शतपथब्राह्मणम्/काण्डम् ४/अध्यायः ४/ब्राह्मण २

विकिस्रोतः तः

४.४.२ सौम्यश्चरुः

सौम्येन चरुणा प्रचरति । सोमो वै देवानां हविरथैतत्सोमायैव हविष्क्रियते तथाऽतः सोमोऽनन्तर्हितो भवति चरुर्भवति चरुर्वै देवानामन्नमोदनो हि चरुरोदनो हि प्रत्यक्षमन्नं तस्माच्चरुर्भवति - ४.४.२.१

तेन न प्रातःसवने प्रचरति । न माध्यन्दिने सवन एते वै देवानां निष्केवल्ये सवने यत्प्रातःसवनं च माध्यन्दिनं च सवनं पितृदेवत्यो वै सोमः - ४.४.२.२

स यत्प्रातःसवने वा प्रचरेत् । माध्यन्दिने वा सवने समदं ह कुर्याद्देवेभ्यश्च पितृभ्यश्च तेन तृतीयसवने प्रचरति वैश्वदेवं वै तृतीयसवनं तथा हासमदं करोति नानुवाक्यामन्वाह सकृदु ह्येव पराञ्चः पितरस्तस्मान्नानुवाक्यामन्वाह - ४.४.२.३

अथ चतुर्गृहीतमाज्यं गृहीत्वा । आश्राव्याह घृतस्य यजेति वषट्कृते जुहोति तद्या अतः प्राच्य आहुतयो हुता भवन्ति ताभ्य एवैतदन्तर्दधाति तथा हासमदं करोति - ४.४.२.४

स आज्यस्योपस्तीर्य । द्विश्चरोरवद्यत्यथोपरिष्टादाज्यस्याभिघारयत्याश्राव्याह सौम्यस्य यजेति वषट्कृते जुहोति - ४.४.२.५

अथापरं चतुर्गृहीतमाज्यं गृहीत्वा । आश्राव्याह घृतस्य यजेति वषट्कृते जुहोति तद्या अत ऊर्ध्वा आहुतीर्होष्यन्भवति ताभ्य एवैतदन्तर्दधाति तथा हासमदं करोति स यदि कामयेतोभयतः परियजेद्यद्यु कामयेतान्यतरतः परियजेत् - ४.४.२.६

४.४.२.७ पात्नीवतग्रहः

अथ प्रचरणीति स्रुग्भवति । तस्यां चतुर्गृहीतमाज्यं गृहीत्वाध्वर्युः शालाकैर्धिष्ण्यान्व्याघारयति तद्यच्छालाकैर्धिष्ण्यान्व्याघारयति यदेवैनानदो देवा अब्रुवंस्तृतीयसवने वो घृत्याहुतिः प्राप्स्यति न सौम्यापहृतो हि युष्मत्सोमपीथस्तेन सोमाहुतिं सैनानेषा तृतीयसवन एव घृत्याहुतिः प्राप्नोति न सौम्या यच्छालाकैर्धिष्ण्यान्व्याघारयति तानेतैरेव यजुर्भिर्यथोपकीर्णं यथापूर्वं व्याघारयति मार्जालीय एवोत्तमम् - ४.४.२.७

तद्धैके । आग्नीध्रीये पुनराघारयन्त्युदग्न इदं कर्मानुसंतिष्ठाता इति तदु तथा न कुर्यान्मार्जालीय एवोत्तमम् - ४.४.२.८

स यत्राध्वर्युः । शालाकैर्धिष्ण्यान्व्याघारयति तत्प्रतिप्रस्थाता पात्नीवतं ग्रहं गृह्णाति यज्ञाद्वै प्रजाः प्रजायन्ते यज्ञात्प्रजायमाना मिथुनात्प्रजायन्ते मिथुनात्प्रजायमाना अन्ततो यज्ञस्य प्रजायन्ते तदेना एतदन्ततो यज्ञस्य मिथुनात्प्रजननात्प्रजनयति तस्मान्मिथुनात्प्रजननादन्ततो यज्ञस्येमाः प्रजाः प्रजायन्ते तस्मात्पात्नीवतं गृह्णाति - ४.४.२.९

तं वा उपांशुपात्रेण गृह्णाति । यदि सावित्रमुपांशुपात्रेण गृह्णीयादन्तर्यामपात्रेणैतं यदि सावित्रमन्तर्यामपात्रेण गृह्णीयादुपांशुपात्रेणैतं समानं ह्येतद्यदुपांश्वन्तर्यामौ प्राणो हि यो वै प्राणः स उदानो वृषा वै प्राणो योषा पत्नी मिथुनमेवैतत्प्रजननं क्रियते - ४.४.२.१०

