शुक्लयजुर्वेदः/अध्यायः २०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १९ शुक्लयजुर्वेदः
अध्यायः २०
[[लेखकः :|]]
अध्यायः २१ →

अध्यायः 20
सौत्रामणी यागे सेकाद्यासन्दीहौत्रान्ता मन्त्राः

20.1
क्षत्रस्य योनिर् असि क्षत्रस्य नाभिर् असि ।
मा त्वा हिꣳसीन् मा मा हिꣳसीः ॥

20.2
नि षसाद घृतव्रतो वरुणः पस्त्यास्व् आ ।
साम्राज्याय सुक्रतुः ।
मृत्योः पाहि ।
विद्योत् पाहि ॥

20.3
देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।
अश्विनोर् भैषज्येन तेजसे ब्रह्मवर्चसायाभि षिञ्चामि ।
सरस्वत्यै भैषज्येन वीर्यायान्नाद्यायाभि षिञ्चामि ।
इन्द्रस्येन्द्रियेण बलाय श्रियै यशसेऽभि षिञ्चामि ॥

20.4
को ऽसि कतमो ऽसि कस्मै त्वा काय त्वा ।
सुश्लोक सुमङ्गल सत्यराजन् ॥

20.5
शिरो मे श्रीर् यशो मुखं त्विषिः केशाश् च श्मश्रूणि ।
राजा मे प्राणो ऽ अमृतꣳ सम्राट् चक्षुर् विराट् श्रोत्रम् ॥

20.6
जिह्वा मे भद्रं वाङ् महो मनो मन्युः स्वराड् भामः ।
मोदाः प्रमोदा ऽ अङ्गुलीर् अङ्गानि मित्रं मे सहः ॥

20.7
बाहू मे बलम् इन्द्रियꣳ हस्तौ मे कर्म वीर्यम् ।
आत्मा क्षत्रम् उरो मम ॥

20.8
पृष्टीर् मे राष्ट्रम् उदरम् अꣳसौ ग्रीवाश् च श्रोणी ।
ऊरू ऽ अरत्नी जानुनी विशो मे ऽङ्गानि सर्वतः ॥

20.9
नाभिर् मे चित्तं विज्ञानं पायुर् मे ऽपचितिर् भसत् ।
आनन्दनन्दाव् आण्डौ मे भगः सौभाग्यं पसः ।
जङ्घाभ्यां पद्भ्यां धर्मो ऽस्मि विशि राजा प्रतिष्ठितः ॥

20.10
प्रति क्षत्रे प्रति तिष्ठामि राष्ट्रे प्रत्य् अश्वेषु प्रति तिष्ठामि गोषु ।
प्रत्य् अङ्गेषु प्रति तिष्ठाम्य् आत्मन् प्रति प्राणेषु क्षत्रे प्रति तिष्ठामि पुष्टे प्रति द्यावापृथिव्योः प्रति तिष्ठामि ॥

20.11
त्रया देवा ऽ एकादश त्रयस्त्रिꣳशाः सुराधसः ।
बृहस्पतिपुरोहिता देवस्य सवितुः सवे ।
देवा देवैर् अवन्तु मा ॥

20.12
प्रथमा द्वितीयैर् द्वितीयास् तृतीयैस् तृतीयाः सत्येन सत्यं यज्ञेन यज्ञो यजुर्भिर् यजूꣳषि सामभिः सामान्य् ऋग्भिर् ऋचः पुरोनुऽवाक्याभिः पुरोऽनुवाक्या याज्याभिर् याज्या वषट्कारैर् वषट्कारा ऽ आहुतिभिर् आहुतयो मे कामान्त् सम् अर्धयन्तु भूः स्वाहा ॥

20.13
लोमानि प्रयतिर् मम त्वङ् म ऽ आनतिर् आगतिः ।
माꣳसं म ऽ उपनतिर् वस्व् अस्थि मज्जा म ऽ आनतिः ॥

20.14
यद् देवा देवहेडनं देवासश् चकृमा वयम् ।
अग्निर् मा तस्माद् एनसो विश्वान् मुञ्चत्व् अꣳहसः ॥

20.15
यदि दिवा यदि नक्तम् एनाꣳसि चकृमा वयम् ।
वायुर् मा तस्माद् एनसो विश्वान् मुञ्चत्व् अꣳहसः ॥

20.16
यदि जाग्रद् यदि स्वप्न ऽ एनाꣳसि चकृमा वयम् ।
सूर्यो मा तस्माद् एनसो विश्वान् मुञ्चत्व् अꣳहसः ॥

20.17
यद् ग्रामे यद् अरण्ये यत् सभायां यद् इन्द्रिये ।
यच्छूद्रे यद् अर्ये यद् एनश् चकृमा वयं यद् एकस्याधि धर्मणि तस्यावयजनम् असि ॥

20.18
यद् आपो ऽ अघ्न्या ऽ इति वरुणेति शपामहे ततो वरुण नो मुञ्च ।
अवभृथ निचुम्पुण निचेरुर् असि निचुम्पुणः ।
अव देवैर् देवकृतम् एनो ऽयक्ष्य् अव मर्त्यैर् मर्त्यकृतम् ।
पुरुराव्णो देव रिषस् पाहि ॥

20.19
समुद्रे ते हृदयम् अप्स्व् अन्तः सं त्वा विशन्त्व् ओषधीर् उतापः ।
सुमित्रिया न ऽ आप ऽ ओषधयः सन्तु दुर्मित्रियास् तस्मै सन्तु यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मः ॥

20.20
द्रुपदाद् इव मुमुचानः स्विन्नः स्नातो मलाद् इव ।
पूतं पवित्रेणेवाज्यम् आपः शुन्धन्तु मैनसः ॥

20.21
उद् वयं तमसस् परि स्वः पश्यन्त ऽ उत्तरम् ।
देवं देवत्रा सूर्यम् अगन्म ज्योतिर् उत्तमम् ॥

20.22
अपो ऽ अद्यान्व् अचारिषꣳ रसेन सम् असृक्ष्महि ।
पयस्वान् अग्न ऽ आगमं तं मा सꣳ सृज वर्चसा प्रजया च धनेन च ॥

20.23
एधोऽस्य् एधिषीमहि ।
समिद् असि तेजो ऽसि तेजो मयि धेहि ।
समाववर्ति पृथिवी सम् उषाः सम् उ सूर्यः ।
सम् उ विश्वम् इदं जगत् ।
वैश्वानरज्योतिर् भूयासं विभून् कामान् व्यश्नवै भूः स्वाहा ॥

20.24
अभ्यादधामि समिधम् अग्ने व्रतपते त्वयि ।
व्रतं च श्रद्धां चोपैमीन्धे त्वा दीक्षितोऽअहम् ॥

20.25
यत्र ब्रह्म च क्षत्रं च सम्यञ्चो चरतः सह ।
तं लोकं पुण्यं प्रज्ञेषं यत्र देवाः सहाग्निना ॥

20.26
यत्रेन्द्रश् च वायुश् च सम्यञ्चो चरतः सह ।
तं लोकं पुण्यं प्रज्ञेषं यत्र सेदिर् न विद्यते ॥

20.27
अꣳशुना ते अꣳशुः पृच्यतां परुषा परुः ।
गन्धस् ते सोमम् अवतु मदाय रसोऽअच्युतः ॥

20.28
सिञ्चन्ति परि षिञ्चन्त्य् उत् सिञ्चन्ति पुनन्ति च ।
सुरायै बभ्र्वै मदे किंत्वो वदति किंत्वः ॥

20.29
धानावन्तं करम्भिणम् अपूपवन्तम् उक्थिनम् ।
इन्द्र प्रातर् जुषस्व नः ॥

20.30
बृहद् इन्द्राय गायत मरुतो वृत्रहन्तमम् ।
येन ज्योतिर् अजनयन्न् ऋतावृधो देवं देवाय जागृवि ॥

20.31
अध्वर्यो ऽ अद्रिभिः सुतꣳ सोमं पवित्र ऽ आ नय ।
पुनीहीन्द्राय पातवे ॥

20.32
यो भूतानाम् अधिपतिर् यस्मिंल्लोका ऽ अधि श्रिताः ।
य ऽ ईशे महतो महाꣳस् तेन गृह्णामि त्वाम् अहं मयि गृह्णामि त्वाम् अहम् ॥

20.33
उपयामगृहीतो ऽस्य् अश्विभ्यां त्वा सरस्वत्यै त्वेन्द्राय त्वा सुत्राम्णेऽ ।
एष ते योनिर् अश्विभ्यां त्वा सरस्वत्यै त्वेन्द्राय त्वा सुत्राम्णे ॥

20.34
प्राणपा मे ऽअपानपाश् चक्षुष्पाः श्रोत्रपाश् च मे ।
वाचो मे विश्वभेषजो मनसो ऽसि विलायकः ॥

20.35
अश्विनकृतस्य ते सरस्वतिकृतस्येन्द्रेण सुत्राम्णा कृतस्य ।
उपहूत ऽउपहूतस्य भक्षयामि ॥

20.36
समिद्ध ऽ इन्द्र ऽ उषसाम् अनीके पुरोरुचा पूर्वकृद् वावृधानः ।
त्रिभिर् देवैस् त्रिꣳशता वज्रबाहुर् जघान वृत्रं वि दुरो ववार ॥

20.37
नराशꣳसः प्रति शूरो मिमानस् तनूनपात् प्रति यज्ञस्य धाम ।
गोभिर् वपावान् मधुना समञ्जन् हिरण्यैश् चन्द्री यजति प्रचेताः ॥

20.38
ईडितो देवैर् हरिवाꣳ२ऽ अभिष्टिर् आजुह्वानो हविषा शर्धमानः ।
पुरंदरो गोत्रभिद् वज्रबाहुर् आ यातु यज्ञम् उप नो जुषाणः ॥

20.39
जुषाणो बर्हिर् हरिवान् न ऽ इन्द्रः प्राचीनꣳ सीदत् प्रदिशा पृथिव्याः ।
उरुप्रथाः प्रथमानꣳ स्योनम् आदित्यैर् अक्तं वसुभिः सजोषाः ॥

20.40
इन्द्रं दुरः कवष्यो धावमाना वृषाणं यन्तु जनयः सुपत्नीः ।
द्वारो देवीर् अभितो वि श्रयन्ताꣳ सुवीरा वीरं प्रथमाना महोभिः ॥

20.41
उषासानक्ता बृहती बृहन्तं पयस्वती सुदुघे शूरम् इन्द्रम् ।
तन्तुं ततं पेशसा संवयन्ती देवानां देवं यजतः सुरुक्मे ॥

20.42
दैव्या मिमाना मनुषः पुरुत्रा होताराव् इन्द्रं प्रथमा सुवाचा ।
मूर्द्धन् यज्ञस्य मधुना दधाना प्राचीनं ज्योतिर् हविषा वृधातः ॥

20.43
तिस्रो देवीर् हविषा वर्धमाना ऽ इन्द्रं जुषाणा जनयो न पत्नीः ।
अच्छिन्नं तन्तुं पयसा सरस्वतीडा देवी भारती विश्वतूर्तिः ॥

20.44
त्वष्टा दधच्छुष्मम् इन्द्राय वृष्णे ऽपाको ऽचिष्टुर् यशसे पुरूणि ।
वृषा यजन् वृषणं भूरिरेता मूर्धन् यज्ञस्य सम् अनक्तु देवान् ॥

20.45
वनस्पतिर् अवसृष्टो न पाशैस् त्मन्या समञ्जञ्छमिता न देवः ।
इन्द्रस्य हव्यैर् जठरं पृणानः स्वदाति यज्ञं मधुना घृतेन ॥

20.46
स्तोकानां इन्दुं प्रति शूर ऽ इन्द्रो वृषायमाणो वृषभस् तुराषाट् ।
घृतप्रुषा मनसा मोदमानाः स्वाहा देवा ऽ अमृता मादयन्ताम् ॥

20.47
आ यात्व् इन्द्रो ऽवस ऽ उप न ऽ इह स्तुतः सधमादस्तु शूरः ।
वावृधानस् तविषीर् यस्य पूर्वीर् द्यौर् न क्षत्रम् अभिभूति पुष्यात् ॥

20.48
आ न ऽ इन्द्रो दूराद् आ न ऽ आसाद् अभिष्टिकृद् अवसे यासद् उग्रः ।
ओजिष्ठेभिर् नृपतिर् वज्रबाहुः संगे समत्सु तुर्वणिः पृतन्यून् ॥

20.49
आ न इन्द्रो हरिभिर् यात्व् अच्छार्वाचीनो ऽवसे राधसे च ।
तिष्ठाति वज्री मघवा विरप्शीमं यज्ञम् अनु नो वाजसातौ ॥

20.50
त्रातारम् इन्द्रम् अवितारम् इन्द्रꣳ हवे-हवे सुहवꣳ शूरम् इन्द्रम् ।
ह्वयामि शक्रं पुरुहूतम् इन्द्रꣳ स्वस्ति नो मघवा धात्व् इन्द्रः ॥

20.51
इन्द्रः सुत्रामा स्ववाꣳ२ऽ अवोभिः सुमृडीको भवतु विश्ववेदाः ।
बाधतां द्वेषो ऽ अभयं कृणोतु सुवीर्यस्य पतयः स्याम ॥

20.52
तस्य वयꣳ सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ।
स सुत्रामा स्ववाꣳ२ऽ इन्द्रो ऽ अस्मे आराच्चिद् द्वेषः सनुतर् युयोतु ॥

20.53
आ मन्द्रैर् इन्द्र हरिभिर् याहि मयूररोमभिः ।
मा त्वा के चिन् नि यमन् विं ना पाशिनो ऽति धन्वेव ताꣳ२ऽ इहि ॥

20.54
एवेद् इन्द्रं वृषणं वज्रबाहुं वसिष्ठासो ऽ अभ्य् अर्चन्त्य् अर्कैः ।
स न स्तुतो वीरवद् धातु गोमद् यूयं पात स्वस्तिभिः सदा नः ॥

20.55
समिद्धो ऽ अग्निर् अश्विना तप्तो घर्मो विराट् सुतः ।
दुहे धेनुः सरस्वती सोमꣳ शुक्रम् इहेन्द्रियम् ॥

20.56
तनूपा भिषजा सुते ऽश्विनोभा सरस्वती ।
अध्वा रजाꣳसीन्द्रियम् इन्द्राय पथिभिर् वहान् ॥

20.57
इन्द्रायेन्दुꣳ सरस्वती नराशꣳसेन नग्नहुम् ।
अधाताम् अश्विना मधु भेषजं भिषजा सुते ॥

20.58
आजुह्वाना सरस्वतीन्द्रायेन्द्रियाणि वीर्यम् ।
इडाभिर् अश्विनाव् इषꣳ समूर्जꣳ सꣳ रयिं दधुः ॥

20.59
अश्विना नमुचेः सुतꣳ सोमꣳ शुक्रं परिस्रुता ।
सरस्वती ताम् आभरद् बर्हिषेन्द्राय पातवे ॥

20.60
कवष्यो न व्यचस्वतीर् अश्विभ्यां न दुरो दिशः ।
इन्द्रो न रोदसी ऽ उभे दुहे कामान्त् सरस्वती ॥

20.61
उषासानक्ताश्विना दिवेन्द्रꣳ सायम् इन्द्रियैः ।
संजानाने सुपेशसा सम् अञ्जाते सरस्वत्या ॥

20.62
पातं नो ऽ अश्विना दिवा पाहि नक्तꣳ सरस्वति ।
दैव्या होतारा भिषजा पाताम् इन्द्रꣳ सचा सुते ॥

20.63
तिस्रस् त्रेधा सरस्वत्य् अश्विना भारतीडा ।
तीव्रं परिस्रुता सोमम् इन्द्राय सुषुवुर् मदम् ॥

20.64
अश्विना भेषजं मधु भेषजं नः सरस्वती ।
इन्द्रे त्वष्टा यशः श्रियꣳ रूपꣳ-रूपम् अधुः सुते ॥

20.65
ऋतुथेन्द्रो वनस्पतिः शशमानः परिस्रुता ।
कीलालम् अश्विभ्यां मधु दुहे धेनुः सरस्वती ॥

20.66
गोभिर् न सोमम् अश्विना मासरेण परिस्रुता ।
सम् अधातꣳ सरस्वत्या स्वाहेन्द्रे सुतं मधु ॥

20.67
अश्विना हविर् इन्द्रियं नमुचेर् धिया सरस्वती ।
आ शुक्रम् आसुराद् वसु मघम् इन्द्राय जभ्रिरे ॥

20.68
यम् अश्विना सरस्वती हविषेन्द्रम् अवर्धयन् ।
स बिभेद वलं मघं नमुचाव् आसुरे सचा ॥

20.69
तम् इन्द्रꣳ सचाश्विनोभा सरस्वती ।
दधाना ऽ अभ्य् अनूषत हविषा यज्ञ ऽ इन्द्रियैः ॥

20.70
य ऽ इन्द्र ऽ इन्द्रियं दधुः सविता वरुणो भगः ।
स सुत्रामा हविष्पतिर् यजमानाय सश्चत ॥

20.71
सविता वरुणो दधद् यजमानाय दाशुषे ।
आदत्त नमुचेर् वसु सुत्रामा बलम् इन्द्रियम् ॥

20.72
वरुणः क्षत्रम् इन्द्रियं भगेन सविता श्रियम् ।
सुत्रामा यशसा बलं दधाना यज्ञम् आशत ॥

20.73
अश्विना गोभिर् इन्द्रियम् अश्वेभिर् वीर्यं बलम् ।
हविषेन्द्रꣳ सरस्वती यजमानम् अवर्द्धयन् ॥

20.74
ता नासत्या सुपेशसा हिरण्यवर्तनी नरा ।
सरस्वती हविष्मतीन्द्र कर्मसु नो ऽवत ॥

20.75
ता भिषजा सुकर्मणा सा सुदुघा सरस्वती ।
स वृत्रहा शतक्रतुर् इन्द्राय दधुर् इन्द्रियम् ॥

20.76
युवꣳ सुरामम् अश्विना नमुचाव् आसुरे सचा ।
विपिपानाः सरस्वतीन्द्रं कर्मस्व् आवत ॥

20.77
पुत्रम् इव पितराव् अश्विनोभेन्द्रावथुः काव्यैर् दꣳसनाभिः ।
यत् सुरामं व्यपिबः शचीभिः सरस्वती त्वा मघवन्न् अभिष्णक् ॥

20.78
यस्मिन्न् अश्वास ऽ ऋषभास ऽ उक्षणो वशा मेषा ऽ अवसृष्टास ऽ आहुताः ।
कीलालपे सोमपृष्ठाय वेधसे हृदा मतिं जनये चारुम् अग्नये ॥

20.79
अहाव्य् अग्ने हविर् आस्ये ते स्रुचीव घृतं चम्वीव सोमः ।
वाजसनिꣳ रयिम् अस्मे सुवीरं प्रशस्तं धेहि यशसं बृहन्तम् ॥

20.80
अश्विना तेजसा चक्षुः प्राणेन सरस्वती वीर्यम् ।
वाचेन्द्रो बलेनेन्द्राय दधुर् इन्द्रियम् ॥

20.81
गोमद् ऊ षु णासत्या अश्वावद् यातम् अश्विना ।
वर्ती रुद्रा नृपाय्यम् ॥

20.82
न यत् परो नान्तरऽ आदधर्षद् वृषण्वसू ।
दुःशꣳसो मर्त्यो रिपुः ॥

20.83
ता न ऽ आ वोढम् अश्विना रयिं पिशङ्गसंदृशम् ।
धिष्ण्या वरिवोविदम् ॥

20.84
पावका नः सरस्वती वाजेभिर् वाजिनीवती ।
यज्ञं वष्टु धियावसुः ॥

20.85
चोदयित्री सूनृतानां चेतन्ती सुमतीनाम् ।
यज्ञं दधे सरस्वती ॥

20.86
महो ऽ अर्णः सरस्वती प्र चेतयति केतुना ।
धियो विश्वा वि राजति ॥

20.87
इन्द्रा याहि चित्रभानो सुता ऽ इमे त्वायवः ।
अण्वीभिस् तना पूतासः ॥

20.88
इन्द्रा याहि धियेषितो विप्रजूतः सुतावतः ।
उप ब्रह्माणि वाघतः ॥

20.89
इन्द्रा याहि तूतुजान ऽ उप ब्रह्माणि हरिवः ।
सुते दधिष्व नश् चनः ॥

20.90
अश्विना पिबतां मधु सरस्वत्या सजोषसा ।
इन्द्रः सुत्रामा वृत्रहा जुषन्ताꣳ सोम्यं मधु ॥


भाष्यम्(उवट-महीधर)

विंशोऽध्यायः।
तत्र प्रथमा।
क्ष॒त्रस्य॒ योनि॑रसि क्ष॒त्रस्य॒ नाभि॑रसि । मा त्वा॑ हिᳪं᳭सी॒न्मा मा॑ हिᳪं᳭सीः ।। १ ।।
उ० क्षत्रस्य योनिरसि । गायत्री । आसन्दीवेद्योरुपदधाति अर्धर्चेन । क्षत्रस्य त्वं योनिरुत्पत्तिस्थानमसि । आसन्द्यामभिषिक्तो हि गुणधर्मानर्हति राजेत्येतदभिप्रायं योनित्वम् । क्षत्रस्य नाभिश्च नहनं त्वमसि । कृष्णाजिनमस्यामास्तृणाति । मा त्वा हिंसीत् । कृष्णाजिनमुच्यते। मा त्वामियमासन्दी हिंसीत् । मा च त्वं मां हिंसीः। यज्ञाध्यासोऽत्र कृष्णाजिनस्य । 'यज्ञो वै कृष्णाजिनं यज्ञस्य चैवात्मनश्च हिंसायाः' इति श्रुतिः ॥ १॥
म० 'सोमासन्दीवदासन्दीं जानुमात्रपदीं वेद्योर्निदधाति क्षत्रस्य योनिरिति' ( का० १९ । ४ । ८) । जानुप्रमाणपादामासन्दीं वेद्योर्मध्ये निदधाति सोमासन्दीवदिति मुञ्जरज्जुव्युताम्। आसन्द्या द्वौ पादौ दक्षिणवेदौ द्वावुत्तरवेदौ यथा तथेति सूत्रार्थः । आसन्दीदेवताका द्विपदा गायत्री। हे आसन्दि, त्वं क्षत्रस्य योनिरुत्पत्तिस्थानमसि । आसन्द्यामभिषिक्तो गुणधर्मानर्हति राजेति भावः । क्षत्रस्य नाभिर्नहनं बन्धनं चासि 'कृष्णाजिनमस्यामास्तृणाति मा त्वेति' ( का० १९ । ४ । ८)। अस्यामासन्द्यां कृष्णाजिनं छादयेदित्यर्थः । यजुः कृष्णाजिनदेवत्यम् । प्राजापत्या गायत्री । यज्ञाध्यासेन कृष्णाजिनं प्रार्थ्यते । हे कृष्णाजिन, आसन्दी त्वा त्वां मा हिंसीः । त्वं च मा मां मा हिंसीः मा जहि । 'यज्ञो वै कृष्णाजिनं यज्ञस्य चैवात्मनश्च हिंसायै' (१२ । ८ । ३ । ९) इति श्रुतेः ॥ १॥

द्वितीया।
निष॑साद धृ॒तव्र॑तो॒ वरु॑णः प॒स्त्यास्वा । साम्रा॑ज्याय सु॒क्रतु॑: । मृ॒त्योः पा॑हि वि॒द्योत्पा॑हि ।। २ ।।
उ० आसन्द्यामुपविशति । निषसादेति व्याख्यातम् । पादयो रुक्ममुपन्यस्यति । मृत्योः पाहि गोपाय । मृत्युशब्देनात्राशनिरुच्यते । विद्योत्पाहि विद्युतः पाहि ॥२॥
म० तस्मिन्नास्ते यजमानो निषसादेति' (का० १९ । ४।९) । यजमानः कृष्णाजिने उपविशेत् । व्याख्याता (अ० १० क. २७) । 'पादयो रुक्ममुपन्यस्यति राजतᳪं᳭ सव्ये मृत्योरिति सौवर्णᳪं᳭ शिरस्येके विद्योदिति' ( का० १९ । ४।१०-११)। आसन्द्युपविष्टयजमानस्य पादयोरधो रुक्मौ मण्डलाकारौ भूषणविशेषौ न्यस्यति राजतं सव्ये मृत्योरिति मन्त्रेण सौवर्णं दधे विद्योदिति सौवर्णं रुक्मं शिरसीत्येके ऊचुरिति सूत्रार्थः । रुक्मदेवत्ये यजुषी दैव्यौ बृहत्यौ । हे रुक्म, मृत्योः अकालमरणान्मां पाहि रक्ष । हे सौवर्ण रुक्म विद्योत् विद्योतत इति विद्योत् । विच्प्रत्यये गुणः । विद्युत्पाताद्रक्षेत्यर्थः ॥२॥

