्भ॒यः॒ । नव॑ ॥६

त्वम् । आविथ । नर्यम् । तुर्वशम् । यदुम् । त्वम् । तुर्वीतिम् । वय्यम् । शतक्रतो इति शतऽक्रतो ।

त्वम् । रथम् । एतशम् । कृत्व्ये । धने । त्वम् । पुरः । नवतिम् । दम्भयः । नव ॥६

हे इन्द्र “त्वं नर्यादीन् त्रीन् राज्ञः “आविथ ररक्षिथ । तथा हे “शतक्रतो बहुविधकर्मन् बहुविधप्रज्ञ वा “त्वं “वय्यं वय्यकुलजं तुर्वीतिनामानं राजानम् आविथ इत्येव । अपि च “त्वं “रथं रंहणस्वभावम् एतत्संज्ञमृषिम् “एतशम् एतत्संज्ञकं “धने धननिमित्ते संग्रामे “कृत्व्ये कर्तव्ये सति आविथेति शेषः । यद्वा पूर्वोक्तानां राज्ञां रथम् । एतशः इति अश्वनाम । एतशम् अश्वं च ररक्षिथेति योज्यम् । तथा “त्वं शम्बरस्य “नवतिं “नव नवोत्तरनवतिसंख्याकाः “पुरः पुराणि “दम्भयः व्यनीनशः ॥ एतशम् । एति गच्छतीति एतशः । इण् गतौ '। इणस्तशन्तशसुनौ ' (उ. सू. ३. ४२९) इति तशन्प्रत्ययः । गुणः । कृत्व्ये । कर्तव्ये इत्यस्य शब्दस्य वर्णविकारः पृषोदरादित्वात् ॥


स घा॒ राजा॒ सत्प॑तिः शूशुव॒ज्जनो॑ रा॒तह॑व्य॒ः प्रति॒ यः शास॒मिन्व॑ति ।

उ॒क्था वा॒ यो अ॑भिगृ॒णाति॒ राध॑सा॒ दानु॑रस्मा॒ उप॑रा पिन्वते दि॒वः ॥७

सः । घ॒ । राजा॑ । सत्ऽप॑तिः । शू॒शु॒व॒त् । जनः॑ । रा॒तऽह॑व्यः । प्रति॑ । यः । शास॑म् । इन्व॑ति ।

उ॒क्था । वा॒ । यः । अ॒भि॒ऽगृ॒णाति॑ । राध॑सा । दानुः॑ । अ॒स्मै॒ । उप॑रा । पि॒न्व॒ते॒ । दि॒वः ॥७

सः । घ । राजा । सत्ऽपतिः । शूशुवत् । जनः । रातऽहव्यः । प्रति । यः । शासम् । इन्वति ।

