शुक्लयजुर्वेदः/अध्यायः १९

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः १८ शुक्लयजुर्वेदः
अध्यायः १९
[[लेखकः :|]]
अध्यायः २० →

सौत्रामणी। सुरादीन्द्राभिषेकान्ता मन्त्राः

सौत्रामणी

१९.१
स्वाद्वीं त्वा स्वादुना तीव्रां तीव्रेणामृताम् अमृतेन ।
मधुमतीं मधुमता सृजामि सꣳ सोमेन ।
सोमो सि ।
अश्विभ्यां पच्यस्व ।
सरस्वत्यै पच्यस्व ।
इन्द्राय सुत्राम्णे पच्यस्व ॥

१९.२
परीतो षिञ्चता सुतꣳ सोमो य ऽ उत्तमꣳ हविः ।
दधन्वान् यो नर्यो अप्स्व् अन्तर् आ सुषाव सोमम् अद्रिभिः ॥

१९.३
वायोः पूतः पवित्रेण प्रत्यङ्क् सोमो ऽ अतिद्रुतः ।
इन्द्रस्य युज्यः सखा ।
वायोः पूतः पवित्रेण प्राङ् सोमो ऽ अतिद्रुतः ।
इन्द्रस्य युज्यः सखा ॥

१९.४
पुनाति ते परिस्रुतꣳ सोमꣳ सूर्यस्य दुहिता ।
वारेण शश्वता तना ॥

१९.५
ब्रह्म क्षत्रं पवते तेज ऽ इन्द्रियꣳ सुरया सोमः सुत ऽ आसुतो मदाय ।
शुक्रेण देव देवताः पिपृग्धि रसेनान्नं यजमानाय धेहि ॥

१९.६
कुविद् अङ्ग यवमन्तो यवं चिद् यथा दान्त्य् अनुपूर्वं वियूय ।
इहेहैषां कृणुहि भोजनानि ये बर्हिषो नम ऽ उक्तिं यजन्ति ।
उपयामगृहीतो ऽस्य् अश्विभ्यां त्वा सरस्वत्यै त्वेन्द्राय त्वा सुत्राम्णे ।
ऽ एष ते योनिस् तेजसे त्वा वीर्याय त्वा बलाय त्वा ॥

१९.६
नाना हि वां देवहितꣳ सदस् कृतं मा सꣳ सृक्षाथां परमे व्योमन् ।
सुरा त्वम् असि शुष्मिणी सोम ऽ एष मा मा हिꣳसीः स्वां योनिम् आविशन्ती ॥

१९.८
उपयामगृहीतो ऽस्य् आश्विनं तेजः सारस्वतं वीर्यम् ऐन्द्रं बलम् ।
एष ते योनिर् मोदाय त्वानन्दाय त्वा महसे त्वा ॥

१९.९
तेजो ऽसि तेजो मयि धेहि ।
वीर्यम् असि वीर्यं मयि धेहि ।
बलम् असि बलं मयि धेहि ।
ओजो ऽस्य् ओजो मयि धेहि ।
मन्युर् असि मन्युं मयि धेहि ।
सहो ऽसि सहो मयि धेहि ॥

१९.१०
या व्याघ्रं विषूचिकोभौ वृकं च रक्षति ।
श्येनं पतत्रिणꣳ सिꣳहꣳ सेमं पात्व् अꣳहसः ॥

१९.११
यद् आपिपेष मातरं पुत्रः प्रमुदितो धयन् ।
एतत् तद् अग्ने ऽ अनृणो भवाम्य् अहतौ पितरौ मया ।
सम्पृच स्थ सं मा भद्रेण पृङ्क्त ।
विपृच स्थ वि मा पाप्मना पृङ्क्त ॥

१९.१२
देवा यज्ञम् अतन्वत भेषजं भिषजाश्विना ।
वाचा सरस्वती भिषग् इन्द्रायेन्द्रियाणि दधतः ॥

१९.१३
दीक्षायै रूपꣳ शष्पाणि प्रायणीयस्य तोक्मानि ।
क्रयस्य रूपꣳ सोमस्य लाजाः सोमाꣳशवो मधु ॥

१९.१४
आतिथ्यरूपं मासरं महावीरस्य नग्नहुः ।
रूपम् उपसदाम् एतत् तिस्रो रात्रीः सुरासुता ॥

१९.१५
सोमस्य रूप क्रीतस्य परिस्रुत् परि षिच्यते ।
अश्विभ्यां दुग्धं भेषजम् इन्द्रायैन्द्रꣳ सरस्वत्या ॥

१९.१६
आसन्दी रूपꣳ राजासन्द्यै वेद्यै कुम्भी सुराधानी ।
अन्तर ऽ उत्तरवेद्या रूपं कारोतरो भिषक् ॥

१९.१७
वेद्या वेदिः सम् आप्यते बर्हिषा बर्हिर् इन्द्रियम् ।
यूपेन यूप ऽ आप्यते प्रणीतो ऽ अग्निर् अग्निना ॥

उत्तरवेदी


१९.१८
हविर्धानं यद् अश्विनाग्नीध्रं यत् सरस्वती ।
इन्द्रायैन्द्रꣳ सदस् कृतं पत्नीशालं गार्हपत्यः ॥

१९.१९
प्रैषेभिः प्रैषान् आप्नोत्य् आप्रीभिर् आप्रीर् यज्ञस्य ।
प्रयाजेभिर् अनुयाजान् वषट्कारेभिर् आहुतीः ॥

१९.२०
पशुभिः पशून् आप्नोति पुरोडाशैर् हवीꣳष्य् आ ।
छन्दोभिः सामिधेनीर् याज्याभिर् वषट्कारान् ॥

१९.२१
धानाः करम्भः सक्तवः परीवापः पयो दधि ।
सोमस्य रूपꣳ हविष आमिक्षा वाजिनं मधु ॥

१९.२२
धानानाꣳ रूपं कुवलं परीवापस्य गोधूमाः ।
सक्तूनाꣳ रूपं बदरम् उपवाकाः करम्भस्य ॥

१९.२३
पयसो रूपं यद् यवा दध्नो रूपं कर्कन्धूनि ।
सोमस्य रूपं वाजिनꣳ सौम्यस्य रूपम् आमिक्षा ॥

१९.२४
आ श्रावयेति स्तोत्रियाः प्रत्याश्रावो ऽ अनुरूपः ।
यजेति धाय्यारूपं प्रगाथा येयजामहाः ॥

१९.२५
अर्धऽऋचैर् उक्थानाꣳ रूपं पदैर् आप्नोति निविदः ।
प्रणवैः शस्त्राणाꣳ रूपं पयसा सोम आप्यते ॥

१९.२६
अश्विभ्यां प्रातःसवनम् इन्द्रेणैन्द्रं माध्यन्दिनम् ।
वैश्वदेवꣳ सरस्वत्या तृतीयम् आप्तꣳ सवनम् ॥

१९.२६
वायव्यैर् वायव्यान् आप्नोति सतेन द्रोणकलशम् ।
कुम्भीभ्याम् अम्भृणौ सुते स्थालीभि स्थालीर् आप्नोति ॥

१९.२८
यजुर्भिर् आप्यन्ते ग्रहा ग्रहै स्तोमाश् च विष्टुतीः ।
छन्दोभिर् उक्थाशस्त्राणि साम्नावभृथऽआप्यते ॥

१९.२९
इडाभिर् भक्षान् आप्नोति सूक्तवाकेनाशिषः ।
शंयुना पत्नीसंयाजान्त् समिष्टयजुषा सꣳस्थाम् ॥

१९.३०
व्रतेन दीक्षाम् आप्नोति दीक्षयाप्नोति दक्षिणाम् ।
दक्षिणा श्रद्धाम् आप्नोति श्रद्धया सत्यम् आप्यते ॥

१९.३१
एतावद् रूपं यज्ञस्य यद् देवैर् ब्रह्मणा कृतम् ।
तद् एतत् सर्वम् आप्नोति यज्ञे सौत्रामणी सुते ॥

१९.३२
सुरावन्तं बर्हिषदꣳ सुवीरं यज्ञꣳ हिन्वन्ति महिषा नमोभिः ।
दधानाः सोमं दिवि देवतासु मदेमेन्द्रं यजमानाः स्वर्काः ॥

१९.३३
यस् ते रसः सम्भृत ऽ ओषधीषु सोमस्य शुष्मः सुरया सुतस्य ।
तेन जिन्व यजमानं मदेन सरस्वतीम् अश्विनाव् इन्द्रम् अग्निम् ॥

१९.३४
यम् अश्विना नमुचेर् आसुराद् अधि सरस्वत्य् असुनोद् इन्द्रियाय ।
इमं तꣳ शुक्रं मधुमन्तम् इन्दुꣳ सोमꣳ राजानम् इह भक्षयामि ॥

{K२१,१,३४}

१९.३५
यद् अत्र रिप्तꣳ रसिनः सुतस्य यद् इन्द्रो ऽ अपिबच्छचीभिः ।
अहं तद् अस्य मनसा शिवेन सोमꣳ राजानम् इह भक्षयामि ॥

१९.३६
पितृभ्यः स्वधायिभ्यः स्वधा नमः ।
पितामहेभ्यः स्वधायिभ्यः स्वधा नमः ।
प्रपितामहेभ्यः स्वधायिभ्यः स्वधा नमः ।
अक्षन् पितरः ।
ऽअमीमदन्त पितरः ।
ऽअतीतृपन्त पितरः ।
पितरः शुन्धध्वम् ॥

