शुक्‍लयजुर्वेदः/अध्यायः १९

विकिस्रोतः तः
Jump to navigation Jump to search

सौत्रामणी। सुरादीन्द्राभिषेकान्ता मन्त्राः

सौत्रामणी

१९.१
स्वाद्वीं त्वा स्वादुना तीव्रां तीव्रेणामृताम् अमृतेन ।
मधुमतीं मधुमता सृजामि सम्̐ सोमेन ।
सोमो सि ।
अश्विभ्यां पच्यस्व ।
सरस्वत्यै पच्यस्व ।
इन्द्राय सुत्राम्णे पच्यस्व ॥

१९.२
परीतो षिञ्चता सुतम्̐ सोमो य ऽ उत्तमम्̐ हविः ।
दधन्वान् यो नर्यो अप्स्व् अन्तर् आ सुषाव सोमम् अद्रिभिः ॥

१९.३
वायोः पूतः पवित्रेण प्रत्यङ्क् सोमो ऽ अतिद्रुतः ।
इन्द्रस्य युज्यः सखा ।
वायोः पूतः पवित्रेण प्राङ् सोमो ऽ अतिद्रुतः ।
इन्द्रस्य युज्यः सखा ॥

१९.४
पुनाति ते परिस्रुतम्̐ सोमम्̐ सूर्यस्य दुहिता ।
वारेण शश्वता तना ॥

१९.५
ब्रह्म क्षत्रं पवते तेज ऽ इन्द्रियम्̐ सुरया सोमः सुत ऽ आसुतो मदाय ।
शुक्रेण देव देवताः पिपृग्धि रसेनान्नं यजमानाय धेहि ॥

१९.६
कुविद् अङ्ग यवमन्तो यवं चिद् यथा दान्त्य् अनुपूर्वं वियूय ।
इहेहैषां कृणुहि भोजनानि ये बर्हिषो नम ऽ उक्तिं यजन्ति ।
उपयामगृहीतो ऽस्य् अश्विभ्यां त्वा सरस्वत्यै त्वेन्द्राय त्वा सुत्राम्णे ।
ऽ एष ते योनिस् तेजसे त्वा वीर्याय त्वा बलाय त्वा ॥

१९.६
नाना हि वां देवहितम्̐ सदस् कृतं मा सम्̐ सृक्षाथां परमे व्योमन् ।
सुरा त्वम् असि शुष्मिणी सोम ऽ एष मा मा हिम्̐सीः स्वां योनिम् आविशन्ती ॥

१९.८
उपयामगृहीतो ऽस्य् आश्विनं तेजः सारस्वतं वीर्यम् ऐन्द्रं बलम् ।
एष ते योनिर् मोदाय त्वानन्दाय त्वा महसे त्वा ॥

१९.९
तेजो ऽसि तेजो मयि धेहि ।
वीर्यम् असि वीर्यं मयि धेहि ।
बलम् असि बलं मयि धेहि ।
ओजो ऽस्य् ओजो मयि धेहि ।
मन्युर् असि मन्युं मयि धेहि ।
सहो ऽसि सहो मयि धेहि ॥

१९.१०
या व्याघ्रं विषूचिकोभौ वृकं च रक्षति ।
श्येनं पतत्रिणम्̐ सिम्̐हम्̐ सेमं पात्व् अम्̐हसः ॥

१९.११
यद् आपिपेष मातरं पुत्रः प्रमुदितो धयन् ।
एतत् तद् अग्ने ऽ अनृणो भवाम्य् अहतौ पितरौ मया ।
सम्पृच स्थ सं मा भद्रेण पृङ्क्त ।
विपृच स्थ वि मा पाप्मना पृङ्क्त ॥

१९.१२
देवा यज्ञम् अतन्वत भेषजं भिषजाश्विना ।
वाचा सरस्वती भिषग् इन्द्रायेन्द्रियाणि दधतः ॥

१९.१३
दीक्षायै रूपम्̐ शष्पाणि प्रायणीयस्य तोक्मानि ।
क्रयस्य रूपम्̐ सोमस्य लाजाः सोमाम्̐शवो मधु ॥