तृतीया।
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् ।
अ॒श्विनोर्भैष॑ज्येन॒ तेज॑से ब्रह्मवर्च॒साया॒भिषि॑ञ्चामि॒ सर॑स्वत्यै॒ भैष॑ज्येन वी॒र्या॒या॒न्नाद्या॑या॒भि षि॑ञ्चा॒मीन्द्र॑स्येन्द्रि॒येण॒ बला॑य श्रियै॒ यश॑से॒ऽभिषि॑ञ्चामि ।। ३ ।।
उ० अभिषिञ्चति । देवस्य त्वेति व्याख्यातम् । अश्विनोर्भैषज्येन । भिषजः कर्म भैषज्यम् । भिषग्वैद्यः । तेन भैषज्येनाभिषिञ्चामीति संबन्धः । किमर्थमित्यत आह । तेजसे ब्रह्मवर्चसाय च । सरस्वत्यै भैषज्येन वीर्याय अन्नाद्याय अभिषिञ्चामि । सरस्वत्यै इति षष्ठ्यर्थे चतुर्थी । इन्द्रस्य इन्द्रियेण वीर्येण । बलाय श्रियै यशसे च सर्वार्थायाभिषिञ्चामि ॥ ३॥
म० 'सर्वसुरभ्युन्मृदितᳪं᳭ शेषैरभिषिञ्चत्या मुखादवस्रावयन् प्रतिदिशᳪं᳭ सर्वत्र सावित्रमश्विनोः सरस्वत्या इन्द्रस्येति प्रतिमन्त्रम्' ( का० १९ । ४ । १४)। वेतसमात्रस्थापितैर्वसाग्रहशेषैः प्रतिदिशं स्थितोऽध्वर्युरा मुखादवस्रावयन्नासन्दीस्थं यजमानमभिषिञ्चति मन्त्रत्रयेण । कीदृशम् । सर्वैः सुरभिभिश्चन्दनकर्पूरकस्तूरीकेसरादिभिरुद्वर्तितम् । सावित्रं यजुर्देवस्य त्वेति सर्वत्र त्रिष्वपि मन्त्रेष्वन्वेति । चतुर्थोऽभिषेक उत्तरे स्थितस्त्रिभिर्मन्त्रैर्महाव्याहृतिभिरिन्द्रस्येति तृतीयमन्त्रेण वा. कुर्यादिति सूत्रार्थः । देवस्य त्वा । व्याख्यातम् । अश्विनोः । त्रीणि लिङ्गोक्तदेवतानि । आद्यं प्राजापत्या बृहती द्वे ऋग्गायत्र्यौ । हे यजमान, अश्विनोः भैषज्येन वैद्यकर्मणा त्वामभिषिञ्चामि । भिषजः कर्म भैषज्यम् । किमर्थं । तेजसे कान्त्यै ब्रह्मवर्चसाय । सर्वत्रास्खलितवेदवेदाङ्गजनिता कीर्तिर्ब्रह्मवर्चसम् । सरस्वत्यै भैषज्येन । षष्ठ्यर्थे चतुर्थी । सरस्वत्या भिषक्कर्मणा च भवन्तं देवमभिषिञ्चामि । किमर्थं । वीर्यायान्नाद्याय । वीर्यं सामर्थ्यं अन्नाद्यमन्नभक्षणसामर्थ्यं तस्मै । इन्द्रस्येन्द्रियेण इन्द्रियपाटवेन सामर्थ्येन च त्वामभिषिञ्चामि । किमर्थं बलाय सामर्थ्याय श्रियै सर्वसमृद्ध्यै यशसे कीर्त्यै ॥ ३ ॥

चतुर्थी।
को॑ऽसि कत॒मो॒ऽसि॒ कस्मै॑ त्वा॒ काय॑ त्वा । सुश्लो॑क॒ सुम॑ङ्गल॒ सत्य॑राजन् ।। ४ ।।
उ० यजमानमालभते । कोऽसि । गायत्री । कः प्रजापतिरसि । कतमः प्रजापतितमः असि । अतिशयार्थं तमउपादानम् । बहवो हि प्रजापतयः । कस्मै । प्रजापतिपदप्राप्तये त्वाममिषिक्तवानहं । यतः काय त्वा प्रजापतिभवाय त्वामहमभिषिक्तवानस्मि यतः । 'सुश्लोकेत्यलब्धो ह्वयति। हे कल्याणमङ्गल, हे सत्यराजन्, सत्यः अनश्वरः राजा यस्य ४
म० 'यजमानमालभते कोऽसीति । अध्वर्युर्यजमानं स्पृशति' (का० १९ । ४ । १९)। प्राजापत्या गायत्री उष्णिग्गर्भा षट्सप्तैकादशोष्णिग्गर्भेति वचनात् । हे यजमान, त्वं कः प्रजापतिः असि । अत्यन्तं कः कतमः श्रेष्ठः प्रजापतिरसि । प्रजापतयो बहवः तत्रोत्तमोऽसि । कस्मै प्रजापतिपदप्राप्तये त्वामहममिषिक्तवानिति शेषः । काय प्रजापतिभवाय चाभिषिक्तवान् । 'सुश्लोकेत्यालब्धो ह्वयति' (का० १९ । ४ । २०)। अध्वर्युणा स्पृष्टो यजमानः सुश्लोकादिसंज्ञान्नरानाह्वयति । हे.सुश्लोक, एहीति शेषः । शोभनः श्लोकः कीर्तिर्यस्य । शोभनं मङ्गलमुदयो यस्य स सुमङ्गलः । हे सुमङ्गल, त्वमेहि । हे सत्यराजन्, एहि सत्योऽविनाशी राजा प्रभुर्यस्य सः ॥ ४ ॥

पञ्चमी।
शिरो॑ मे॒ श्रीर्यशो॒ मुखं॒ त्विषि॒: केशा॑श्च॒ श्मश्रू॑णि । राजा॑ मे प्रा॒णो अ॒मृत॑ᳪं᳭ स॒म्राट् चक्षु॑र्वि॒राट् श्रोत्र॑म् ।। ५ ।।
उ० अङ्गानि चालभते यथालिङ्गम् । शिरो मे पञ्चभिः । तृतीया गायत्री अन्त्या महापङ्क्तिस्त्र्यवसाना अनुष्टुभोऽन्याः। इन्द्रोऽभिषक्त आत्मानं राष्ट्रीभूतं पश्यन्नाह । शिरो मे श्रीर्वर्तते । यशो मुखं वर्तते । त्विषिर्दीप्तिः केशाश्च श्मश्रूणि च वर्तन्ते । राजा प्राणः मे अमृतं वर्तते । संगतं राज्यंः यत्र स सम्राट् चक्षुर्वर्तते । विराट् श्रोत्रं वर्तते । विराट्प्रथमशरीरी ॥५॥
म० 'अङ्गानि चालभते यथालिङ्गᳪं᳭ शिरो म इति प्रतिमन्त्रम्' (का० १९ । ४ । २१)। यजमानो यथालिङ्गमङ्गान्यालभते । इन्द्रशरीरावयवदेवताकं पञ्चर्चम् । तत्र तृतीया गायत्री अन्त्या त्र्यवसाना महापङ्क्तिः तिस्रोऽनुष्टुभः । अभिषिक्तो यजमान इन्द्ररूप आत्मानं सर्वात्मकं पश्यन्नाह । हे मम शिरः, श्रीः शोभास्तु वर्तते वा । मे मुखं यशोऽस्तु । केशाः श्मश्रूणि मुखलोमानि च विषिर्दीप्तिरस्तु । राजा दीप्यमानो मे मम प्राणो मुखवायुरमृतमस्तु । चक्षुरिन्द्रियं सम्राट् अस्तु । सम्यक् राजते सम्राट् । श्रोत्रमिन्द्रियं विराट् विविधं राजमानमस्तु ॥५॥

षष्ठी।
जि॒ह्वा मे॑ भ॒द्रं वाङ्महो॒ मनो॑ म॒न्युः स्व॒राड् भाम॑: । मोदा॑: प्रमो॒दा अ॒ङ्गुली॒रङ्गा॑नि मि॒त्रं मे॒ सह॑: ।। ६ ।।
उ० जिह्वा मे । जिह्वा मे भद्रं वर्तते । वाक् महः वर्तते पूजाकारिणी वर्तते । मनः मन्युर्वर्तते मनः क्रोधफलदायि वर्तते । भामः क्रोधः स्वराज्यक्षमो वर्तते। उक्तं च 'शक्तिरहितोऽपि कुप्यति मानं चोद्वहति सेवकजनोऽपि । अर्थरहितोऽपि कामी जानाति विधिं विडम्बयितुम्' इति । मोदाः प्रमोदा अङ्गुलयः अङ्गानि च मम वर्तन्ते । मित्रं मे सहः मित्रबलं च मे सहः शत्रूणामभिभवितृ वर्तते ॥ ६ ॥
म० मे जिह्वा रसनेन्द्रियं भद्रं कल्याणरूपमस्तु । वाक् वागिन्द्रियं महः मह्यते पूज्यते महः पूज्यमानास्तु । महतेरसुन्प्रत्ययः । मनो मन्युः क्रोधरूपमस्तु क्रोधफलं ददातु । भामः क्रोधः स्वराट् स्वेनैव राजमानोऽस्तु नतु कुतश्चित्प्रतिहन्यतामित्यर्थः । तदुक्तम् ‘शक्तिरहितोऽपि कुप्यति मानं चोद्वहति सेवकजनोऽपि । अर्थरहितोऽपि कामी जानाति विधिं विडम्बयितुम्' इति । अङ्गुलयो मोदाः आनन्दरूपाः सन्तु । मोदन्ते ते मोदाः पचाद्यच् । अङ्गानि प्रमोदाः प्रकृष्टहर्षाः सन्तु । मे मम मित्रं सहः अस्तु । सहते अभिभवति शत्रुमिति सहः रिपुनाशकमस्तु ॥ ६ ॥

सप्तमी।
बा॒हू मे॒ बल॑मिन्द्रि॒यᳪं᳭ हस्तौ॑ मे॒ कर्म॑ वी॒र्य॒म् । आ॒त्मा क्ष॒त्रमुरो॒ मम॑ ।। ७ ।।
उ० बाहू मे । बाहू मे बलमिन्द्रियं च वर्तते । हस्तौ मे कर्म च वीर्यं वर्तते । आत्मा अन्तरात्मा क्षत्रं वर्तते उरश्च मम ॥ ७॥
म० मे बाहू बलमस्तु बलवन्तौ स्तामित्यर्थः । इन्द्रियं च बलं स्वकार्यक्षममस्तु । मे हस्तौ कर्म चास्तु सत्कर्मकुशलौ सामर्थ्यवन्तौ च स्तामित्यर्थः । मम आत्मा अन्तरात्मा उरो हृदयं च क्षत्रं क्षतात्त्राणकरमस्तु ॥ ७ ॥

अष्टमी।
पृ॒ष्ठीर्मे॑ रा॒ष्ट्रमु॒दर॒मᳪं᳭सौ॑ ग्री॒वाश्च॒ श्रोणी॑ । ऊ॒रू अ॑र॒त्नी जानु॑नी॒ विशो॒ मेऽङ्गा॑नि स॒र्वत॑: ।। ८ ।।
उ० पृष्टीर्मे पृष्ठदेशो मे राष्ट्रं वर्तते । उदरं च अंसौ ग्रीवा च श्रोणी च ऊरू च अरत्नी च जानुनी च विशो मे वर्तते । अन्यान्यप्यङ्गानि यानि सर्वतः ॥ ८॥
म० मे मम पृष्टीः पृष्ठप्रदेशो राष्ट्रं देशो देशवत्सर्वाधारमस्तु । मे मम उदरमंसौ स्कन्धौ ग्रीवाः कण्ठदेशाः श्रोणी कटिदेशौ ऊरू सक्थिनी अरत्नी हस्तदेशौ जानुनी च सर्वतोऽन्यान्यङ्गानि च विशः प्रजाः सन्तु प्रजावत् पोष्याः सन्तु ॥८॥

नवमी।
नाभि॑र्मे चि॒त्तं वि॒ज्ञानं॑ पा॒युर्मेऽप॑चितिर्भ॒सत् । आ॒न॒न्द॒न॒न्दावा॒ण्डौ मे॒ भग॒: सौभा॑ग्यं॒ पस॑: ।
जङ्घा॑भ्यां प॒द्भ्यां धर्मो॑ऽस्मि वि॒शि राजा॒ प्रति॑ष्ठितः ।।९ ।।
उ० नाभिर्मे । नाभिर्मे चित्तं विज्ञानं च वर्तते । चित्तविज्ञानयोः को विशेष इति चेत् । विज्ञानं विज्ञप्तिः तज्जः संस्कारश्चित्तम् । पायुर्मे अपचितिर्भसच्च वर्तते । पायुर्गुदप्रदेशः । अपचितिः पूजा । भसत्शब्देन स्त्रीप्रजननं गौडा आहुः । नच यजमानस्यैतद्भवति । अतः पत्नीविषयमेतत् । आनन्दनन्दौ आण्डौ मे वर्तेते । भगः सौभाग्यं पसो मे वर्तते । भगः महदैश्वर्यम् । 'पसः पसतेः स्पृशतिकर्मणः' इति शिश्नमुच्यते । जङ्घाभ्यां पद्भ्यां च धर्मोऽस्मि । धर्मंप्रति हि राजा भवति । विशि प्रतिष्ठितोऽस्मि ॥ ९॥
म० मे नाभिः चित्तं ज्ञानरूपमस्तु । पायुर्मे गुदेन्द्रियं विज्ञानं ज्ञानजनितसंस्काराधारमस्तु । भसत् स्त्रीप्रजननमपचितिः प्रजारूपमस्तु सुभगमस्तु । यजमानपत्नीविषयमेतत् । मे आण्डौ वृषणौ आनन्दनन्दौ स्तामानन्देन संभोगजनितसुखेन नन्दतस्तौ । तत्सुखभोक्तारौ भवतामित्यर्थः । 'पसः पसतेः। स्पृशतिकर्मणः' इति यास्कोक्तेः पसो लिङ्गं भगः सौभाग्यं चास्तु । भग ऐश्वर्यं सौभाग्यं संपत्तिः । सर्वदा भोगासक्तमस्त्वित्यर्थः । जङ्घाभ्यां पद्भ्यां चाहं धर्मोऽस्मि । उपलक्षणमेतत् सर्वाङ्गैर्धर्मरूपोऽस्मि । धर्मरूपत्वादेव विशि प्रजायां राजा प्रतिष्ठितोऽस्मि । धर्मप्रतिष्ठितो हि राजा भवति ॥ ९ ॥

दशमी।
प्रति॑ क्ष॒त्रे प्रति॑ तिष्ठामि रा॒ष्ट्रे प्रत्यश्वे॑षु॒ प्रति॑ तिष्ठामि॒ गोषु॑ ।
प्रत्यङ्गे॑षु॒ प्रति॑ तिष्ठाम्या॒त्मन् प्रति॑ प्रा॒णेषु॒ प्रति॑तिष्ठामि पु॒ष्टे प्रति॒ द्यावा॑पृथि॒व्योः प्रति॑ तिष्ठामि य॒ज्ञे।। १ ०।।

उ० कृष्णाजिनेऽवरोहति प्रतिक्षत्रमिति यजुषा । प्रतितिष्ठामि क्षत्रे प्रतितिष्ठामि राष्ट्रे प्रतितिष्ठामि च अश्वेषु प्रतितिष्ठामि गोषु प्रतितिष्ठामि च । अङ्गेषु प्रतितिष्ठामि च आत्मनि प्रतितिष्ठामि च प्राणेषु प्रतितिष्ठामि च पुष्टे प्रतितिष्ठामि च द्यावापृथिव्योः प्रतितिष्ठामि च यज्ञे ॥ १० ॥
म० 'कृष्णाजिनेऽवरोहति प्रति क्षत्र इति' ( का० १९ । ४ । २३ )। आसन्दीतो यजमानः कृष्णाजिनेऽवतरति । विश्वदेवदेवत्यं यजुः अतिशक्करी । अहं क्षत्रे प्रतितिष्ठामि क्षत्रियजातौ प्रतिष्ठायुक्तो भवामि । राष्ट्रे देशे अश्वेषु गोषु अङ्गेषु करपादाद्यवयवेषु आत्मन् आत्मनि चित्ते प्राणेषु पञ्चसु पुष्टे पुष्टौ समृद्धौ द्यावापृथिव्योः स्वर्गेहलोकयोः यज्ञे ज्योतिष्टोमादौ च प्रतितिष्ठामि । क्रियापदावृत्तिः फलातिशयद्योतनार्था । क्षत्रियदेशयोः प्रतिष्ठा वशीकरणम् गोऽश्वप्रतिष्ठा तत्प्राप्तिः प्राणाङ्गप्रतिष्ठा नीरोगत्वम् आत्मप्रतिष्ठा निराधित्वम् पुष्टप्रतिष्ठा धनसमृद्धिः द्यावापृथिव्योः प्रतिष्ठोभयलोककीर्तिः यज्ञे प्रतिष्ठा यज्ञकरणम् । वश्यविश्वः पशुमान्निराधिव्याधिः श्रीमान् यज्ञकर्ता च भवेयमिति भावः ॥ १० ॥

एकादशी।
त्र॒या दे॒वा एका॑दश त्रयस्त्रि॒ᳪं᳭शाः सु॒राध॑सः ।
बृह॒स्पति॑पुरोहिता दे॒वस्य॑ सवि॒तुः स॒वे । दे॒वा दे॒वैर॑वन्तु मा ।। ११ ।।
उ० या देवा इति अस्त्रान्ते जुहोति । पङ्क्त्या त्र्यवसानया दैव्या । परेण यजुषा स्वाहाकारान्तेन च । व्यवहितपदप्रायः । ये एकदेशदेवाः त्रयः त्रिप्रकाराः येच एकीकृताः त्रयस्त्रिंशाः त्रयस्त्रिंशत्संपद्यन्ते । सुराधसः शोभनधनाः । राधइति धननाम । राध्नुवन्त्यनेन । येच बृहस्पतिपुरोहिताः ते देवस्य सवितुः सवे प्रसवे वर्तमानाः । देवा देवैर्वक्ष्यमाणैः सह अवन्तु पालयन्तु माम् ॥ ११ ॥
म० 'त्रया देवा इति शस्त्रान्ते जुहोति' (का० १९ । ५। ८)। शस्त्रसमाप्तौ वषट्कृते त्रया इति कण्डिकाद्वयात्मकेन मन्त्रेण त्रयस्त्रिंशं वसाग्रहं जुहोति । त्र्यवसाना विश्वदेवदेवत्या पङ्क्तिः । एकादश देवा देवैः वक्ष्यमाणैः सह मा मामवन्तु रक्षन्तु । कीदृशाः । त्रयाः त्रयोऽवयवा येषां ते 'संख्याया अवयवे तयप्' (पा० ५। २। ४२) 'द्वित्रिभ्यां तयस्यायज्वा' (पा० ५। २ । ४३) इत्ययजादेशः । एकादश त्रिगुणा इत्यर्थः । ते च कतीति स्वयमेवाह त्रयस्त्रिंशाः तिसृभिरधिका त्रिंशत्संख्या येषां ते । त्रयस्त्रिंशत्संख्या इत्यर्थः । सुराधसः शोभनं राधो येषां ते । राध इति धननाम । 'राध्नुवन्त्यनेन' ( नि. ४ । ४ ) इति यास्कोक्तेः । तथा बृहस्पतिपुरोहिताः बृहस्पतिः पुरोहितो येषां ते । तथा सवितुः देवस्य सवे आज्ञायां वर्तमानाः । देवाः दीप्यमानाः ॥ ११ ॥

द्वादशी।
प्र॒थ॒मा द्वि॒तीयै॑र्द्वि॒तीया॑स्तृ॒तीयै॑स्तृ॒तीया॑: स॒त्येन॑ स॒त्यं य॒ज्ञेन॑ य॒ज्ञो यजु॑र्भि॒र्यजू॑ᳪं᳭षि॒ साम॑भि॒: सामा॑न्यृ॒ग्भिर्ऋच॑: पुरोऽनुवा॒क्या॒भिः पुरोऽनुवा॒क्या॒ या॒ज्या॒भिर्या॒ज्या॒ वषट्का॒रैर्व॑षट्का॒रा आहु॑तिभि॒राहु॑तयो मे॒ कामा॒न्त्सम॑र्धयन्तु॒ भूः स्वाहा॑ ।। १२ ।।
उ० कथमवन्तु । प्रथमा देवाः द्वितीयैः सहिता अवन्तु । द्वितीयाः तृतीयैः तृतीयाः सत्येन सत्यं यज्ञेन यज्ञो यजुर्भिः यजूंषि सामभिः सामानि ऋग्भिः ऋचः पुरोनुवाक्याभिः पुरोनुवाक्या याज्याभिः याज्या वषट्कारैः वषट्कारा आहुतिभिः । एवमेकादशसंख्यैः त्रिप्रकारैर्देवैरुत्तरोत्तरपालिता आहुतयः मे कामान्समर्धयन्तु संवर्धयन्तु । भूयः सुहुतमस्तु ॥ १२ ॥
म० कथमवन्तु तत्राह । विश्वदेवदेवत्यमाशीर्लिङ्गं यजुः प्रकृतिश्छन्दः । प्रथमा देवा द्वितीयैः सहिता मामवन्तु द्वितीयास्तृतीयैः सहावन्तु तृतीयाः सत्येन सह सत्यं यज्ञेन सह यज्ञो यजुर्भिः सह यजूंषि सामभिः सह सामान्यृग्भिः सह ऋचः पुरोनुवाक्याभिः सह पुरोनुवाक्या याज्याभिः सह याज्या वषट्कारैः सह वषट्कारा आहुतिभिः सह एवं त्रिप्रकारैरेकादशसंख्यैर्देवैरुत्तरोत्तरं पालिता आहुतयो मे मम कामानभिलाषान् समर्धयन्तु पूरयन्तु । भूः भुवनं भूः हुतमिदं स्वाहा सुहुतमस्तु ॥ १२ ॥

त्रयोदशी ।
लोमा॑नि॒ प्रय॑ति॒र्मम॒ त्वङ्म॒ आन॑ति॒राग॑तिः । मा॒ᳪं᳭सं म॒ उप॑नति॒र्वस्वस्थि॑ म॒ज्जा म॒ आन॑तिः ।। १३ ।।
उ० यजमानो ग्रहान् भक्षयति । लोमानि प्रयतिः । अनुष्टुप् । मम यानि लोमानि तानि प्रयतिर्वर्तते । प्रयतिः प्रयत्नः । त्वक् मे आनतिर्वर्तते आनयनमानतिः । त्वगेव सर्वाणि भूतानि मम आनतानीत्यभिप्रायः । आगतिश्च द्रव्यादिर्मांसं मे उपनतिर्वर्तते । उपनमन्ते हि मम भूतानि । वसु धनानि अस्थि मम वर्तते । मज्जा मे आनतिः ॥ १३॥
म० 'प्रत्यक्षभक्षं यजमानो लोमानि प्रयतिरिति' ( का. १९ । ५। १०)। यजमानो ग्रहशेषं प्रत्यक्षमुपहवपूर्वकं भक्षयति । लोमत्वगादिदेवतानुष्टुप् । मम लोमानि प्रयतिः प्रयतनं प्रयतिः प्रयत्नो वर्तते तथोद्यामी (?) यथा लोमस्वपि प्रयत्नः। मे मम त्वङ् आनतिः आगतिश्च आनमन्ति भूतानि यस्यां सा आनतिः। आगच्छन्ति भूतानि यां प्रति सा आगतिः । मदीयां त्वचं दृष्ट्वा भूतान्यागच्छन्ति नमन्ति चेत्यर्थः । मे मम मांसमुपनतिः उपनमन्ति भूतानि यत्र । ममास्थि वसु धनं धनरूपमेव । मे मज्जा आनतिः आनमन्ति भूतानि यत्र उपलक्षणमेतत् । मम सप्त धातवो जगद्वशीकरणसमर्था इत्यर्थः ॥ १३ ॥