१९.३६
पुनन्तु मा पितरः सोम्यासः पुनन्तु मा पितामहाः ।
पुनन्तु प्रपितामहाः पवित्रेण शतायुषा ।
पुनन्तु मा पितामहाः सोम्यासः पुनन्तु प्रपितामहाः ।
पवित्रेण शतायुषा विश्वम् आयुर् व्यश्नवै ॥

१९.३८
अग्न ऽ आयूꣳषि पवस ऽ आ सुवोर्जम् इषं च नः ।
आरे बाधस्व दुच्छुनाम् ॥

१९.३९
पुनन्तु मा देवजनाः पुनन्तु मनसा धियः ।
पुनन्तु विश्वा भूतानि जातवेदः पुनीहि मा ॥

१९.४०
पवित्रेण पुनीहि मा शुक्रेण देव दीद्यत् ।
अग्ने क्रत्वा क्रतूँ२ऽर् अनु ॥

१९.४१
यत् ते पवित्रम् अर्चिष्य् अग्ने विततम् अन्तरा ।
ब्रह्म तेन पुनातु मा ॥

१९.४२
पवमानः सो ऽ अद्य नः पवित्रेण विचर्षणिः ।
यः पोता स पुनातु मा ॥

१९.४३
उभाभ्यां देव सवितः पवित्रेण सवेन च ।
मां पुनीहि विश्वतः ॥

१९.४४
वैश्वदेवी पुनती देव्य् आगाद् यस्याम् इमा बह्व्यस् तन्वो वीतपृष्ठाः ।
तया मदन्तः सधमादेषु वयꣳ स्याम पतयो रयीणाम् ॥

१९.४५
ये समानाः समनसः पितरो यमराज्ये ।
तेषां लोकः स्वधा नमो यज्ञो देवेषु कल्पताम् ॥

१९.४६
ये समानाः समनसो जीवा जीवेषु मामकाः ।
तेषाꣳ श्रीर् मयि कल्पताम् अस्मिँल्लोके शतꣳ समाः ॥

१९.४६
द्वे सृती ऽ अशृणवं पितॄणाम् अहं देवानाम् उत मर्त्यानाम् ।
ताभ्याम् इदं विश्वम् एजत् सम् एति यद् अन्तरा पितरं मातरं च ॥

१९.४८
इदꣳ हविः प्रजननं मे ऽ अस्तु दशवीरꣳ सर्वगणꣳ स्वस्तये ।
आत्मसनि प्रजासनि पशुसनि लोकसन्य् अभयसनि ।
अग्निः प्रजां बहुलां मे करोत्व् अन्नं पयो रेतो ऽ अस्मासु धत्त ॥

१९.४९
उद् ईरताम् ऽ अवर उत् परास ऽ उन् मध्यमाः पितरः सोम्यासः ।
असुं य ऽ ईयुर् अवृका ऽ ऋतज्ञास् ते नो ऽवन्तु पितरो हवेषु ॥

१९.५०
अङ्गिरसो नः पितरो नवग्वा ऽ अथर्वाणो भृगवः सोम्यासः ।
तेषां वयꣳ सुमतौ यज्ञियानाम् अपि भद्रे सौमनसे स्याम ॥

१९.५१
ये नः पूर्वे पितरः सोम्यासो ऽनूहिरे सोमपीथं वसिष्ठाः ।
तेभिर् यमः सꣳरराणो हवीꣳष्य् उशन्न् उशद्भिः प्रतिकामम् अत्तु ॥

१९.५२
त्वꣳ सोम प्र चिकितो मनीषा त्वꣳ रजिष्ठम् अनु नेषि पन्थाम् ।
तव प्रणीती पितरो न ऽ इन्दो देवेषु रत्नम् अभजन्त धीराः ॥

१९.५३
त्वया हि नः पितरः सोम पूर्वे कर्माणि चक्रुः पवमान धीराः ।
वन्वन्न् अवातः परिधीँ२ऽर् अपोर्णु वीरेभिर् अश्वैर् मघवा भवा नः ॥

१९.५४
त्वꣳ सोम पितृभिः संविदानो ऽनु द्यावापृथिवी ऽ आ ततन्थ ।
तस्मै त ऽ इन्दो हविषा विधेम वयꣳ स्याम पतयो रयीणाम् ॥

१९.५५
बर्हिषदः पितर ऽ ऊत्य् अर्वाग् इमा वो हव्या चकृमा जुषध्वम् ।
त ऽ आ गतावसा शंतमेनाथा नः शं योर् अरपो दधात ॥

१९.५६
आहं पितॄन् सुविदत्राꣳ२ऽ अवित्सि नपातं च विक्रमणं च विष्णोः ।
बर्हिषदो ये स्वधया सुतस्य भजन्त पित्वस्त ऽ इहागमिष्ठाः ॥

१९.५६
उपहूताः पितरः सोम्यासो बर्हिष्येषु निधिषु प्रियेषु ।
त ऽ आ गमन्तु त ऽ इह श्रुवन्त्व् अधि ब्रुवन्तु ते ऽवन्त्व् अस्मान् ॥

१९.५८
आ यन्तु नः पितरः सोम्यासो ग्निष्वात्ताः पथिभिर् देवयानैः ।
अस्मिन् यज्ञे स्वधया मदन्तो ऽधि ब्रुवन्तु ते ऽवन्त्व् अस्मान् ॥

१९.५९
अग्निष्वात्ताः पितर ऽ एह गच्छत सदः-सदः सदत सुप्रणीतयः ।
अत्ता हवीꣳषि प्रयतानि बर्हिष्य् अथा रयिꣳ सर्ववीरं दधातन ॥

१९.६०
ये ऽ अग्निष्वात्ता ये ऽ अनग्निष्वात्ता मध्ये दिवः स्वधया मादयन्ते ।
तेभ्यः स्वराड् असुनीतिम् एतां यथावशं तन्वं कल्पयाति ॥

१९.६१
अग्निष्वात्ताꣳ ऋतुमतो हवामहे नाराशꣳसे सोमपीथं य ऽ आशुः ।
ते नो विप्रासः सुहवा भवन्तु वयꣳ स्याम पतयो रयीणाम् ॥

१९.६२
आच्या जानु दक्षिणतो निषद्येमं यज्ञम् अभि गृणीत विश्वे ।
मा हिꣳसिष्ट पितरः केन चिन् नो यद्व ऽ आगः पुरुषता कराम ॥

१९.६३
आसीनासो ऽ अरुणीनाम् उपस्थे रयिं धत्त दाशुषे मर्त्याय ।
पुत्रेभ्यः पितरस् तस्य वस्वः प्र यच्छत त ऽ इहोर्जं दधात ॥

१९.६४
यम् अग्ने कव्यवाहन त्वं चिन् मन्यसे रयिम् ।
तं नो गीर्भिः श्रवाय्यं देवत्रा पनया युजम् ॥

{K२१,१,६४}

१९.६५
यो ऽ अग्निः कव्यवाहनः पितॄन् यक्षद् ऋतावृधः ।
प्रेद् उ हव्यानि वोचति देवेभ्यश् च पितृभ्य ऽ आ ॥

१९.६६
त्वम् अग्न ऽ ईडितः कव्यवाहनावाड् हव्यानि सुरभीणि कृत्वी ।
प्रादाः पितृभ्यः स्वधया ते ऽ अक्षन्न् अद्धि त्वं देव प्रयता हवीꣳषि ॥

१९.६६
ये चेह पितरो ये च नेह याꣳश् च विद्म याꣳ२ऽ उ च न प्रविद्म ।
त्वं वेत्थ यति ते जातवेदः स्वधाभिर् यज्ञꣳ सुकृतं जुषस्व ॥

१९.६८
इदं पितृभ्यो नमो ऽ अस्त्व् अद्य ये पूर्वासो य ऽ उपरास ईयुः ।
ये पार्थिवे रजस्य् आ निषत्ता ये वा नूनꣳ सुवृजनासु विक्षु ॥

१९.६९
अधा यथा नः पितरः परासः प्रत्नासो ऽ अग्न ऽ ऋतम् आशुषाणाः ।
शुचीदयन् दीधितिम् उक्थशासः क्षामा भिन्दन्तो ऽ अरुणीर् अप व्रन् ॥

१९.६०
उशन्तस् त्वा नि धीमह्य् उशन्तः सम् इधीमहि ।
उशन्न् उशत ऽ आ वह पितॄन् हविषे ऽ अत्तवे ॥

१९.६१
अपां फेनेन नमुचेः शिर ऽ इन्द्रोद् अवर्तयः ।
विश्वा यद् अजय स्पृधः ॥

१९.६२
सोमो राजामृतꣳ सुत ऽ ऋजीषेणाजहान् मृत्युम् ।
ऋतेन सत्यम् इन्द्रियं विपानꣳ शुक्रम् अन्धस ऽ इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥

१९.६३
अद्भ्यः क्षीरं व्यपिबत् क्रुङ्ङ् आङ्गिरसो धिया ।
ऋतेन सत्यम् इन्द्रियं विपानꣳ शुक्रम् अन्धस इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥

१९.६४
सोमम् अद्भ्यो व्यपिबच् छन्दसा हꣳसः शुचिषत् ।
ऋतेन सत्यम् इन्द्रियं विपानꣳ शुक्रम् अन्धस ऽ इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥

१९.६५
अन्नात् परिस्रुतो रसं ब्रह्मणा व्यपिबत् क्षत्रं पयः सोमं प्रजापतिः ।
ऋतेन सत्यम् इन्द्रियं विपानꣳ शुक्रम् अन्धस ऽ इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥

१९.६६
रेतो मूत्रं वि जहाति योनिं प्रविशद् इन्द्रियम् ।
गर्भो जरायुणावृत ऽ उल्वं जहाति जन्मना ।
ऋतेन सत्यम् इन्द्रियं विपानꣳ शुक्रम् अन्धस ऽ इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥

