शतपथब्राह्मणम्/काण्डम् ४/अध्यायः ४/ब्राह्मण ५

विकिस्रोतः तः

४.४.५ अवभृथस्नानम्

स वा अवभृथमभ्यवैति । तद्यदवभृथमभ्यवैति यो वा अस्य रसोऽभूदाहुतिभ्यो वा अस्य तमजीजनदथैतच्छरीरं तस्मिन्न रसोऽस्ति तन्न परास्यंस्तदपोऽभ्यवहरन्ति रसो वा आपस्तदस्मिन्नेतं रसं दधाति तदेनमेतेन रसेन संगमयति तदेनमतो जनयति स एनं जात एव सञ्जनयति तद्यदपोऽभ्यवहरन्ति तस्मादवभृथः - ४.४.५.१

अथ समिष्टयजूंषि जुहोति । समिष्टयजूंषि ह्येवान्तो यज्ञस्य स हुत्वैव समिष्टयजूंषि यदेतमभितो भवति तेन चात्वालमुपसमायन्ति स कृष्णविषाणाम्मेखलां च चात्वाले प्रास्यति - ४.४.५.२

माहिर्भूर्मा पृदाकुरिति । असौ वा ऋजीषस्य स्वगाकारो यदेनदपोऽभ्यवहरन्त्यथैष एवैतस्य स्वगाकारो रज्जुरिव हि सर्पाः[१] कूपा इव हि सर्पाणामायतनान्यस्ति वै मनुष्याणां च सर्पाणां च विभ्रातृव्यमिव नेत्तदतःसम्भवदिति तस्मादाह माहिर्भूर्मा पृदाकुरिति - ४.४.५.३

अथ वाचयति । उरुं हि राजा वरुणश्चकार सूर्याय पन्थामन्वेतवा उ इति यथायमुरुरभयोऽनाष्ट्रः सूर्याय पन्था एवं मेऽयमुरुरभयोऽनाष्ट्रःपन्था अस्त्वित्येवैतदाह - ४.४.५.४

अपदे पादा प्रतिधातवेऽकरिति । यदि ह वा अप्यपाद्भवत्यलमेव प्रतिक्रमणाय भवत्युतापवक्ता हृदयाविधश्चिदिति तदेनं सर्वस्माद्धृद्यादेनसः पाप्मनः प्रमुञ्चति - ४.४.५.५

अथाह साम गायेति । साम ब्रूहीति वा गायेति त्वेव ब्रूयाद्गायन्ति हि साम तद्यत्साम गायति नेदिदं बहिर्धा यज्ञाच्छरीरं नाष्ट्रा रक्षांसि हिनसन्निति साम हि नाष्ट्राणां रक्षसामपहन्ता- ४.४.५.६

आग्नेय्यां गायति । अग्निर्हि रक्षसामपहन्तातिच्छन्दसि गायत्येषा वै सर्वाणि छन्दांसि यदतिच्छन्दास्तस्मादतिच्छन्दसि गायति - ४.४.५.७

स गायति । अग्निष्टपति प्रतिदहत्यहावोऽहाव इति तन्नाष्ट्रा एवैतद्रक्षांस्यतोऽपहन्ति - ४.४.५.८

त उदञ्चो निष्क्रामन्ति । जघनेन चात्वालमग्रेणाग्नीध्रं स यस्यां ततो दिश्यापोभवन्ति तद्यन्ति - ४.४.५.९

स यः स्यन्दमानानां स्थावरो ह्रदः स्यात् । तमपोऽभ्यवेयादेता वा अपां वरुणगृहीता याः स्यन्दमानानां न स्यन्दन्ते वरुण्यो वा अवभृथो निर्वरुणतायै यद्यु ता न विन्देदपि या एव काश्चापोऽभ्यवेयात् - ४.४.५.१०

तमपोऽवक्रमयन्वाचयति । नमो वरुणायाभिष्ठितो वरुणस्य पाश इति तदेनं सर्वस्माद्वरुणपाशात्सर्वस्माद्वरुण्यात्प्रमुञ्चति - ४.४.५.११

अथ चतुर्गृहीतमाज्यं गृहीत्वा । समिधं प्रास्याभिजुहोत्यग्नेरनीकमप आविवेशापां नपात्प्रतिरक्षन्नसुर्यं दमेदमे समिधं यक्ष्यग्ने प्रति ते जिह्वा घृतमुच्चरण्यत्स्वाहेति - ४.४.५.१२

अग्नेर्ह वै देवाः । यावद्वा यावद्वाप्सु प्रवेशयांचक्रुर्नेदतो नाष्ट्रा रक्षांस्युपोत्तिष्ठानित्यग्निर्हि रक्षसामपहन्ता तमेतया च समिधैतया चाहुत्या समिन्द्धे समिद्धे देवेभ्यो जुहवानीति- ४.४.५.१३

अथापरं चतुर्गृहीतमाज्यं गृहीत्वा । आश्राव्याह समिधो यजेति सोऽपबर्हिषश्चतुरः प्रयाजान्यजति प्रजा वै बर्हिर्वरुण्यो वा अवभृथो नेत्प्रजा वरुणो गृह्णादिति तस्मादपबर्हिषश्चतुरः प्रयाजान्यजति - ४.४.५.१४