चतुर्दशी।
यद्दे॑वा देव॒हेड॑नं॒ देवा॑सश्चकृ॒मा व॒यम् । अ॒ग्निर्मा॒ तस्मा॒देन॑सो॒ विश्वा॑न्मुञ्च॒त्वᳪं᳭ह॑सः ।। १४ ।।
उ० इत उत्तरमवभृथः मासरकुम्भं प्लावयति । यद्देवाः तिस्रोऽनुष्टुभोऽग्निदेवत्याः । देवाः देवासः द्वे आमन्त्रिते त्रिस्थानानपि देवान् बोधयति । यत्किंचित् हे देवाः हे देवासः, देवहेडनं चकृम कृतवन्तो वयम् । अग्निर्मा माम् तस्मात् एनसः पापात् विश्वात्सर्वस्मात् मुञ्चतु । अंहसश्च पापात् ॥ १४ ॥
म० इत उत्तरमवभृथः । 'मासरकुम्भं प्लावयति यद्देवा इति' ( १९ । ५ । १३) । अवभृथेष्टिं कृत्वा यद्देवा इत्यादिना वरुण नो मुञ्चेत्यन्तेन (१८) सार्धकण्डिकाचतुष्कात्मकेन मन्त्रेण मासरकुम्भं जले तारयति । अग्निवायुसूर्यदेवत्यास्तिस्रोऽनुष्टुभः कूष्माण्डीसंज्ञाः । दीव्यन्तीति देवाः दीप्यमाना हे देवासो देवाः, वयं यद्देवहेडनं देवानां हेडनमपराधं चकृम कृतवन्तः । करोतेर्लिट् संहितायां छान्दसो दीर्घः । अग्निस्तस्मादेनसः पापात् मा मां मुञ्चतु पृथक्करोतु । विश्वात् विश्वस्मात्सर्वस्मात् अंहसः विघ्नाच्च मुञ्चतु । ङसेः स्मादभाव आर्षः ॥ १४ ॥

पञ्चदशी ।
यदि दिवा यदि नक्तमेनाᳪं᳭सि चकृमा वयम् ।
वायुर्मा तस्मादेनसो विश्वान्मुञ्चत्वᳪं᳭हसः ॥ १५ ॥
उ० यदि दिवा । यदि दिवा अहनि च रात्रौ एनांसि पापानि चकृम कृतवन्तो वयम् । वायुः मां तस्मात् एनसः विश्वात् मुञ्चतु अंहसः॥ १५॥
म० यदि चेत् दिवा अहनि यदि नक्तं रात्रौ वयमेनांसि पापानि चकृम । वायुः तस्मादेनसः विश्वस्मादंहसश्च मां मुञ्चतु ॥ १५॥

षोडशी।
यदि॒ जाग्र॒द्यदि॒ स्वप्न॒ एना॑ᳪं᳭सि चकृ॒मा व॒यम् । सूर्यो॑ मा॒ तस्मा॒देन॑सो॒ विश्वा॑न्मुञ्च॒त्वᳪं᳭ह॑सः ।। १६ ।।
उ० यदि जाग्रत् । यदि जाग्रदवस्थायाम् यदि स्वप्नावस्थायाम् एनांसीति समानव्याख्यानम् । सूर्य इति विशेषः । श्रुतिस्तु लक्षणया व्याचष्टे । 'मनुष्या वै जागरितं पितरः सुप्तं मनुष्यकिल्बिषाञ्चैवैनं पितृकिल्बिषाच्च मुञ्चतु' इति ॥ १६ ॥
म० यदि जाग्रत् । सप्तम्या लुक् । यदि जाग्रति जाग्रदवस्थायाम् यदि स्वप्ने स्वप्नावस्थायामेनांसि वयं चक्रम सूर्यस्तस्मादेनसः विश्वादंहसश्च मां मुञ्चतु । श्रुत्या त्वन्यथा व्याख्यातम् । जाग्रति मनुष्ये यत्पापं कृतं स्वप्ने पितृषु यत्पापं कृतम् तस्मान्मा मुञ्चतु । 'मनुष्या वै जागरितं पितरः सुप्तं मनुष्यकिल्बिषाच्चैवैनं पितृकिल्बिषाच्च मुञ्चन्ति' ( १२ । ९ । २ । २) इति श्रुतेः ॥ १६ ॥ .

सप्तदशी। .
यद्ग्रामे॒ यदर॑ण्ये॒ यत्स॒भायां॒ यदि॑न्द्रि॒ये ।
यच्छू॒द्रे यदर्ये॒ यदेन॑श्चकृ॒मा व॒यं यदेक॒स्याधि॒ धर्म॑णि॒ तस्या॑व॒यज॑नमसि ।। १७ ।।
उ० यद्ग्रामे यदरण्ये यत्सभायां यत् इन्द्रिये इन्द्रियविषये । 'देवविषये' इति श्रुतिः । यत् शूद्रे यत् अर्ये । 'अर्यः स्वामिवैश्ययोः' । यच्च एतद्व्यतिरिक्तमेनः चकृम वयम् । यच्च एकस्य आवयोः पत्नीयजमानयोः अधिधर्मणि एनः तस्य एनसः अवयजनमसि । अवपूर्वो यजतिर्नाशने वर्तते । नाशनमसि ॥ १७ ॥
म० लिङ्गोक्तदेवतं यजुः । ग्रामे अरण्ये वने सभायां पक्षपातादि यदेनः इन्द्रिये इन्द्रियविषये परापवादपरनारीदर्शनादि यत् देवविषये वा शूद्रे अर्ये वैश्ये। 'अर्यः स्वामिवैश्ययोः' (पा० ३ । १ । १०३) इति निपातः । यत् पापं वयं चकृम । आवयोः पत्नीयजमानयोरेकस्य अधिधर्मणि कर्मणि अधिकर्मविषये यदेनो धर्मलोपलक्षणम् । तस्यैनसः पापस्यावयजनं नाशनं त्वमसि । नाशकोऽसीत्यर्थः । कुम्भं प्रति वचनम् । अवपूर्वो यजिर्नाशनार्थः ॥ १७ ॥

अष्टादशी।
यदापो॑ अ॒घ्न्या इति॒ वरु॒णेति॒ शपा॑महे॒ ततो॑ वरुण नो मुञ्च । अव॑भृथ निचुम्पुण निचे॒रुर॑सि निचुम्पु॒णः ।
अव॑ दे॒वैर्दे॒वकृ॑त॒मेनो॑ऽय॒क्ष्यव॒ मर्त्यै॒र्मर्त्य॑कृतं पुरु॒राव्णो॑ देव रि॒षस्पा॑हि ।। १८ ।।
उ० यदापः व्याख्यातः। अवभृथनिचुम्पुण व्याख्यातः। इयांस्तु विशेषः । अयक्षीति यजतेरिह रूपम् । पूर्ववच्च क्रतुयागे अयाजिषमिति ॥ १८ ॥
म० यदापः । व्याख्यातम् (अ० ६।क० २२ ) 'पूर्ववन्मज्जनम्' ( का. १९ । ५। १४)। पूर्ववदिति अवभृथेत्यादि ओषधीरुताप इत्यन्तेन (१९) सुराकुम्भस्य जले मज्जनम् । अवभृथ । व्याख्यातम् ( अ० ३ । क० ४८ । अ० ८ । क. २५) इयान्विशेषः । अयक्षि अवायक्षि नाशितवानस्मि यजेर्लुङ्गि तङि उत्तमैकवचने रूपम् । पूर्वत्र अयासिषमिति । सुमित्रिया न इत्यपोऽञ्जलिदानाय दुर्मित्रिया इति
द्वेष्यं परिषिञ्चति द्वौ विक्रमा उदङ्गत्वा' ( का. १९ । ५। । १५)। यजमानोऽवभृथप्रदेशात् द्वौ विक्रमौ उदीच्यां गत्वा सुमित्रिया इति जलाञ्जलिमादाय यस्यां दिशि रिपुस्तां प्रति सिञ्चतीति सूत्रार्थः । सुमित्रिया नः । व्याख्यातम् ( अ० ६ । क० २२ ) ॥ १८ ॥ १९ ॥

एकोनविंशी। ।
स॑मु॒द्रे ते॒ हृद॑यम॒प्स्वन्तः सं त्वा॑ विश॒न्त्वोष॑धीरु॒ताप॑: ।
सु॒मि॒त्रि॒या न॒ आप॒ ओष॑धयः सन्तु दुर्मित्रि॒यास्तस्मै॑ सन्तु॒ योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः ।। १९ ।।
उ० समुद्रे ते । द्विपदा विराट् । सुमित्रिया न इत्यपोऽञ्जलिना आदाय दुर्मित्रिया इति द्वेष्यंप्रति सिञ्चति ॥ १९॥

विंशी।
द्रु॒प॒दादि॑व मुमुचा॒नः स्वि॒न्नः स्ना॒तो मला॑दिव । पू॒तं प॒वित्रे॑णे॒वाज्य॒माप॑: शुन्धन्तु मैन॑सः ।। २० ।।
उ० द्रुपदादिव । अनुष्टुप् अब्देवत्या वा सोपप्लवनीया । द्रुममयः पदः द्रुपदः पादुका उच्यन्ते । तथाच यास्कः 'कनीनकेव विद्रधे नवे द्रुपदे' इति । मुमुचानः यथा द्रुममयात्पादात् मुच्यमानः पुरुषः तज्जैर्दोषैः असंबध्यमानः पृथग्भवेत् । यथाच स्विन्नः प्रस्विन्नः पुरुषः स्नातः मलात्पृथग्भवेत् । प्रस्विन्नस्य हि कृत्स्नो मल उपैति । यथाच पूतं पवित्रेण कम्बलमयेन आज्यं घृतं पृथग्भवेत् कीटिकातः एवमापः शुन्धन्तु पृथक्कुर्वन्तु मामेनसः पापात्सकाशात् ॥२०॥
म० 'अवभृथवत्स्नात्वा वा सोपासनं द्रुपदादिवेति' ( का. १९ । ५। १६)। जलस्थावेव जायापती सौमिकावभृथवत् स्नात्वा कर्मकाले धृतं वासोऽप्सु क्षिपतः अब्देवत्यानुष्टुप् । आपो जलानि एनसः पापात् मा मां शुन्धन्तु पुनन्तु पापात् पृथक् कुर्वन्तु । तत्र दृष्टान्तत्रयमाह द्रुपदादिवेति 'पलाशीद्रुद्रुमागमाः' इत्यभिधानोक्तेः ( अम० २ । ४ । ५) दुस्तरुः | तन्मयं पदं द्रुपदं पादुका तस्मान्मुमुचानः पृथग्भवन् यथा पादुकादोषैरसंबद्धो भवति । मुचेर्विकरणव्यत्ययेन शानचि जुहोत्यादित्वाद्द्वित्वे मुमुचान इति रूपम् । यथाच स्विन्नः स्वेदयुक्तः स्नातः सन् मलात् पृथग्भवति । आज्यमिव यथा पवित्रेण कम्बलमयेन पूतं गालितमाज्यं घृतं कीटेभ्यः पृथग्भवति । तथापो मां शुन्धन्तु ॥ २० ॥

एकविंशी ।
उद्व॒यं तम॑स॒स्परि॒ स्व: पश्य॑न्त॒ उत्त॑रम् । दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम् ।। २१ ।।
उ० उत्तरति । उद्वयम् अनुष्टुप्सौरी । उदः अगन्म । आख्यातेन संबन्धः । उदगन्म उद्गताः स्म वयं तमसस्परि । तमसोधि तमोबहुलादस्माल्लोकात् । स्वः स्वर्गं लोकं पश्यन्तः । उत्तरम् उद्गततरमस्माल्लोकात् । ततोऽपि देवं सूर्यं देवत्रा देवेषु उदगन्म ज्योतिः । उत्तमं सर्वेभ्यो ज्योतिर्भ्यः ॥ २१ ॥
म० 'सोमवदुत्क्रमणमागमनं च' (का० १९ । ५। १७)। सोमवदिति उद्वयमिति मन्त्रेण जलान्निष्क्रमणम् । 'अपाम सोमममृता अभूम' इति जपतां सर्वेषां त्रिपशुदेशमागमनमिति सूत्रार्थः । सूर्यदेवत्यानुष्टुप् प्रस्कण्वदृष्टा । वयं तमसः परि तमसः सकाशात् तमोबहुलादस्माल्लोकात् उदगन्म उद्गता निर्गताः । गमेर्लङि शपि लुप्ते मस्य नः । कीदृशा वयम् । उत्तरमुत्कृष्टतरं स्वः स्वर्गं पश्यन्तः ईक्षमाणाः । किंच देवत्रा देवलोके सूर्यं देवं पश्यन्तः सन्त उत्तमं ज्योतिर्ब्रह्मरूपमुदगन्म प्राप्ताः ॥२१॥

द्वाविंशी।
अ॒पो अ॒द्यान्व॑चारिष॒ᳪं᳭ रसे॑न॒ सम॑सृक्ष्महि ।
पय॑स्वानग्न॒ आऽग॑मं॒ तं मा॒ सᳪं᳭ सृ॑ज॒ वर्च॑सा प्र॒जया॑ च॒ धने॑न च ।। २२ ।।
उ० आहवनीयमुपतिष्ठते । आपो अद्य पङ्क्तिराग्नेयी। योऽहम् आपः अद्यास्मिन्नहनि अन्वचारिषम् । अनुचरितवानस्मि अनेनावभृथकर्मणा । यश्चाहम् अब्जेन रसेन समसृक्ष्महि संसृष्टवानस्मि । यश्चाहं पयस्वान् उदकवान्सन् । हे अग्ने, आगमम् आगतवानस्मि । तं मामागतवन्तं सन्तम् संसृज वर्चसा प्रजया च धनेन च ॥ २२ ॥
म० 'आहवनीयमुपतिष्ठत आपो अद्येति' (का० १९ । ५।१८)। यजमान आहवनीयमुपतिष्ठते । अग्निदेवत्या पङ्क्तिः । हे अग्ने, तं मां वर्चसा ब्रह्मवर्चसेन प्रजया पुत्रादिकया धनेन सुवर्णादिकेन च त्वं संसृज संयोजय । योऽहमद्य अप अन्वचारिषम् अवभृथकर्मणा जलमनुचरितवानस्मि प्राप्तोऽस्मि । चरतेर्लुङ् । यश्चाहं रसेन जलेन समसृक्ष्महि संसृष्टोऽस्मि । सृजेर्लुङ् वचनव्यत्ययः । यश्चाहं पयस्वानुदकवान्सन् आगममागतवानस्मि । गमेर्लुङि 'पुषादि-' (पा० ३ । १। ५५) इति च्लेरङ् । तं मां वर्चआदिभिर्योजय ॥ २२ ॥

त्रयोविंशी।
एधो॑ऽस्येधिषी॒महि॑ स॒मिद॑सि॒ तेजो॑ऽसि॒ तेजो॒ मयि॑ धेहि ।
स॒माव॑वर्ति पृथि॒वी समु॒षाः समु॒ सूर्य॑: । समु॒ विश्व॑मि॒दं जग॑त् ।
वै॒श्वा॒न॒रज्यो॑तिर्भूयासं वि॒भून् कामा॒न् व्य॒श्नवै॒ भूः स्वाहा॑ ।। २३ ।।
उ०. समिधमादत्ते । एधोऽसि एधः समिन्धनमस्यग्नेः । एवं चेत् अतस्त्वां समिन्धनमुपादाय एधिषीमहि । आदधाति समिदसि । यतश्च समिन्धनमस्यग्नेः तेजश्चासि अग्नेः । दाह्य संयोगेनाग्निर्ज्वलतीत्येतदभिप्रायम् । अतस्त्वां ब्रवीमि । तेजो मयि धेहि । जुहोति । समाववर्ति गायत्री । यस्मात्समावर्तते नश्वरत्वादियं पृथिवी । यस्माच्च समावर्तते उषाः । । यस्माच्च समावर्तते एवं सूर्यः । यस्माच्च समावर्तते एवं विश्वम् । इदं जगत् जङ्गमादि । अतो वैश्वानरस्य ज्योतिः भूयासम् । 'वैश्वानरः परं ब्रह्म' इत्याहुरौपनिषदिकाः । विभून् कामान् व्यश्नवै प्राप्नुयाम् । भूः भुवनमात्राभिसंबन्धेन सुहुतमस्तु ॥ २३ ॥
म० 'एधोऽसीति समिधमादायाहवनीयेऽभ्यादधाति समिदसीति' ( का० १९ । ५। १९) । यजमानः एधोऽसीति मन्त्रेण समिधं गृहीत्वा समिदसीति मन्त्रेणाग्नौ दधाति । समिद्देवत्ये यजुषी । हे समित्त्वमेधः, एधयति दीपयतीति एधः दीपिकासि । वयं त्वत्प्रसादादेधिषीमहि धनादिभिर्वृद्धिं व्याप्नुयाम । एधतेराशीर्लिङ् । हे समित् , त्वं समिदसि समिन्धयति दीपयतीति समित् तेजश्चासि तत्संयोगेनाग्नेर्ज्वलनात् । अतो मयि विषये तेजो धेहि धारय । 'जुहोति समाववर्तीति' (का० १९ । ५। २०)। यजमानः सकृद्गृहीतमाज्यं कण्डिकाशेषेण जुहोति । समाववर्ति आग्नेयी गायत्री । वैश्वानरज्योतिरिति यजुः आग्नेयम् । पृथिवी समाववर्ति सम्यगावर्तते। विकरणव्यत्ययेन वृतेः शपः श्लुः । नश्यतीत्यर्थः । उषाः दिवसोऽपि समाववर्ति सूर्यः समाववर्ति । उ एवार्थे । विश्वमिदं जगत् समाववर्ति । अतोऽहं वैश्वानरज्योतिः भूयासम् । विश्वेभ्यो नरेभ्यो हितो वैश्वानरः परमात्मा तद्रूपं ज्योतिर्ब्रह्मैव भूयासम् । विभून्महतोऽपि कामान्मनोरथान् व्यश्नवै प्राप्नुयाम् । भूः स्वाहा भुवनं भूः सत्तामात्रं ब्रह्म तस्मै स्वाहा सुहुतमस्तु भूरित्यव्ययम् ॥ २३ ॥

चतुर्विंशी।
अ॒भ्या द॑धामि स॒मिध॒मग्ने॑ व्रतपते॒ त्वयि॑ ।
व्र॒तं च॑ श्र॒द्धां चोपै॑मी॒न्धे त्वा॑ दीक्षि॒तो अ॒हम् ।। २४ ।।
उ० सौत्रामण्यारम्भे यजमान आहवनीये तिस्रः समिधोऽभ्यादधाति तिसृभिरनुष्टुब्भिराग्नेयीभिः। प्रथमा व्रतग्रहणीया । यामेताम् अभ्यादधामि समिधम् हे अग्ने व्रतपते, त्वयि अनया व्रतं च श्रद्धां च उपगच्छामि । ततः इन्धे त्वाम् अहं दीक्षितः सन् ॥ २४ ॥
म० 'अभ्यादधामीति प्रत्युचमाहवनीये तिस्रः समिधोऽभ्यादधाति' ( का० १९ । १ । १२)। सौत्रामण्यादावादि त्येष्टिं समाप्य त्रिपश्वर्थमाहवनीयदक्षिणाग्नी विहृत्याग्न्यन्वाधानं ब्रह्मवरणं च कृत्वाहवनीये यजमानस्तिस्रः समिधः प्रत्यृचमादधाति । अग्निदेवत्यास्तिस्रोऽनुष्टुभः आश्वतराश्विदृष्टाः । हे अग्ने, व्रतपते व्रतस्य कर्मणः पालक, अहं समिधं त्वयि अभ्यादधामि जुहोमि तेन समिदाधानेन दीक्षितः सन्नहं व्रतं कर्म श्रद्धां विश्वासं चोपैमि उपगच्छामि । त्वा त्वामिन्धे दीपयामि ॥ २४ ॥

पञ्चविंशी।
यत्र॒ ब्रह्म॑ च क्ष॒त्रं च॑ स॒म्यञ्चौ॒ चर॑तः स॒ह ।
तँल्लो॒कं पुण्यं॒ प्रज्ञे॑षं॒ यत्र॑ दे॒वाः स॒हाग्निना॑ ।। २५ ।।
उ० यत्र ब्रह्म । यत्र ब्रह्म च मूर्तिमत् क्षत्रं च । सम्यञ्चौ समीची इति प्राप्ते लिङ्गव्यत्ययः । चरतः सह अवियोगेन । तं लोकं पुण्यं प्रज्ञेषं प्रज्ञानं वा प्राप्ता भवन्तीत्यतः तल्लोकगमनं प्रार्थ्यते । यत्र देवाः सहाग्निना चरन्ति ॥ २५ ॥
म० पुण्यं पवित्रं लोकं प्रज्ञेषं जानीयाम् । लोकमप्राप्तानां तल्लोकज्ञानं न भवतीति स्वर्लोकगमनं प्रार्थ्यते । तं कम् । यत्र लोके ब्रह्म ब्राह्मणजातिः क्षत्रं क्षत्रियजातिश्च सहावियोगेन : चरतः तिष्ठत इत्यर्थः । कीदृशे ब्रह्मक्षत्रे । सम्यञ्चौ लिङ्गव्यत्ययः । समीची सम्यक् अञ्चतस्ते । तत्र चाग्निना सह देवाः संचरन्ति । सदा च विप्राः क्षत्रियाश्च यं गच्छन्ति तं देवलोकं प्राप्नुयामित्यर्थः ॥ २५ ॥

षड्विंशी।
यत्रेन्द्र॑श्च वा॒युश्च॑ स॒म्यञ्चौ॒ चर॑तः स॒ह । तँ लो॒कं पुण्यं॒ प्रज्ञे॑षं॒ यत्र॑ से॒दिर्न वि॒द्यते॑ ।। २६ ।।
उ० यत्रेन्द्रः । यत्र इन्द्रश्च वायुश्च सम्यञ्चौ संगतौ चरतः सह अवियुक्तौ । तं लोकं पुण्यं प्राप्नुयाम् । यत्र सेदिर्न विद्यते । अन्नलाभनिमित्तं सदनं कातर्यात्सेदिः ॥२६॥
म० यत्र लोके इन्द्रश्च वायुश्च सम्यञ्चों सह चरतः । यत्र च सेदिः सदनं सेदिः 'आदृगम-' (पा० ३।२। १७१) इति चात्किप्रत्ययः लिड्वत्त्वादेवाभ्यासलोपौ । अन्नाप्राप्तिजनितं : दुःखं सेदिः स यत्र न विद्यते तं लोकं पुण्यं पवित्रं प्रज्ञेषं प्रजानीयाम् । जानातेः 'सिब्बहुलं लेटि' (पा० ३ । १।। ३४) इति सिपीटि च रूपम् ॥ २६ ॥

सप्तविंशी।
अ॒ᳪं᳭शुना॑ ते अ॒ᳪं᳭शुः पृ॑च्यतां॒ परु॑षा॒ परु॑: । ग॒न्धस्ते॒ सोम॑मवतु॒ मदा॑य॒ रसो॒ अच्यु॑तः ।। २७ ।।
उ० अᳪं᳭शुना ते । द्वितीया सुरासन्धानेऽनुष्टुप् । सोमस्यांशुना ते तव हे सुरे, अंशुः पृच्यतां संपृच्यतां संमृज्यताम् । परुषा च परुः पर्वणा च पर्व संपृच्यताम् । एवं च कृत्वा गन्धस्तव सोममवतु संपृणक्तु समालिङ्गताम् । मदाय च रसः अच्युतः अनश्वरः आलिङ्गताम् ॥ २७ ॥
म० सुरादेवत्यानुष्टुप् सुरासंसर्जने विनियुक्ता । तत्सूत्रं सौत्रामण्यारम्भे (का० १९ । १) लिखितम् । हे सुरे, ते तव अंशुः भागः सोमस्यांशुना भागेन सह पृच्यतां संयुज्यताम्।। तव परुः पर्व सोमस्य परुषा पर्वणा सह पृच्यताम् । तव गन्धः अच्युतः अनश्वरो रसश्च सोममवतु आलिङ्गतु । किमर्थं । मदाय मत्ततायै । सुरायुक्तः सोमः पीतो मदजनको भवति अत उभयोर्योगोऽस्तु ॥२७॥