१९.६६
दृष्ट्वा रूपे व्याकरोत् सत्यानृते प्रजापतिः ।
अश्रद्धाम् अनृते ऽदधाच् छ्रद्धाꣳ सत्ये प्रजापतिः ।
ऋतेन सत्यम् इन्द्रियं विपानꣳ शुक्रम् अन्धस ऽ इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥

१९.६८
वेदेन रूपे व्यपिबत् सुतासुतौ प्रजापतिः ।
ऋतेन सत्यम् इन्द्रियं विपानꣳ शुक्रम् अन्धस ऽ इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥

१९.६९
दृष्ट्वा परिस्रुतो रसꣳ शुक्रेण शुक्रं व्यपिबत् ।
पयः सोमं प्रजापतिः ।
ऋतेन सत्यम् इन्द्रियं विपानꣳ शुक्रम् अन्धस ऽ इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥

१९.८०
सीसेन तन्त्रं मनसा मनीषिण ऽ ऊर्णासूत्रेण कवयो वयन्ति ।
अश्विना यज्ञꣳ सविता सरस्वतीन्द्रस्य रूपं वरुणो भिषज्यन् ॥

१९.८१
तद् अस्य रूपम् अमृतꣳ शचीभिस् तिस्रो दधुर् देवताः सꣳरराणाः ।
लोमानि शष्पैर् बहुधा न तोक्मभिस् त्वग् अस्य माꣳसम् अभवन् न लाजाः ॥

१९.८२
तद् अश्विना भिषजा रुद्रवर्तनी सरस्वती वयति पेशो ऽ अन्तरम् ।
अस्थि मज्जानं मासरैः कारोतरेण दधतो गवां त्वचि ॥

१९.८३
सरस्वती मनसा पेशलं वसु नासत्याभ्यां वयति दर्शतं वपुः ।
रसं परिस्रुता न रोहितं नग्नहुर् धीरस् तसरं न वेम ॥

१९.८४
पयसा शुक्रम् अमृतं जनित्रꣳ सुरया मूत्राज् जनयन्त रेतः ।
अपामतिं दुर्मतिं बाधमाना ऽ ऊवध्यं वातꣳ सब्वं तद् आरात् ॥

१९.८५
इन्द्रः सुत्रामा हृदयेन सत्यं पुरोडाशेन सविता जजान ।
यकृत् क्लोमानं वरुणो भिषज्यन् मतस्ने वायव्यैर् न मिनाति पित्तम् ॥

१९.८६
आन्त्राणि स्थालीर् मधु पिन्वमाना गुदाः पात्राणि सुदुघा न धेनुः ।
श्येनस्य पत्रं न प्लीहा शचीभिर् आसन्दी नाभिर् उदरं न माता ॥

१९.८६
कुम्भो वनिष्ठुर् जनिता शचीभिर् यस्मिन्न् अग्रे योन्यां गर्भो ऽ अन्तः ।
प्लाशिर् व्यक्तः शतधार ऽ उत्सो दुहे न कुम्भी स्वधां पितृभ्यः ॥

१९.८८
मुखꣳ सद् अस्य शिर ऽ इत् सतेन जिह्वा पवित्रम् अश्विनासन्त् सरस्वती ।
चप्यं न पायुर् भिषग् अस्य वालो वस्तिर् न शेपो हरसा तरस्वी ॥

१९.८९
अश्विभ्यां चक्षुर् अमृतं ग्रहाभ्यां छागेन तेजो हविषा शृतेन ।
पक्ष्माणि गोधूमैः कुवलैर् उतानि पेशो न शुक्रम् असितं वसाते ॥

१९.९०
अविर् न मेषो नसि वीर्याय प्राणस्य पन्था ऽ अमृतो ग्रहाभ्याम् ।
सरस्वत्य् उपवाकैर् व्यानं नस्यानि बर्हिर् बदरैर् जजान ॥

१९.९१
इन्द्रस्य रूपं वृषभो बलाय कर्णाभ्याꣳ श्रोत्रम् अमृतं ग्रहाभ्यां ।
यवा न बर्हिर् भ्रुवि केसराणि कर्कन्धु जज्ञे मधु सारघं मुखात् ॥

१९.९२
आत्मन्न् उपस्थे न वृकस्य लोम मुखे श्मश्रूणि न व्याघ्रलोम ।
केशा न शीर्षन् यशसे श्रियै शिखा सिꣳहस्य लोम त्विषिर् इन्द्रियाणि ॥

१९.९३
अङ्गान्य् आत्मन् भिषजा तद् अश्विनात्मानम् अङ्गैः सम् अधात् सरस्वती ।
इन्द्रस्य रूपꣳ शतमानम् आयुश् चन्द्रेण ज्योतिर् अमृतं दधानाः ॥

१९.९४
सरस्वती योन्यां गर्भम् अन्तर् अश्विभ्यां पत्नी सुकृतं बिभर्ति ।
अपाꣳ रसेन वरुणो न साम्नेन्द्रꣳ श्रियै जनयन्न् अप्सु राजा ॥

१९.९५
तेजः पशूनाꣳ हविर् इन्द्रियावत् परिस्रुता पयसा सारघं मधु ।
अश्विभ्यां दुग्धं भिषजा सरस्वत्या सुतासुताभ्याम् अमृतः सोम ऽ इन्दुः ॥


भाष्यम्(उवट-महीधर)

ऊनविंशोऽध्यायः।


तत्र प्रथमा।
स्वा॒द्वीं त्वा॑ स्वा॒दुना॑ ती॒व्रां ती॒व्रेणा॒मृता॑म॒मृते॑न । मधु॑मतीं॒ मधु॑मता सृ॒जामि॒ सᳪं᳭ सोमे॑न ।
सोमो॑ऽस्य॒श्विभ्यां॑ पच्यस्व॒ सर॑स्वत्यै पच्य॒स्वेन्द्रा॑य सु॒त्राम्णे॑ पच्यस्व ।। १ ।।
उ० अथ सौत्रामणी त्रिभिरध्यायैः प्रक्रियते अग्न्यङ्गत्वात् सौत्रामण्या अनन्तरमुपक्रमः । तत्र 'प्रजापतिर्यज्ञमसृजते'त्युपक्रम्य 'स एतं यज्ञक्रतुमपश्यत्सौत्रामणी'मिति सौत्रामण्याः प्रजापतिर्ऋषिः । अथापरम् इन्द्रभैषज्यार्थमश्विनौ सरस्वती च सौत्रामणी ददृशुः । सुरा संधीयते । स्वाद्वीं त्वा । सुरादेवत्यानुष्टुप् । स्वाद्वीं त्वा । स्वादुशब्दो मिष्टवचनः । स्वादुरसां त्वाम् । स्वादुना मृष्टेन तीव्राम् । तीव्रशब्दः पटुवचनः । पट्वीम् शीघ्रमदजनकाम् । तीव्रेण पटुरसेन अमृताम् । अमृतेन मधुमतीम् मधुरस्वादोपेताम् मधुना । चतुर्णां वाक्यानां शेष उच्यते । सृजामि सᳪं᳭ सोमेन । 'ते प्राग्धातोः' 'छन्दसि परेऽपि' इति उपसर्गसंसर्गात् संसृजामि स्वादुना सोमेनेति । एवमुत्तरत्रापि योज्यम्। यजूंष्युत्तराणि । सोमोऽसि । यस्त्वं मन्त्रेणोक्तः सोमसंसर्गात् तं त्वां ब्रवीमि । अश्विभ्यामर्थाय पच्यस्व । पाको विपरिणामः । सरस्वत्यै पच्यस्व इन्द्राय सुत्राम्णे पच्यस्व ॥ १ ॥
कृपानाथं रमाकान्तं नत्वा नृहरिमीश्वरम् ।
एकोनविंशे त्वध्याये मन्त्रदीपमथो ब्रुवे ॥
म० अथ सौत्रामणीमन्त्रास्त्रिभिरध्यायैः । ऋद्धिकामस्याग्निचितो मुखेतरच्छिद्रसोमवामिनो मुखेन सोमवामिनो राज्यच्युतनृपस्य पशुकामस्य च सौत्रामणीयागः । अन्तःपात्यस्थाने गोचर्मणि एतानि स्थापयेत् सोमसुराविक्रयिणः क्लीबाद्वा क्रीत्वा सीसेन शष्पं क्रीत्वा ऊर्णाभिस्तोक्मान् सूत्रेण लाजान् केनचिद्द्रव्येण नग्नहुम् । विरूढा व्रीहयः शष्पम् । विरूढा यवास्तोक्माः । भृष्टव्रीहयो लाजाः । सर्जत्वक्त्रिफलाशुण्ठीपुनर्नवाचतुर्जातकपिप्पलीगजपिप्पलीवंशावकाबृहच्छत्राचित्रकेन्द्रवारुण्यश्वगन्धाधान्यकयवानीजीरकद्वयहरिद्राद्वयविरूढयवव्रीहय एकीकृता नग्नहुः । शष्पतोक्मलाजनग्नहून्दक्षिणद्वारेणाग्निगृहं नीत्वा संचूर्ण्य दर्शपौर्णमासधर्मेण व्रीहिश्यामाकयोश्चरू बहुजले पक्त्वा शृतालम्भनानन्तरं तयोश्चर्वोर्निःस्रावमुष्णं पृथक् पात्रयोरादाय शष्पादिचतुर्णां चूर्णैः संसृज्य स्थापयेत् । द्वयं चूर्णाचामरूपं मासराख्यम् । 'ओदनौ चूर्णमासरैः सᳪं᳭सृज्य स्वाद्वीं त्वाᳪं᳭शुनेति त्रिरात्रं निदधाति' (का. १९ । १। २२ )। एवमाचामयोश्चूर्णसंसर्गे मासरत्वनिष्पादनानन्तरमोदनौ व्रीहिश्यामाकचरू चतुर्भिश्चूर्णैः संसृज्य स्वाद्वीं त्वेति मन्त्रेण अंशुनेति विंशाध्यायसप्तविंशया ऋचा चैकस्मिन्पात्रे चूर्णसंसृष्टावोदनौ मासराभ्यां संसृज्य त्रिरात्रं शालानैर्ऋतकोणे गर्तं कृत्वा तत्र स्थापयेत् । अयमर्थः । चरू उद्वास्य द्वयोः पृथगाचामग्रहणम् । ततः शष्पतोक्मलाजचूर्णानां पृथक् त्रिधा कृतानां तृतीयांशं द्वेधा कृत्वाचामयोः क्षिपेत् । ततो नग्नहुचूर्णं द्वेधा कृत्वैकमर्धं द्विधा विभज्याचामयोः क्षिपेत् । एवं चूर्णसंसृष्टाचामयोर्मासरसंज्ञा । ततः शष्पतोक्मलाजचूर्णानां द्वितीयं तृतीयांशं द्विधा कृत्वैकैकं भागमोदनयोः क्षिपेत् । नग्नहुचूर्णद्वितीयार्धं द्वेधा कृत्वौदनयोः क्षिपेत् । तत ओदनावेकपात्रे कृत्वा तत्राचामौ क्षिपेत् । ततः स्वाद्वीं त्वा अंशुनेति मन्त्राभ्यां चूर्णमासरैः सहौदनयोराड्वालनेन (?) संसर्गः कार्यः। ततस्त्रिरात्रनिधानम् । शष्पतोक्मलाजचूर्णतृतीयांशानां प्रतिदिनं सुरायां निवापार्थं रक्षणमिति सूत्रार्थः । स्वाद्वीं त्वा । सुरासोमदेवत्यानुष्टुप् । सुरारूपः सोमो देवता । सौत्रामणीमन्त्राणां प्रजापत्यश्विसरस्वत्य ऋषयः । अथ मन्त्रार्थः । हे सुरे, त्वा त्वां सोमेन संसृजामि संयोजयामि । 'छन्दसि परेऽपि' (पा. १।४। ८१) इति समुपसर्गस्य क्रियापदात्परप्रयोगः । कीदृशीं त्वाम् । स्वाद्वीं मिष्टां मिष्टरसाम् । तीव्रां तीव्रशब्दः कटुवचनः । कट्वीं शीघ्रमदजनिकामित्यर्थः । अमृताममृततुल्याम् । मधुमतीं मधुरस्वादोपेताम् । कीदृशेन सोमेन । स्वादुना मृष्टेन तीव्रेण कटुरसेन अमृतेन सुधातुल्येन । मधुमता मधुरस्वादेन । सोमोऽसि । चत्वारि यजूंषि सुरादेवत्यानि । पूर्व एव विनियोगः । सोमोऽसि दैव्युष्णिक अश्विभ्यां यजुर्गायत्री सरस्वत्यै यजुरुष्णिक् इन्द्राय यजुर्बृहती। हे सुरे, त्वं सोमसंसर्गात्सोमः असि अतस्त्वां वदामि अश्विभ्यामर्थाय पच्यस्व विपरिणम । पाको विपरिणामः । सरस्वत्यै सरस्वत्यर्थं पच्यस्व इन्द्राय च पच्यस्व । कीदृशायेन्द्राय । सुत्राम्णे सुष्ठु त्रायते रक्षतीति सुत्रामा तस्मै । त्रायतेः 'आतो मनिन्-' (पा० ३ । २ । ७४) इति मनिन् ॥ १॥