तं वा अपुरोरुक्कं गृह्णाति । वीर्यं वै पुरोरुङ्नेत्स्त्रीषु वीर्यं दधानीति तस्मादपुरोरुक्कं गृह्णाति - ४.४.२.११

अथातो गृह्णात्येव । उपयामगृहीतोऽसि बृहस्पतिसुतस्य देव सोम त इति ब्रह्म वै बृहस्पतिर्ब्रह्मप्रसूतस्य देव सोम त इत्येवैतदाहेन्दोरिन्द्रियावत इति वीर्यवत इत्येवैतदाह यदाहेन्दोरिन्द्रियावत इति पत्नीवतो ग्रहां ऋध्यासमिति न सम्प्रति पत्नीभ्यो गृह्णाति नेत्स्त्रीषु वीर्यं दधानीति तस्मान्न सम्प्रति पत्नीभ्यो गृह्णाति - ४.४.२.१२

अथ यः प्रचरण्यां संस्रवः परिशिष्टो भवति । तेनैनं श्रीणाति समर्धयति वा अन्यान्ग्रहाञ्छ्रीणन्नथैतं व्यर्धयति वज्रो वा आज्यमेतेन वै देवा वज्रेणाज्येन घ्नन्नेव पत्नीर्निराक्ष्णुवंस्ता हता निरष्टा नात्मनश्चनैशत न दायस्य चनैशत तथो एवैष एतेन वज्रेणाज्येन हन्त्येव पत्नीर्निरक्ष्णोति ता हता निरष्टा नात्मनश्चनेशते न दायस्य चनेशते - ४.४.२.१३

स श्रीणाति । अहं परस्तादहमवस्ताद्यदन्तरिक्षं तदु मे पिताभूत् अहं सूर्यमुभयतो ददर्शाहं देवानां परमं गुहा यदिति स यदहमहमिति श्रीणाति पुंस्वेवैतद्वीर्यं दधाति - ४.४.२.१४

अथाहाग्नीत्पात्नीवतस्य यजेति । वृषा वा अग्नीद्योषा पत्नी मिथुनमेवैतत्प्रजननं क्रियते स जुहोत्यग्ना ३ऽइ पत्नीवन् इति वृषा वा अग्निर्योषा पत्नी मिथुनमेवैतत्प्रजननं क्रियते - ४.४.२.१५

सजूर्देवेन त्वष्ट्रेति । त्वष्टा वै सिक्तं रेतो विकरोति तदेष एवैतत्सिक्तं रेतो विकरोति सोमं पिब स्वाहेत्युत्तरार्धे जुहोति या इतरा आहुतयस्ते देवा अथैताः पत्न्य एवमिव हि मिथुनं कॢप्तमुत्तरतो हि स्त्री पुमांसमुपशेत आहरत्यध्वर्युरग्नीधे भक्षं स आहाध्वर्य उप मा ह्वयस्वेति तं न प्रत्युपह्वयेत को हि हतस्य निरष्टस्य प्रत्युपहवस्तं वै प्रत्येवोपह्वयेत जुह्वत्यस्याग्नौ वषट्कुर्वन्ति तस्मात्प्रत्येवोपह्वयेत - ४.४.२.१६

अथ सम्प्रेष्यति । अग्नीन्नेष्टुरुपस्थमासीद नेष्टः पत्नीमुदानयोद्गात्रा संख्यापयोन्नेतर्होतुश्चमसमनून्नय सोमं माऽतिरीरिच इति यद्यग्निष्टोमः स्यात् - ४.४.२.१७

यद्युक्थ्यः स्यात् । सोमं प्रभावयेति ब्रूयात्स बिभ्रदेवैतत्पात्रमग्नीन्नेष्टुरुपस्थमासीदत्यग्निर्वा एष निदानेन यदाग्नीध्रो योषा नेष्टा वृषा वा अग्नीद्योषा नेष्टा मिथुनमेवैतत्प्रजननं क्रियत उदानयति नेष्टा पत्नीं तामुद्गात्रा संख्यापयति प्रजापतिर्वृषासि रेतोधा रेतो मयि धेहीति प्रजापतिर्वा उद्गाता योषा पत्नी मिथुनमेवैतत्प्रजननं क्रियते - ४.४.२.१८