शतपथब्राह्मणम्/काण्डम् ४/अध्यायः ४

विकिस्रोतः तः
Jump to navigation Jump to search

ब्राह्मण १ सावित्रग्रहः

१ सावित्रग्रहः-तत्र सावित्रं ग्रहं विधातुं तस्य मनस्त्वप्राणत्वरूपेणाभिध्यानं, सोपपत्तिकं सोमयज्ञस्य प्रतिसवनं संव- त्सररूपेण विभावनं, तदर्थं तृतीयसवने सवितुः सर्वर्तुरूपत्वात्तत्सम्बन्धात्सावित्रग्रहस्यापि ऋतुग्रहसम्पत्तिकत्वप्रदर्शनं, सकारणं सावित्रग्रहस्योपांशुपात्रेण वाऽन्तर्यामपात्रेण वा ग्रहणविधानं, पुनरुपक्षीणे तस्य सार्थवादमाग्रयणाद्ग्रहणविधानं, विहिते ग्रहणे मैत्रस्य विनियोजनं, गृहीतस्य सोमरसस्य खरे सादनं न विधेयमिति सकारणं निषेधकथनम्, अनुवषट्कारवर्ज्यं आश्रावणादीतिकर्तव्यतासहितं होमविधानम् ।
वैश्वदेवग्रहः - तत्र अभक्षितेन पात्रेण वैश्वदेवग्रहग्रहणविधानं, वैश्वदेवग्रहस्य मनोरूपस्य सवितुः कृतानुकरानुवर्त्मत्वेन प्राणोदानत्वेन च प्रशंसनं, प्रसंगा- त्तृतीयसवनस्य वैश्वदेवत्वमभिधाय वैश्वदेवग्रहस्य ऋग्यजुःसामसम्बन्धप्रदर्शनं, तस्य सार्थवादं पूतभृतो ग्रहणविधानं सोपपत्तिकमपुरोरुक्कतया ग्रहणविधानं च, विहितं ग्रहणमनूद्य तत्र मन्त्रस्य विनियोजनं, गृहीतस्य सोमस्य खरे सादनविधानं, होत्रा वैश्वदेवशस्त्रे शंस्यमाने द्विदैवत्यपात्राणां विमोक्षणं विधेयमिति कथनं, तत्र कारणा- द्युपन्यासश्चेति


२.ब्राह्मण २ सौम्यश्चरुः

२ सौम्यश्चरुः तत्र सौम्यस्य चरोः सोपपत्तिकं प्रचरणविधानं, सौम्यस्य चरोर्देवपित्रोरुभयोर्हविष्ट्वमुक्त्वा तन्निमित्तककलहनिवारणाय तस्य वैश्वदेव्ये तृतीयसवनेऽनुवाक्यावर्जं प्रचरणविधानं, प्राक्पश्चादुभयतोऽन्यतरतो वाऽऽज्येन परियजनसहितस्य सधर्मकस्य सौम्यस्य चरोर्होमविधानम् ।
पात्नीवतग्रहः - तत्र पूर्वं प्रचरण्या स्रुचा चतुर्गृहीतमाज्यं गृहीत्वाऽध्वर्यो शालाकैर्यथोपकीर्णं यथापूर्वं धिष्ण्यानां व्याघारणविधानं, तदैव प्रतिप्रस्थातुः पात्नीवतग्रहस्य ग्रहणविधानं तत्साधनत्वेन यदि सावित्रो ग्रह उपांशुपात्रेण गृहीतश्चेदस्यान्तर्यामपात्रेण ग्रहणं यदि सावित्रो ग्रह अन्तर्यामपात्रेण गृहीतश्चेदस्योपांशुपात्रेण ग्रहणं चेति व्यवस्थितविभाषया पात्रस्य विधानं, तदपि ग्रहणम- पुरोरुक्कतया कर्तव्यमिति विधानं, विहितं ग्रहणमनूद्य तत्र मन्त्रस्य विनियोजनं, सार्थवादं प्रचरणीशेषेणाज्येन पत्नीवतग्रहस्य श्रयणकरण ( मिश्रणकरण) कथनं, प्रसगात्स्त्रीणां पित्र्यस्य धनस्य वा षड्विधस्य स्त्रीधनस्य दायस्या- नीश्वरत्वोपवर्णनम्, उक्ते श्रयणे मन्त्राभिधानं, सार्थवादं सप्रैषं सधर्मकं समन्त्रकं सभक्षं च पात्नीवतग्रहहोमविधानं तत्र प्रैषे उक्थ्यादिसोमसंस्थासु विशेषाभिधानं चेत्यादि