द्वितीया ।
परी॒तो षि॑ञ्च॒ता सु॒तᳪं᳭ सोमो॒ य उ॑त्त॒मᳪं᳭ ह॒विः ।
द॒ध॒न्वा यो नर्यो॑ अ॒प्स्वन्तरा सु॒षाव॒ सोम॒मद्रि॑भिः ।। २ ।।
उ० एकस्याः पयसा कृतेनाश्विनेन परिषिंचति । परीतः। सौमी बृहती। द्वितीयपादप्रभृतिव्याख्यायते यच्छन्दयोगात्। यः सोमः उत्तमं हविः सर्वेषां हविषाम् । यश्च दधन्वान् धारितवान् यजमानम् । यश्च नर्यो नृभ्यो हितः । यश्च अध्वर्युः अप्सु अन्तर्व्यवस्थितं सन्तम् आसुषाव अभिषुतवान् सोमम् । अद्रिभिः ग्रावभिः तं परिषिञ्चत अभिषुतं सोमम् इतः गोरूधस उपादाय परिस्रुतम् ॥२॥
म०. 'एकस्याः पयस्यायाः कृतेनाश्विनेन परिषिञ्चति परीतो षिञ्चतेति शष्पचूर्णानि चावपति सारस्वतेन द्वयोः प्रातस्तोक्मचूर्णानि चैन्द्रेणोत्तमे तिसृणां लाजचूर्णानि च' ( का० १९ । १ । २३-२८) । सायंहोमान्तेऽश्विभ्यामपाकरोमीति करेण गां स्पृष्ट्वा एकां तां दुग्ध्वा तत्पयसाध्वर्युः सुरां सिञ्चति परीत इति मन्त्रेण । रक्षितं शष्पचूर्णानां तृतीयांशं सुराभाण्डे क्षिपेत् । द्वितीयेऽह्नि निशान्ते सरस्वत्या अपाकरोमीति गावौ स्पृष्ट्वा दोहितेन तयोर्दुग्धेन तेनैव मन्त्रेण सुरां सिञ्चति तोक्मचूर्णतृतीयांशक्षेपश्च । तृतीयेऽह्नि रात्रौ इन्द्राय सुत्राम्णेऽपाकरोमीति तिस्रो गाः स्पृष्ट्वा ता दुग्ध्वैकीकृततत्पयसा सुरां सिञ्चति तेनैव मन्त्रेण तत्र लाजचूर्णतृतीयांशक्षेपश्चेति सूत्रार्थः । भरद्वाजदृष्टा सोमदेवत्या बृहती । हे ऋत्विजः, इतो गोः सकाशाद्गृहीतेन दुग्धेनेति शेषः । सुतमिभिषुतं सोमं परिस्रुद्रूपं परिषिञ्चत यूयम् । परि इतः सिञ्चतेति पदेषु सत्सु 'ओकारमितः सिञ्चतौ सोपध' (प्रातिशा० ३ । ३।९) इति सूत्रेण सविसर्गस्य तकारस्थाकारस्य ओकारः 'अन्येषामपि दृश्यते' (पा० ६ । ३ । १३७ ) इति सिञ्चतपदस्य संहितायां दीर्घः । तं कम् । यः सोम उत्तमं हविः सर्वेषां श्रेष्ठम् । यश्च नर्यः नरेभ्यो हितः सन् दधन्वान् यजमानं धारितवान् । 'धन शब्दे' क्वसुप्रत्ययः । अप्सु जलेषु अन्तर्मध्ये वर्तमानं यं सोममद्रिभिः ग्रावभिरध्वर्युः आसुषाव अभिषुतवान् । तं सोमं सुरारूपमापन्नं पयसा सिञ्चतेति संबन्धः ॥ २॥

तृतीया ।
वा॒योः पू॒तः प॒वित्रे॑ण प्र॒त्यङ्क्सोमो॒ अति॑द्रुतः । इन्द्र॑स्य॒ युज्य॒: सखा॑ ।। ३ ।।
उ० तिसृभिर्गायत्रीभिः परिस्रुतं पुनाति । वायोः पूतः । योऽयं वायोः पवित्रेण उदरान्तरवर्तिना पूतः सन् प्रत्यङ् अधोमुखः सोमः अतिद्रुतः सः इन्द्रस्य युज्यः । इन्द्रेण सह योगमर्हति । सखा सहायः । सुक्रीडनक: अगर्ह्यः । सोमवामिनः पुनाति वायोः पवित्रेण हृदयान्तर्वर्तिना पूतः प्राङ् प्रागञ्चनः मुखतः सोमः अतिद्रुतः यः स इन्द्रस्य युज्यः योगार्हः सखा ॥ ३ ॥
म० 'सते पुनाति गोऽश्ववालवालेन पुनाति ते परिस्रुतमिति वायोः पूत इति सोमातिपूतस्य प्राङिति तद्वामिनः' ( का० १९ । २ । ७-९)। वायोः पूत इति कण्डिकायां द्वे ऋचौ पुनाति त इति तृतीया तासां व्युत्क्रमेण विनियोगमाह । पूतां सुरामादाय गोऽश्वकेशनिर्मितेन वालेन पवित्रेण सते पलाशपात्रे पुनाति पुनाति त इति मन्त्रेण सतं वारणमिति केचित् । मुखेतरच्छिद्रसोमवामिनो यजमानस्य सौत्रामण्यां वायोः पूतः पवित्रेण प्रत्यङ्ङिति मन्त्रेण सते सुरां पुनाति मुखेन सोमवामिनस्तु वायोः पूतः पवित्रेण प्राङिति मन्त्रेण सते सुरां पुनातीत्यर्थः । ऋक्त्रयमाभूतिदृष्टं सोमदेवत्यं गायत्रम् । प्रत्यञ्चति अधो गच्छति प्रत्यङ् अधोमुखोऽतिद्रुतो गुदद्वारा गतः सोमः वायोः पवित्रेण उदरान्तर्वर्तिना पूतः शुद्धः । कीदृशः । इन्द्रस्य युज्यः सखा योगार्होऽगर्ह्यः सहायः । प्राञ्चत्यूर्ध्वं गच्छति प्राङ् मुखतोऽतिद्रुतो निर्गतः सोमो वायोः पवित्रेण हृदयान्तर्वर्तिना पूतः य इन्द्रस्य युज्यः योग्यः सखा ॥३॥