१९.१४
आतिथ्यरूपं मासरं महावीरस्य नग्नहुः ।
रूपम् उपसदाम् एतत् तिस्रो रात्रीः सुरासुता ॥

१९.१५
सोमस्य रूप क्रीतस्य परिस्रुत् परि षिच्यते ।
अश्विभ्यां दुग्धं भेषजम् इन्द्रायैन्द्रम्̐ सरस्वत्या ॥

१९.१६
आसन्दी रूपम्̐ राजासन्द्यै वेद्यै कुम्भी सुराधानी ।
अन्तर ऽ उत्तरवेद्या रूपं कारोतरो भिषक् ॥

१९.१६
वेद्या वेदिः सम् आप्यते बर्हिषा बर्हिर् इन्द्रियम् ।
यूपेन यूप ऽ आप्यते प्रणीतो ऽ अग्निर् अग्निना ॥

उत्तरवेदी


१९.१८
हविर्धानं यद् अश्विनाग्नीध्रं यत् सरस्वती ।
इन्द्रायैन्द्रम्̐ सदस् कृतं पत्नीशालं गार्हपत्यः ॥

१९.१९
प्रैषेभिः प्रैषान् आप्नोत्य् आप्रीभिर् आप्रीर् यज्ञस्य ।
प्रयाजेभिर् अनुयाजान् वषट्कारेभिर् आहुतीः ॥

१९.२०
पशुभिः पशून् आप्नोति पुरोडाशैर् हवीम्̐ष्य् आ ।
छन्दोभिः सामिधेनीर् याज्याभिर् वषट्कारान् ॥

१९.२१
धानाः करम्भः सक्तवः परीवापः पयो दधि ।
सोमस्य रूपम्̐ हविष आमिक्षा वाजिनं मधु ॥

१९.२२
धानानाम्̐ रूपं कुवलं परीवापस्य गोधूमाः ।
सक्तूनाम्̐ रूपं बदरम् उपवाकाः करम्भस्य ॥

१९.२३
पयसो रूपं यद् यवा दध्नो रूपं कर्कन्धूनि ।
सोमस्य रूपं वाजिनम्̐ सौम्यस्य रूपम् आमिक्षा ॥

१९.२४
आ श्रावयेति स्तोत्रियाः प्रत्याश्रावो ऽ अनुरूपः ।
यजेति धाय्यारूपं प्रगाथा येयजामहाः ॥

१९.२५
अर्धऽऋचैर् उक्थानाम्̐ रूपं पदैर् आप्नोति निविदः ।
प्रणवैः शस्त्राणाम्̐ रूपं पयसा सोम आप्यते ॥

१९.२६
अश्विभ्यां प्रातःसवनम् इन्द्रेणैन्द्रं माध्यन्दिनम् ।
वैश्वदेवम्̐ सरस्वत्या तृतीयम् आप्तम्̐ सवनम् ॥

१९.२६
वायव्यैर् वायव्यान् आप्नोति सतेन द्रोणकलशम् ।
कुम्भीभ्याम् अम्भृणौ सुते स्थालीभि स्थालीर् आप्नोति ॥

१९.२८
यजुर्भिर् आप्यन्ते ग्रहा ग्रहै स्तोमाश् च विष्टुतीः ।
छन्दोभिर् उक्थाशस्त्राणि साम्नावभृथऽआप्यते ॥

१९.२९
इडाभिर् भक्षान् आप्नोति सूक्तवाकेनाशिषः ।
शंयुना पत्नीसंयाजान्त् समिष्टयजुषा सम्̐स्थाम् ॥

१९.३०
व्रतेन दीक्षाम् आप्नोति दीक्षयाप्नोति दक्षिणाम् ।
दक्षिणा श्रद्धाम् आप्नोति श्रद्धया सत्यम् आप्यते ॥

१९.३१
एतावद् रूपं यज्ञस्य यद् देवैर् ब्रह्मणा कृतम् ।
तद् एतत् सर्वम् आप्नोति यज्ञे सौत्रामणी सुते ॥