उक्था । वा । यः । अभिऽगृणाति । राधसा । दानुः । अस्मै । उपरा । पिन्वते । दिवः ॥७

“स “घ स खलु "जनः जातः “राजा राजमानः “सत्पतिः सतां पालयिता यजमानः “शूशुवत् आत्मानं वर्धयति । “यः इन्द्रं “प्रति “रातहव्यः दत्तहविष्कः सन् “शासम् इन्द्रकर्तृकमनुशासनं यद्वा तस्य स्तुतिम् “इन्वति व्याप्नोति । “उक्था “वा उक्थानि शस्त्राणि वा “यः स्तोता “राधसा हविर्लक्षणेनान्नेन सह “अभिगृणाति तस्याभिमुखीकरणाय शंसति “अस्मै स्तोत्रे “दानुः अभिमतफलप्रदातेन्द्रः “उपरा उपरान् मेघान् । उपरः इति मेघनाम । स च यास्केनैवं निरुक्तः- ‘ उपर उपलो मेघो भवत्युपरमन्तेऽस्मिन्नभ्राण्युपरता आप इति वा ' (निरु. २. २१) इति । तान् मेघान् “दिवः सकाशात् “पिन्वते सेचयति दोग्धीति यावत् ॥ घ। ‘ ऋचि तुनुघ' इत्यादिना दीर्घः । सत्पतिः । सतां पतिः सत्पतिः । ‘ पत्यावैश्वर्ये' इति पूर्वपदप्रकृतिस्वरत्वम् । शूशुवत् । ‘टुओश्वि गतिवृद्धयोः' । ण्यन्तात् वर्तमाने लुङि च्लेः चङादेशे ‘ संप्रसारणं संप्रसारणाश्रयं च बलीयः' ( पा. म. ६. १. १७. २) इति अन्तरङ्गमपि वृद्ध्यादिकं बाधित्वा ‘णौ च संश्चङोः' ( पा. सू. ६. १. ३१ ) इति संप्रसारणम् । संज्ञापूर्वकस्य विधेरनित्यत्वात् वृद्ध्यभावे द्विर्वचनादि । उवङादेशः । रातहव्यः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । शासम् । शासु अनुशिष्टौ ' इत्यस्मात् भावे घञि ‘ कर्षात्वतः । इत्यन्तोदात्तत्वे प्राप्ते व्यत्ययेनाद्युदात्तत्वम् । वृषादिर्वा द्रष्टव्यः । स ह्याकृतिगण इत्युक्तम् । यद्वा । ‘ शंसु स्तुतौ ' इत्यस्मात् घञि व्यत्ययेन नलोपः । इन्वति । ‘ इवि व्याप्तौ । शपः पित्त्वादनुदात्तत्वे धातुस्वरः । यद्वृत्तयोगादनिघातः । अभिगृणाति । 'गॄ शब्दे'। क्रैयादिकः । ‘ प्वादीनां ह्रस्वः' इति ह्रस्वत्वम् । तिपः पित्त्वादनुदात्तत्वे विकरणस्वरः । पूर्ववत् निघाताभावः । उपरा। ‘सुपां सुलुक् ' इति शसः पूर्वसवर्णदीर्घत्वम् । पिन्वते । ‘ पिवि मिवि णिवि सेचने'। व्यत्ययेन आत्मनेपदम् ॥


अस॑मं क्ष॒त्रमस॑मा मनी॒षा प्र सो॑म॒पा अप॑सा सन्तु॒ नेमे॑ ।

ये त॑ इन्द्र द॒दुषो॑ व॒र्धय॑न्ति॒ महि॑ क्ष॒त्रं स्थवि॑रं॒ वृष्ण्यं॑ च ॥८

अस॑मम् । क्ष॒त्रम् । अस॑मा । म॒नी॒षा । प्र । सो॒म॒ऽपाः । अप॑सा । स॒न्तु॒ । नेमे॑ ।

ये । ते॒ । इ॒न्द्र॒ । द॒दुषः॑ । व॒र्धय॑न्ति । महि॑ । क्ष॒त्रम् । स्थवि॑रम् । वृष्ण्य॑म् । च॒ ॥८

असमम् । क्षत्रम् । असमा । मनीषा । प्र । सोमऽपाः । अपसा । सन्तु । नेमे ।

ये । ते । इन्द्र । ददुषः । वर्धयन्ति । महि । क्षत्रम् । स्थविरम् । वृष्ण्यम् । च ॥८