चतुर्थी।
पु॒नाति॑ ते परि॒स्रुत॒ᳪं᳭ सोम॒ᳪं᳭ सूर्य॑स्य दुहि॒ता । वारे॑ण॒ शश्व॑ता॒ तना॑ ।। ४ ।।
उ० समृद्धिकामस्य पुनाति ते । यजमानस्याचष्टेऽध्वर्युः । पुनाति तव परिस्रुतं सुरां सोमं च सूर्यस्य दुहिता । यद्वा लुप्तोपमानमेतत् पुनाति ते परिस्रुतं सोममेवेति । यद्वा पुनाति तव परिस्रुतं सोमरूपापन्ना सूर्यस्य दुहिता । 'श्रद्धा वै सूर्यस्य दुहिता वारेण गोऽश्ववालवालेन । शश्वता शाश्वतिकेन । तना । तनेति धननाम । धनोत्पत्तिनिमित्तभूतेन ॥४॥
म० अध्वर्युर्यजमानं प्रत्याचष्टे हे यजमान, सूर्यस्य दुहिता पुत्री श्रद्धा ते तव परिस्रुतं सुरां सोमं च पुनाति शोधयति । 'श्रद्धा वै सूर्यस्य दुहिता' इति श्रुतिः । यद्वा लुप्तोपमानम् । ते तव परिस्रुतं सोममिव पुनाति सोमवत् पवित्रं करोति । यद्वा सोमं सोमरूपापन्नां परिस्रुतं श्रद्धा पुनाति । केन । वारेण वालेन रलयोरैक्यम् । गोऽश्ववालवालेन । कीदृशेन वारेण । शश्वता शाश्वतिकेन अनादिना । तथा तना । तनेति धननाम । तनेन धनेन धनरूपेण धनोत्पत्तिनिमित्तभूतेनेत्यर्थः ॥ ४ ॥

पञ्चमी।
ब्रह्म॑ क्ष॒त्रं प॑वते॒ तेज॑ इन्द्रि॒यᳪं᳭ सुर॑या॒ सोम॑: सु॒त आसु॑तो॒ मदा॑य ।
शु॒क्रेण॑ देव दे॒वता॑: पिपृग्धि॒ रसे॒नान्नं॒ यज॑मानाय धेहि ।। ५ ।।
उ० अजाविलोमपवित्रेण पयः पुनाति ब्रह्म क्षत्रम् । व्यवहितपदप्रायः प्रथमोऽर्धर्चः । यस्मात्कारणात् सोमः सुतः अभिषुतः ब्रह्म क्षत्रं पवते । तेज इन्द्रियं[१] च । पवतिर्जननार्थः । ब्रह्म जनयति क्षत्रं च तेजश्च इन्द्रियं च । यस्मात्त्वं सुरया सुतः सुरया तीव्रः कृतः मदाय भवसि मदजनको भवसि । अतः कारणात् शुक्रेण शोचिष्मता दीप्तिमता रूपेण मन्त्रजनितेन । हे देव, देवताः पिपृग्धि प्रीणीहि । रसेन चान्नं यजमानाय धेहि देहि ॥५॥
म० 'उत्तरस्यां पयो वैतसेऽजाविलोमपवित्रेण ब्रह्म क्षत्रमिति' ( का० १९ । २ । १०) । अजमेषलोमकृतपवित्रेण वेतसपात्रे उत्तरदिशि पयः पुनाति ब्रह्म क्षत्रमिति मन्त्रेणेत्यर्थः। सुरासोमदेवत्या त्रिष्टुप् । आद्यो द्वादशकः द्वितीयत्रयोदशार्णः अन्यावेकादशार्णौ तेन त्र्यधिका । हे देव सोम, शुक्रेण . शुद्धेन वीर्येण त्वं देवताः अग्न्याद्याः पिपृग्धि प्रणीहि । पुनः रसेन घृतादिना सहितमन्नं यजमानाय धेहि देहि । यतः सोमो भवान् सुतोऽभिषुतः सन् ब्रह्म ब्राह्मणं क्षत्रं क्षत्रियं तेजः कान्तिमिन्द्रियसामर्थ्यं पवते जनयति । पवतिर्जननार्थः यज्ञादेव सर्वोत्पत्तेः सोमे उपचर्यते । आसुतः सुरया तीव्रीकृतः सन् भवान् मदाय च भवति । ईदृशसामर्थ्ययुक्तस्त्वं देवान् यजमानं चाभीष्टेन प्रीणीहीत्यर्थः ॥५॥

षष्ठी ।
कु॒विद॒ङ्ग यव॑मन्तो॒ यवं॑ चि॒द्यथा॒ दान्त्य॑नुपू॒र्वं वि॒यूय॑ ।
इ॒हेहै॑षां कृणुहि॒ भोज॑नानि॒ ये ब॒र्हिषो॒ नम॑ उक्तिं॒ यज॑न्ति ।
उ॒प॒या॒मगृ॑हीतोऽस्य॒श्विभ्यां॑ त्वा॒ सर॑स्वत्यै॒ त्वेन्द्रा॑य त्वा सु॒त्राम्ण॑ ए॒ष ते॒ योनि॒स्तेज॑से त्वा वी॒र्या॒य त्वा॒ बला॑य त्वा ।। ६ ।।
उ० पयोग्रहान् गृह्णाति । कुविदङ्गेति व्याख्यातम् । उपयामगृहीतोऽसि अश्विभ्यां त्वा सरस्वत्यै त्वा इन्द्राय त्वा सुत्राम्णे । शोभनं त्राणमस्याश्विभ्यां सरस्वत्यै च कृतमिति सुत्रामा सादयति । एष ते योनिः तेजसे त्वां सादयामि वीर्याय त्वा बलाय त्वा ॥ ६ ॥
म० 'पयोग्रहान् गृह्णाति कुविदङ्गेति पृथगुपयामयोनी' ( का० १९ । २ । १२-१३ ) । एवं सुरापयसोः पावनं कृत्वा कुविदङ्गेति मन्त्रेणैव त्रीन् पयोग्रहान् गृह्णाति । मन्त्रपाठे उपयामगृहीतोऽसि एष ते योनिरिति द्वे यजुषी सकृत्पठिते त्रिषु ग्रहेषु पृथग्भवतः । ततश्चैते मन्त्राः । कुविदङ्गेत्यृचं पठित्वा उपयामगृहीतोऽस्यश्विभ्यां त्वा । ऋग्व्याख्याता (१० । ३२)। हे पयोग्रह, त्वमुपयामेन पात्रेण गृहीतोऽसि । अश्विभ्यामर्थे त्वा त्वां गृह्णामि । सादयति एष ते योनिस्तेजसे त्वा । एष ते तव योनिः स्थानम् । योनिर्द्वयोरिति योनिशब्द उभयलिङ्गः। तेजसे तेजोर्थं त्वां सादयामि । द्वितीये पयोग्रहे कुविदिति पठित्वा उपयामगृहीतोऽसि सरस्वत्यै त्वा सरस्वत्यर्थं त्वां गृह्णामि । सादयति एष ते योनिर्वीर्याय त्वा वीर्यार्थं त्वां सादयामि । तृतीयपयोग्रहे कुविदित्यन्ते उपयामगृहीतोऽसीन्द्राय त्वा सुत्राम्णे सुष्ठु त्रायते रक्षतीति सुत्रामा तस्मै रक्षकायेन्द्राय त्वां गृह्णामि । सादयति एष ते योनिर्बलाय त्वा बलाय बलार्थं त्वां सादयामि । एतेषां क्रमादश्वत्थोदुम्बरन्यग्रोधपात्रैर्ग्रहणम् ॥ ६॥