१९.३२
सुरावन्तं बर्हिषदम्̐ सुवीरं यज्ञम्̐ हिन्वन्ति महिषा नमोभिः ।
दधानाः सोमं दिवि देवतासु मदेमेन्द्रं यजमानाः स्वर्काः ॥

१९.३३
यस् ते रसः सम्भृत ऽ ओषधीषु सोमस्य शुष्मः सुरया सुतस्य ।
तेन जिन्व यजमानं मदेन सरस्वतीम् अश्विनाव् इन्द्रम् अग्निम् ॥

१९.३४
यम् अश्विना नमुचेर् आसुराद् अधि सरस्वत्य् असुनोद् इन्द्रियाय ।
इमं तम्̐ शुक्रं मधुमन्तम् इन्दुम्̐ सोमम्̐ राजानम् इह भक्षयामि ॥

{K२१,१,३४}

१९.३५
यद् अत्र रिप्तम्̐ रसिनः सुतस्य यद् इन्द्रो ऽ अपिबच्छचीभिः ।
अहं तद् अस्य मनसा शिवेन सोमम्̐ राजानम् इह भक्षयामि ॥

१९.३६
पितृभ्यः स्वधायिभ्यः स्वधा नमः ।
पितामहेभ्यः स्वधायिभ्यः स्वधा नमः ।
प्रपितामहेभ्यः स्वधायिभ्यः स्वधा नमः ।
अक्षन् पितरः ।
ऽअमीमदन्त पितरः ।
ऽअतीतृपन्त पितरः ।
पितरः शुन्धध्वम् ॥

१९.३६
पुनन्तु मा पितरः सोम्यासः पुनन्तु मा पितामहाः ।
पुनन्तु प्रपितामहाः पवित्रेण शतायुषा ।
पुनन्तु मा पितामहाः सोम्यासः पुनन्तु प्रपितामहाः ।
पवित्रेण शतायुषा विश्वम् आयुर् व्यश्नवै ॥

१९.३८
अग्न ऽ आयूम्̐षि पवस ऽ आ सुवोर्जम् इषं च नः ।
आरे बाधस्व दुच्छुनाम् ॥

१९.३९
पुनन्तु मा देवजनाः पुनन्तु मनसा धियः ।
पुनन्तु विश्वा भूतानि जातवेदः पुनीहि मा ॥

१९.४०
पवित्रेण पुनीहि मा शुक्रेण देव दीद्यत् ।
अग्ने क्रत्वा क्रतूँ२ऽर् अनु ॥

१९.४१
यत् ते पवित्रम् अर्चिष्य् अग्ने विततम् अन्तरा ।
ब्रह्म तेन पुनातु मा ॥

१९.४२
पवमानः सो ऽ अद्य नः पवित्रेण विचर्षणिः ।
यः पोता स पुनातु मा ॥

१९.४३
उभाभ्यां देव सवितः पवित्रेण सवेन च ।
मां पुनीहि विश्वतः ॥

१९.४४
वैश्वदेवी पुनती देव्य् आगाद् यस्याम् इमा बह्व्यस् तन्वो वीतपृष्ठाः ।
तया मदन्तः सधमादेषु वयम्̐ स्याम पतयो रयीणाम् ॥

१९.४५
ये समानाः समनसः पितरो यमराज्ये ।
तेषां लोकः स्वधा नमो यज्ञो देवेषु कल्पताम् ॥

१९.४६
ये समानाः समनसो जीवा जीवेषु मामकाः ।
तेषाम्̐ श्रीर् मयि कल्पताम् अस्मिँल्लोके शतम्̐ समाः ॥

१९.४६
द्वे सृती ऽ अशृणवं पितॄणाम् अहं देवानाम् उत मर्त्यानाम् ।
ताभ्याम् इदं विश्वम् एजत् सम् एति यद् अन्तरा पितरं मातरं च ॥

१९.४८
इदम्̐ हविः प्रजननं मे ऽ अस्तु दशवीरम्̐ सर्वगणम्̐ स्वस्तये ।
आत्मसनि प्रजासनि पशुसनि लोकसन्य् अभयसनि ।
अग्निः प्रजां बहुलां मे करोत्व् अन्नं पयो रेतो ऽ अस्मासु धत्त ॥