३.ब्राह्मण ३ हारियोजनग्रहः

३ हारियोजनग्रहः - तत्र हारियोजनग्रहविधायिन्याख्यायिका, हारियोजनग्रहस्यातिरिक्तत्वप्रतिपादनं, सकारणं द्रोणकलशेऽपुरोरुक्कतया ग्रहणविधान, विहिते ग्रहणे मंत्रस्य विनियोजनं, गृहीते सोमरसे समंत्रकं धानानामावापविधानं, सकारणं सधर्मकमुन्नेतुर्हारियोजनग्रहहोमविधानं, भक्षार्थं धानानां विभज्य ग्रहणविधानम्, अत्र द्रोणकलशभक्षविषये होतुरेव भक्ष इत्येकीयमतमनूद्य तन्निरस्य च सर्वर्त्विजां भक्ष इत्यस्य स्वमतस्य प्रतिष्ठापनं, सर्वर्त्विक्कर्तृकं धानानां समंत्रकं प्राणभक्षमर्थादवघ्राणं कृत्वा तासां सकारणमुत्तरवेदावेव निवपनविधानं, सार्थवादं पूर्णपात्राणां समवमर्शनं विधाय तत्र मन्त्रं विनियुज्य च पूर्णपात्रस्थाभिरद्भिर्मुखोपस्पर्शनविधानं चेति,

४.ब्राह्मण ४ समिष्टयजुः

४ समिष्टयजुः - तत्र ज्योतिष्टोमाङ्गभूतानां समिष्टयजुःसंज्ञकानां होमानामपूर्वो नवसंख्याविशिष्टः सोपपत्तिकउत्पत्तिविधिः, समिष्टयजुःशब्दनिर्वचनम्, एतेषां नवानां समिष्टयजुर्होमानां मध्ये प्रथमस्य त्रिकस्य यजमानाप्यायनं, द्वितीयस्य त्रिकस्य देवताविसर्जनमुत्तमस्यत्रिकस्य यज्ञप्रतिष्ठापनं चेत्येवं प्रयोजननिरूपणं, विहितेषु समिष्टयजुर्होमेषु क्वचित्क्वचिद्व्याख्यानसहितानां मंत्राणां विनियोगप्रदर्शनं चेत्यादि.


५.ब्राह्मण ५ अवभृथस्नानम्

५ अवभृथस्नानं-तत्रादावप्स्ववतरणस्य सकारणमृजीषस्यापोऽभ्यवहरणस्य च विधानं प्रसङ्गादवभृथशब्दनिर्वचनं च, समिष्टयजुरन्ते बर्हिर्होमात्प्राक्सोममभितो वर्तमानस्य चमसाद्युपकरणजातस्य चात्वालं प्रति निनयनविधानं, कृष्णविषाणाया मेखलायाश्चाध्वर्योश्चात्वाले प्रासनविधानं, विहिते प्रासने सोपपत्तिकं मंत्रस्य विनियोजनम्, अध्वर्योर्यजमानाय उरुं हि इति मंत्रस्य वाचनकथनं, तथा प्रस्तोत्रे सप्रयोजनसामगानप्रैषदानकथनं, तत्र सामाग्नेय्यामतिछंदस्कायामृचि गेयमिति प्रतिपादनं तत्साममंत्रप्रदर्शनं च, स्यन्दमानानामपां मध्ये यत्र स्थिरा आपस्तत्रदेशे उदङ् निष्क्रम्य जघनेन चात्वालमित्याद्युक्तप्रकारकसंचरमार्गेण सर्वेषां गमनविधानम्, अध्वर्योरपोऽवक्रमयते यजमानाय नमो वरुणाय इति मैत्रस्य वाचनकथनम्, अप्स्यवतरणानन्तरं चतुर्गृहीतेनाज्येन समित्पूर्वकं समंत्रकं सप्रयोजनमनीकवत्याज्याहुतिहोमविधानं, चतुर्गृहीतेन जौहवेनाज्येन सकारणमपबर्हिषा चतुर्णां प्रयाजानामनुष्ठानविधानं, प्रयाजानंतरं प्रधानो वारुणयागस्तत्र तस्य वारुण- स्थयैककपालस्य पुरोडाशस्योत्पत्तिविधिकथनं, सेतिकर्तव्यताकः प्रधानो वारुणयागः तत्र धर्मेषु अवद्यतोऽनुवाचनमिति विशेषकथनं, सेतिकर्तव्यताकः सौविष्टकृदाग्निवरुणो यागो धर्मकृतोठ्यद्यतोऽनुवाचनविशेषश्चेति
कथनम्, अवभृथेष्टौ षडाहुतिपक्षमभिधाय तस्यर्तुसंवत्सरसम्पत्त्योपपादनं तथा दशाहुतिपक्षमभिधाय विराडात्मसम्पत्योपपादनम्, अनयोः पक्षयोः क्रमादादित्यानामाङ्गिरसानां च मार्गत्वमुपवर्ण्य यजमानेच्छयाऽन्यतरःपक्षोऽनुष्ठेय इति निरूपणं सार्थवादं ऋजीषकुम्भस्य समंत्रकं सहेतुकं जले प्लावनविधानम्, आप्लावितं कुंभं जले विसृज्य यजमानकर्तृकं समंत्रकं सहेतुकं तदुपस्थानविधानम्, अध्वर्योर्ऋजीषकुम्भस्य समंत्रकं सहेतुकं जलस्यान्तर्मज्जनकरणविधानं, नानमन्योन्यपृष्ठप्रधावनमन्यद्वासः परिधानं स्नानफलं गमनोपदिष्टसंचरमार्गेण पुनरेत्य यजमानस्याहवनीये समंत्रकं समिधोऽभ्याधानं तत्प्रयोजनं चेत्यादि शेषावभृथकर्मविधानं चेति.