सप्तमी।
नाना॒ हि वां॑ दे॒वहि॑त॒ᳪं᳭ सद॑स्कृ॒तं मा सᳪं᳭ सृ॑क्षाथां पर॒मे व्यो॑मन् ।
सुरा॒ त्वमसि॑ शु॒ष्मिणी॒ सोम॑ ए॒ष मा मा॑ हिᳪं᳭सी॒: स्वां योनि॑मावि॒शन्ती॑ ।। ७ ।।
उ० सुराग्रहान् गृह्णाति । नाना हि । हिशब्दो यस्मादर्थे । अस्मान्नाना पृथक् पृथक् वा युवयोः सुरासोमयोः । देवहितं देवानां पथ्यं देवैर्वा हितं धारितं स्थापितम् सदःस्थानं कृतम् । द्वे हि वेदी भवतः सुरापयसोर्नानाभूते । अतो ब्रवीमि । मा संसृक्षाथाम् मा संसर्गं कुरुतम् । परमे व्योमन् स्थाने आहवनीयाख्ये । दक्षिणे ह्यग्नौ सुरा हूयते । किंच यतश्च सुरा त्वमसि । शुष्मिणी बलावती अशान्ता । तस्मात्सुरां पीत्वा रौद्रमना भवति सोमश्च एष प्रख्यातगुणः शान्तः । अतो ब्रवीमि । सर्वथा मां माहिंसीः सोमं स्वयोनिस्थानमाविशती सती । माशब्दोऽनुदात्तोऽनर्थकः ॥ ७ ॥
म० 'स्थालीभिः सौरान्नाना हि वामिति व्यत्यासम्' (का० १९ । २ । २०)। नाना हीति मन्त्रेण मृण्मयस्थालीभिस्त्रीन्सुराग्रहान्गृह्णाति । व्यत्यासमित्यर्थः । आदावाश्विनं पयोगृहं गृहीत्वासाद्याश्विनसुराग्रहस्य ग्रहणासादने । ततः सारस्वतौ पयोग्रहसुराग्रहौ । तत ऐन्द्रौ पयःसुराग्रहौ । क्रमेण वा उपयामयोनी । अत्रापि पृथक् प्रथमे नाना हीति पठित्वोपयामगृहीतोऽस्याश्विनं तेज इति ग्रहणमेष ते योनिर्मोदाय त्वेति सादनम् । द्वितीये नाना हीत्यन्ते उपयामगृहीतोऽसि सारस्वतं वीर्यमिति ग्रहणमेष ते योनिरानन्दाय त्वेति सादनम् तृतीये नायेत्यन्ते उपयामगृहीतोऽस्यैन्द्रं बलमिति ग्रहणमेष ते योनिर्महसे त्वेति सादनमिति सूत्रार्थः । सुरासोमदेवत्या जगती । हे सुरासोमौ, हि यस्मात्कारणाद्वां युवयोः नाना पृथक् सदः स्थानं कृतम् । सुरापयसोर्द्वे वेदी भवतः । । कीदृशं सदः । देवहितं देवानां हितं पथ्यम् । यद्वा देवैः हितं स्थापितम् । अतः कारणात् परमे उत्कृष्टे व्योमन् व्योम्नि व्योमवद्विशाले हवनस्थाने युवं मा संसृक्षाथां संसर्गं मा कुरुतम् । आहवनीये पयो हूयते दक्षिणाग्नौ सुरा हूयते अतो न संसर्गः । 'सृज विसर्गे' लुङ् । एवं द्वौ प्रत्युक्त्वा सुरामाह । हे सुरे, त्वं सुरा असि । कीदृशी । शुष्मिणी शुष्मं बलमस्या अस्तीति बलवती । अतस्त्वां पीत्वा मत्तो भवति । एष सोमः शान्तः अतः स्वां योनिमाविशन्ती प्रविशन्ती सती सोमं मा हिंसीः । अनुदात्तो माशब्दः पादपूरणः ॥ ७ ॥

अष्टमी।
उ॒प॒या॒मगृ॑हीतो॒ऽस्याश्वि॑नं॒ तेज॑: सारस्व॒तं वी॒र्य॒मै॒न्द्रं बल॑म् ।
ए॒ष ते॒ योनि॒र्मोदा॑य त्वा ऽऽन॒न्दाय॑ त्वा॒ मह॑से त्वा ।। ८ ।।
उ० उपयामगृहीतोऽसि । आश्विनं तेजः साक्षात्त्वमिति शेषः । एवं सर्वत्र । सारस्वतं वीर्यम् ऐन्द्रं बलम् । सादयति । एष ते योनिः मोदाय त्वा त्वां सादयामि । आनन्दाय त्वा । महसे त्वा महत्त्वाय । 'मह पूजायाम् ॥ ८॥
म० आश्विनं तेजः साक्षात्त्वमेव । सारस्वतं सरस्वतीसंबन्धि वीर्यं सामर्थ्यं च त्वम् । ऐन्द्रमिन्द्रसंबन्धि बलं च त्वमिति शेषः । सादयति । एष ते तव योनिः स्थानम् । मोदाय प्रमोदाय त्वा त्वां सादयामि । आनन्दाय हर्षाय त्वां सादयामि । महसे महत्त्वाय च सादयामि । प्रत्येकं मन्त्राः ॥ ८॥

नवमी।
तेजो॑ऽसि॒ तेजो॒ मयि॑ धेहि वी॒र्य॒मसि वी॒र्यं मयि॑ धेहि बल॑मसि॒ बलं॒ मयि॑ धे॒ह्योजो॒ऽस्योजो॒ मयि॑ धेहि म॒न्युर॑सि म॒न्युं मयि॑ धेहि॒ सहो॑ऽसि॒ सहो॒ मयि॑ धेहि ।। ९ ।।
उ० पयोग्रहान् श्रीणाति तेजोऽसीति । तेजोऽसि यतः अतस्त्वां ब्रवीमि । तेजो मयि धेहि । यो हि मदात्मकः स तत्र नियोगमर्हति । वीर्यमसि वीर्यं मयि धेहि । बलमसि बलं मयि धेहि । तुल्यव्याख्यानानि । सुराग्रहान् श्रीणाति । ओजोऽसि ओजो मयि धेहि । मन्युरसि मन्युं मयि धेहि । सहोऽसि सहो मयि धेहि । तेजः प्रज्वलनमात्मनः । मन्युः कोपः । सहो बलम् ॥ ९॥
म०. 'गोधूमकुवलचूर्णानि चावपति तेजोऽसीति' (का. १९ । २। १६ )। आश्विनग्रहणानन्तरं सादनात्प्राक् द्वे दर्भतृणे प्रागग्रे पात्रोपरि कृत्वा गोधूमकुवलयोश्चूर्णानि सहैव पयसि क्षिपति । कुवलं स्थूलं बदरीफलमित्यर्थः । त्रीणि यजूंषि पयोदेवत्यानि । आद्यं यजुर्बृहती । पयः, त्वं तेजोऽसि अतो मयि तेजो धेहि स्थापय । 'यो यदात्मकः स तत्र नियुज्यत' इति न्यायात् । 'उपवाकबदरचूर्णानि च वीर्यमसीति' (का. १९ । २। १७)। उपवाका इन्द्रयवाः । बदरं सूक्ष्मबदरीफलम् । तयोश्चूर्णानि सारस्वते पयोग्रहे निर्वपेदित्यर्थः । यजुः पङ्क्तिः । हे ग्रह, त्वं वीर्यमसि अतो मयि वीर्यं सामर्थ्यं धेहि । 'यवकर्कन्धुचूर्णानि च बलमसीति' ( का० १९ । २ । १९) । यवाः प्रसिद्धाः कर्कन्धुः अतिस्थूलं बदरम् तयोश्चूर्णान्यैन्द्रे पयोग्रहे क्षिपेदित्यर्थः । यजुः पङ्क्तिः । हे ग्रह, त्वं बलमसि अतो मयि विषये बलं धेहि । 'सुराग्रहाञ्श्रीणात्योजोऽसीति वृकव्याघ्रसिᳪं᳭हलोमभिः प्रतिमन्त्रं मिश्रैरेके यथासंख्यम्' (का. १९ । २॥ २२-२३ ) । वृकादीनां मिश्रैः केशैरोजोऽसीति प्रतिमन्त्रं सुराग्रहान्मिश्रयेत् ओजोऽसीत्याश्विनं मन्युरसीति सारस्वतं सहोऽसीत्यैन्द्रम् । एके वृकादिकेशैर्यथासंख्यं ग्रहं मिश्रयन्ति वृककेशैराश्विनं वैयाघ्रैः सारस्वतं सैंहरैन्द्रमिति सूत्रार्थः । त्रीणि यजूंषि सुरादेवत्यानि । हे सुरे, त्वमोजः असि अतो मयि विषये ओजः कान्तिं धेहि स्थापय । त्वं मन्युर्मानसं प्रज्वलनं कोपोऽसि मयि मन्युं धेहि । सहोऽसि मयि सहो बलं धेहि ॥९॥

दशमी।
या व्या॒घ्रं विषू॑चिकोभौ॒ वृकं॑ च॒ रक्ष॑ति । श्ये॒नं प॑त॒त्रिण॑ᳪं᳭ सि॒ᳪं᳭हᳪं᳭ सेमं पा॒त्वᳪं᳭ह॑सः ।। १० ।।
उ० श्येनपत्राभ्यां पावयतो यजमानम् । या व्याघ्रम् । अनुष्टुप् । विषूचिकास्तुतिः । विपु निपातो नानावचनः । अञ्चतिर्गत्यर्थः । अन्तर्व्यापत्तिर्नानाञ्चना विषूचिकेत्युच्यते । विषूचिका व्याधिविशेषः । या विषूचिका व्याघ्रं वृकं चोभावपि रक्षति । नहि तयोरपरिणामजनिता व्यापत्तिः । किमेतावेव यो रक्षति नेत्याह । श्येनं पतत्रिणं पतनशीलम् । स हि वधजीवनः प्राणिनो गृहीतुमवश्यं पतति । सिंहं च सा इमं यजमानं पातु अंहसः पापात् । पापसमूहव्याप्तेः व्याधीनामधिष्ठात्र्यो देवताः सन्ति ताः प्रार्थ्यन्ते ॥ १० ॥
म०. 'दीक्षावत्पावयतोऽन्तःपात्ये श्येनपत्राभ्यां या व्याघ्रमिति' ( का० १९ । २ । २६)। अध्वर्युप्रतिप्रस्थातारौ सहैवान्तःपात्येऽवस्थितं प्राङ्मुखं यजमानं श्येनपिच्छाभ्यां पावयतः दीक्षावदित्येकेन नाभेरूर्ध्वं प्रदक्षिणं द्वितीयेन सकृदवाङ् यद्वोभाभ्यां नाभेरूर्ध्वमधश्च द्विरिति सूत्रार्थः । हैमवर्चिदृष्टा विषूचिकादेवत्यानुष्टुप् । व्याध्यधिष्ठात्री देवतास्ति सा प्रार्थ्यते । विषु सर्वत्र अञ्चति गच्छति विषूची सैव विषूचिका रोगविशेषः । 'केऽणः' (पा० ७ । ४ । १३) इति ङीपो ह्रस्वः । या विषूचिका व्याघ्रं वृकमेनावुभौ द्वौ परिरक्षति पाति तथा श्येनं पतत्रिणं पक्षिणं सिंहं चोभौ रक्षति । नहि तेषामन्नपरिणामजनितो दोषः । सा विषूचिका इमं यजमानमंहसः व्याधिहेतुभूतात्पापात्पातु रक्षतु ॥ १० ॥