१९.४९
उद् ईरताम् ऽ अवर उत् परास ऽ उन् मध्यमाः पितरः सोम्यासः ।
असुं य ऽ ईयुर् अवृका ऽ ऋतज्ञास् ते नो ऽवन्तु पितरो हवेषु ॥

१९.५०
अङ्गिरसो नः पितरो नवग्वा ऽ अथर्वाणो भृगवः सोम्यासः ।
तेषां वयम्̐ सुमतौ यज्ञियानाम् अपि भद्रे सौमनसे स्याम ॥

१९.५१
ये नः पूर्वे पितरः सोम्यासो ऽनूहिरे सोमपीथं वसिष्ठाः ।
तेभिर् यमः सम्̐रराणो हवीम्̐ष्य् उशन्न् उशद्भिः प्रतिकामम् अत्तु ॥

१९.५२
त्वम्̐ सोम प्र चिकितो मनीषा त्वम्̐ रजिष्ठम् अनु नेषि पन्थाम् ।
तव प्रणीती पितरो न ऽ इन्दो देवेषु रत्नम् अभजन्त धीराः ॥

१९.५३
त्वया हि नः पितरः सोम पूर्वे कर्माणि चक्रुः पवमान धीराः ।
वन्वन्न् अवातः परिधीँ२ऽर् अपोर्णु वीरेभिर् अश्वैर् मघवा भवा नः ॥

१९.५४
त्वम्̐ सोम पितृभिः संविदानो ऽनु द्यावापृथिवी ऽ आ ततन्थ ।
तस्मै त ऽ इन्दो हविषा विधेम वयम्̐ स्याम पतयो रयीणाम् ॥

१९.५५
बर्हिषदः पितर ऽ ऊत्य् अर्वाग् इमा वो हव्या चकृमा जुषध्वम् ।
त ऽ आ गतावसा शंतमेनाथा नः शं योर् अरपो दधात ॥

१९.५६
आहं पितॄन् सुविदत्राम्̐२ऽ अवित्सि नपातं च विक्रमणं च विष्णोः ।
बर्हिषदो ये स्वधया सुतस्य भजन्त पित्वस्त ऽ इहागमिष्ठाः ॥

१९.५६
उपहूताः पितरः सोम्यासो बर्हिष्येषु निधिषु प्रियेषु ।
त ऽ आ गमन्तु त ऽ इह श्रुवन्त्व् अधि ब्रुवन्तु ते ऽवन्त्व् अस्मान् ॥

१९.५८
आ यन्तु नः पितरः सोम्यासो ग्निष्वात्ताः पथिभिर् देवयानैः ।
अस्मिन् यज्ञे स्वधया मदन्तो ऽधि ब्रुवन्तु ते ऽवन्त्व् अस्मान् ॥

१९.५९
अग्निष्वात्ताः पितर ऽ एह गच्छत सदः-सदः सदत सुप्रणीतयः ।
अत्ता हवीम्̐षि प्रयतानि बर्हिष्य् अथा रयिम्̐ सर्ववीरं दधातन ॥

१९.६०
ये ऽ अग्निष्वात्ता ये ऽ अनग्निष्वात्ता मध्ये दिवः स्वधया मादयन्ते ।
तेभ्यः स्वराड् असुनीतिम् एतां यथावशं तन्वं कल्पयाति ॥

१९.६१
अग्निष्वात्ताम्̐ ऋतुमतो हवामहे नाराशम्̐से सोमपीथं य ऽ आशुः ।
ते नो विप्रासः सुहवा भवन्तु वयम्̐ स्याम पतयो रयीणाम् ॥

१९.६२
आच्या जानु दक्षिणतो निषद्येमं यज्ञम् अभि गृणीत विश्वे ।
मा हिम्̐सिष्ट पितरः केन चिन् नो यद्व ऽ आगः पुरुषता कराम ॥