अष्टाविंशी।
सि॒ञ्चन्ति॒ परि॑ षिञ्च॒न्त्युत्सि॑ञ्चन्ति पु॒नन्ति॑ च । सुरा॑यै ब॒भ्र्वै॒ मदे॑ कि॒न्त्वो व॑दति कि॒न्त्वः ।। २८ ।।
उ० पूतामादत्ते । सिञ्चन्ति परि । अनुष्टुप् सौमी ऐन्द्री वा । सिञ्चन्ति याम् आचामभावमुपगताम् । आचामो भक्तमण्डः । परिषिञ्चन्ति पयःप्रभृतिभिः । उत्सिञ्चन्ति च ग्रहैः । पुनन्ति च यां गोवालपवित्र हिरण्यादिभिः । तस्यै सुरायै बभ्र्वै बभ्रुवर्णायै । षष्ठ्यर्थे चतुर्थ्यौ । मदेऽवस्थितः इन्द्रः । किंत्वो वदति किंत्वः किंत्वः इति वदति किं त्वं कस्य त्वं ब्रूहीति वदति ॥ २८ ॥
म०. सुरादेवत्येन्द्रदेवत्यावानुष्टुप् । पूतसुरादाने विनियोग उक्तः ( का० १९ । २ । ६)। बभ्र्वै बभ्रुवर्णायै तस्यै सुरायै । षष्ठ्यर्थे चतुर्थी । सुराया मदे स्थितः सुरया मत्तः इन्द्रः किंत्वः किंत्व इति वदति त्वं किम् कस्य त्वमित्याद्यन्यतिरस्कारकरं वचो वदति । यां सुरां सिञ्चन्ति पात्रे ऋत्विजः परिषिञ्चन्ति पयआदिभिः उत्सिञ्चन्ति । ग्रहैः गोवालपवित्र हिरण्यादिभिः पुनन्ति च ॥ २८॥

एकोनत्रिंशी ।
धा॒नाव॑न्तं कर॒म्भिण॑मपू॒पव॑न्तमु॒क्थिन॑म् । इन्द्र॑ प्रा॒तर्जु॑षस्व नः ।। २९ ।।
उ०. धानावन्तं करम्भिणम् । ऐन्द्री गायत्री प्रातःसवने पुरोडाशानां पुरोनुवाक्या । धानावन्तं धानाभिः संयुक्तं । करम्भिणं करम्भेण संयुक्तम् । अपूपवन्तं अपूपेन संयुक्तम् । उक्थिनं वचनवन्तं स्तुतिमन्तं भागम् हे इन्द्र, प्रातःसवने जुषस्व सेवस्व नः अस्माकम् ॥ २९ ॥
म० इन्द्रदेवत्या गायत्री विश्वामित्रदृष्टा स्मार्ते श्रवणाकर्मणि धानाहोमे विनियुक्ता प्रातःसवने पुरोडाशपुरोनुवाक्यापि । हे इन्द्र, त्वं प्रातःकाले नोऽस्माकं पुरोडाशं जुषस्व । कीदृशम् । धानावन्तं धाना विद्यन्ते यत्र तम् । करम्भिणं करम्भोऽस्यास्ति । अपूपवन्तमपूपाः सन्ति यत्र । उक्थिनमुक्थं शस्त्रं यत्र स्तुतियुक्तम् ॥ २९ ॥

त्रिंशी।
बृ॒हदिन्द्रा॑य गायत॒ मरु॑तो वृत्र॒हन्त॑मम् । येन॒ ज्योति॒रज॑नयन्नृता॒वृधो॑ दे॒वं दे॒वाय॒ जागृ॑वि ।। ३० ।।
उ० बृहदिन्द्राय । ऐन्द्राबृहत्या गायतीति । साम्नइयं योनिः । बृहत्साम इन्द्राय गायत उपशब्दयत । हे मरुतः । ऋत्विजो वा मरुतः । वृत्रहन्तमम् वृत्रंप्रति अति शयेन हन्ति गच्छतीति वृत्रहन्तमः । एवमेव व्याख्येयम् । येनैवं पदकारः पदं चक्रे । वृत्रहन्तममिति मकारान्तावग्रहणम् । अथ कोर्थः । पाप्मानं प्रति अतिशयेन हन्तारं साम गायतीति । येन साम्ना ज्योतिः अजनयन् । ऋतावृधः सत्यवृधो वा यज्ञवृधो वा । इन्द्रस्य । यद्वा । ऋतावृधो देवाः । कथंभूतं ज्योतिरजनयन् । देवं दातृ । देवाय इन्द्राय दातुः । जागृवि जागरणशीलं स्वाधिकारावहितचित्तम् ॥ ३०॥
म० 'ऐन्द्र्यां बृहत्यां गायति' (का० १९ । ५। २)। अध्वर्युप्रेषितो ब्रह्मा इन्द्रदेवतायां बृहत्यां साम गायति । इन्द्रदेवत्या बृहती नृमेधपुरुषमेधदृष्टा । हे मरुतः ऋत्विजः, इन्द्राय इन्द्रार्थं यूयं बृहत्साम गायत सामगानं कुरुत। कीदृशम् । बृहत् वृत्रहन्तमम् वृत्रं पापं प्रति अतिशयेन हन्ति गच्छति वृत्रमसुरं नाशयति वा । 'नाद्धस्य' (पा० ८।२। १७) इति नुम् । ऋतं यज्ञं वर्धयन्ति ऋतवृधः देवा ऋत्विजो वा । येन सामगानेन देवाय इन्द्राय ज्योतिः तेजः अजनयन्नुदपादयन् । कीदृशं ज्योतिः । देवं दीप्यमानम् । जागृवि जागर्तीति जागृवि जागरणशीलम् । अविनश्वरमित्यर्थः । सामगानेनेन्द्रस्तेजस्वी जात इत्यर्थः ॥ ३० ॥

एकत्रिंशी।
अध्व॑र्यो॒ अद्रि॑भिः सु॒तᳪं᳭ सोमं॑ प॒वित्र॒ आ न॑य । पु॒ना॒हीन्द्रा॑य॒ पात॑वे ।। ३१ ।।
उ० ब्रह्मानुमन्त्रणम् । अध्वर्यो अद्रिभिः। ऐन्द्री गायत्री। हे अध्वर्यो, अद्रिभिः ग्रावभिः सुतमभिषुतं सोमम् पवित्रे आनय आसिञ्च । ततः पुनाहि पुनीहि । इन्द्राय इन्द्रस्य । पातवे पानार्थम् ॥ ३१ ॥
म० 'ब्रह्मानुमन्त्रणमध्वर्यो अद्रिभिरिति' ( का० १९ । २। ११)। ब्रह्मा पयोऽनुमन्त्रयते । ऐन्द्री गायत्री । हे अध्वर्यो, त्वं सोमं पवित्रे कम्बलमये आनय सिञ्च । कीदृशम् । अद्रिभिर्ग्रावभिः सुतमभिषुतम् । ततः पुनाहि पुनीहि गालय । इत्वाभाव आर्षः। किमर्थम् । इन्द्राय पातवे इन्द्रस्य पानार्थम् । तुमर्थे तवेप्रत्ययः ॥ ३१ ॥

द्वात्रिंशी।
यो भू॒ताना॒मधि॑पति॒र्यस्मिँ॑ल्लो॒का अधि॑ श्रि॒ताः ।
य ईशे॑ मह॒तो म॒हाँस्तेन॑ गृह्णामि॒ त्वाम॒हं मयि॑ गृह्णामि॒ त्वाम॒हम् ।। ३२ ।।
उ० त्रयस्त्रिंशं वसाग्रहं गृह्णाति । यो भूतानां पङ्क्तिः । सोमप्रवादः । यो भूतानां चतुःप्रकाराणाम् अधिपतिः । यस्मिंश्च लोका अधि उपरि श्रिताः स्थिताः । यश्च ईशे महतः विकारजातस्य । स्वयं च महान् । तेन गृह्णामि त्वाम् अहम् ॥ ३२॥
म० 'त्रयस्त्रिᳪं᳭शं वसाग्रहं गृह्णाति यो भूतानामिति' (का. १९ । ४ । २४)। 'प्रागभिषेकात्सीसेन तन्त्रमिति' । (१९ । ८०) षोडशर्ग्भिर्द्वात्रिंशद्वसाग्रहाः तेषां संस्रवैर्यजमानाभिषेकः कृतः । ततोऽध्वर्युर्यो भूतानामिति सार्धकण्डिकात्मकेन मन्त्रेण त्रयस्त्रिंशं वसाग्रहमार्षभखुरेण गृह्णाति । आत्मवादिनीग्रहदेवत्या कौण्डिन्यदृष्टा पङ्क्तिः । यः परमात्मा भूतानां जराय्वादिभूतानां चतुर्विधानामधिपतिः अधिकं पालकः । यस्मिन् आत्मनि लोका भूरादयोऽधिश्रिताः आश्रिताः । लोका यदाधारा इत्यर्थः । महान् सर्वोत्कृष्टो यः महतः महत्तत्वप्रमुखस्य तत्त्वगणस्य ईशे ईष्टे नियन्ता वर्तते 'लोपस्त आत्मनेपदेषु' (पा. ७ । १ । ४१ ) इति तलोपे लटि तङि प्रथमैकवचने ईशे इति रूपम् । 'अधीगर्थदयेशाम्' (पा० २ । ३ । ५२) इति कर्मणि षष्ठी । हे ग्रह, अहं तेन परमात्मना कृत्वा त्वा त्वां गृह्णामि मयि परमात्मभावमापन्ने मयि विषये अहं त्वां गृह्णामि ॥ ३२ ॥
 
त्रयस्त्रिंशी।
उ॒प॒या॒मगृ॑हीतोऽस्य॒श्विभ्यां॑ त्वा॒ सर॑स्वत्यै॒ त्वेन्द्रा॑य त्वा सु॒त्राम्ण॑ ए॒ष ते॒ योनि॑र॒श्विभ्यां॑ त्वा॒ सर॑स्वत्यै॒ त्वेन्द्रा॑य त्वा सु॒त्राम्णे॑ ।। ३३ ।।
उ० उपयाम गृहीतोऽसीति व्याख्यातम् ॥ ३३ ॥
म० उपयाम० यजुः सामत्रिष्टुप् । व्याख्यातम् (अ० १० । क. २३ ) एष ते यजुः प्राजापत्या बृहती । सादने विनियोगः। ग्रहदेवते द्वे यजुषी।।३३।।

चतुस्त्रिंशी।
प्रा॒ण॒पा मे॑ अपान॒पाश्च॑क्षु॒ष्पाः श्रो॑त्र॒पाश्च॑ मे ।
वाचो॑ मे वि॒श्वभे॑षजो॒ मन॑सोऽसि वि॒लाय॑कः ।। ३४ ।।
उ० ऋत्विजः प्राणभक्षं भक्षयन्ति । प्राणपा इति द्वाभ्यामनुष्टुबुपरिष्टाद्बृहतीभ्यां प्राणादिपरिचयाय । यस्त्वं प्राणपाः मम असि अपानपाश्चक्षुष्पाश्च श्रोत्रपाश्च मे। वाचश्च मे विश्वभेषजः सर्वभेषजकारी । मनसश्चासि विलायकः । 'लीङ् श्लेषणे' सर्वकरणेषु संश्लेषकः ॥ ३४ ॥
म० शेषमृत्विजः प्राणभक्षं भक्षयन्ति' ( का० १९ । ५।९)। सहश(?)ग्रहहोमानन्तरं शेषमृत्विजः सर्वेऽवजिघ्रन्ति कण्डिकाद्वयेन । ग्रहदेवत्ये द्वे अनुष्टुबुपरिष्टाद्बृहत्यौ । हे ग्रह, त्वं मे प्राणपा असि । प्राणान् पाति रक्षति प्राणपाः । अपानपाः अपानस्य रक्षकोऽसि । चक्षुषी पातीति चक्षुष्पाः । मे मम श्रोत्रपाश्चासि श्रोत्रेन्द्रियं पासि । मे वाचो वागिन्द्रियस्य विश्वभेषजः विश्वं सर्वं भेषजमौषधं यस्मात्स वाचः औषधमुन्मार्गनिवृत्तिर्जपादौ प्रवृत्तिश्च तत्कर्ता । मनसो विलायकश्चासि विलाययति विषयेभ्यो निवर्त्यात्मनि स्थापयतीति विलायकः आत्मज्ञानप्रदोऽसीत्यर्थः । यद्वा 'ली श्लेषणे' विलाययति चक्षुरादिभिः सह श्लेषयति विलायकः । सर्वेन्द्रियैः सह मनः संयोजयसीत्यर्थः ॥ ३४ ॥

पञ्चत्रिंशी।
अ॒श्विन॑कृतस्य ते॒ सर॑स्वतिकृत॒स्येन्द्रे॑ण सु॒त्राम्णा॑ कृ॒तस्य॑ ।
उप॑हूत॒ उप॑हूतस्य भक्षयामि ।। ३५ ।।
उ० किंच अश्विनकृतस्य ते । नकार उपजनः । करोतिर्दर्शनार्थः । अदृष्टस्य सरस्वतिदृष्टस्य ते इन्द्रेण सुत्राम्णा दृष्टस्य ते । उपहूतश्चाभ्यनुज्ञात एताभिर्देवताभिः उपहूतस्य च सोमस्य ऋत्विग्भिः भक्षयामि ॥ ३५ ॥
म० हे ग्रह उपहूत, आज्ञप्तोऽहं ते तव त्वां भक्षयामि । कर्मणि षष्ठी । कीदृशस्य ते । अश्विनकृतस्य करोतिर्दर्शनार्थः । अश्विनावेवाश्विनौ स्वार्थेऽण् । वृद्ध्यभाव आर्षः । आश्विनाभ्यां कृतो दृष्टस्तस्य । सरस्वत्या कृतः सरस्वतिकृतः सरस्वत्या दृष्टस्तस्य ‘ड्यापोः संज्ञाच्छन्दसोर्बहुलम्' (पा० ६ । ३ । ६३) इति सरस्वतीशब्दस्य ह्रस्वः । सुष्रु त्रायते रक्षति सुत्रामा तेनेन्द्रेण कृतस्य दृष्टस्य । उपहूतस्य ऋत्विग्भिः कृतोपहवस्य ॥ ३५॥

षट्त्रिंशी।
समि॑द्ध॒ इन्द्र॑ उ॒षसा॒मनी॑के पुरो॒रुचा॑ पूर्व॒कृद्वा॑वृधा॒नः ।
त्रि॒भिर्दे॒वैस्त्रि॒ᳪं᳭शता॒ वज्र॑बाहुर्ज॒घान॑ वृ॒त्रं वि दुरो॑ ववार ।। ३६ ।।
उ० समिद्ध इन्द्रः । इतउत्तरं होत्रमैत्रावरुणं च सौत्रामण्याः आअश्वमेधात् । तत्रैन्द्रस्य पशोरेकादशयाजाः तत्रैता आयोज्या ऐन्द्र्यस्त्रिष्टुभः । यास्तु आग्निदेवताः 'इध्मः तनूनपात् नराशंसः इडः बर्हिः द्वारः उषासानक्ता दैव्यौहोतारौ तिस्रोदेव्यः त्वष्टा वनस्पतिः स्वाहाकृतयः' इति । ता यथायोगं विशेषणत्वेन व्याख्यायन्ते । द्विस्थान इन्द्रोऽत्र स्तूयते । यः समिद्धः संदीप्तः आदित्यानां त्वमिन्द्र, उषसामनीके मुखे। उषसां हि यत्र मुखं तत्र भगवानादित्योऽवतिष्ठते । पुरोरुचा अग्रतोगामिन्या दीप्त्या वावृधान इति संबन्धः । पूर्वकृच्च पूर्वा दिशं करोति । तदुदयोपलक्षिता हि पूर्वा दिक् संभवति । स एव मध्यस्थानः सन् त्रिभिर्देवैः सहितः वज्रबाहुः वज्रपाणिः जघान वृत्रं मेघम् । विदुरो ववार । हत्वा च वृत्रं विविधान् विवृतान् अकरोत् । विदुरः द्वाराणि स्रोतांसि तस्यैव मेघस्य । द्वारशब्दस्य दुर इति छान्दसं संप्रसारणम् ॥ ३६ ॥
म० आध्वर्यवं समाप्तम् । इतः सौत्रामणिकं होत्रमुच्यते । 'समिद्ध इन्द्र इत्याप्रियः प्रथमस्य' ( का० १९ । ६ । १२)। समिद्ध इत्याद्या एकादश ऋचः प्रथमस्यैन्द्रस्य पशोराप्रियः प्रयाजयाज्याः । आङ्गिरसदृष्टा एकादशाप्रियः त्रिष्टुभः तासां क्रमादेता देवता इध्मः .. तनूनपान्नराशंसो वा इडः बर्हिः द्वारः उषासानक्ता दैव्यौ होतारौ तिस्रो देव्यः त्वष्टा वनस्पतिः स्वाहाकृतयः एता देवताः । यथायोगमिन्द्रविशेषणत्वेन व्याख्येयाः । अनुवाकेनानेनेन्द्रः स्तूयते । इन्द्रो वृत्रं मेघं दैत्यं वा जघान हतवान् । दुरः द्वाराणि च विववार मेघस्य द्वाराणि स्रोतांसि विवृतान्यकरोत् । दैत्यपक्षे तत्पुरद्वाराणि शून्यान्यकरोत् । द्वारशब्दस्य संप्रसारणे दुर इति रूपम् । कीदृश इन्द्रः । | समिद्धः संदीप्तः उषसामनीके मुखे प्रातःकाले पुरोरुचा अग्रे प्रसरन्त्या दीप्त्या पूर्वकृत्पूर्वां दिशं करोतीति आदित्यात्मना पूर्वस्याः कर्ता । नाम्नो वृत्तिमात्रे पुंवद्भावः । त्रिभिर्देवैः | त्रिंशता च त्रयस्त्रिंशद्देवैः सह वावृधानः वर्धमानः । वृधेर्विकरणव्यत्ययेन शपः 'तुजादीनां दीर्घोऽभ्यासस्य' (पा० ६ ।१।७) इत्यभ्यासदीर्घः संहितायाम् । वज्रबाहुः वज्रं बाहौ यस्य वज्रपाणिः ॥ ३६ ॥

सप्तत्रिंशी।
नरा॒शᳪं᳭स॒: प्रति॒ शूरो॒ मिमा॑न॒स्तनू॒नपा॒त्प्रति॑ य॒ज्ञस्य॒ धाम॑ ।
गोभि॑र्व॒पावा॒न् मधु॑ना सम॒ञ्जन् हिर॑ण्यैश्च॒न्द्री य॑जति॒ प्रचे॑ताः ।। ३७ ।।
उ० नराशंसः । एकस्यामेव ऋचि नराशंसः तनूनपान्नाप्रीणामनुवाके । व्यवहितपदप्रायोयं मन्त्रः । यः शूरः इन्द्रः सन् नराशंसः । यश्च यज्ञो भवति नरा अस्मिन्नासीनाः शंसन्तीति । प्रतिप्रति मिमानो मिमीते मिमानः प्रतिगणयन् यज्ञस्य धाम स्थानम् गोप्रभृतिपशुसंबन्धिनीभिः वपाभिः वपावान् हिरण्यैर्वपापूर्वैः यश्चाधानभूतैः चन्द्री। चन्द्रमिति हिरण्यनाम । यश्च शूर इन्द्रः तनूनपात् घृतं भवति मधुना । मधुस्वादेन घृतेन समञ्जन् हवींषि । गौरत्र तनूरुच्यते । ततोऽस्यां भोगास्तस्याः पयो जायते पयस आज्यं जायत इति । तं शूरमिन्द्रं यजमानो यजति प्रचेताः प्रकृष्टज्ञानः ॥ ३७ ॥
म० एकस्यामृचि नराशंसतनूनपातौ । प्रचेताः प्रकृष्टं चेतो ज्ञानमस्य स प्रचेताः कर्मज्ञाता यजमानस्तमिन्द्रं प्रतियजति प्रत्यहं यजति । तं कम् । य ईदृशः नराशंसः नरैर्ऋत्विग्भिरा समन्तात् शस्यते शस्त्रैः स्तूयते स नराशंसः । यद्वा 'नरा अस्मिन्नासीनाः शंसन्ति' (निरु० ८ । ६) इति यास्कोक्तेर्नराशंसो यज्ञः तद्रूपस्तद्वान्वा । यज्ञस्य धाम :स्थानं प्रतिमिमानः मिमीते मिमानः प्रतिगणयन् । यज्ञस्थानानि जानन्नित्यर्थः । एकः-प्रतिमिमान इत्यनेन संबध्यतेऽपरो यजतीत्यनेन । तथा शूरः शौर्यवान् । तनूनपात् तनोति. विस्तारयति सृष्टिं तनूः प्रजापतिर्मरीचिस्तस्य नपात् पौत्रः। कश्यपात्मज इत्यर्थः । यद्वा तनूं शरीरं न पातयति रक्षति जाठराग्निरूपेणेति तनूनपात् अग्निस्तद्रूपः । यद्वा तनोति भोगानिति तनूः गौस्तस्या नपात् पौत्रं घृतम् । गोः पयो जायते । पयस आज्यमिति घृतरूपस्तद्वान् वा । गोभिर्वपावान् - पशुसंबन्धिनीभिर्वपावान् वपायुक्तः मधुना मधुस्वादोपेतेन घृतेन समञ्जन् हवींषि भक्षयन् हिरण्यैः पश्ववदानभूतैः । चन्द्री चन्द्रं सुवर्णमस्यास्तीति चन्द्री ॥ ३७॥

अष्टत्रिंशी।
ई॒डि॒तो दे॒वैर्हरि॑वाँ२ अभि॒ष्टिरा॒जुह्वा॑नो ह॒विषा॒ शर्ध॑मानः ।
पु॒र॒न्द॒रो गो॑त्र॒भिद्वज्र॑बाहु॒रा या॑तु य॒ज्ञमुप॑ नो जुषा॒णः ।। ३८ ।।
उ० ईडितो देवैः। ईडितः पूजितो देवैः । हरिवान् हरी इन्द्रस्याश्वौ तदभिप्रायो मन्त्रः वर्णाभिप्रायो वा । अभिष्टिः अभिगमनवान् अभ्येषणवान्वा । आजुह्वानः आहूयमानः हविषा निमित्तभूतेन । शर्धमानः अतिबलायमानः । शर्ध इति बलनाम । पुरन्दर इति पुरां दारयिता । गोत्रभित् मेघान्भिनत्ति वृष्टयर्थम् । वज्रबाहुः यः स आयातु यज्ञमुप नो जुषाणः । यज्ञं नः संबन्धिनमुपसेवमानः ॥ ३८॥ .
म० एवंविध इन्द्र आयातु आगच्छतु । कीदृशः । देवैरीडितः पूजितः स्तुतः । हरिवान् हरी इन्द्राश्वौ अस्य स्त इति हरिवान् । अभिष्टिः अभि समन्तादिष्टिर्यागो यस्य । इलोपश्छान्दसः । यद्वा अभिस्तूयत इत्यभिष्टिः । स्तोतेरौणादिको डिप्रत्ययः । आजुह्वानः आहूयमान ऋत्विग्भिः हविषा निमित्तेन हविर् निमित्तं द्विजैराहूयमानः । शर्धमानः शर्ध इति बलनाम । अतिबलायमानः । पुरं रिपुनगरं दारयति पुरन्दरः । गोत्रभित् गां भूमिं वृष्ट्या त्रायन्ते गोत्रा मेघाः तान् वृष्ट्यर्थं भिनत्ति गोत्रभित्, गोत्रान् गिरीन् वा भिनत्ति । वज्रबाहुः वज्रधरः। नोऽस्माकं यज्ञमुपजुषाणः उपसेवमानः ॥ ३८ ॥