इन्द्रस्य “क्षत्रं बलम् "असमं न केनचित् समम् । सर्वाधिकमित्यर्थः । तथा “मनीषा बुद्धिश्च “असमा न कस्यापि बुद्ध्या समाना । सर्वं वस्तु विषयीकरोतीत्यर्थः । नेमे इति सर्वनामशब्दः एतच्छब्दसमानार्थः। “नेमे एते “सोमपाः सोमस्य पातारो यजमानाः "अपसा कर्मणा “प्र “सन्तु प्रवृद्धा भवन्तु । हे "इन्द्र "ते तव “ददुषः हविर्दत्तवन्तः "ये त्वदीयं “महि महत् “क्षत्रं बलं “स्थविरं स्थूलं प्रवृद्धं “वृष्ण्यं वृषत्वं पुंस्त्वं च "वर्धयन्ति प्रवृद्धं कुर्वन्ति । यद्वा । ददुषो यजमानेभ्यो यागफलं दत्तवतः तवेति योजनीयम् ॥ नेमे । सर्वनामत्वात् जसः शीभावे (पा. सू. ७. १. १७) गुणः । ‘ त्वसमसिमनेमेत्यनुच्चानि ' (फि. सू. ७८ ) इति सर्वानुदात्तत्वे प्राप्ते व्यत्ययेनाद्युदात्तत्वम् । ददुषः । ददातेर्लिटः क्वसुः । जसो व्यत्ययेन शसादेशः । ‘ संप्रसारणं संप्रसारणाश्रयं च बलीयः' इति इडागमात् पूर्वमेव संप्रसारणम् । “ शासिवसिघसीनां च ' इति षत्वम् । प्रत्ययस्वरः । महि । महेरौणादिकः इन्प्रत्ययः । स्थविरम् ।' अजिरशिशिर ' ( उ. सू. १. ५३ ) इत्यादिना तिष्ठतेः किरच्प्रत्ययान्तो निपातितः ॥


तुभ्येदे॒ते ब॑हु॒ला अद्रि॑दुग्धाश्चमू॒षद॑श्चम॒सा इ॑न्द्र॒पाना॑ः ।

व्य॑श्नुहि त॒र्पया॒ काम॑मेषा॒मथा॒ मनो॑ वसु॒देया॑य कृष्व ॥९

तुभ्य॑ । इत् । ए॒ते । ब॒हु॒लाः । अद्रि॑ऽदुग्धाः । च॒मू॒ऽसदः॑ । च॒म॒साः । इ॒न्द्र॒ऽपानाः॑ ।

वि । अ॒श्नु॒हि॒ । त॒र्पय॑ । काम॑म् । ए॒षा॒म् । अथ॑ । मनः॑ । व॒सु॒ऽदेया॑य । कृ॒ष्व॒ ॥९

तुभ्य । इत् । एते । बहुलाः । अद्रिऽदुग्धाः । चमूऽसदः । चमसाः । इन्द्रऽपानाः ।

वि । अश्नुहि । तर्पय । कामम् । एषाम् । अथ । मनः । वसुऽदेयाय । कृष्व ॥९

हे इन्द्र तुभ्येत् तुभ्यमेव “चमसाः । चम्यन्ते भक्ष्यन्ते इति चमसाः सोमः। “एते सोमाः त्वदर्थं संपादिताः । कीदृशा इत्याह । “बहुलाः प्रभूताः "अद्रिदुग्धाः अद्रिभिर्ग्रावभिरभिषुताः “चमूषदः चमूषु चमसेष्ववस्थिताः “इन्द्रपानाः इन्द्रस्य पानेन सुखकराः । अतस्वं तान् “व्यश्नुहि व्याप्नुहि । व्याप्य च “एषां त्वदीयानामिन्द्रियाणां "कामम् अभिलाषं तैः “तर्पय पूरयेति यावत् । “अथ अनन्तरं “वसुदेयाय अस्मभ्यमभिमतधनप्रदानाय त्वदीयं “मनः “कृष्व कुरुष्व ॥ तुभ्य । छान्दसो मलोपः । अद्रिदुग्धाः । दुहेः कर्मणि निष्ठा । ‘ तृतीया कर्मणि ' इति पूर्वपदप्रकृतिस्वरत्वम्। चमूषदः । ‘ चमु अदने ' । चमन्त्यनेनेति चमूः । ‘ कृषिचमितनि° ( उ. सू. १. ८१ ) इत्यादिना औणादिकः उप्रत्ययः । चमूषु सीदन्तीति चमूषदः । सत्सूद्विष° ' इत्यादिना क्विप् । पूर्वपदात्' (पा. सू. ८. ३. १०६ ) इति षत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । इन्द्रपानाः । ‘ कर्मणि च येन संस्पर्शात् । ( पा. सू. ३. ३. ११६ ) इति पिबतेः कर्मणि ल्युट् । अश्नुहि । व्यत्ययेन परस्मैपदम्। वसुदेयाय । ‘ डुदाञ् दाने'। अस्मात् ' अचो यत्' इति भावे यत् ।' ईद्यति' ( पा. सू. ६. ४. ६५ ) इति ईकारादेशः । गुणः । यतोऽनावः' इत्याद्युदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । कृष्व । डुकृञ करणे'। ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् ॥