१९.६३
आसीनासो ऽ अरुणीनाम् उपस्थे रयिं धत्त दाशुषे मर्त्याय ।
पुत्रेभ्यः पितरस् तस्य वस्वः प्र यच्छत त ऽ इहोर्जं दधात ॥

१९.६४
यम् अग्ने कव्यवाहन त्वं चिन् मन्यसे रयिम् ।
तं नो गीर्भिः श्रवाय्यं देवत्रा पनया युजम् ॥

{K२१,१,६४}

१९.६५
यो ऽ अग्निः कव्यवाहनः पितॄन् यक्षद् ऋतावृधः ।
प्रेद् उ हव्यानि वोचति देवेभ्यश् च पितृभ्य ऽ आ ॥

१९.६६
त्वम् अग्न ऽ ईडितः कव्यवाहनावाड् हव्यानि सुरभीणि कृत्वी ।
प्रादाः पितृभ्यः स्वधया ते ऽ अक्षन्न् अद्धि त्वं देव प्रयता हवीम्̐षि ॥

१९.६६
ये चेह पितरो ये च नेह याम्̐श् च विद्म याम्̐२ऽ उ च न प्रविद्म ।
त्वं वेत्थ यति ते जातवेदः स्वधाभिर् यज्ञम्̐ सुकृतं जुषस्व ॥

१९.६८
इदं पितृभ्यो नमो ऽ अस्त्व् अद्य ये पूर्वासो य ऽ उपरास ईयुः ।
ये पार्थिवे रजस्य् आ निषत्ता ये वा नूनम्̐ सुवृजनासु विक्षु ॥

१९.६९
अधा यथा नः पितरः परासः प्रत्नासो ऽ अग्न ऽ ऋतम् आशुषाणाः ।
शुचीदयन् दीधितिम् उक्थशासः क्षामा भिन्दन्तो ऽ अरुणीर् अप व्रन् ॥

१९.६०
उशन्तस् त्वा नि धीमह्य् उशन्तः सम् इधीमहि ।
उशन्न् उशत ऽ आ वह पितॄन् हविषे ऽ अत्तवे ॥

१९.६१
अपां फेनेन नमुचेः शिर ऽ इन्द्रोद् अवर्तयः ।
विश्वा यद् अजय स्पृधः ॥

१९.६२
सोमो राजामृतम्̐ सुत ऽ ऋजीषेणाजहान् मृत्युम् ।
ऋतेन सत्यम् इन्द्रियं विपानम्̐ शुक्रम् अन्धस ऽ इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥

१९.६३
अद्भ्यः क्षीरं व्यपिबत् क्रुङ्ङ् आङ्गिरसो धिया ।
ऋतेन सत्यम् इन्द्रियं विपानम्̐ शुक्रम् अन्धस इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥

१९.६४
सोमम् अद्भ्यो व्यपिबच् छन्दसा हम्̐सः शुचिषत् ।
ऋतेन सत्यम् इन्द्रियं विपानम्̐ शुक्रम् अन्धस ऽ इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥

१९.६५
अन्नात् परिस्रुतो रसं ब्रह्मणा व्यपिबत् क्षत्रं पयः सोमं प्रजापतिः ।
ऋतेन सत्यम् इन्द्रियं विपानम्̐ शुक्रम् अन्धस ऽ इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥

१९.६६
रेतो मूत्रं वि जहाति योनिं प्रविशद् इन्द्रियम् ।
गर्भो जरायुणावृत ऽ उल्वं जहाति जन्मना ।
ऋतेन सत्यम् इन्द्रियं विपानम्̐ शुक्रम् अन्धस ऽ इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥

१९.६६
दृष्ट्वा रूपे व्याकरोत् सत्यानृते प्रजापतिः ।
अश्रद्धाम् अनृते ऽदधाच् छ्रद्धाम्̐ सत्ये प्रजापतिः ।
ऋतेन सत्यम् इन्द्रियं विपानम्̐ शुक्रम् अन्धस ऽ इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥

१९.६८
वेदेन रूपे व्यपिबत् सुतासुतौ प्रजापतिः ।
ऋतेन सत्यम् इन्द्रियं विपानम्̐ शुक्रम् अन्धस ऽ इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥

१९.६९
दृष्ट्वा परिस्रुतो रसम्̐ शुक्रेण शुक्रं व्यपिबत् ।
पयः सोमं प्रजापतिः ।
ऋतेन सत्यम् इन्द्रियं विपानम्̐ शुक्रम् अन्धस ऽ इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥

१९.८०
सीसेन तन्त्रं मनसा मनीषिण ऽ ऊर्णासूत्रेण कवयो वयन्ति ।
अश्विना यज्ञम्̐ सविता सरस्वतीन्द्रस्य रूपं वरुणो भिषज्यन् ॥

१९.८१
तद् अस्य रूपम् अमृतम्̐ शचीभिस् तिस्रो दधुर् देवताः सम्̐रराणाः ।
लोमानि शष्पैर् बहुधा न तोक्मभिस् त्वग् अस्य माम्̐सम् अभवन् न लाजाः ॥

१९.८२
तद् अश्विना भिषजा रुद्रवर्तनी सरस्वती वयति पेशो ऽ अन्तरम् ।
अस्थि मज्जानं मासरैः कारोतरेण दधतो गवां त्वचि ॥

१९.८३
सरस्वती मनसा पेशलं वसु नासत्याभ्यां वयति दर्शतं वपुः ।
रसं परिस्रुता न रोहितं नग्नहुर् धीरस् तसरं न वेम ॥

१९.८४
पयसा शुक्रम् अमृतं जनित्रम्̐ सुरया मूत्राज् जनयन्त रेतः ।
अपामतिं दुर्मतिं बाधमाना ऽ ऊवध्यं वातम्̐ सब्वं तद् आरात् ॥

१९.८५
इन्द्रः सुत्रामा हृदयेण सत्यं पुरोडाशेन सविता जजान ।
यकृत् क्लोमानं वरुणो भिषज्यन् मतस्ने वायव्यैर् न मिनाति पित्तम् ॥

१९.८६
आन्त्राणि स्थालीर् मधु पिन्वमाना गुदाः पात्राणि सुदुघा न धेनुः ।
श्येनस्य पत्रं न प्लीहा शचीभिर् आसन्दी नाभिर् उदरं न माता ॥

१९.८६
कुम्भो वनिष्ठुर् जनिता शचीभिर् यस्मिन्न् अग्रे योन्यां गर्भो ऽ अन्तः ।
प्लाशिर् व्यक्तः शतधार ऽ उत्सो दुहे न कुम्भी स्वधां पितृभ्यः ॥

१९.८८
मुखम्̐ सद् अस्य शिर ऽ इत् सतेन जिह्वा पवित्रम् अश्विनासन्त् सरस्वती ।
चप्यं न पायुर् भिषग् अस्य वालो वस्तिर् न शेपो हरसा तरस्वी ॥

१९.८९
अश्विभ्यां चक्षुर् अमृतं ग्रहाभ्यां छागेन तेजो हविषा शृतेन ।
पक्ष्माणि गोधूमैः कुवलैर् उतानि पेशो न शुक्रम् असितं वसाते ॥

१९.९०
अविर् न मेषो नसि वीर्याय प्राणस्य पन्था ऽ अमृतो ग्रहाभ्याम् ।
सरस्वत्य् उपवाकैर् व्यानं नस्यानि बर्हिर् बदरैर् जजान ॥

१९.९१
इन्द्रस्य रूपं वृषभो बलाय कर्णाभ्याम्̐ श्रोत्रम् अमृतं ग्रहाभ्यां ।
यवा न बर्हिर् भ्रुवि केसराणि कर्कन्धु जज्ञे मधु सारघं मुखात् ॥

१९.९२
आत्मन्न् उपस्थे न वृकस्य लोम मुखे श्मश्रूणि न व्याघ्रलोम ।
केशा न शीर्षन् यशसे श्रियै शिखा सिम्̐हस्य लोम त्विषिर् इन्द्रियाणि ॥