एकोनचत्वारिंशी।
जु॒षा॒णो ब॒र्हिर्हरि॑वान् न॒ इन्द्र॑: प्रा॒चीन॑ᳪं᳭ सीदत् प्र॒दिशा॑ पृथि॒व्याः ।
उ॒रु॒प्रथा॒: प्रथ॑मानᳪं᳭ स्यो॒नमा॑दि॒त्यैर॒क्तं वसु॑भिः स॒जोषा॑: ।। ३९ ।।
उ० जुषाणो बर्हिः । जुषाणः सेवमानः बर्हिः । हरिवान् हरी अश्वौ ताभ्यां संयुक्तः नः अस्माकम् इन्द्रः प्राचीनं प्रागञ्चनम् सीदत् सीदतु आस्ताम् प्रदिशा उपदिशन् । पृथिव्याः देवयजनत्वेन । उरुप्रथाः उरु विस्तीर्णं प्रथनमस्येत्युरुप्रथाः । इन्द्रविशेषणमेतत् । बर्हिर्विशेषणान्युत्तराणि । प्रथमानं स्योनं सुखरूपम् । आदित्यैः अक्तं वसुभिश्च । बर्हिषाञ्जनमन्त्रे आदित्या वसवश्च सन्ति तदभिप्रायमेतत् । 'संबर्हिरङ्क्तां हविषा घृतेन समादित्यैर्वसुभिरित्ययं मन्त्रः । सजोषाः सह प्रीयमाणः । इन्द्रविशेषणमेतत् ॥ ३९ ॥
म० इन्द्रो नोऽस्माकं प्राचीनं प्राग्भवं प्रदेशं सीदत् सीदतु आस्ताम् । 'इतश्च लोपः-' (पा० ३ । ४ । ९७ ) इति इलोपः । कीदृश इन्द्रः । हरिवान् हरी अश्वौ तद्युक्तः । पृथिव्याः प्रदिशा । द्वितीयार्थे षष्ठी । पृथिवीं देवयजनभूमिं प्रदिशन् उपदिशन् प्रदिशतीति प्रदिशन् ‘सुपां सुलुक्-' (पा. ७।१।३९) इत्यादिना विभक्तेर्डादेशः । उरुप्रथाः । प्रथनं प्रथः ख्यातिः उरु विस्तीर्णं प्रथो यस्य स उरुप्रथाः। सजोषाः जोषणं जोषः असुन्प्रत्ययः । जोषसा प्रीत्या सहितः सजोषाः संतुष्टः । बर्हिर्जुषाणः सेवमानः । शानचि शपो लुक् । कीदृशं बर्हिः । प्रथमानं प्रथते तत् प्रथमानं विस्तीर्णम् स्योनं सुखरूपम् । आदित्यैः वसुभिः मरुद्भिश्च अक्तं म्रक्षितम् बर्हिरञ्जने मन्त्रे आदित्यादीनामुक्तत्वात्तैरक्तम् । 'सं बर्हिरङ्क्ताᳪं᳭ हविषा घृतेन समादित्यैर्वसुभिः सं मरुद्भिः' इत्युक्तेः ॥ ३९ ॥

चत्वारिंशी।
इन्द्रं॒ दुर॑: कव॒ष्यो धाव॑माना॒ वृषा॑णं यन्तु॒ जन॑यः सु॒पत्नी॑: ।
द्वारो॑ दे॒वीर॒भितो॒ वि श्र॑यन्ताᳪं᳭ सु॒वीरा॑ वी॒रं प्रथ॑माना॒ महो॑भिः ।। ४० ।।
उ० इन्द्रं दुरः । संप्रसारणं छान्दसम् । यज्ञगृहद्वारः कवष्यः । 'कुष निष्कर्षे' कुषिताः ससुषिराः । धावमानाः आदरवत्यः । वृषाणं वर्षितारम् यन्तु । जनयः सुपत्नीः । लुप्तोपमानमेतत् । जाया इव शोभनपत्न्यः। अथेन्द्रसंगतिं प्राप्य यज्ञगृहद्वारः देवीः। अभितः इतश्वेतश्च । विश्रयन्तां विव्रियन्ताम् । सुवीरा ऋत्विग्भिः वीरमिन्द्रं प्रति प्रथमानाः पृथ्व्यो भवन्त्यः महोत्सवैः ॥ ४० ॥
म० दुरो यज्ञगृहद्वार इन्द्रं यन्तु प्राप्नुवन्तु । कीदृशमिन्द्रम् । वृषाणं वर्षतीति वृषा तं वर्षितारम् । 'इन्द्रः पृथिव्यै वर्षीयान्' इत्युक्तेः । वीरं शूरम् । कीदृश्यो दुरः । कवष्यः 'कु शब्दे' कूयन्ते कुवन्ति शब्दयन्ति वा जना यासु ताः कवष्यः ससुषिराः सच्छिद्रे एव शब्दप्रसरात् । कौतेरौणादिकोऽषट्प्रत्ययः । तथा धावमानाः धावन्ते धावमानाः । आदरयुक्ता इत्यर्थः । तथोपमानं जनयः सुपत्नीः शोभनाः साध्व्यः पत्न्यो यज्ञैः सहाधिकारिण्यो जायाः स्त्रिय इव । लुप्तोपमानम् । ता | यथा धावमानाः यन्ति यान्ति तथा द्वार इन्द्रं यान्तु । किंच | इन्द्रं प्राप्य द्वारो देवीः देव्यः अभितः सर्वत्र विश्रयन्तां निवृत्ता भवन्तु । कीदृश्यो द्वारः । सुवीराः शोभना वीरा ऋत्विजो यासु ताः सुवीराः ऋत्विग्युक्ताः । महोभिस्तेजोभिरुत्सवैर्वा प्रथमानाः विस्तृता भवन्त्यः ॥ ४० ॥

एकचत्वारिंशी।
उ॒षासा॒नक्ता॑ बृह॒ती बृ॒हन्तं॒ पय॑स्वती सु॒दुघे॒ शूर॒मिन्द्र॑म् ।
तन्तुं॑ त॒तं पेश॑सा सं॒वय॑न्ती दे॒वानां॑ दे॒वं य॑जतः सुरु॒क्मे ।। ४१ ।।
उ० उषासानक्ता । उषा आदित्यप्रभा नक्ता रात्रिः उषाश्च रात्रिश्च बृहती महत्यौ । बृहन्तं महान्तम् पयस्वती उदकवत्यौ अवश्यायवत्यौ । सुदुघे साधुदोहने शूरमिन्द्रम् । तन्तुं ततम् । लुप्तोपमानमेतत् । तन्तुमेव ततं पटार्थं सूत्रं प्रसारितमिव पेशसा विचित्ररूपेण सूत्रेण संवयन्ती संग्रथयन्त्यौ । देवानां देवमिन्द्रं यजतः संगतं कुरुतः । पुनर्घट्टयत इत्यर्थः । सुरुक्मे सुरोचने ॥ ४१॥
म० उषासानक्ता इन्द्रं यजतः सङ्गतं कुरुतः । इन्द्रेण सङ्गमं कुरुतः । यजिरत्र सङ्गतिकरणार्थः । उषा आदित्यप्रभा नक्ता रात्रिः उषाश्च नक्ता च उषासानक्ता । समासे उषःशब्दस्योषासादेशः । किंभूतमिन्द्रम् । बृहन्तं महान्तं शूरं विक्रान्तं देवानां देवं सर्वदेवपूज्यम् । कीदृश्यौ उषासानक्ता । बृहती बृहत्यौ पयस्वती उदकवत्यौ अवश्यायवत्यौ । सुदुघे शोभनं दुग्धः ते 'दुहः कब्घश्च' (पा० ३ । २ । ७०) इति कप् घादेशश्च । पेशसा विचित्ररूपेण संवयन्ती संग्रथयन्त्यौ इन्द्रं रूपेण योजयन्त्यौ । तत्र दृष्टान्तः । तन्तुमिव यथा पटार्थं ततं - विस्तीर्णं तन्तुं सूत्ररूपेण कश्चित् संवयति । तथा सुरुक्मौ शोभनं रुक्मं रोचनं कान्तिर्ययोस्ते सुरुक्मौ ॥ ४१॥

द्विचत्वारिंशी।
दैव्या॒ मिमा॑ना॒ मनु॑षः पुरु॒त्रा होता॑रा॒विन्द्रं॑ प्रथ॒मा सु॒वाचा॑ ।
मू॒र्धन् य॒ज्ञस्य॒ मधु॑ना॒ दधा॑ना प्रा॒चीनं॒ ज्योति॑र्ह॒विषा॑ वृधातः ।। ४२ ।।
उ० दैव्या मिमाना । व्यवहितपदप्रायो मन्त्रः । दैव्यौ होतारौ अयं चाग्निः असौ च वायुर्मध्यमः । दैव्यौ होतारौ मिमानौ निर्मिमाणौ यज्ञे । मनुष इति तद्धितलोपः । वीप्सायाश्च मनुष्यस्य यजमानस्य पुरुत्रा बहुप्रकारम् । प्रथमौ मानुषाद्धोतुः । सुवाचा साधुवाचौ । मूर्धनि प्रधानाङ्गे यज्ञस्य । इन्द्रं मधुना अन्नसहितं दधाना स्थापयन्तौ । प्राचीनम् आहवनीयाख्यं ज्योतिः हविषा वृधातः वर्धयतः॥४२॥
म० अयं चाग्निरसौ च वायुर्मध्यमस्तौ देवानामिमौ दैव्यौ होतारौ वाय्वग्नी प्राचीनं प्राच्यां दिशि वर्तमानं ज्योतिराहवनीयाख्यं मधुना मधुरेण हविषा कृत्वा वृधातः वर्धयतः । वृधेः 'लेटोऽडाटौ' (पा० ३ । ४ । ९४) इत्याट् । कीदृशौ । होतारौ पुरुत्रा बहुधा मिमाना मिमानौ यज्ञं निर्मिमाणौ । मनुषः मानुषाद्धोतुः प्रथमा आद्यौ । मनुषः इति प्रथमा पञ्चम्यर्थे । सुवाचा सुवाचौ शोभना वाक् ययोस्तौ । यज्ञस्य मूर्धन् मूर्धनि प्रधानेऽङ्गे इन्द्रं दधाना स्थापयन्तौ । सर्वत्र प्रथमाद्विवचनस्याकारः ॥ ४२ ॥

त्रिचत्वारिंशी।
ति॒स्रो दे॒वीर्ह॒विषा॒ वर्ध॑माना॒ इन्द्रं॑ जुषा॒णा जन॑यो॒ न पत्नी॑: ।
अच्छि॑न्नं॒ तन्तुं॒ पय॑सा॒ सर॑स्व॒तीडा॑ दे॒वी भार॑ती वि॒श्वतू॑र्तिः ।। ४३ ।।
उ० तिस्रो देवीः । यास्तिस्रो देव्यो हविषा आज्येन वर्धमानाः इन्द्रं जुषाणाः सेवमानाः। जनयो न पत्नीः जाया । इव पत्न्यः आसते । ता अच्छिन्नं तन्तुम् अविस्रस्तयज्ञम् पयसा हविषा कुर्वन्तु । कतमास्तास्तिस्रो देव्य इत्यत आह । सरस्वती च इडा च । देवी दानादिगुणयुक्ता । भारती आदित्यप्रभा । विश्वतूर्तिः सर्वतः तूर्णं यायिनी । आख्यातमन्त्रे नास्त्यतोऽध्याहृतम् ॥ ४३ ॥ |
म० सरस्वती इडा भारती तिस्रो देव्यः पयसा हविषा कृत्वा तन्तुं यज्ञमच्छिन्नं छेदेन विघ्नेन रहितं कुर्वन्विति शेषः। | वर्धमानाः पुष्टियुक्ताः । पत्नीः पत्न्यः साध्व्यो जनयो न जाया इव इन्द्रं जुषाणाः सेवमानाः । देवीः दीप्यमानाः विश्वस्मिन् सर्वत्र त्वरते तूर्णं गच्छति विश्वतूर्तिः सर्वगामिनीति द्वे विशेषणे तिसृणाम् ॥ ४३ ॥

चतुश्चत्वारिंशी।
त्वष्टा॒ दध॒च्छुष्म॒मिन्द्रा॑य॒ वृष्णेऽपा॒कोऽचि॑ष्टुर्य॒शसे॑ पु॒रूणि॑ ।
वृषा॒ यज॒न्वृष॑णं॒ भूरि॑रेता मू॒र्धन् य॒ज्ञस्य॒ सम॑नक्तु दे॒वान् ।। ४४ ।।
उ० त्वष्टा दधत् त्वष्टा तक्षतेः करोत्यर्थस्य । यस्त्वष्टा दधत् धारयत् शुष्मं बलम् इन्द्राय इन्द्रार्थम् । वृष्णे सेक्त्रे । कथंभूतस्त्वष्टा । अपाकः । पाक इति प्रशस्यनाम । न विद्यते यस्मात्त्वष्टुरन्यः पाकः प्रशस्यः स अपाकः । 'नञोऽस्त्यर्थानां बहुव्रीहिर्वाच्यो वाचोत्तरपदलोपश्च' इति समासः। अचिष्टुः अचितस्त्यानशरीरः अञ्चनशीलो वा । यशसे च इन्द्राय । पुरूणि बहूनि भैषज्यानि अकरोदिति शेषः । वृषा सेक्ता यष्टा यजन् वृषणं सेक्तारमिन्द्रम् भूरिरेताः सर्वजनकः त्वष्टा । स मूर्धनि यज्ञस्य आहवनीये सम् अनक्तु भक्षयतु हविःसहितेनाज्येन देवान् । अनक्तिर्भोजनार्थः । आहवनीयात्मनावस्थितान् भोजयतु देवानित्यर्थः ॥ ४४ ॥
म० त्वष्टा यज्ञस्य मूर्धन् मूर्धनि शिरःस्थानीये आहवनीये देवान् समनक्तु भोजयतु । अन्तर्भूतण्यर्थोऽनक्तिरत्र भोजनार्थः । कीदृशस्त्वष्टा । यशसे यशस्विने वृष्णे सेक्त्रे इन्द्राय पुरूणि । वचनव्यत्ययः । पुरु बहु शुष्मं बलं दधत् धारयन् । तथा अपाकः इति प्रशस्यनाम । न विद्यते पाकः प्रशस्यो यस्मात्सोऽपाकः । 'नञोऽस्त्यर्थानां बहुव्रीहिर्वाच्यो वाचोत्तरपदलोपश्च' इति समासः । अचिष्टुः अञ्चनशीलः सर्वत्र गतः । वृषा वर्षिता वृषणमिन्द्रं यजन् पूजयन् । भूरिरेताः भूरि बहु रेतो वीर्यं यस्य सः। सर्वजनक इत्यर्थः । 'त्वष्टा त्वक्षतेः करोत्यर्थस्य' (निरु० ८ । १३) इति यास्कोक्तेः । ईदृशस्त्वष्टा देवान्भोजयत्वित्यर्थः ॥ ४४ ॥

पञ्चचत्वारिंशी।
वन॒स्पति॒रव॑सृष्टो॒ न पाशै॒स्त्मन्या॑ सम॒ञ्जञ्छ॑मि॒ता न दे॒वः ।
इन्द्र॑स्य ह॒व्यैर्ज॒ठरं॑ पृणा॒नः स्वदा॑ति य॒ज्ञं मधु॑ना घृ॒तेन॑ ।। ४५ ।।
उ० वनस्पतिरवसृष्टः वनस्पतिर्यूपः अवसृष्टोन अभ्यनुज्ञात इव पाशैर्बद्धमध्वर्युणा पशुम् त्मन्या आत्मनि समञ्जन् सङ्गमयतु संबध्नातु । कथमिव । शमिता न देवः । यथा शमिता देवः अपापः पशुबद्धमात्मना संगमयेत् एवम् । किंच इन्द्रस्य जठरमुदरम् हव्यैः पृणानः पूरयन् । स्वदाति यज्ञं समनक्तु यागम् मधुना च रसेन घृतेन च ॥ ४५ ॥
म. वनस्पतिर्यूपो देवो मधुना रसेन घृतेन च यज्ञं स्वदाति स्वदतु लेट् । आस्वादयतु समनक्तु वा । कीदृशो वनस्पतिः । अवसृष्टो न आज्ञप्त इव पाशैः कृत्वा । त्मन्या आत्मनि समञ्जन् अर्थात् पशुं संयोजयन् । आत्मन्शब्दस्य तृतीयाया यादेशः । 'मन्त्रेष्वाड्यादेरात्मनः' (पा० ६ । ४ । १४१) इति आलोपः । तत्र दृष्टान्तः । शमिता न शमिता इव । यथा शमिता पाशैः पशुमात्मनि संयोजयति तथा हव्यैरिन्द्रस्य जठरमुदरं पृणानः पूरयन् पृणीतेऽसौ पृणानः ॥ ४५ ॥

षट्चत्वारिंशी।
स्तो॒काना॒मिन्दुं॒ प्रति॒ शूर॒ इन्द्रो॑ वृषा॒यमा॑णो वृष॒भस्तु॑रा॒षाट् ।
घृ॒त॒प्रुषा॒ मन॑सा॒ मोद॑माना॒: स्वाहा॑ दे॒वा अ॒मृता॑ मादयन्ताम् ।। ४६ ।।
उ० स्तोकानामिन्दुम् । वपास्तोकानां संबन्धिनमिन्दुम् । प्रति सोमंप्रति पशोः सोमसंस्तवस्तदभिप्रायमेतत् । गमनाय शूरः विक्रान्तः । इन्द्रो वृषायमाणः वृष इव आचरत् । वृषभः सर्वलोकत्रासकृत् । तुराषाट् तूर्णं सहते अभिभवतीति तुराषाट् । स इन्द्रः स्वाहाकृतिभिर्मादयताम् तृप्यतु इत्यनुषङ्गः । घृतप्रुषा च घृतावयवेन च । मनसा मोदमानाः हृष्यन्तः । स्वाहा अविभक्तिको निर्देशः । स्वाहाकृतिभिर्देवाः अमृताः अमरणधर्माणः मादयन्ताम् तृप्यन्तु ॥ ४६ ॥
म० इन्द्रः स्वाहा देवाः । नामैकदेशे नामग्रहणम् । स्वाहाकृतयो देवाश्च मादयन्तां तृप्यन्तु । 'मद तृप्तौ' चुरादिः। किमुद्दिश्य स्तोकानामिन्दुं प्रति स्तोका वपासंबन्धिनो घृतबिन्दवः तत्संबन्धी य इन्दुः सोमः तंप्रति तमुद्दिश्य वपास्तोकेषु सोमत्वमारोप्यते । वपास्तोकरूपं सोममुद्दिश्येन्द्रः स्वाहाकृतयश्च तृप्यन्तामित्यर्थः । कीदृश इन्द्रः । शूरः शौर्यवान् वृषायमाणः वृषवदाचरति वृषायते वृषायतेऽसौ वृषायमाणः । शत्रून्प्रति गर्जन्नित्यर्थः । वृषभः वर्षिता । तुराषाट् तूर्णं सहते शत्रूनभिभवतीति तुराषाट् । कीदृशाः स्वाहाकृतयः । घृतप्रुषा घृतबिन्दुनापि मनसा मोदमानाः मोदन्ते ते मोदमानाः संतुष्टाः। अमृताः अमरणधर्माणः । नास्ति मृतं मरणं येषां ते ॥ ४६ ॥

सप्तचत्वारिंशी।
आ या॒त्विन्द्रोऽव॑स॒ उप॑ न इ॒ह स्तु॒तः स॑ध॒माद॑स्तु॒ शूर॑: ।
वा॒वृ॒धा॒नस्तवि॑षी॒र्यस्य॑ पू॒र्वीर्द्यौर्न क्ष॒त्रम॒भिभू॑ति॒ पुष्या॑त् ।। ४७ ।।
उ० आयातु षट् त्रिष्टुभः । ऐन्द्रस्य पशोर्वपापुरोडाशपशूनां याज्यानुवाक्याः । आयातु आगच्छतु इन्द्रः । अवसे अवनाय तर्पणाय रक्षणाय वा । उप नः समीपेऽस्माकम् आगच्छतु । ततश्च इहास्माभिः स्तुतः सधमात् सहमदनः सहभोजनः अस्तु । शूरो विक्रान्तः । वावृधानः वर्धमानः स्वबलैः । तविषीर्यस्य पूर्वीः द्यौर्न । तविषीति बलनाम । तवतेर्वृद्धिकर्मणः । यस्येन्द्रस्य बलानि पूर्वाणि वृत्रवधादीनि बलानि द्यौरिवोच्चैः कथ्यन्ते । यश्चास्मदीयं क्षत्रम् । अभिभूति अभिभवितृ अभिभवनशीलमपि पुष्यात् पुष्णाति स आयात्विति संबन्धः ॥ ४७ ॥
म० 'याज्यानुवाक्याश्च' (का० १९ । ६।१३। ) वपापुरोडाशपशुयागानां याज्यानुवाक्याः आयात्विन्द्र (४७) इति वपायाः पुरोनुवाक्या, आ न इन्द्रो दूरात् (४८) इति याज्या, आ न इन्द्रो हरिभिः (४९) इति पशुपुरोडाशस्य पुरोऽनुवाक्या, त्रातारमिन्द्रं (५०) इति याज्या, इन्द्रः सुत्रामा (५१) इति पशुयागे पुरोऽनुवाक्या, तस्य वयम् (५२) इति याज्येति सूत्रार्थः । सप्त त्रिष्टुभ इन्द्रदेवत्याः । इन्द्रो नोऽस्मानवसे अवितुं रक्षितुमुप आयातु समीपमागच्छतु । तुमर्थेऽवतेरसेन्प्रत्ययः । इहायातः सन् । सधमात् अस्तु सह देवैः सार्धं मादयति तृप्यतीति सहमात् सहभोजनकर्तास्तु । मादयतेः क्विप् । कीदृश इन्द्रः । शूरः विक्रान्तः । स्तुतोऽस्माभिः । | वावृधानः वर्धमानः । यस्येन्द्रस्य पूर्वीः तविषीः पूर्वाः तविष्यः पूर्वाणि कृतानि बलानि वृत्रवधादयः पराक्रमाः द्यौर्न स्वर्ग इव कथ्यन्ते । स्वर्गो यथा स्तूयते तथा यस्येन्द्रस्य बलानि स्तूयन्ते । तविषीति बलनाम 'तवतेर्वृद्धिकर्मणः' (निरु० ९। २५) इति यास्कः । यश्चेन्द्रः क्षत्रमस्मदीयं पुष्यात् पुष्यति 'लेटोऽडाटौ' । कीदृशं क्षत्रम् । अभिभूति अभिभवनशीलं शूरम् । स इन्द्र आयात्विति संबन्धः ॥ ४७ ॥

अष्टचत्वारिंशी।
आ न॒ इन्द्रो॑ दू॒रादा न॑ आ॒साद॑भिष्टि॒कृदव॑से यासदु॒ग्रः ।
ओजि॑ष्ठेभिर्नृ॒पति॒र्वज्र॑बाहुः स॒ङ्गे स॒मत्सु॑ तु॒र्वणि॑: पृत॒न्यून् ।। ४८ ।।
उ० आ न इन्द्रः आउपसर्गो यासदित्यत्र संबध्यते । आयासत् आयातु नः अस्माकम् इन्द्रः दूरात् द्युलोकादेः । | आ न आसात् । आयासच्च अस्माकम् । आसादित्यन्तिकनाम । आगच्छतु चास्माकं समीपात् । यद्यपि दूरे यद्यप्यन्तिक इत्यर्थः । अभिष्टिकृत् अभिलषितपदार्थकारी । अवसे अवनाय अन्नाय वा । उग्रः अतिविषमः । एत्य च । ओजिष्ठेभिः ओजस्वितमैः बलैरुपेतः । नृपतिः वज्रबाहुः सङ्गे संग्रामे । समत्सु । एतदपि संग्रामनाम । एकस्मिन्संग्रामे बहुषु च युगपदुपस्थितेषु । तुर्वणिः तूर्णवनिः तूर्णसंभक्ता । पृतन्यून् संग्रामयतः शत्रून् ॥ ४८॥
म० इन्द्रो नोऽस्माकं दूराद्दूरप्रदेशात् द्युलोकादेरपि आयासत् आयातु । यातेः 'लेटोऽडाटौ' (पा० ३ । ४ । ९४) इति अटि कृते 'सिब्बहुलं लेटि' (पा० ३।१।३४) इति सिप्प्रत्ययः । आसान्निकटप्रदेशादपि आयासत् । आसादित्यन्तिकनाम । दूरात्समीपाच्चागच्छत्वित्यर्थः । किं कर्तुम् । अवसे अवितुमस्माकं रक्षणं कर्तुम् । कीदृश इन्द्रः । अभिष्टिकृत् अभिष्टिमभिलाषं करोतीत्यभिष्टिकृत् मनोरथप्रदः । उग्रः उत्कृष्टः । ओजिष्ठेभिः तेजस्वितमैर्बलयुक्त इति शेषः । ओजो विद्यते येषां ते ओजस्विनः अत्यन्तमोजस्विन ओजिष्ठाः। विन्मतोर्लुक् तैः । नृपतिः नृणां पालकः । वज्रबाहुः वज्रं बाहौ यस्य सः । तथा सङ्गे समत्सु सङ्गः समदिति द्वे संग्रामनामनी । सङ्गे एकस्मिन् संग्रामे समत्सु बहुष्वपि संग्रामेषु युगपदुत्थितेषु सत्सु पृतन्यून् शत्रून् तुर्वणिः 'तुर्व हिंसायां' तुर्वतीति तुर्वणिः हन्ता । पृतनामिच्छन्ति पृतन्यन्ति 'सुप आत्मनः क्यच्' (३।१।८) इति क्यचि परे 'कव्यध्वर-' (पा० ७।४ । ३९) इत्यलोपः । ततः 'क्याच्छन्दसि' (पा० ३।२।१७०) इति उप्रत्ययः । संग्रामेच्छूनां हन्तेत्यर्थः ॥४८॥