अ॒पाम॑तिष्ठद्ध॒रुण॑ह्वरं॒ तमो॒ऽन्तर्वृ॒त्रस्य॑ ज॒ठरे॑षु॒ पर्व॑तः ।

अ॒भीमिन्द्रो॑ न॒द्यो॑ व॒व्रिणा॑ हि॒ता विश्वा॑ अनु॒ष्ठाः प्र॑व॒णेषु॑ जिघ्नते ॥१०

अ॒पाम् । अ॒ति॒ष्ठ॒त् । ध॒रुण॑ऽह्वरम् । तमः॑ । अ॒न्तः । वृ॒त्रस्य॑ । ज॒ठरे॑षु । पर्व॑तः ।

अ॒भि । ई॒म् । इन्द्रः॑ । न॒द्यः॑ । व॒व्रिणा॑ । हि॒ताः । विश्वाः॑ । अ॒नु॒ऽस्थाः । प्र॒व॒णेषु॑ । जि॒घ्न॒ते॒ ॥१०

अपाम् । अतिष्ठत् । धरुणऽह्वरम् । तमः । अन्तः । वृत्रस्य । जठरेषु । पर्वतः ।

अभि । ईम् । इन्द्रः । नद्यः । वव्रिणा । हिताः । विश्वाः । अनुऽस्थाः । प्रवणेषु । जिघ्नते ॥१०

“अपां वृष्ट्युदकानां “धरुणह्वरम् । धरुणशब्दो धारावचनः । धारानिरोधकं “तमः अन्धकारम् “अतिष्ठत् । अयमेवार्थः स्पष्टीक्रियते । “वृत्रस्य लोकत्रयावरितुरसुरस्य “जठरेषु उदरप्रदेशेषु “अन्तः मध्ये “पर्वतः पर्ववान् मेघोऽभूत् । अतस्तमोरूपेण वृत्रेण मेघस्यावृतत्वात् वृष्ट्युदकमप्यावृतमित्युच्यते । “ईम् इमाः पूर्वोक्ताः “नद्यः नदीः अपः । नदनात् नद्यः इति व्युत्पत्त्या नदीशब्देन आप उच्यन्ते । “वव्रिणा आवरकेण वृत्रेण “हिताः पिहिताः “विश्वाः व्यापिनीः “अनुष्ठाः अनुक्रमेण तिष्ठन्तीः एवंविधा अपः “इन्द्रः “प्रवणेषु निम्नेषु भूप्रदेशेषु “अभि "जिघ्नते अभिगमयति ॥ वव्रिणा । वृञ् वरणे' इत्यस्मात् ‘ आदृगमहनजनः' इति किप्रत्ययः । लिड्वद्भावात् द्विर्भावादि । यणादेशः । प्रत्ययस्वरः । अनुष्ठाः । ‘ आतश्चोपसर्गे ' इति तिष्ठतेः कप्रत्ययः । 'उपसर्गात्सुनोति' ' इति षत्वम् । जिघ्नते । हन्तेर्गत्यर्थात् व्यत्ययेनात्मनेपदम् । ‘बहुलं छन्दसि' इति शपः श्लुः । ‘अर्तिपिपर्त्योश्च, बहुलं छन्दसि' ( पा. सू. ७. ४. ७७-७८ ) इति अभ्यासस्य इत्वम् ॥