१९.९३
अङ्गान्य् आत्मन् भिषजा तद् अश्विनात्मानम् अङ्गैः सम् अधात् सरस्वती ।
इन्द्रस्य रूपम्̐ शतमानम् आयुश् चन्द्रेण ज्योतिर् अमृतं दधानाः ॥

१९.९४
सरस्वती योन्यां गर्भम् अन्तर् अश्विभ्यां पत्नी सुकृतं बिभर्ति ।
अपाम्̐ रसेन वरुणो न साम्नेन्द्रम्̐ श्रियै जनयन्न् अप्सु राजा ॥

१९.९५
तेजः पशूनाम्̐ हविर् इन्द्रियावत् परिस्रुता पयसा सारघं मधु ।
अश्विभ्यां दुग्धं भिषजा सरस्वत्या सुतासुताभ्याम् अमृतः सोम ऽ इन्दुः ॥


[सम्पाद्यताम्]

टिप्पणी

१. सौत्रामणीयागो द्विविधः-( १ ) चरकसौत्रामणीयागः ( २ ) कौकिलसौत्रामणीयागश्चेति । तत्र तैत्तिरीयसंहितायां राजसूययागानुषङ्गेण यः पठितः स चरकसौत्रामणीयागः। ‘अग्निं चित्वा सौत्रामण्या यजेत मैत्रावरुण्या वा' ( तैब्रा ३.१२.५.१२) इतिविध्युपदिष्टोऽपि चरकसौत्रामणीयाग एव । तैब्रा १.४.२; १.८.५-६ अत्रापि चरकसौत्रामणीसंबन्धिनो मन्त्रा विधिश्चोपदिष्टः । सोऽयं यागो नैमित्तिकः काम्यश्च । तैब्रा २.६ अत्र प्रदत्तस्तु कौकिलसौत्रामणी, स च नित्यो हविःसंस्थारूपः । अस्य विधायकं ब्राह्मणं नास्ति । मैत्रायणीकाठकसंहितयोरपि कौकिलसौत्रामणीयागस्य विधायकं ब्राह्मण नास्ति । कपिष्ठलकठशाखायां सौत्रामणीप्रकरणं नास्ति । वाजसनेयसंहितायां राजसूयानन्तरं चरकसौत्रामणीयागः पठितः, चयनानन्तरं च कौकिलसौत्रामणी । उभयोः ब्राह्मणं पृथग्विद्यते । तत्र चरकसौत्रामणीयागोऽङ्गभूतो नैमित्तिकश्च । कौकिलसौत्रामणीयागो नित्यनैमित्तिककाम्यभेदेन त्रिविधः । तत्र नित्ये ब्राह्मणस्यैवाधिकारः। चरककौकिलयोः बहुशः साम्यभावात् प्रतिशाखमुभौ यागौ सम्यग्बोधार्थं क्रमेण प्रदत्तौ । तत्रापि कौकिलसौत्रामणीयागस्य हविःसंस्थारूपत्वादादौ स दीयते । शाङ्खायनब्राह्मणे गोपथब्राह्मणे च केवलं कौकिलसौत्रामणीयागो निरूपितः । - श्रौतकोशः(वैदिकसंशोधनमण्डल, पुणे, प्रथमो भागः, पृ.६९८

१९.१३

दीक्षायै रूपम्̐ शष्पाणि प्रायणीयस्य तोक्मानि । क्रयस्य रूपम्̐ सोमस्य लाजाः सोमाम्̐शवो मधु ॥

प्रातःसवनस्यैतद् रूपं यच्छष्पाणि। अयं वै लोकः प्रातःसवनम्। स आश्विनः। आश्विनेन पयसा प्रथमां रात्रिं परिषिंचति। स्वेनैवैनमेतल्लोकेन स्वया देवतया स्वेन रूपेण प्रातःसवनेन समर्द्धयति॥१२.८.२.८॥ माध्यंदिनस्यैतत्सवनस्य रूपं यत्तोक्मानि। अंतरिक्षं वै माध्यंदिनं सवनम्। तत्सारस्वतम्। सारस्वतेन पयसा द्वितीयां रात्रिं परिषिंचति। स्वेनैवैनमेतल्लोकेन स्वया देवतया स्वेन रूपेण माध्यंदिनेन सवनेन समर्धयति॥१२.८.२.९॥ तृतीयसवनस्यैतद् रूपं यत् लाजाः। द्यौर्वै तृतीयसवनम्। सैन्द्री। ऐंद्रेण पयसा तृतीयां रात्रिं परिषिंचति। स्वेनैवैनमेतल्लोकेन स्वया देवतया स्वेन रूपेण तृतीयसवनेन समर्द्धयति॥माश. १२.८.२.१०