एकोनपञ्चाशी।
आ न॒ इन्द्रो॒ हरि॑भिर्या॒त्वच्छा॑र्वाची॒नोऽव॑से॒ राध॑से च ।
तिष्ठा॑ति व॒ज्री म॒घवा॑ विर॒प्शीमं य॒ज्ञमनु॑ नो॒ वाज॑सातौ ।। ४९ ।।
उ० आ न इन्द्रः । आयातु नः अस्मानभि इन्द्रः । हरिभिः हरितवर्णैः अच्छ । अच्छाभेरर्थे । सचास्मानेत्य । अर्वाचीनः अर्वागञ्चनः अवसे अन्नाय राधसे धनाय च दानार्थम् । एत्य च तिष्ठाति तिष्ठतु वज्री मघवान् धनवान् । विरप्शी विरमणशीलः । इमं यज्ञम् अनु प्रति । नः अस्माकम् वाजसातौ अन्नसंभजने निमित्तभूते ॥ ४९ ॥
म० अच्छाभेरर्थे । इन्द्रोऽर्वाचीनोऽभिमुखः सन् नोऽस्मानच्छ अस्मानभि आयातु । कैः हरिभिरश्वैः । किमर्थम् । अवसे अवनमवः असुन् तस्मै रक्षणाय राधसे धनाय च । आगत्य च वज्री इन्द्रो नोऽस्माकमिमं यज्ञमनु प्रति वाजसातौ अन्नसंभजने निमित्ते तिष्ठति तिष्ठतु लेट् । कीदृशः । मघवा मघं धनमस्यास्तीति धनवान् । विरप्शी विविधं रपति लपतीति विरप्शी महान् ॥ ४९ ॥

पञ्चाशी।
त्रा॒तार॒मिन्द्र॑मवि॒तार॒मिन्द्र॒ᳪं᳭ हवे॑ हवे सु॒हव॒ᳪं᳭ शूर॒मिन्द्र॑म् ।
ह्वया॑मि श॒क्रं पु॑रुहू॒तमिन्द्र॑ᳪं᳭ स्व॒स्ति नो॑ म॒घवा॑ धा॒त्विन्द्र॑: ।। ५० ।।
उ० त्रातारमिन्द्रम् । त्रातारं रक्षितारम् इन्द्रं यतः कथयन्ति । अवितारं च यतः इन्द्रं कथयन्ति । हवेहवे सुहवम् । आह्वाने आह्वाने शोभनाह्वानमिन्द्रं यतः कथयन्ति । शूरं विक्रान्तमिन्द्रं यतः कथयन्ति जनाः । अतः ह्वयामि शक्रं शक्तम् इन्द्रं तमहम् । पुरुहूतं बहुभिराहूतम् । सचाहुतः सन् । स्वस्ति नः अविनाशमस्माकम् मघवा धनवान् धातु दधातु इन्द्रः ॥ ५० ॥
म. गर्गदृष्टा । त्रातारं रक्षितारमिन्द्रम् । अवितारं प्रीणयितारमिन्द्रम् । हवे हवे आह्वाने आह्वाने यज्ञे वा । सुहवं सुखेन हूयते आहूयत इति सुहवम् शूरम् । शक्रम् शक्नोतीति शक्रस्तं समर्थम् । पुरुहूतं पुरुभिर्बहुभिर्हूयते पुरुहूतस्तं बहुभिराहूतम् । ईदृशमिन्द्रं ह्वयामि आह्वयामि । मघवा धनवानिन्द्र आहूतः सन्नोऽस्माकं स्वस्ति अविनाशं धातु दधातु करोतु । विकरणव्यत्ययः । इन्द्रशब्दावृत्तिरादरार्था ॥ ५० ॥

एकपञ्चाशी।
इन्द्र॑: सु॒त्रामा॒ स्ववाँ॒२ अवो॑भिः सुमृडी॒को भ॑वतु वि॒श्ववे॑दाः ।
बाध॑तां॒ द्वेषो॒ अभ॑यं कृणोतु सु॒वीर्य॑स्य॒ पत॑यः स्याम ।। ५१ ।।
उ० इन्द्रः सुत्रामा इन्द्रः साधुत्राणः स्ववान् धनवान् । अवोभिः अन्नैः सुमृडीकः शोभनसुखकारी भवतु । विश्ववेदाः सर्वधनः । किंच बाधताम् अपगमयतु द्वेषः दौर्भाग्यम् । अभयं कृणोतु करोतु । त्वत्प्रसादाच्च सुवीर्यस्य धनस्य पतयः स्याम ॥ ५१ ॥
म० इन्द्रः अवोभिरन्नैः सुमृडीकः शोभनसुखकारी भवतु । शोभनं मृडीकं सुखं यस्मात्स सुमृडीकः । कीदृश इन्द्रः । सुत्रामा सुष्ठु त्रायते रक्षति सुत्रामा 'आतो मनिन्-' (पा० | ३ । २ । ७४) इति मनिन् । स्ववान् स्वं धनमस्यास्तीति स्ववान् । 'आतोऽटि नित्यम्' (पा. ८।३।३) इत्यनुनासिकत्वम् । 'दीर्घादटि समानपादे' (पा० ८ । ३ । ९) इति नस्य रुः । विश्ववेदाः विश्वं सर्वं वेदो धनं यस्य सः । स चेन्द्रो द्वेषः दौर्भाग्यं बाधतां निवर्तयतु । अभयं च कृणोतु करोतु । किंच इन्द्रप्रसादाद्वयं सुवीर्यस्य धनस्य पतयः स्वामिनः स्याम भवेम । शोभनाश्च ते वीराश्च सुवीराः पुत्रादयः तेभ्यो हितं सुवीर्यं तस्य ॥५१॥

द्विपञ्चाशी।
तस्य॑ व॒यᳪं᳭ सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ॑मन॒से स्या॑म ।
स सु॒त्रामा॒ स्ववाँ॒२ इन्द्रो॑ अ॒स्मे आ॒राच्चि॒द् द्वेष॑: सनु॒तर्यु॑योतु ।। ५२ ।।
उ० तस्य वयम् । तस्येन्द्रस्य सुत्राम्णः वयं सुमतौ कल्याणमतौ स्याम । यज्ञियस्य यज्ञसंपादिनः । अपि किंच । भद्रे भन्दनीये सौमनसे कल्याणमनसि स्याम वयम् । ततोऽनुग्राह्यबुद्धौ वर्तमानानामस्माकम् । स सुत्रामा शोभनत्राणः । स्ववान् धनवान् इन्द्रः अस्मे अस्मत्तः आराच्चित् दूरादपि द्वेषः दौर्भाग्यम् तत्र वर्तमानम् । सनुतरिति निर्णीतान्तर्हितनाम । अन्तर्हितं कृत्वा युयोतु । यद्वा दूरे वर्तमानं प्रकटं कृत्वा युयोतु पृथक्करोतु ॥ ५२ ॥
म० वयं तस्येन्द्रस्य सुमतौ शोभनबुद्धौ स्याम भवेम । भद्रे कल्याणरूपे । सौमनसे सुमनसो भावे शोभनमनस्कत्वेऽपि स्याम । इन्द्रोऽस्मासु सुमतिं मनश्च भद्रं करोत्वित्यर्थः । कीदृशस्येन्द्रस्य । यज्ञियस्य यज्ञाय हितो यज्ञियस्तस्य यज्ञसंपादिनः । सुत्रामा सुरक्षकः स्ववान् धनवान् स इन्द्रः अस्मे अस्मत्तः आराच्चित् दूरादपि वर्तमानं द्वेषो दौर्भाग्यं सनुतरन्तर्हितं कृत्वा युयोतु पृथक्करोतु । विकरणव्यत्ययः । सनुतरिति निर्णीतान्तर्हितनाम ॥ ५२ ॥

त्रिपञ्चाशी।
आ म॒न्द्रैरि॑न्द्र॒ हरि॑भिर्या॒हि म॒यूर॑रोमभिः ।
मा त्वा॒ के चि॒न्नि य॑म॒न् विं ना पा॒शिनोऽति॒ धन्वे॑व॒ ताँ२ इ॑हि ।। ५३ ।।
उ० आ मन्द्रैः बृहत्यैन्द्री। आयाहि मन्द्रः मन्दनीयैः हे इन्द्र । हरिभिः हरिद्वर्णैः अश्वैः। मयूररोमभिः बभ्रवो ह्यश्वाः । किंच मा त्वा केचिन्नियमन् विं न पाशिनः । मा च त्वामागच्छन्तं केचिन्नियमन्निबध्नन्तु । कथमिव । विरिति शकुनिनाम। शकुनिमिव पाशिनः पाशप्रतिबन्धका आखेटकिनः । अथ केचित्परिपन्थिनो भवेयुः । अतिधन्वेव तान् इहि । अतीत्य तान् इहि आगच्छ। कथमिव। धन्व इव । यथा धन्व निरुदकदेशं परित्यज्य अन्यतममागच्छेयुः एवमागच्छेति ५३
म० विश्वामित्रदृष्टा वृहती । तृतीयो द्वादशार्णोऽन्ये त्रयोऽष्टार्णाः । आ मन्द्रैः एवेत् अनयोर्विनियोगाभावः । हे इन्द्र, त्वं हरिभिः अश्वैः आयाहि । कीदृशैः । मन्द्रैः गम्भीरनादैः मयूररोमभिः मयूरस्येव रोमाणि येषां ते मयूररोमाणस्तैः मयूरसमवर्णैः । किंच केचित् दुष्टा आगच्छन्तं त्वा त्वां मा नियमन् नियच्छन्तु मा निबध्नन्तु । तत्र दृष्टान्तः । पाशिनः पाशहस्ता व्याधाः विं पक्षिणमिव । यथा पाशिनः पक्षिणं बध्नन्ति तथा त्वां मा बध्नन्तु । अथ ये परिपन्थिनो भवेयुस्तानतीहि अतिक्रम्यागच्छ । किमिव । धन्व इव । धन्व निरुदकदेशः । यथा पान्थो मरुदेशमतिक्रम्य गच्छति तथा गच्छ ॥ ५३॥

चतुःपञ्चाशी।
ए॒वेदिन्द्रं॒ वृष॑णं॒ वज्र॑बाहुं॒ वसि॑ष्ठासो अ॒भ्य॒र्चन्त्य॒र्कैः ।
स न॑: स्तु॒तो वी॒रव॑द्धातु॒ गोम॑द्यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ।। ५४ ।।
उ० एवेत् । ऐन्द्री त्रिष्टुप् यमेवमनेन प्रकारेण । इत् पादपूरणः । इन्दं वृषणं वर्षितारं वज्रबाहुं वसिष्ठासः वसिष्ठस्यापत्यानि बहूनि । यद्वा वस्तृतमा ऋषयः । अभ्यर्चन्ति अभिष्टुवन्ति अर्कैः मन्त्रैः । स नः सोऽस्मभ्यम् स्तुतः वीरवत् साधुपुत्रसंयुक्तम् धातु ददातु धनम् । गोमच्च गोसंयुक्तम् । एवं त्रिभिः पादैरिन्द्रमभिष्टुत्य अथेदानीं ये याजयन्ति तानाह । यूयं पात पालयत स्वस्तिभिरविनाशैः सदाकालं नोऽस्मान् ॥ ५४॥
म० वसिष्ठदृष्टा इन्द्रदेवत्या त्रिष्टुप् । वसिष्ठाः वसिष्ठापत्यानि मुनयः अर्कैर्मन्त्रैः एव इत् एवमेव इन्द्रमभ्यर्चन्ति पूजयन्ति । कीदृशमिन्द्रम् । वृषणं वर्षितारम् । वज्रबाहुं वजं बाहौ यस्य तम् । स इन्द्रः स्तुतः सन् वीरवत् वीरा विद्यन्ते यत्र तत् पुत्रयुक्तम् । गोमत् गावो विद्यन्ते यत्र तत् गोसंयुक्तं धनम् नोऽस्मभ्यं धातु दधातु । विकरणव्यत्ययः । एवं पादत्रयेणेन्द्रं स्तुत्वा ऋत्विज आह । हे ऋत्विजः, यूयं स्वस्तिभिः | अविनाशैः सदा सर्वदा नोऽस्मान् पात रक्षत ॥ ५४॥

पञ्चपञ्चाशी।
समि॑द्धो अ॒ग्निर॑श्विना त॒प्तो घ॒र्मो वि॒राट् सु॒तः ।
दु॒हे धे॒नुः सर॑स्वती॒ सोम॑ᳪं᳭ शु॒क्रमि॒हेन्द्रि॒यम् ।। ५५ ।।
उ० इतउत्तरं त्रिपशुः आअध्यायात् तत्र द्वादशानुष्टुभोऽश्विसरस्वतीन्द्रदेवत्याः । समिद्धः संदीप्तोऽग्निः हविःक्षपणसमर्थः । हे अश्विनौ । किंच तप्तो घर्मः प्रवर्ग्यः विराट् च सोमोऽभिषुतः । किंच दुहे प्रपूरयति च धेनुः सरस्वती। सोमं शुक्रं शुक्लम् इह इन्द्रियं वीर्यम् ॥ ५५ ॥
म० 'आप्रियश्च समिद्धो अग्निरश्विनेति' (का० १९ । ६ । १५)। समिद्ध इत्याद्या द्वादशानुष्टुभः चकारात्त्रिपशोः प्रयाजयाज्याः इति सूत्रार्थः । विदर्भिदृष्टा अश्विसरस्वतीन्द्रदेवत्या आप्रीसंज्ञा द्वादशानुष्टुभः । अश्विनावध्वर्यू देवानामिति तौ प्रति होता प्राह । हे अश्विना अश्विनौ, अग्निः समिद्धो दीप्तोऽस्ति हविर्दहनक्षमोऽस्ति । घर्मः प्रवर्ग्यः तप्तोऽस्ति । विराट् विविधं राजमानः सोमः सुतोऽभिषुतः । किंच धिनोति प्रीणाति धेनुः । औणादिको नुप्रत्ययो धिवेः वलोपो गुणश्च । प्रीणयित्री सरस्वती इह यज्ञे सोमं दुग्धे 'दुह प्रपूरणे' लटि तङि प्रथमैकवचने टेरेत्वे 'लोपस्त आत्मनेपदेषु' (पा० ७।१। ४१) इति तलोपे दुहे इति रूपम् । कीदृशं सोमम् । शुक्रं शुक्लं शुद्धम् इन्द्रियमिन्द्राय हितं बलकरम् । एतावता यज्ञसंपत्तिरस्ति । युवामागच्छतमिति भावः ॥ ५५ ॥

षट्पञ्चाशी।
त॒नू॒पा भि॒षजा॑ सु॒तेऽश्विनो॒भा सर॑स्वती ।
मध्वा॒ रजा॑ᳪं᳭सीन्द्रि॒यमिन्द्रा॑य प॒थिभि॑र्वहान् ।। ५६ ।।
उ० अश्विनावध्वर्यू तयोर्होता कथयति यज्ञसंपत्तिम् । | तनूपा भिषजा तनूनां पातारौ भिषजौ च । सुते सोमे अश्विनावुभौ सरस्वती च मध्वा रसेन रजांसि पूरयत्विन्द्रोपभोगाय । लोका रजांस्युच्यन्ते इतीह लोकवचनो रजश्शब्दः । इन्द्रियं वीर्यम् इन्द्राप्यायनार्थम् पथिभिर्मार्गैर्वहान्वहन्तु ॥ ५६ ॥
म० उभा अश्विना उभौ अश्विनौ सरस्वती मध्वा मधुना रजांसि लोकान् दुहन्ति पूरयन्ति । पूर्वर्चो दुहे इतस्य वचनव्यत्ययेनेहानुषङ्गः । 'लोका रजांस्युच्यन्ते' (निरु० ४ । १९) इति यास्कोक्तेः रजःशब्दोऽत्र लोकवाची । कीदृशावश्विनौ । तनूपा तनूः शरीराणि पातस्तौ तनूपौ शरीराणां रक्षितारौ। भिषजा भिषजौ वैद्यौ । क्व सति । सुते सोमेऽभिषुते सति पूरयन्तीत्यर्थः । किंच अश्विसरस्वत्य इन्द्राय इन्द्रियं वीर्यं पथिभिर्यज्ञमार्गैः वहान् वहन्ति । 'इतश्च लोपः परस्मैपदेषु' (पा० ३ । ४ । ९७) इतीकारलोपे वहानिति रूपम् ॥ ५६ ॥

सप्तपश्चाशी।
इन्द्रा॒येन्दु॒ᳪं᳭ सर॑स्वती॒ नरा॒शᳪं᳭से॑न न॒ग्नहु॑म् ।
अधा॑ताम॒श्विना॒ मधु॑ भेष॒जं भि॒षजा॑ सु॒ते ।। ५७ ।।
उ० इन्द्रायेन्दुम् । इन्द्रार्थमिन्दुं सोमं सरस्वती अभिषुणोदिति वाक्यपरिपूर्तिः । नराशंसेन यज्ञेन सहिता नग्नहुम् । किंच अधातां सुरायाम् अश्विनौ मधु रसरूपं भेषजरूपं च । भिषजौ वैद्यौ सुते सोमेन्द्रायेत्यनुषङ्गो विभक्तिव्यत्ययेन ॥ ५७ ॥
म० सरस्वती नराशंसेन यज्ञेन सह इन्द्राय इन्द्रार्थमिन्दुं सोमं नग्नहुं सुराकन्दं च पूर्वोक्तमधात् धृतवती । किंच भिषजा अश्विना भिषजौ अश्विनौ सुते सोमेऽभिषुते सति मधु मधुरं भेषजमौषधमधातां धारितवन्तौ । अधातामित्येव क्रिया वचनव्यत्ययेन पूर्वार्धे योज्या ॥ ५७ ॥

अष्टपश्चाशी।
आ॒जुह्वा॑ना॒ सर॑स्व॒तीन्द्रा॑येन्द्रि॒याणि॑ वी॒र्य॒म् ।
इडा॑भिर॒श्विना॒विष॒ᳪं᳭ समूर्ज॒ᳪं᳭ सᳪं᳭ र॒यिं द॑धुः ।। ५८ ।।
उ० आजुह्वाना आह्वयन्ती सरस्वती इन्द्रायेन्द्रियाणि चक्षुःप्रभृतीनि वीर्यं च वीरकर्म । इडाभिर्यज्ञियाभिर्हेतुभूताभिः । अश्विनौ च सहायभूतावुपादाय संदधुः । इषं चान्नं च संदधुः । ऊर्जं तदुपसेचनं च दध्यादि संदधुः संदधुश्च रयिं धनम् ॥ ५८॥
म०. आहूयते आजुह्वाना अर्थादिन्द्रमाह्वयन्ती सरस्वती अश्विना चेन्द्राय इन्द्रियाणि चक्षुरादीनि संदधुः । वीर्यं सामर्थ्यं च दधुः । इडाभिः पशुभिः सह इषमन्नं संदधुः । 'पशवो वा इडा' (१।८।१ । १२) इति श्रुतिः । ऊर्जं दध्यादि रयिं धनं च संदधुः । एतानि ददुरित्यर्थः ॥ ५८॥

एकोनषष्टी।
अ॒श्विना॒ नमु॑चेः सु॒तᳪं᳭ सोम॑ᳪं᳭ शु॒क्रं प॑रि॒स्रुता॑ ।
सर॑स्वती॒ तमाऽभ॑रद्ब॒र्हिषेन्द्रा॑य॒ पात॑वे ।। ५९ ।।
उ० अश्विना नमुचेः । यमश्विनौ नमुचेराहृत्य सुतमभिषुतं सोमं शुक्रम् अमलिनम् परिसुता सहितं स्थापितवन्तौ । सरस्वती तमेवाहरत् बर्हिषास्तरणार्थेन सहिता । इन्द्राय पातवे इन्द्रपानार्थम् ॥ ५९॥
म० अश्विना अश्विनौ परिस्रुता सुरया सह सुतमभिषुतं शुक्रं शुद्धममलिनं सोमं नमुचेः असुरात्सकाशात् आहरताम् । सरस्वती च तमेव सोमं बर्हिषास्तरणार्थेन सह आभरत् आहरत् । किमर्थम् । इन्द्राय पातवे इन्द्रस्य पानार्थम् । तुमर्थे तवेप्रत्ययः ॥ ५९॥

षष्टी।
क॒व॒ष्यो न॒ व्यच॑स्वतीर॒श्विभ्यां॒ न दुरो॒ दिश॑: ।
इन्द्रो॒ न रोद॑सी उ॒भे दु॒हे का॒मान्त्सर॑स्वती ।। ६० ।।
उ०. कवष्यो न यज्ञगृहद्वार उच्यते । कवष्यो न 'कुष निष्कर्षे' । समुच्चयार्थीयो नकारः । अस्यामृचि ससुषिराश्च व्यञ्जनवत्यश्च अश्विभ्यां न अश्विभ्यां चाध्वर्युभ्यां सहिताः दुरः द्वारदिशः । द्वार्भिर्दिशो लक्ष्यन्त्य इत्यत एवमुक्तम् । इन्द्रो न इन्द्रश्च यासु द्वास्सु व्यवस्थितः । रोदसी द्यावापृथिव्यौ उभे अपि दुहे दोग्धि । कामांश्च सरस्वती दुहे । इन्द्रायायाताय यज्ञगृहद्वार इन्द्रं कुर्वन्निति शेषः ॥ ६० ॥
म० अस्यामृचि त्रयो नकाराश्चकारार्थाः । अश्विभ्यां सहिता सरस्वती इन्द्रो न इन्द्रश्च उभे रोदसी द्यावापृथिव्यौ कामान् दुहे दुग्धे । द्विकर्मकः द्यावापृथिवीभ्यां सकाशात्कामान् दोग्धि दुरो दिशश्च सकाशात् दोग्धि । 'अकथितं च' (पा० १ । ४ । ५१) इति द्वारां दिशां रोदसोश्च कर्मत्वम् । कीदृश्यो द्वारः । कवष्यः 'कुष निष्कर्षे' । कुषिताः सच्छिद्राः । तथा व्यचस्वतीः व्यचनं व्यचोऽवकाशः तद्वत्यः ॥६०॥

एकषष्टी।
उ॒षासा॒नक्त॑मश्विना॒ दिवेन्द्र॑ᳪं᳭ सा॒यमि॑न्द्रियैः ।
स॒ञ्जा॒ना॒ने सु॒पेश॑सा॒ सम॑ञ्जाते॒ सर॑स्वत्या ।। ६१ ।।
उ० उषासानक्तम् । उषा आदित्यप्रभा । नक्तं रात्रिः। हे अश्विनौ, उषाश्च रात्रिश्च दिवा अहनि च इन्द्रम् इन्द्रियैर्वीर्यैः समञ्जाते संश्लक्षयतः सायं च इन्द्रियैः समञ्जाते । सातत्याभिप्रायम् । संजानाने एकमतीभूते उषाश्च रात्रिश्च सुपेशसा सुरूपे शुक्लेन उषाः कृष्णेन रात्रिः । किमिन्द्रमुषाश्च रात्रिश्च केवले एव समञ्जाते । नेत्याह । सरस्वत्या च सह समञ्जाते ॥ ६१ ॥
म० हे अश्विनौ, उषासा रविप्रभा नक्तं रात्रिश्च सरस्वत्या सह दिवा दिवसे सायंकाले च इन्द्रमिन्द्रियैः वीर्यैः सह समञ्जाते संयोजयतः । कीदृश्यौ ते। संजानाने संजानीतः ते संजानाने एकमती । सुपेशसा शोभनं पेशो रूपं ययोस्ते । शुक्ला उषाः कृष्णा रात्रिः ॥ ६१॥

द्विषष्टी।
पा॒तं नो॑ अश्विना॒ दिवा॑ पा॒हि नक्त॑ᳪं᳭ सरस्वति ।
दैव्या॑ होतारा भिषजा पा॒तमिन्द्र॒ᳪं᳭ सचा॑ सु॒ते ।। ६२ ।।
उ० पातं नः पालयतं नोऽस्मान् हे अश्विनौ दिवा अहनि । पाहि पालय च नक्तं हे सरस्वति । युवां च हे देव्यौ, होतारौ भिषजौ, पातं पालयतम् । इन्द्रम् सचा सहेत्यर्थः । सुते सोमे ॥ ६२ ॥
म०. हे अश्विना अश्विनौ, दिवा दिवसे नोऽस्मान् युवां पातं रक्षतम् । हे सरस्वति, नक्तं रात्रौ त्वं नः पाहि रक्ष । हे दैव्या होतारा देवसंबन्धिनौ होतारौ, भिषजा भिषजौ अश्विनौ सुते सोमेऽभिषुते सति सचा सह एकीभूय युवमिन्द्रं पातं रक्षतम् । सर्वत्र विभक्तेराकारः ॥ ६२॥