एकादशी।
यदा॑ पि॒पेष॑ मा॒तरं॑ पु॒त्रः प्रमु॑दितो॒ धय॑न् । ए॒तत्तद॑ग्ने अनृ॒णो भ॑वा॒म्यह॑तौ पि॒तरौ॒ मया॑ ।
स॒म्पृच॑ स्थ॒ सं मा॑ भ॒द्रेण॑ पृङ्क्त वि॒पृच॑ स्थ॒ वि मा॑ पा॒प्मना॑ पृङ्क्त ।। ११ ।।
उ० अग्निं प्रेक्षयति । यदा पिपेष । आग्नेयी बृहती। पिपेषेति लिट उत्तमपुरुषैकवचनम् । यदहम् आपिपेष आपिष्टवान् पद्भ्याम् । मातरं पुत्रः प्रमुदितः प्रहृष्टः सन् । धयन्पिबन्स्तनम् । तदेतत् तव समक्षम् हे अग्ने, अनृणः ऋणत्रयरहितः कृतकृत्यो भवामि । यत एवमतो ब्रवीमि उत्क्षिप्य भुजम् । अहतौ अहिंसितौ पितरौ । 'पिता मात्रा' इत्येकशेषः । मया यो हि प्रत्युपकर्तुमसमर्थः तेनैव मातापितरौ हिंसितौ भवत इत्यभिप्रायः । पयोग्रहान्संमृशति । संपृचस्थ 'पृची संपर्के' । संपृचन्तीति संपृचः स्थ स्वया क्रियया व्यपदिश्यन्ते । ये दास्यन्ते संपृच स्थ तानहं ब्रवीमि संमा भद्रेण पृङ्क्त संसृजत मां भद्रेण भन्दनीयेन कल्याणेन । सुराग्रहान् संमृशति । विपृच स्थ ये यूयं विपृचः वियोगकारिणः स्थ तानहं ब्रवीमि । पाप्मना विपृङ्क्त विगतसंसर्गं पाप्मना मां कुरुत ॥ ११ ॥
म० 'अग्निं प्रेक्षयति यदाऽऽपिपेषेति' (का० १९ । २ । २७) । अग्निं प्रेक्षस्वेति प्रैषेणाध्वर्युर्यजमानमग्निं दर्शयति स प्रैषित औत्तरवेदिकमग्निमीक्षत इत्यर्थः । अग्निदेवत्या बृहती। पुत्रोऽहं प्रमुदितः प्रहृष्टो धयन् स्तनपानं कुर्वन्सन् यत् मातरं जननीमापिपेष पिष्टवान् पद्भ्यां पीडितवान् । पिषेर्लिट् उत्तमैकवचनम् । हे अग्ने, तत् एतत् त्वत्समक्षमहमनृणो भवामि ऋणत्रयरहितोऽस्मि । अतएव ब्रवीमि मया पितरौ मातापितरौ अहतौ न पीडितौ । यः पुत्रः प्रत्युपकर्तुमशक्तः स एव पित्रोर्हन्तेति भावः । ‘पयोग्रहसंमर्शनᳪं᳭ संपृच स्थेति' ( का० १९ । २ । २८ ) यजमानः सहैव पयोग्रहाणां स्पर्शं करोतीत्यर्थः । पयोग्रहदेवत्यं यजुस्त्रिष्टुप् । हे पयोग्रहाः, यूयं संपृचः स्थ संपृञ्चन्ति संयोजयन्तीति संपृचः स्वत एव संयोजका भवत । अतो मा मां भद्रेण कल्याणेन संपृङ्क्त संसृजत । कल्याणयुक्तं मां कुरुतेत्यर्थः । संपूर्वात्पृचेः क्विप् । पृचे रौधादिकाल्लोट् संपृङ्क्तः । 'विपृच स्थेति सौराणाम्' ( का० १९ । २। २९)। यजमानं सौरग्रहान्संमृशतीत्यर्थः । हे सुराग्रहाः, यूयं विपृचः स्थ विपृञ्चन्तीति विपृचः वियोजका भवत । अतो मा मां पाप्मना कल्मषेण विपृङ्क्त निष्पापं कुरुतेत्यर्थः ॥ ११॥

द्वादशी।
दे॒वा य॒ज्ञम॑तन्वत भेष॒जं भि॒षजा॒ऽश्विना॑ । वा॒चा सर॑स्वती भि॒षगिन्द्रा॑येन्द्रि॒याणि॒ दध॑तः ।। १२ ।।
उ० देवा यज्ञम् । विंशतिरनुष्टुभः सौत्रामण्यां सोमसंपद्दर्शनार्थः । निदानवतां मन्त्राणां पूर्वं निदानं वक्तव्यमर्थस्य सुखबोधाय । इन्द्रस्य किलानुपहितसोमपानाद्विस्रस्तस्य नमुचिरसुरोऽपिबत् । समस्तं वीर्यं तत्र देवेन्द्रस्य भेषजं कृतम् । तत्राश्विनौ भिषजौ सरस्वती च ओषधं सौत्रामणी। यद्देवा यज्ञमतन्वत विस्तारितवन्तः । भेषजं भेषजस्य कर्तारं सौत्रामण्याख्यं अथ तदा भेषजा भिषजौ वैद्यौ अश्विना अश्विनौ । इह चतुर्थः पादः संबध्यते द्विवचनत्वात् । इन्द्राय इन्द्रियाणि वीर्याणि दधतः । वाचा च त्रयीलक्षणया सरस्वती तदा भिषक् स्यात् ॥ १२ ॥
म० देवा यज्ञमित्यादिकण्डिका विंशतिब्राह्मणरूपातो विनियोगाभावः । ब्राह्मणानुवाको विंशतिरनुष्टुभः सौत्रामण्याः सोमसाम्यप्रतिपादिकाः । अत्रेतिहासः । अनुपहूतसोमपानाद्भ्रष्टस्येन्द्रस्य वीर्यं नमुचिरसुरोऽपिबत् तत्र देवैरिन्द्रस्य भैषज्यं कृतम् तत्राश्विनौ सरस्वती च भिषजः सौत्रामणी त्वौषधम् । तथाच श्रुतिः 'त्वष्टा हतपुत्रोऽभिचरणीयमपेन्द्रᳪं᳭ सोममाहरत्तस्येन्द्रो यज्ञवेशसं कृत्वा प्रसह्य सोममपिबत्स विष्वङ् व्यार्च्छत्तस्य मुखात्प्राणेभ्यः श्रीयशसान्यूर्ध्वान्युदक्रामंस्तानि पशून्प्राविशंस्तस्मात्पशवो यशो यशो ह भवति य एवं विद्वान्सौत्रामण्याभिषिच्यते ततोऽस्मा एतमश्विनौ च सरस्वती च यज्ञᳪं᳭ समभरन्सौत्रामणी भैषज्याय तयैनमभ्यषिञ्चंस्ततो वै स देवानाᳪं᳭ श्रेष्ठोऽभवच्छ्रेष्ठः स्वानां भवति य एतयाभिषिच्यते' (१२ । ८।३।१) इति । देवा यज्ञं सौत्रामण्याख्यं भेषजमिन्द्रस्यौषधरूपमतन्वत विस्तारयामासुः । तदा अश्विना अश्विनौ भिषजा भिषजौ वैद्यौ आस्तामिति शेषः । सरस्वती च वाचा त्रयीलक्षणया भिषगासीत् । कीदृशाः सरस्वत्यश्विनाः । इन्द्राय इन्द्रियाणि वीर्याणि दधतः । इन्द्राय सामर्थ्यं ददत इत्यर्थः ॥ १२॥

त्रयोदशी ।
दी॒क्षायै॑ रू॒पᳪं᳭ शष्पा॑णि प्राय॒णीय॑स्य॒ तोक्मा॑नि । क्र॒यस्य॑ रू॒पᳪं᳭ सोम॑स्य ला॒जाः सो॑मा॒ᳪं᳭शवो॒ मधु॑ ।। १३ ।।
उ० दीक्षायै रूपम् । शष्पाणि नवप्ररूढानि व्रीहयः । प्रायणीयस्य तोक्मानि । नवप्ररूढा यवास्तोक्मानि क्रयस्य रूपं सोमस्य । सोमक्रयस्येति समासप्राप्ते पदयोर्व्यत्ययो रूपशब्देन व्यवधानं च छान्दसम् । सोमक्रयरूपं लाजाः सोमांशवश्च लाजा एव मधुरस्वादाः ॥ १३ ॥
म० इदानीं सौत्रामण्याः सोमसंपत्तिं निरूपयति । शष्पाणि नवप्ररूढव्रीहिरूपाणि पूर्वोक्तानि दीक्षायै । षष्ठ्यर्थे चतुर्थी । दीक्षाया दीक्षणीयेष्टे रूपम् । शष्पाणि दीक्षणीयात्वेन ध्येयानि । एवमग्रेऽपि । तोक्मानि नवप्ररूढयवाः प्रायणीयस्य प्रायणीयेष्टे रूपं ध्येयम् । सोमस्य क्रस्य रूपं लाजाः सोमक्रयोऽस्ति सोमे अत्र लाजास्तस्य रूपम् । लाजाः सोमक्रयरूपेण ध्येया इत्यर्थः । सोमक्रयस्येति समासे युक्ते तदभावः सोमक्रयपदयोर्व्यत्ययो रूपपदेन व्यवधानं च छान्दसम् । मधु सोमांशवः सोमखण्डास्तद्रूपेण ध्येयम् । यद्वा मधु मधुरस्वादा लाजा एव सोमांशवो ध्येयाः ॥ १३ ॥