स शेवृ॑ध॒मधि॑ धा द्यु॒म्नम॒स्मे महि॑ क्ष॒त्रं ज॑ना॒षाळि॑न्द्र॒ तव्य॑म् ।

रक्षा॑ च नो म॒घोन॑ः पा॒हि सू॒रीन्रा॒ये च॑ नः स्वप॒त्या इ॒षे धा॑ः ॥११

सः । शेऽवृ॑धम् । अधि॑ । धाः॒ । द्यु॒म्नम् । अ॒स्मे इति॑ । महि॑ । क्ष॒त्रम् । ज॒ना॒षाट् । इ॒न्द्र॒ । तव्य॑म् ।

रक्ष॑ । च॒ । नः॒ । म॒घोनः॑ । पा॒हि । सू॒रीन् । रा॒ये । च॒ । नः॒ । सु॒ऽअ॒प॒त्यै । इ॒षे । धाः॒ ॥११

सः । शेऽवृधम् । अधि । धाः । द्युम्नम् । अस्मे इति । महि । क्षत्रम् । जनाषाट् । इन्द्र । तव्यम् ।

रक्ष । च । नः । मघोनः । पाहि । सूरीन् । राये । च । नः । सुऽअपत्यै । इषे । धाः ॥११

हे “इन्द्र “सः त्वम् “अस्मे अस्मासु “द्युम्नं यशः “अधि “धाः अधिनिधेहि । कीदृशमित्याह । “शेवृधम् । शं शमनम् । रोगाणां शमने सति यत् वर्धते तादृशम् । तथा “महि महत् “जनाषाट् शत्रुजनानामभिभवितृ “तव्यं प्रवृद्धं “क्षत्रं बलं च अधि धा इति शेषः । किंच हे इन्द्र “नः अस्मान् “मघोनः धनवतः कृत्वा "रक्ष पालय । “सूरीन विदुषोऽन्यानपि “पाहि पालय । तथा “राये धनाय “च “स्वपत्यै शोभनपुत्रयुक्ताय “इषे अन्नाय “च “नः अस्मान् “धाः धेहि स्थापय ॥ धाः ।। ‘ छन्दसि लुङ्लङ्लिटः' इति प्रार्थनायां लुङि • गातिस्था° ' इति सिचो लुक् । ' बहुलं छन्दस्यमाङ्योगेऽपि ' इति अडभावः । अस्मे । ‘सुपां सुलुक् ' इति अस्मच्छब्दात् सप्तम्याः शेआदेशः । जनाषाट् । जनान् सहते इति जनाषाट् । छन्दसि सहः' ( पा. सू. ३. २. ६३ ) इति ण्विः । ‘ अत उपधायाः' इति वृद्धिः । ‘ सहेः साडः सः ' ( पा. सू. ८. ३. ५६) इति षत्वम् । अन्येषामपि दृश्यते ' इति पूर्वपददीर्घः । तव्यम् । तवतिर्वृद्ध्यर्थः सौत्रो धातुः । ‘ अचो यत्' इति यत् । गुणे ‘ धातोस्तन्निमित्तस्यैव ' ( पा. सू. ६. १. ८०) इति अवादेशः । ‘ यतोऽनावः' इत्याद्युदात्तत्वम् । रक्ष । ‘रक्ष पालने'। शपः पित्त्वादनुदात्तत्वे धातुस्वरः। ‘ द्व्यचोऽतस्तिङः' इति दीर्घत्वम् । मघोनः । ‘ श्वयुवमघोनामतद्धिते ' इति शसि संप्रसारणम् । पाहि । अदादित्वात् शपो लुक् । हेः अपित्त्वात् तस्यैव स्वरः शिष्यते । मघोनः इत्यस्य वाक्यान्तरगतत्वात् निघाताभावः । स्वपत्यै । शोभनान्यपत्यानि यस्याः सा तथोक्ता । ‘ नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । “ जसादिषु च्छन्दसि वावचनम्' इति ' याडापः ' ( पा. सू. ७. ३. ११३ ) इति याडागमाभावे ' वृद्धिरेचि' (पा. सू. ६. १, ८८ ) इति वृद्धिः ॥ ॥ १८ ॥


मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.५४&oldid=196545" इत्यस्माद् पुनः प्राप्तिः