त्रिषष्टी।
ति॒स्रस्त्रे॒धा सर॑स्वत्य॒श्विना॒ भार॒तीडा॑ । ती॒व्रं प॑रि॒स्रुता॒ सोम॒मिन्द्रा॑य सुषुवु॒र्मद॑म् ।। ६३ ।।
उ० तिस्रस्त्रेधा । तिस्रो देव्यः सरस्वती च मध्यस्थाना । भारती आदित्यप्रभा द्युस्थाना । इडा पृथिवीस्थाना । एतास्त्रिषु स्थानेषु स्थिताः । अश्विनौ च । तीव्रं पटुतमं परिस्रुता सहितं सोमम् । इन्द्राय सुषुवुः अभिषुतवन्तः । मदं तर्पणम् ॥ ६३॥
म० तिस्रो देव्यः अश्विना अश्विनौ च परिस्रुता सुरया सह सोममिन्द्राय सुषुवुरभिषुतवन्तः । काः तिस्रः । सरस्वती भारती इडा च । कीदृश्यः । त्रेधा स्थिता इति शेषः । सरस्वती मध्यस्थाना भारती द्युस्थाना इडा पृथिवीस्थाना । कीदृशं सोमम् । तीव्रं पटुत्वकरम् । मदं मदजनकम् ॥ ६३ ॥

चतुःषष्टी।
अ॒श्विना॑ भेष॒जं मधु॑ भेष॒जं न॒: सर॑स्वती ।
इन्द्रे॒ त्वष्टा॒ यश॒: श्रिय॑ᳪं᳭ रू॒पᳪं᳭-रू॑पमधुः सु॒ते ।। ६४ ।।
उ०. अश्विना भेषजं मधु । अधुः एतदाख्यातं तस्यादधुरिति परिणामः । के अदधुः । अश्विनौ सरस्वती त्वष्टा च प्रयाजदेवताः । किमदधुः । अश्विनौ तावद्भेषजं मधुरूपं भेषजम् । नः अस्मत्संबन्धिनी सरस्वती । त्वष्टा च यशः श्रियं रूपं च । कस्मिन्नदधुः । इन्द्रे । कस्मिन्नवसरे। सुतेऽभिषुते सोमे ॥ ६४ ॥
म० अश्विना नोऽस्माकं सरस्वती त्वष्टा प्रयाजदेवता च सुते सोमेऽभिषुते सति इन्द्रे एतानि वस्तूनि अधुः स्थापयामासुः । दधातेर्लुङ् । कानीत्यत आह । भेषजमौषधं मधु मधुरूपं भेषजं च यशः कीर्तिं श्रियं लक्ष्मीं रूपं रूपं नानाविधं रूपं च । 'नित्यवीप्सयोः' (पा. ८।१।४) इति रूपशब्दस्य द्वित्वम् ॥ ६४ ॥

पञ्चषष्टी।
ऋ॒तु॒थेन्द्रो॒ वन॒स्पति॑: शशमा॒नः प॑रि॒स्रुता॑ ।
की॒लाल॑म॒श्विभ्यां॒ मधु॑ दु॒हे धे॒नुः सर॑स्वती ।। ६५ ।।
उ० ऋतुथेन्द्रः । ऋतावृतौ कालेकाले इन्द्रायेति विभक्तिव्यत्ययः । वनस्पतिः शशमानः संशममानः स्तुवन् परिस्रुता साधनभूतया । कीलालमन्नरसम् दुहे इत्यनुषङ्गः । अश्विभ्यां च सहिता । दुहे दोग्धि धेनुर्भूत्वा सरस्वती ॥ ६५॥
म० वनस्पतिः प्रयाजदेवः शशमानः स्तुवन् सन् ऋतुथा ऋतौ ऋतौ काले काले परिस्रुता सुरया सह कीलालमन्नरसमिन्द्रः इन्द्राय इन्द्रार्थं दुहे दुग्धे । 'सुपां सुलुक्' (पा० | ७।१।३९) इत्यादिना चतुर्थ्येकवचनस्य सुआदेशे इन्द्र इति 'लोपस्त आत्मनेपदेषु' (पा० ७ । । । ४१) इति तलोपे दुहे इति रूपम् । किंच सरस्वती अश्विभ्यां सहिता धेनुर्भूत्वा इन्द्राय मधु दुहे दुग्धे ॥ ६५ ॥

षट्षष्टी।
गोभि॒र्न सोम॑मश्विना॒ मास॑रेण परि॒स्रुता॑ ।
सम॑धात॒ᳪं᳭ सर॑स्वत्या॒ स्वाहेन्द्रे॑ सु॒तं मधु॑ ।। ६६ ।।
उ० गोभिर्न । गोप्रभृतिश्च पशुभिः सोमं सहितं मासरेण परिस्रुता च । कथंभूतं । सुतं मधु अभिषुतं मधुस्वादं च । हे अश्विनौ, युवां समधातम् । कस्मिन्समधातम् । इन्द्रे । किं केवलावेवाश्विनौ समधातं नेत्याह । सरस्वत्या सह । स्वाहा स्वाहाकृतिभिः प्रयाजेन सार्धम् ॥ ६६ ॥
म० हे अश्विना अश्विनौ, मासरेण परिस्रुता सह गोभिर्न गोप्रभृतिपशुभिश्च सह । नश्चार्थे । सुतमभिषुतं सोमं मधु च इन्द्रे युवां समधातमारोपयतम् । संपूर्वाद्दधातेर्लुङि मध्यमद्विवचनम्। हे स्वाहाकृतयः प्रयाजदेवाः, यूयं सरस्वत्या सह इन्द्रे सुतं मधु समधातेति वचनव्यत्ययः ॥ ६६ ॥

सप्तषष्टी।
अ॒श्विना॑ ह॒विरि॑न्द्रि॒यं नमु॑चेर्धि॒या सर॑स्वती ।
आ शु॒क्रमा॑सु॒राद्वसु॑ म॒घमिन्द्रा॑य जभ्रिरे ।। ६७ ।।
उ०. अश्विना हविः । तिस्रो वपानां याज्यानुवाक्या अनुष्टुभः । एकैकाश्विसरस्वतीन्द्रदेवत्या । आजभ्रिरे इत्याख्यातपदे सर्वाणि पदानि संबध्यन्ते । अश्विनौ सरस्वती च आजभ्रिरे । हविरिन्द्रियं वीर्यं शुक्रममलिनम् । वसु धनं मघं महनीयम् । कुत आजभ्रिरे । नमुचेः आसुरात् । कया हेतुभूतया आजभ्रिरे । धिया बुद्ध्या । कस्मै आजभ्रिरे । इन्द्राय ।। ६७ ॥
म० अश्विना हविरिति तिस्रो वपानां याज्यानुवाक्याः प्रथमामनूच्य द्वितीया याज्या द्वितीयामनूच्य तृतीया याज्या तृतीयामनूच्य प्रथमा याज्या । अश्विनेत्याद्यास्तिस्रस्तिसृणां वपानां क्रमाद्याज्यापुरोनुवाक्याः । तत्प्रकारमाह । आश्विनवपायागे अश्विना (६७) इति अनुवाक्या यमश्विना (६८) इति याज्या, सारस्वतवपायागे यमश्विना (६८) इति अनुवाक्या तमिन्द्रम् ( ६९) इति याज्या, ऐन्द्रवपायागे तमिन्द्रम् (६९) इति अनुवाक्या अश्विना (६७) इति याज्येति सूत्रार्थः । अश्विसरस्वतीन्द्रदेवत्यास्तिस्रोऽनुष्टुभः । अश्विना अश्विनौ सरखती च धिया बुद्ध्या कृत्वा नमुचेर्नमुचिसंज्ञात् आसुरात् दैत्यात् इन्द्रायेन्द्रार्थमेतानि वस्तूनि आजभ्रिरे आजह्रिरे । कानीत्यत आह । हविः शुक्रं शुद्धममलिनं हविः इन्द्रियं वीर्यं मघं महनीयं वसु धनं च ॥ ६७ ॥

अष्टषष्टी।
यम॒श्विना॒ सर॑स्वती ह॒विषेन्द्र॒मव॑र्धयन् ।
स बि॑भेद ब॒लं म॒घं नमु॑चावासु॒रे सचा॑ ।। ६८ ।।
उ० यमश्विना । यमिन्द्रमश्विनौ सरस्वती च हविषा वर्धयन् । स बिभेद । 'भिदिर् विदारणे' विदारितवान् । बलं मघम् । वृणोतिर्बले । मघं महनीयम् । नमुचौ आसुरे सचा । सचा सहशब्दवचनः तद्योगाच्च विभक्तिव्यत्ययः । नमुचिना असुरेण सह बलं बिभेदेति ॥ ६८ ॥
म० अश्विनौ सरस्वती च हविषा कृत्वा यमिन्द्रमवर्धयन् । स इन्द्रो नमुचावासुरे सचा नमुचिना असुरेण सह मघं महनीयं बलं मघं बिभेद विदारितवान् । सचेत्यव्ययं सहार्थे । तद्योगे नमुचावासुरे इति तृतीयार्थे सप्तमी । 'वृणोतेर्बले' (निरु० ६ । २) इति यास्कः । नमुचिं विदार्य वृष्टिं कारितवानित्यर्थः ॥ ६८॥

एकोनसप्ततितमी।
तमिन्द्रं॑ प॒शव॒: सचा॒श्विनो॒भा सर॑स्वती ।
दधा॑ना अ॒भ्य॒नूषत ह॒विषा॑ य॒ज्ञ इ॑न्द्रि॒यैः ।। ६९ ।।
उ० तमिन्द्रं तमुक्तगुणमिन्द्रं पशवः कर्माङ्गभूताः गोमेषाजाः सचा सहभूताः । अश्विनौ उभौ सरस्वती च दधानाः धारयन्तः । अभ्यनूषत । नूषतिर्वृद्ध्यर्थः । अभिवर्धयन्ति । केन हविषा । कस्मिन् यज्ञे । इन्द्रियैर्वीर्यैः ॥ ६९ ॥
म० पशवः कर्माङ्गभूता गोमेषाजाः उभा अश्विना उभौ अश्विनौ सरस्वती च सचा सहभूताः सन्तः यज्ञे हविषा इन्द्रियैः वीर्यैश्च दधानाः पुष्णन्तः सन्तः तमिन्द्रमभ्यनूषत अवर्धयन् अस्तुवन् वा ‘णू स्तवने' ॥ ६९ ॥

सप्ततितमी।
य इन्द्र॑ इन्द्रि॒यं द॒धुः स॑वि॒ता वरु॑णो॒ भग॑: ।
स सु॒त्रामा॑ ह॒विष्प॑ति॒र्यज॑मानाय सश्चत ।। ७० ।।
उ० य इन्द्र । तिस्रोऽनुष्टुभः पशुपुरोडाशानां याज्यानुवाक्या इन्द्रसवितृवरुणदेवत्याः । सर्वाः ये इन्द्रे इन्द्रियं दधुः स्थापितवन्तः । सविता वरुणो भगः । भगशब्देनात्रेन्द्रो लक्ष्यते । ते यजमानेऽपि वीर्यं दधतीति वाक्यपरिपूर्तिः । स सुत्रामा यश्च सुत्रामा इन्द्रः हविष्पतिः हविषः स्वामी । यजमानमिति विभक्तिव्यत्ययः । सश्चत सचतामिति पुरुषवचनव्यत्ययः । एवमेते विषमा मन्त्रा लक्षणया व्याख्येयाः ॥ ७० ॥
म० 'य इन्द्र इति पुरोडाशानां पूर्ववत्' (का० १९ । ६।१८) य इन्द्र इति तिस्रस्त्रयाणां पशुपुरोडाशानां याज्यानुवाक्याः पूर्ववत्' य इन्द्रे (७०) सविता (७१) इत्यैन्द्रस्यानुवाक्यायाज्ये, सविता (७१) वरुणः क्षत्रम् (७२) इति सावित्रस्य ते । वरुणः क्षत्रम् (७२) य इन्द्रे (७०) इति वारुणस्येति सूत्रार्थः । प्रत्येकमिन्द्रसवितृवरुणदेवत्यास्तिस्रोऽनुष्टुभः । सविता वरुणो भग इति ये त्रयो देवाः इन्द्रे इन्द्रियं वीर्यं दधुः स्थापयामासुः । हविष्पतिः हविषां स्वामी सुत्रामा | शोभनत्राणकर इन्द्रो यजमानाय । कर्मणि चतुर्थी । यजमानं सश्चत सेवताम् । इष्टदानेन यजमानं सुखयत्वित्यर्थः । षच | सेवने' लोडर्थे लङ् । अडभाव आर्षः ॥ ७० ॥

एकसप्ततितमी।
स॒वि॒ता वरु॑णो दध॒द्यज॑मानाय दा॒शुषे॑ ।
आद॑त्त॒ नमु॑चे॒र्वसु॑ सु॒त्रामा॒ बल॑मिन्द्रि॒यम् ।। ७१ ।।
उ० सविता वरुणः द्वितीयोऽर्धर्चः प्रथमं व्याख्येयः । आदत्त जग्राह नमुचेः सकाशात् वसु धनं बलं चेन्द्रियं च । सुत्रामा इन्द्रः । तत् सवितृवरुणप्रभृतयः पशुपुरोडाशदेवताः दधत् दधातु । यजमानाय दाशुषे हवींषि दत्तवते ॥ ७१ ॥
म० सुत्रामा इन्द्रो नमुचेरसुरात्सकाशात् यद्वसु धनं बलमिन्द्रियं वीर्यं च आदत्त जग्राह । सविता वरुणो भगश्च पशुपुरोडाशमन्त्रदेवास्तत् नमुचेरानीतं वस्वादिकं यजमानाय दधत् दधातु । ददत्वित्यर्थः । कीदृशाय यजमानाय । दाशुषे दाशति ददातीति दाश्वान् तस्मै हवींषि दत्तवते 'दाश्वान्साह्वान्-' (पा. ६ । १ । १२) इत्यादिना क्वसन्तो निपातः ॥ ७१ ॥

द्विसप्ततितमी।
वरु॑णः क्ष॒त्रमि॑न्द्रि॒यं भगे॑न सवि॒ता श्रिय॑म् ।
सु॒त्रामा॒ यश॑सा॒ बलं॒ दधा॑ना य॒ज्ञमा॑शत ।। ७२ ।।
उ० वरुणः क्षत्रम् । वरुणः सविता च सुत्रामा च दधाना इन्द्रे यजमाने वा यज्ञं सौत्रामणीम् । आसत व्याप्तवन्तः । किंकि दधानाः । वरुणः क्षत्रमिन्द्रियं च । सविता भगेन धनेन सहितां श्रियम् । सुत्रामा यशसा बलम् ॥७२॥
म० वरुणः सविता सुत्रामा इन्द्रश्च यज्ञं सौत्रामणीमाशत भक्षितवन्तः व्याप्तवन्तो वा । 'अश भोजने' 'अशूङ् व्याप्तौ' वा । उभयोर्विकरणव्यत्ययः । कीदृशास्ते । क्षत्रं क्षतात् त्राण
सामर्थ्यमिन्द्रियं वीर्यं भगेन भाग्येन सह श्रियं लक्ष्मीं यशसा सह बलं च दधानाः यजमाने स्थापयन्तः । तत्र वरुणः क्षत्रमिन्द्रियं च दधाति सविता भगं प्रियं सुत्रामा यशो बलं चेति विभागः ॥७२॥

त्रिसप्ततितमी।
अ॒श्विना॒ गोभि॑रिन्द्रि॒यमश्वे॑भिर्वी॒र्यं बल॑म् ।
ह॒विषेन्द्र॒ᳪं᳭ सर॑स्वती॒ यज॑मानमवर्धयन् ।। ७३ ।।
उ० अश्विना गोभिः । तिस्रोऽनुष्टुभः । हविषां याज्यानुवाक्या अश्विसरस्वतीन्द्रदेवत्याः । अश्विनौ सरस्वती च गोभिः गोप्रभृतिभिः पशुभिः इन्द्रियम् । इन्द्रियेणेति विभक्तिव्यत्ययो वाक्यसंबन्धात् । अश्वेभिः अश्वदक्षिणाभिः । वीर्यं बलम् वीर्येण बलेन । हविषा पुरोडाशेन । इन्द्रं यजमानं च अवर्धयन् ॥ ७३ ॥
म० 'अश्विना गोभिरिति च हविषाम्' ( का० १९ । ६ । १९)। अश्विना गोभिरिति तिस्रो हविषां याज्यानुवाक्याः चात् पूर्ववत् अश्विना ( ७३ ) ता नासत्या ( ७४ ) इत्याश्विनपशुयागे पुरोऽनुवाक्यायाज्ये, ता नासत्या (७४) ता भिषजा (७५) इति सारस्वते, ता भिषजा (७५) अश्विना ( ७३ ) इत्यैन्द्रे इति सूत्रार्थः । अश्विसरस्वतीन्द्रदेवत्यास्तिस्रोऽनुष्टुभः । अश्विनौ सरस्वती च एतैः पदार्थैः इन्द्रं यजमानं चावर्धयन् । कैस्तत्राह । गोभिर्गोप्रभृतिपशुभिः इन्द्रियम् । विभक्तिव्यत्ययः। इन्द्रियेण इन्द्रियपाटवेन अश्वेभिः अश्वैः दक्षिणारूपैः वीर्यं बलं वीर्येण मनःसामर्थ्येन बलेन शरीरदार्ढ्येन हविषा पशुपुरोडाशेन च । इन्द्रस्य वर्धनं तृप्तिः यजमानस्य वर्धनं धनपुत्रपश्वादिपुष्टिः ॥ ७३ ॥

चतुःसप्ततितमी।
ता नास॑त्या सु॒पेश॑सा॒ हिर॑ण्यवर्तनी॒ नरा॑ ।
सर॑स्वती ह॒विष्म॒तीन्द्र॒ कर्म॑सु नोऽवत ।। ७४ ।।
उ० ता नासत्या तौ नासत्यौ न असत्यौ सत्यावेव । सुपेशसा सुरूपौ । हिरण्यवर्तनी हिरण्यदानोपलक्षितपन्थानौ । नरा नृगुणयुक्तौ नराकारौ वा । सरस्वती च हविष्मती हविषा संयुक्ता । एते त्रयः पादाः परोक्षकृताः । चतुर्थस्तु पादः प्रत्यक्षकृतः । अतो वाक्यभेदः । तौ नासत्यावुक्तगुणौ सरस्वती च कर्मसु वर्तमानान् नोऽस्मान् अवत अवन्विषकति पुरुषव्यत्ययः । ततो द्वितीयं वाक्यम् । इन्द्र कर्मसु नोऽवत । हे इन्द्र, त्वमपि कर्मसु वर्तमानान् नः अस्मान् अवत । अवेति वचनव्यत्ययः ॥ ७४ ॥
म० ता तौ नासत्या नासत्यौ अश्विनौ सरस्वती च कर्मसु सौत्रामण्यादियागेषु नोऽस्मानवत अवन्तु रक्षन्तु । पुरुषव्यत्ययः । हे इन्द्र, त्वमपि नोऽस्मान् कर्मसु अव । वचनव्यत्ययः । कीदृशौ नासत्यौ । हिरण्यवर्तनी हिरण्येनोपलक्षिता वर्तनिर्मार्गो ययोस्तौ । यत्र पथि गच्छतस्तत्र सुवर्णमेव संपद्यत इत्यर्थः । सुपेशसा शोभनं पेशो रूपं ययोस्तौ सुन्दरौ । | नरा नरौ नरगुणयुक्तौ नराकारौ च । कीदृशी सरस्वती । हविष्मती हविर्विद्यते यस्याः सा ॥ ७४ ॥

पञ्चसप्ततितमी।
ता भि॒षजा॑ सु॒कर्म॑णा॒ सा सु॒दुघा॒ सर॑स्वती ।
स वृ॑त्र॒हा श॒तक्र॑तु॒रिन्द्रा॑य दधुरिन्द्रि॒यम् ।। ७५ ।।
उ० तौ भिषजौ । सुकर्मणा कल्याणकर्माणौ । सा सुदुघा सुदोहना सरस्वती च । स च वृत्रहा शतक्रतुः बहुकर्मा इन्द्राय दधुः ददुः इन्द्रियं वीर्यम् । ननु स वृत्रहा शतक्रतुरिन्द्राय दधुरिन्द्रियमिति इन्द्र इन्द्राय ददातीत्येतन्नोपपद्यते । कल्पान्तरीण इन्द्र एतत्कल्पप्रभवाय ददातीत्यदोषः। विभवो वा देवा अचिन्त्यशक्तयः एकधा द्विधा बहुधा भवेयुः । एवमेवान्यत्र विरोधाः परिहर्तव्याः ॥ ७५॥
म० ता तौ प्रसिद्धौ भिषजा भिषजौ वैद्यौ अश्विनौ सा प्रसिद्धा सरस्वती च स प्रसिद्धो वृत्रहा इन्द्रः कल्पान्तरप्रभवः इन्द्राय एतत्कल्पप्रभवाय इन्द्रियं वीर्यं दधुः । यद्वा इन्द्र एव दातृपात्ररूपेण बहुधा भवति देवानामचिन्त्यशक्तित्वात् । कीदृशौ भिषजौ । सुकर्मणा सुकर्माणौ शोभनं कर्म ययोस्तौ । कीदृशी सरस्वती । सुदुघा सुष्ठु दुग्धे सा सुदुघा साधुदोहना। कीदृशो वृत्रहा । शतक्रतुः शतं क्रतवः कर्माणि यस्य । बहुकर्मकर्ता ॥ ७५॥

षट्सप्ततितमी।
यु॒वᳪं᳭ सु॒राम॑मश्विना॒ नमु॑चावासु॒रे सचा॑ ।
वि॒पि॒पा॒नाः सर॑स्व॒तीन्द्रं॒ कर्म॑स्वावत ।। ७६ ।।
उ० ग्रहाणां याज्यानुवाक्यौ । युवं सुरामम् । पुत्रमिव पितरौ । अनुष्टुप्त्रिष्टुभावश्विसरस्वतीन्द्रदेवत्ये । युवं यूयमिति विभक्तिव्यत्ययः । सरस्वती हि तृतीया । युवं यूयम् हे अश्विसरस्वत्यः । सुरामं सुरामयम् । नमुचौ आसुरे वर्तमानम् । सचा सह विपिपानाः विविधं पिबन्तः कर्मसु वर्तमानाः इन्द्रम् आ अवत पालयत ॥ ७६ ॥
म० 'ग्रहाणां युवᳪं᳭ सुरामं पुत्रमिवेति' ( का० १९ । ६ । २० )। त्रयाणां पयोग्रहाणां सुराग्रहाणां च युवमिति पुरोनुवाक्या पुत्रमिवेति याज्येति सूत्रार्थः । द्वे अश्विसरस्वतीन्द्रदेवत्येऽनुष्टुप्त्रिष्टुभौ । हे अश्विनौ, हे सरस्वति, युवं यूयं वचनव्यत्ययः । नमुचावासुरे दैत्ये वर्तमानं सुरामं सुरामयं ग्रहं सचा सह विपिपाना विविध पिबन्तः सन्तः कर्मस्विन्द्रमावत आसमन्ताद्रक्षत । पिपाना अत्र विकरणव्यत्ययः ॥ ७६ ॥

सप्तसप्ततितमी।
पु॒त्रमि॑व पि॒तरा॑व॒श्विनो॒भेन्द्रा॒वथु॒: काव्यै॑र्द॒ᳪं᳭सना॑भिः ।
यत्सु॒रामं॒ व्यपि॑ब॒: शची॑भि॒: सर॑स्वती त्वा मघवन्नभिष्णक् ।। ७७ ।।
उ० पुत्रमित्र पितरौ । व्याख्यातम् ॥ ७७ ॥
म० इयं व्याख्याता दशमेऽध्याये । (अ० १० । क० : ३४) ॥ ७७ ॥