१९.१८

हविर्धानं यद् अश्विनाग्नीध्रं यत् सरस्वती । इन्द्रायैन्द्रम्̐ सदस् कृतं पत्नीशालं गार्हपत्यः ॥

अश्विनौ वै देवानां भिषजौ। ताभ्यामेवैनं भिषज्यति। सरस्वती भेषजम्। तयैवास्मिन् भेषजं – माश १२.७.२.३

सर्व आश्विना भवन्ति। भैषज्याय। सर्वे सारस्वताः। अन्नाद्यस्यैवावरुद्ध्यै। - १२.८.२.१६



रक्षाबन्धन

श्रावणी पूर्णिमा एकलमासीय कोकिलाव्रतस्य अवसानं भवति। अस्मिन् अवसरे द्वारस्य उभयोः पार्श्वयोः कोकिलायाः चित्रस्य चित्रणं भवति। कोकिलाव्रतं संकेतं ददाति यत् अयं कौकिलसौत्रामणीयागस्य पौराणिकं रूपमस्ति।

सौत्रामणीयागे आहवनीयसंज्ञके अग्नौ सुरायाः होमं भवति। यत्किञ्चित् अग्नौ होमं भवति, तत् देवेभ्यः भवति। किन्तु देवाः सुरायाः सेवनं न कुर्वन्ति। ते सोमस्य सेवनं एव कुर्वन्ति। मनुष्येभ्यः सोमस्य सौलभ्यं नास्ति, अतएव ते सुरायाः सेवनं कुर्वन्ति। आधुनिकविज्ञानानुसारेण मनुष्यादयः पशवः यत्किंचित् खादन्ति, तस्य चरमपरिणतिः सुरा अथवा एल्कोहलरूपे भवति। सुरायाः अणोः खण्डनात् ऊर्जायाः, ऊष्मायाः जननं भवति, यस्मात् ऊर्जातः देहव्यापारस्य संचालनं भवति। तदा सौत्रामण्यां सुरायाः होमस्य किं रहस्यं भवितुं शक्यते। सौत्रामण्यां यस्य सुरायाः उत्पादनं भवति, तस्याः उत्पादनाय मुख्यतया त्रि-चत्वारि द्रव्याणां उपयोगं भवति। एकः - शष्पः, अंकुरिताः व्रीहयः। द्वितीयः - तोक्मः, अंकुरिताः यवाः। तृतीयः - लाजा। शष्पस्य क्रयं सुराविक्रेतातः सीसाद्रव्यस्य मौल्ये भवति, तोक्मस्य ऊर्णा मौल्ये, लाजायाः सूत्रस्य मौल्ये। चतुर्थ नग्नहूसंज्ञकानां द्रव्याणां क्रयं गुडस्य मौल्ये भवति। सीसा द्रव्यः नपुंसकतायाः संकेतमस्ति। अत्र शष्पस्य क्रयणं सीसाद्रव्यस्य मौल्ये उल्लेखनं संकेतं ददाति यत् साधनातः नपुंसकस्थिति प्राप्त्यानन्तरं यस्य सुरायाः जननं देहमध्ये भविष्यति, शोधनोपरि तस्याः आहुतिः देवेभ्यः दातुं शक्यं अस्ति।

चित्रे वामपार्श्वे यः चित्रणमस्ति, तत् सौत्रामणीयागे पयःआहुतेः चित्रणं भवितुं शक्यते। दक्षिणपार्श्वे सुराहोमस्य चित्रणं भवितुं शक्यते।