अथ वारुण एककपालः पुरोडाशो भवति । यो वा अस्य रसोऽभूदाहुतिभ्यो वा अस्य तमजीजनदथैतच्छरीरं तस्मिन्न रसोऽस्ति रसो वै पुरोडाशस्तदस्मिन्नेतं रसं दधाति तदेनमेतेन रसेन संगमयति तदेनमतो जनयति स एनं जात एव सञ्जनयति तस्माद्वारुण एककपालः पुरोडाशो भवति - ४.४.५.१५

स आज्यस्योपस्तीर्य । पुरोडाशस्यावद्यन्नाह वरुणायानुब्रूहीत्यत्र हैक ऋजीषस्य द्विरवद्यन्ति तदु तथा न कुर्याच्छरीरं वा एतद्भवति नालमाहुत्यै द्विरवद्यति सकृदभिघारयति प्रत्यनक्त्यवदाने आश्राव्याह वरुणं यजेति वषट्कृते जुहोति - ४.४.५.१६

अथाज्यस्योपस्तीर्य । पुरोडाशमवदधदाहाग्नीवरुणाभ्यामनुब्रूहीति तत्स्विष्टकृते स यन्नाग्नय इत्याह नेदग्नि वरुणो गृह्णादिति स यद्यमुत्रऽर्जीषस्य द्विरवद्येदथात्र सकृद्यद्यु न नाद्रियेताथोपरिष्टाद्द्विराज्यस्याभिघारयत्याश्राव्याहाग्नीवरुणौ यजेति वषट्कृते जुहोति - ४.४.५.१७

ता वा एताः । षडाहुतयो भवन्ति षड्वा ऋतवः संवत्सरस्य संवत्सरो वरुणस्तस्मात्षडाहुतयो भवन्ति - ४.४.५.१८

एतदादित्यानामयनम् । आदित्यानीमानि यजूंषीत्याहुः स यावदस्य वशः स्यादेवमेव चिकीर्षेद्यद्यु एनमितरथा यजमानः कर्तवै ब्रूयादितरथो तर्हि कुर्यादेतानेव चतुरः प्रयाजानपबर्हिषो यजेद्द्वावाज्यभागौ वरुणमग्नीवरुणौ द्वावनुयाजावपबर्हिषौ तद्दश दशाक्षरा वै विराड्विराड्वै यज्ञस्तद्विराजमेवैतद्यज्ञमभिसम्पादयति - ४.४.५.१९

एतदङ्गिरसामयनम् । अतोऽन्यतरत्कृत्वा यस्मिन्कुम्भ ऋजीषं भवति तम्प्रप्लावयति समुद्रे ते हृदयमप्स्वन्तरित्यापो वै समुद्रो रसो वा आपस्तदस्मिन्नेतं रसं दधाति तदेनमेतेन रसेन संगमयति तदेनमतो जनयति स एनं जात एव सञ्जनयति सं त्वा विशन्त्वोषधीरुताप इति तदस्मिन्नुभयं रसं दधाति यश्चौषधिषु यश्चाप्सु यज्ञस्य त्वा यज्ञपते सूक्तोक्तौ नमोवाके विधेम यत्स्वाहेति तद्यदेव यज्ञस्य साधु तदेवास्मिन्नेतद्दधाति - ४.४.५.२०

अथानुसृज्योपतिष्ठते । देवीराप एष वो गर्भ इत्यपां ह्येष गर्भस्तं सुप्रीतं सुभृतं बिभृतेति तदेनमद्भ्यः परिददाति गुप्त्यै देव सोमैष ते लोक इत्यापोह्येतस्य लोकस्तस्मिञ्छं च वक्ष्व परि च वक्ष्वेति तस्मिन्नः शं चैधि सर्वाभ्यश्च न आर्तिभ्यो गोपायेत्येवैतदाह - ४.४.५.२१

अथोपमारयति । अवभृथ निचुम्पुण निचेरुरसि निचुम्पुणः अव देवैर्देवकृतमेनो ऽयासिषमव मर्त्यैर्मर्त्यकृतमित्यवह्येतद्देवैर्देवकृतमेनोऽयासीत्सोमेन राज्ञा अव मर्त्यैर्मर्त्यकृतमित्यव ह्येतन्मर्त्यैर्मर्त्यकृतमेनोऽयासीत्पशुना पुरोडाशेन पुरुराव्णो देव रिषस्पाहीतिसर्वाभ्यो मार्तिभ्यो गोपायेत्येवैतदाह - ४.४.५.२२

अथाभ्यवेत्य स्नातः । अन्योऽन्यस्य पृष्ठे प्रधावतस्तावन्ये वाससी परिधायोदेतः स यथाहिस्त्वचो निर्मुच्येतैवं सर्वस्मात्पाप्मनो निर्मुच्यते तस्मिन्न तावच्चनैनो भवति यावत्कुमारेऽदति स येनैव निष्क्रामन्ति तेन पुनरायन्ति पुनरेत्याहवनीये समिधमभ्यादधाति देवानां समिदसीति यजमानमेवैतया समिन्द्धे देवानां हि समिद्धिमनु यजमानः समिध्यते - ४.४.५.२३

  1. सर्पोपरि टिप्पणी