अष्टसप्ततितमी।
यस्मि॒न्नश्वा॑स ऋष॒भास॑ उ॒क्षणो॑ व॒शा मे॒षा अ॑वसृ॒ष्टास॒ आहु॑ताः ।
की॒ला॒ल॒पे सोम॑पृष्ठाय वे॒धसे॑ हृ॒दा म॒तिं ज॑नये॒ चारु॑म॒ग्नये॑ ।। ७८ ।।
उ० पशुस्विष्टकृतौ । यस्मिन्नश्वासः अहाव्यग्ने इति । जगतीत्रिष्टुभावाग्नेय्यौ । यस्मिन्नग्नौ अश्वासः ऋषभासः उक्षणः वशाः मेषाः अवसृष्टासः अवदायावदाय चतुरवत्तेन निक्षिप्ताः।
आदायादाय हुताः । तस्मै अग्नये । कीलालपे कीलालमन्नरसं पिबतीति कीलालपाः । सोमपृष्ठाय सोमाहुतयो यस्य पृष्ठे हूयन्ते । वेधसे मेधाविने । हृदा मतिं जनये । हृदयं मतिपूर्वकं जनय । चारुम् अग्नये ॥ ७८॥
म० 'पशुस्विष्टकृतो यस्मिन्नश्वासोऽहाव्यग्न इति' ( का० १९ । ६ । २१)। पशोः संबन्धिनि स्विष्टकृद्यागे यस्मिन्नश्वास इति पुरोनुवाक्या अहाव्यग्न इति याज्या द्वे अग्निदेवत्ये. जगतीत्रिष्टुभौ । हे अध्वर्यो, तस्मै अग्नये हृदा सह मतिं वुद्धिं चारुं समीचीनां जनय । अग्न्यर्थं मनोवुद्धी शुद्धे कुरु इत्यर्थः । कीदृशायाग्नये । कीलालपे कीलालमन्नरसं पिबतीति कीलालपास्तस्मै । सोमपृष्ठाय सोमः पृष्ठे यस्य तस्मै । यस्य पृष्ठे सोमाहुतयो हूयन्त इत्यर्थः । वेधसे विदधाति शुभं करोति वेधाः तस्मै शुभमतिकर्त्रे । तस्मै कस्मै । यस्मिन्नग्नौ एते पशवः अवसृष्टाः अवदायावदाय चतुरवत्तेन निक्षिप्ताः । तथा आहुताः आदायादाय हुताः । के पशवः । अश्वासः अश्वाः ऋषभासः ऋषभाः उक्षणः उक्षाणः सेचनसमर्था वृषाः । 'वा षपूर्वस्य निगमे' (पा० ६ । ४ । ९) इति उपधादीर्घाभावः । वशाः वन्ध्याः । मेषाः अजाः । यस्मिन्नेते पशवो हुतास्तस्मै मनःशुद्धिं कुर्विति होतुर्वाक्यम् ॥ ७८ ॥

एकोनाशीतितमी।
अहा॑व्यग्ने ह॒विरा॒स्ये॒ ते स्रु॒ची॒व घृ॒तं च॒म्वी॒व॒ सोम॑: ।
वा॒ज॒सनि॑ᳪं᳭ र॒यिम॒स्मे सु॒वीरं॑ प्रश॒स्तं धे॑हि य॒शसं॑ बृ॒हन्त॑म् ।। ७९ ।।
उ० अहाव्यग्ने । यस्य ते तव आस्ये मुखे हे अग्ने, अहावि हुतं मया हविः । कथमिव । स्रुचीव घृतम् । यथा स्रुचि नित्यावस्थितं घृतम् । चम्वीव सोमः चम्वामिव ।। यथाच अधिषवणचर्मणि नित्यावस्थितः सोमः । एवम् । तं त्वां ब्रवीमि । वाजसनिम् वाजमन्नं संसेवते वाजसनिं रयिं धनम् । अस्मै अस्मासु । सुवीरं शोभनवीरं प्रशस्तं । धेहि स्थापय । यशसं च । 'यशो वै सोमो राजा' । बृहन्तं महान्तम् ॥ ७९ ॥
म० हे अग्ने, ते तवास्ये हविरहावि हुतम् सर्वतः । जुहोतेः कर्मणि लुङ् । सन्ततहोमे दृष्टान्तः । स्रुचि घृतमिव । | यथा स्रुचि घृतं सर्वदा स्थितम् चम्वि चम्वामधिषवणचर्मणि सोम इव । तत्र यथा सोमः सर्वदा स्थितस्तद्वन्नित्यं मया तवास्ये हविर्हुतम् । हे अग्ने, सः त्वमस्मे अस्मासु एतानि वस्तूनि धेहि स्थापय । कानि । वाजसनिं वाजस्य अन्नस्य सनिं भोगम्। रयिं धनम्। कीदृशम्। सुवीरं शोभना वीराः पुत्रा यत्र तं सुपुत्रयुक्तं धनमित्यर्थः । प्रशस्तं सर्वलोकस्तुतं बृहन्तं महान्तं यशसं यशश्च । पुंस्त्वमार्षम् । सर्वलोकप्रसिद्धं यशो देहीत्यर्थः । 'यशो वै सोमो राजा' इति श्रुतेः । यशसं सोममिति वा ॥ ७९ ॥

अशीतितमी।
अ॒श्विना॒ तेज॑सा॒ चक्षु॑: प्रा॒णेन॒ सर॑स्वती वी॒र्य॒म् ।
वा॒चेन्द्रो॒ बले॒नेन्द्रा॑य दधुरिन्द्रि॒यम् ।। ८० ।।
उ० शतम् । अश्विना तेजसा । एकादशं च शस्त्रम् । आद्यानुष्टुप् अश्विसरस्वतीन्द्रदेवत्या च । द्वितीयाद्यास्त्रयस्त्यृचो गायत्र्योऽश्विसरस्वतीन्द्रदेवत्या यथासंख्यम् । अश्विना । अश्विनौ तेजसा सह । चक्षुः प्राणेन घ्राणेन सह वीर्यम् । सरस्वती वाचा सह बलेन च सह । एवमेता देवताः प्रतिनियतचक्षुरादिद्वारेण इन्द्राय दधुः ददुः इन्द्रियम् ॥ ८०॥
म० 'प्रतिगरिष्यत्युपविष्टेऽध्वर्यो शोᳪं᳭सावेत्याहूयाश्विना तेजसेत्यनुवाकᳪं᳭ शᳪं᳭सति' (का० १९ । ७।१।। त्रयस्त्रिंशवसाग्रहसादनानन्तरमध्वर्योः होतुः पुरस्तात् प्रतिगरार्थमुपवेशनमुक्तम् तदाह प्रतिगरिष्यत्यध्वर्यो पुर उपविष्टे सत्यध्वर्यो शोᳪं᳭सावो ३ मित्याहूयाश्विना तेजसा चक्षुरित्येकादशर्चमनुवाकं शस्त्रं शंसति । प्रथमान्त्ये ऋचौ त्रिः शंसनीये मध्यस्थानां त्रयाणां तृचानामादिष्वाहावः कार्य इति सूत्रार्थः । अश्विसरस्वतीन्द्रदेवत्यानुष्टुप् । आद्यः पादोऽष्टार्णः द्वितीयो निवार्णः तृतीयः षडर्णः चतुर्थोऽष्टार्णः । अश्विनौ तेजसा सह चक्षुरिन्द्रियमिन्द्राय दधुः दधतुः । सरस्वती प्राणेन सह वीर्यमिन्द्राय दधौ ददौ । इन्द्रः कल्पान्तरीणः वाचं बलेन च सह इन्द्रायैतत्कल्पोत्थाय इन्द्रियं सामर्थ्यं ददौ । एवमश्विसरस्वतीन्द्रा इन्द्राय तेजआदि दधुरित्यर्थः । सर्वापेक्षया दधुरिति बहुवचनम् ॥८०॥

एकाशीतितमी। |
गोम॑दू॒ षु णा॑सत्या॒श्वा॑वद्यातमश्विना ।
व॒र्ती रु॑द्रा नृ॒पाय्य॑म् ।। ८१ ।।
उ० गोमदूषु । हे नासत्यौ, गोमद्धनं संगृह्य । उ सु पादपूरणौ । अश्ववच्च धनं संगृह्य यातम् हे अश्विनौ, वर्तिः वर्तिन्या प्रसिद्धेन मार्गेण । हे रुद्रा रुद्रौ, शत्रूणां रोदयितारौ । नृपाय्यं प्रति सदेवा नरः यस्मिन्यज्ञे पिबन्ति स नृपाय्यः ॥ ८१॥
म० गृत्समददृष्टा अश्विदेवत्यास्तिस्रो गायत्र्यः । आद्या पादनिचृद्गायत्री 'त्रयः सप्तकाः पादनिचृत्' इति वचनात् । उ सु निपातौ पादपूरणौ । 'इकः सुञि' (पा० ६ । ३ । १३४) इति वाते परे उ इत्यस्य संहितायां दीर्घः 'सुञ्' (पा० ८ । ३ । १०७) इति सूत्रेण सु इत्यस्य षत्वम् 'पूर्वपदात्' (पा० ८।३ । १०६) इति नासत्यशब्दनकारस्य णत्वम् । हे नासत्या नासत्यौ, हे अश्विनौ, हे रुद्रा रुद्रौ, शत्रूणां रोदयितारौ, वर्तिः विभक्तिव्यत्ययः । वर्त्या मार्गेण युवां नृपाय्यं यज्ञं प्रति यातं गच्छतम् । नृभिः पीयते सोमो यस्मिन् स नृपाय्यः 'क्रतौ कुण्डपाय्यसंचाय्यौ' (पा० ३ । १ । १३०) इत्यत्र कुण्डशब्द उपलक्षकः। नृशब्देऽपि तृतीयान्ते उपपदे पिबतेर्धातोरधिकरणे यत्प्रत्ययो युगागमश्च निपात्यते । किं कृत्वा । गोमत् गावो विद्यन्ते यस्मिन् गोमत् । अश्वावत् अश्वा विद्यन्ते यस्य तदश्ववत् । 'मन्त्रे सोमाश्व-' (पा० ६।३ । १३१) इत्यादिना अश्वशब्दस्य दीर्घः । गोयुक्तमश्वयुक्तं च धनमादाय यज्ञं गच्छतमित्यर्थः ॥ ८१॥

द्व्यशीतितमी।
न यत्परो॒ नान्त॑र आद॒धर्ष॑द्वृषण्वसू ।
दु॒:शᳪं᳭सो॒ मर्त्यो॑ रि॒पुः ।। ८२ ।।
उ० न यत्परः । यमेनं न परः अन्तरेण असंबद्धः नच अन्तरः संबद्धः आदधर्षत् आधृष्णुयात् अभिभूय गृह्णीयात् । हे वृषण्वसू । वर्षणं वृष्टिर्वसु धनं ययोस्तौ तथोक्तौ । यद्वा वृष्टिद्वारेणावासयितारौ । दुःशंसः दुष्टमसद्वृत्तं शंसति यः स तथोक्तः । मर्त्यो मनुष्यः । रिपुः शत्रुः ॥ ८२॥
म० हे वृषण्वसू, वृषा वृष्टिरेव वसु धनं ययोस्तौ । यद्वा वृष्ट्या वासयतो लोकं स्थापयतस्तौ वृषण्वसू हे अश्विनौ, दुःशंसो दुष्टमपवादं शंसति कथयति दुःशंसोऽपवदिता रिपुः शत्रुः मर्त्यः मनुष्यः परः असंबद्धः अन्तरः संबद्धः स्वकीयोऽपि ईदृशो मर्त्यो यत् यमिन्द्रं न आदधर्षीत् न आधृष्णुयात् न पराभूयात् । स्वजनोऽस्वजनोऽपि रिपुः पिशुनोऽपि यमिन्द्रं पराभवितुं न शक्त इत्यर्थः । 'ञिधृषा प्रागल्भ्ये' अस्माद्धातोर्यङ्लुगन्ताच्छतृप्रत्ययः॥ ८२ ॥

त्र्यशीतितमी।
ता न॒ आ वो॑ढमश्विना र॒यिं पि॒शङ्ग॑संदृशम् ।
धिष्ण्या॑ वरिवो॒विद॑म् ।। ८३ ।।
उ० ता नः । यौ युवामुक्तगुणौ तौ नः अस्माकम् । आवोढम् आवहतम् हे अश्विनौ, रयिं धनम् पिशङ्गसंदृशं अनेकरूपसंदर्शनम् । हे धिष्ण्या धिष्ण्याग्निरूपौ दातारौ वा। वरिवोविदं वरिवो धनं विन्दति वरिवोविदः । वरिवो धननाम । यल्लब्धं सदन्यस्य धनलाभस्य हेतुभूतं भवति ॥८३॥
म० हे धिष्ण्या धिष्ण्यौ धिष्ण्याग्निरूपौ धातारौ वा हे अश्विनौ, युवां नोऽस्माकं रयिं धनमावोढमावहतम् । आनयतमित्यर्थः । वहतेर्लुङि परस्मैपदे मध्यमद्विवचनम् । कीदृशं रयिम् । पिशङ्गसंदृशं पिशङ्गं पीतं सम्यक् दृश्यते तत् पिशङ्गसंदृशम् पीतवर्णं सुवर्णमित्यर्थः । तथा वरिवोविदं वरिवो धनं विन्दति प्राप्नोति वरिवोविदस्तम् ‘विद्लृ लाभे' 'इगुपध-' (पा० ३ । १ । १३२ ) इति कः । यच्च धनं धनान्तरहेतुभूतं भवतीत्यर्थः ॥ ८३॥

चतुरशीतितमी।
पा॒व॒का न॒: सर॑स्वती॒ वाजे॑भिर्वा॒जिनी॑वती ।
य॒ज्ञं व॑ष्टु धि॒याव॑सुः ।। ८४ ।।
उ० पावका नः । पावयित्री सरस्वती वाजेभिः अन्नैः वाजिनीवती अन्नवती । सा नः अस्माकम् यज्ञं वष्टु कामयताम् । यो हि यदिच्छति स तत्प्रति गच्छति । धियावसुः धिया वसु धनं यस्याः सा धियावसुः ॥ ८४ ॥
म० मधुच्छन्दोदृष्टाः सरस्वतीदेवत्यास्तिस्रो गायत्र्यः । सरस्वती नोऽस्माकं यज्ञं वष्टु कामयताम् । 'वश कान्तौ' यो यदिच्छति स तत् प्रति गच्छति । अस्मद्यज्ञं प्रत्यागच्छत्वित्यर्थः। कीदृशी सरस्वती । पावका पावयित्री पवनं पावः शोधनं घञ् । पावं कायति कथयति पावका 'आतोऽनुपसर्गे कः' (पा. ३।२।३ ) वाजेभिर्वाजैः अन्नैः । वाजिनीवती वाजा अन्नानि विद्यन्ते यस्यां सा वाजिनी यज्ञक्रिया । वाजिनी विद्यते यस्याः सा वाजिनीवती यज्ञक्रियाधिष्ठात्री । धियावसुः धिया कर्मणा | वसु धनं यस्याः सा धियावसुः । छान्दसस्तृतीयाया अलुक् ॥८४॥

पञ्चाशीतितमी ।
चो॒द॒यि॒त्री सू॒नृता॑नां॒ चेत॑न्ती सुमती॒नाम् ।
य॒ज्ञं द॑धे॒ सर॑स्वती ।। ८५ ।।
उ० चोदयित्री सूनृतानाम् । चोदयित्री प्रेरयित्री। सूनृतानां शोभनानामृतां वचसाम् । त्रयीलक्षणस्य वाग्विभवस्य चोदयित्रीत्यर्थः । चेतन्ती चेतयमाना सुमतीनां शोभनमतीनाम् । यज्ञं दधे धारयति सरस्वती ॥८५॥
म० सरस्वती यज्ञं दधे धारयती । कीदृशी । सूनृतानां प्रियं सत्यं सूनृतम् । प्रियसत्यवचनानां वेदत्रयीशब्दानां चोदयित्री प्रेरयित्री 'चुद प्रेरणे' णिजन्तात्तृच् ततो ङीप् । सुमतीनां शोभनानां बुद्धीनां चेतन्ती चेतयन्ती प्रकटयन्ती । सुमतिदात्रीत्यर्थः । 'छन्दस्युभयथा' (पा० ३ । ४ । ११७) इति शपोऽप्यार्धधातुकत्वाण्णिचो लोपः ॥ ८५ ॥

षडशीतितमी ।
म॒हो अर्ण॒: सर॑स्वती॒ प्र चे॑तयति के॒तुना॑ ।
धियो॒ विश्वा॒ वि रा॑जति ।। ८६ ।।
उ० महो अर्णः । या महत् अर्णः महान्तमुदकमित्यर्थः। । सरस्वती प्रचेतयति प्रज्ञापयति । केन हेतुना । केतुना कर्मणा प्रज्ञया वा । मध्यस्थाना नदी वा । धियो बुद्धीः विश्वाः सर्वाः सर्वप्राणिष्ववस्थिताः । विराजति । राजतिर्दीप्त्यर्थः अन्तर्भावितण्यर्थश्च द्रष्टव्यः । विविधं दीपयति प्रकाशयति । तां वयं स्तुम इति शेषः ॥ ८६ ॥
म० सरस्वती केतुना कर्मणा प्रज्ञया वा महो महत् अर्णः उदकं प्रचेतयति प्रज्ञापयति प्रेरयति । सर्वस्यां भूमौ वृष्टिं कारयतीत्यर्थः । किंच विश्वाः सर्वाः धियः सर्वप्राणिस्था बुद्धीः विराजति विराजयति दीपयति सर्वजन्तुबुद्धीः प्रकाशयति तां स्तुमः ॥८६॥

सप्ताशीतितमी।
इन्द्रा या॑हि चित्रभानो सु॒ता इ॒मे त्वा॒यव॑: ।
अण्वी॑भि॒स्तना॑ पू॒तास॑: ।। ८७ ।।
उ० इन्द्रायाहि । हे इन्द्र, आयाहि आगच्छ । हे चित्रभानो चित्रदीप्ते । किं कारणम् । सुता अभिषुताः इमे सोमाः त्वायवः त्वां कामयमानाः 'सुपआत्मनः क्यच्' 'क्याच्छन्दसि' इति दीर्घः । त्वायव इति सिद्धम् । नचाभिषुता एव केवलम् । किंतर्हि । अण्वीभिस्तना पूतासः । अण्व्य इत्यङ्गुलिनाम । अङ्गुलीभिः तना च धनदानेन च पूताः पवित्रीकृताः । यद्वा तनाशब्देन दशापवित्रमभिधाय अङ्गुलीभिर्दशापवित्रेण च पूता इत्यर्थः ॥ ८७ ॥
म० मधुच्छन्दोदृष्टा इन्द्रदेवत्यास्तिस्रो गायत्र्यः। चित्रा नानाविधा भानवो दीप्तयो यस्य स चित्रभानुः । हे चित्रभानो इन्द्र, त्वमायाहि आगच्छ । किमिति । इमे सोमाः सुताः अभिषुताः । कीदृशा इमे । त्वायवः त्वां कामयन्ते त्वायवः 'सुपः आत्मनः क्यच्' (पा० ३ । १।८) 'क्याच्छन्दसि' (पा० ३।२।१७०) इत्युप्रत्ययः । तथा अण्वीभिः अण्वीत्यङ्गुलिनाम । अङ्गुलीभिः तना दशापवित्रेण च पूतासः पूताः शोधिताः । तनाशब्दो दशापवित्रवाची । तृतीयैकवचनस्य पूर्वसवर्णः । शोधिताः सुताः सोमा इन्द्रोऽस्मान् पिबत्विति कामयन्ते अतोऽत्रायाहीत्यर्थः ॥ ८७ ॥

अष्टाशीतितमी।
इन्द्रा या॑हि धि॒येषि॒तो विप्र॑जूतः सु॒ताव॑तः ।
उप॒ ब्रह्मा॑णि वा॒घत॑: ।। ८८ ।।
उ० इन्द्रायाहि । हे इन्द्र, आयाहि आगच्छ धिया स्वकीयया बुध्या ईषितः प्रेषितः । अनन्यप्रेषित इत्यभिप्रायः । विप्रजूतः जूतिर्ग्रन्थिः प्रीतिर्वा । मेधाव्यनुगतः सुतावतः अभिषुतवतो यजमानस्य यज्ञम् । किमित्यागन्तव्यमिति चेत् । उप समीपे ब्रह्माणि हवींषि वर्तन्ते । उपपुरोडाशानृत्विजो वर्तन्त इत्यर्थः। वाघत इति ऋत्विङ्नामसुपठितम् ८८
म० हे इन्द्र, धिया स्वबुद्ध्या इषितः प्रेरितः सन्नायाहि । अनन्यप्रेरित आगच्छेत्यर्थः । कीदृशस्त्वम्। विप्रजूतः 'जु गतौ' । विप्रैर्मेधाविभिरनुगतः सेवितः । किमित्यागन्तव्यमिति चेत् सुतावतः । छान्दसो दीर्घः । सुतवतः सोममभिषुतवतो यजमानस्य ब्रह्माणि हवींषि उप हविषां समीपे वाघतः ऋत्विजो वर्तन्त इति शेषः । वाघत इति ऋत्विङ्नामसु पठितम् । ऋत्विजो हविरादाय स्थिता वर्तन्त इत्यायाहीत्यर्थः ॥ ८८ ॥

एकोननवतितमी।
इन्द्रा या॑हि॒ तूतु॑जान॒ उप॒ ब्रह्मा॑णि हरिवः ।
सु॒ते द॑धिष्व न॒श्चन॑: ।। ८९ ।।
उ० इन्द्रायाहि । हे इन्द्र, आगच्छ तूतुजानः । तूतुजान इति क्षिप्रनाम । क्षिप्रं त्वरमाणः। कुत्रागच्छ इति। उपब्रह्माणि हवींषि हे हरिवः । हरी अश्वौ तद्वन् इन्द्र । 'मतुवसोरु संबुद्धौ' इति रुत्वम् । एत्य च सुते अभिषुते सोमे दधिष्व उदरेण धारयस्व । नः अस्माकं स्वभूतं चनः अन्नलक्षणम् ८९
म० हरी अश्वौ विद्यते यस्य स हरिवान् 'मतुवसो रु संबुद्धौ छन्दसि' (पा० ८।३ । १) इति रुत्वम् । हे हरिवः, अश्ववन् हे इन्द्र, तूतुजानः त्वरमाणः सन् त्वं ब्रह्माणि हवींषि उप हवींषि प्रति आयाहि । तूतुजान इति क्षिप्रनाम । आगत्य सुते सोमेऽभिषुते सति नोऽस्माकं चनः अन्नं सोमरूपं हविः दधिष्व उदरे धारय । 'धि धारणे' व्यत्ययेन शपो लुकि द्वित्वं जुहोत्यादित्वादभ्यासस्यात्वं छान्दसम् । चन इत्यन्ननाम ८९

नवतितमी ।
अ॒श्विना॑ पिबतां॒ मधु॒ सर॑स्वत्या स॒जोष॑सा ।
इन्द्र॑: सु॒त्रामा॑ वृत्र॒हा जु॒षन्ता॑ᳪं᳭ सो॒म्यं मधु॑ ।। ९० ।।
इति माध्यन्दिनीयायां वाजसनेयसंहितायां विंशोऽध्यायः ॥ २० ॥
उ० अश्विना पिबतां अश्विनौ पिबेतां मधु मधुरस्वादोपलक्षितम् । सोमं पिबतां । सरस्वत्या च सजोषसा समानसोमपानौ इन्द्रश्च सुत्रामा वृत्रहा पिबतु मधु। ततो भूयोभूयोऽश्विसरस्वतीन्द्राः जुषन्तां पिबन्तां सोम्यं मधु सोममयं मधु ९०
इति उवटकृतौ मन्त्रभाष्ये विंशतितमोऽध्यायः ॥ २० ॥
आनन्दपुरवास्तव्यजैय्यटाख्यस्य सूनना।
उवटेन कृतं भाष्यं पदवाक्यैः सुनिश्चितैः ॥१॥
म० अश्विसरस्वतीन्द्रदेवत्यानुष्टुप् । अश्विना अश्विनौ मधु मधुरस्वादं सोमं पिबतां भक्षयताम् । कीदृशौ अश्विनौ । सरस्वत्या सजोषसा सजोषसौ । जोषः प्रीतिः असुन् । समानं जोषः प्रीतिर्ययोस्तौ । सरस्वत्या सह प्रीतिमन्तावित्यर्थः । किंच सुष्ठु त्रायते रक्षति सुत्रामा वृत्रं हतवान् वृत्रहा ईदृश इन्द्रः अश्विनौ सरस्वती च मधु मधुरं सोम्यं सोममयं हविर्जुषन्तां सेवन्ताम् । 'मये च' (पा० ४ । ४ । १३८) इति सोमशब्दान्मयडर्थे यप्रत्ययः । सोममयं सोम्यम् ॥ ९० ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे ।
सेकासन्द्यादिहोत्रान्तो विंशोऽध्यायो निरूपितः ॥२०॥