चतुर्दशी।
आ॒ति॒थ्य॒रू॒पं मास॑रं महावी॒रस्य॑ न॒ग्नहु॑: । रू॒पमु॑प॒सदा॑मे॒तत्ति॒स्रो रात्री॒: सुराऽऽसु॑ता ।। १४ ।।
उ० आतिथ्यरूपं मासरम् । व्रीहिश्यामाकौदनाचामचूर्णसंसर्गो मासरम् । महावीरस्य नग्नहुः । किण्वो नग्नहुः सौरिकाणां प्रसिद्धः । रूपमुपसदामेतत्क्रियते यस्मिंस्तिस्रो रात्रीः सुरा अभिषुता तिष्ठति ॥ १४ ॥
म० किंच मासरमातिथ्यरूपमातिथ्येष्टेः स्वरूपं ध्येयम् । व्रीहिश्यामाकौदनाचामयोः शष्पतोक्मलाजनग्नचूर्णैः संसर्गो मासरं पूर्वमुक्तम् । सर्जत्वगादिषड्विंशतिवस्तून्येकीकृतानि नग्नहुः पूर्वोक्तः स महावीरस्य घर्मस्य रूपं ध्येयम् । याः तिस्रो रात्रीः 'कालाध्वनोः-' (पा० २।३ । ५) इति द्वितीया । त्रिरात्रपर्यन्तं सुरा आसुता अभिषुता पूर्वोक्तं सर्वमेकपात्रे कृत्वा स्वाद्वीं त्वेति मन्त्रेण यद्गर्ते त्रिरात्रं स्थापनम् । एतदुपसदामुपसत्संज्ञानामिष्टीनां रूपम् ॥ १४ ॥

पञ्चदशी ।
सोम॑स्य रू॒पं क्री॒तस्य॑ परि॒स्रुत्परि॑षिच्यते । अ॒श्विभ्यां॑ दु॒ग्धं भे॑ष॒जमिन्द्रा॑यै॒न्द्रᳪं᳭ सर॑स्वत्या ।। १५ ।।
उ० सोमस्य रूपम् । सोमस्य क्रीतस्यैतद्रूपं यत्परिस्रुत्परिषिच्यते पयसा । केन पयसा यत् अश्विभ्यां दुग्धं भेषजं च इन्द्राय यच्च अश्विभ्यां दुग्धमिन्द्रायैव भेषजम् । यच्च सरस्वत्या दुग्धं पयः इन्द्राय भेषजम् ॥ १५॥
म० यत् अश्विभ्यां सरस्वत्या च ऐन्द्रमिन्द्रदेवत्यमिन्द्राय भेषजमिन्द्रार्थे औषधं दुग्धं पयः अश्विभ्यामपाकरोमीति दुग्धेनैकगोः पयसा सरस्वत्या अपाकरोमीति दुग्धेन गोद्वयपयसा इन्द्रायापाकरोमीति दुग्धेन गोत्रयपयसा दिनत्रये परिस्रुत् सुरा यत् परिषिच्यते तत् क्रीतस्य सोमस्य रूपं ज्ञातव्यम् । 'एकस्याः पयसापाकृतेनाश्विनेन परिषिञ्चति सारस्वतेन द्वयोः प्रातः ऐन्द्रेणोत्तमे तिसृणामिति' ( १९ । १ । २३ । २५ । २७) कात्यायनेन निर्दिष्टत्वादश्विभ्यां सरस्वत्या च दुग्धमिति निर्देशः ॥ १५॥

षोडशी।
आ॒स॒न्दी रू॒पᳪं᳭ रा॑जासन्द्यै॒ वेद्यै॑ कु॒म्भी सु॑रा॒धानी॑ । अन्त॑र उत्तरवे॒द्या रू॒पं का॑रोत॒रो भि॒षक् ।। १६ ।।
उ० आसन्दी रूपम् । यजमानाभिषेकासन्दीरूपम् । राजासन्द्यै सोमासन्द्याः । वेद्यै कुम्भी सुराधानी सोमिक्या वेदेः रूपम् । वेद्योः अन्तरः मध्यम् उत्तरवेद्यारूपम् । कारोतरः सुरापावनम् भिषगिन्द्रस्य यजमानस्य च ॥ १६॥
म० राज्ञः सोमस्यासन्दी राजासन्दी तस्यै । चतुर्थी षष्ठ्यर्थे । आसन्दी यजमानाभिषेकायासन्दी मञ्चिका राजासन्द्याः सोमासन्द्या रूपं तत्त्वेन ध्येया । सुराधानी सुरा धीयते स्थाप्यते यस्यां सा सुराधानी कुम्भी वेद्यै वेद्याः सौमिक्या वेदेः रूपम् । अन्तरः वेदिद्वयमध्यभाग उत्तरवेद्याः रूपम् । कारोतरः सुरापावनचालनी इन्द्रस्य यजमानस्य च भिषक् ज्ञेयः ॥ १६ ॥

सप्तदशी।।
वेद्या॒ वेदि॒: समा॑प्यते ब॒र्हिषा॑ ब॒र्हिरि॑न्द्रि॒यम् । यूपे॑न॒ यूप॑ आप्यते॒ प्रणी॑तो अ॒ग्निर॒ग्निना॑ ।। १७ ।।
उ० अनया वेद्या वेदिः सौमिकी समाप्यते । बर्हिषा च बर्हिः समाप्यते । इन्द्रियं वीर्यम् । यूपेन दृश्येन च यूप आप्यते । प्रणीतश्चाग्निः अग्निनाप्यते ॥ १७ ॥
म०. वेद्यात्र वर्तमानया वेदिः सौमिकी समाप्यते सम्यक् प्राप्यते । तद्रूपा ध्येयेत्यर्थः । बर्हिषात्रत्येन बर्हिः सौमिकं समाप्यते । इन्द्रियं वीर्यं चेन्द्रियेणेति शेषः । समाप्यते । फलादाने सामर्थ्यं उभयोरप्यस्तीत्यर्थः । यूपेनात्रत्येन यूप आप्यते । अग्निनात्रत्येन प्रणीतोऽग्निः सौमिक आप्यते प्राप्यते ॥ १७ ॥

अष्टादशी।
ह॒वि॒र्धानं॒ यद॒श्विनाऽऽग्नी॑ध्रं॒ यत्सर॑स्वती । इन्द्रा॑यै॒न्द्रᳪं᳭ सद॑स्कृ॒तं प॑त्नी॒शालं॒ गार्ह॑पत्यः ।। १८ ।।

उ० हविर्धानं यदश्विना । यदाश्विनदैवतं तेन हविर्धानमाप्यते । यत्सरस्वतीदैवतं तेनाग्नीध्रमाप्यते । यदिन्द्राय हविः तेन इन्द्रसदः कृतमाप्यते । पत्नीशालं च गार्हपत्यस्य आप्यते ॥ १८॥
म० अत्र सौत्रामण्यां यत् अश्विना अश्विनौ देवते वर्तेते तेनाश्विसद्भावेन हविर्धानं सौमिकमाप्यत इत्यनुषङ्गः । अत्र यत्सरस्वती देवतास्ति तेन सरस्वतीसद्भावेन आग्नीध्रं सौमिकमाप्यते । सोमे ऐन्द्रमिन्द्रदेवत्यं सदः कृतमस्ति । ऐन्द्रं सदः । पत्न्याः शाला पत्नीशालम् ‘विभाषा सेनत्सुरा-' (पा. २।४ । २५) इत्यादिना क्लीबत्वम् । गार्हपत्यश्चेति त्रयमिन्द्राय यद्धविः क्रियते तेनाप्यते । सौत्रामण्यामिन्द्राय यद्धविस्तत्सौमिकसदा पत्नीशालगार्हपत्यरूपेण ध्येयमित्यर्थः ॥१८॥

एकोनविंशी।
प्रै॒षेभि॑: प्रै॒षाना॑प्नोत्या॒प्रीभि॑रा॒प्रीर्य॒ज्ञस्य॑ । प्र॒या॒जेभि॑रनुया॒जान् व॑षट्का॒रेभि॒राहु॑तीः ।। १९ ।।
उ० प्रैषेभिः प्रैषान् । प्रैषैः प्रैषानाप्नोति आप्रीभिः आप्रीः यज्ञस्य सोमयज्ञस्य प्रियाः प्रयाजयाज्याः । प्रयाजेऽभिरनुयाजान् प्रयाजैः प्रयाजानाप्नोति । अनुयाजैरनुयाजानाप्नोति । वषट्कारेभिराहुतीः । वषट्कारैर्वषट्कारानाप्नोति । प्रयाजेभिरित्यादिचतुर्णां वाक्यानामर्धलोपः ॥ १९ ॥ |
म० प्रैषेभिः प्रैषैः प्रैषानाप्नोति । आप्रीभिः प्रयाजयाज्याभिर्यक्षस्याप्रीराप्नोति । प्रयाजेभिरित्यादिवाक्यचतुष्टयस्योत्तरपदलोपश्छान्दसः । प्रयाजेभिः प्रयाजैः प्रयाजानाप्नोति
अनुयाजैरनुयाजानाप्नोति । वषट्कारेभिर्वषट्कारानाप्नोति । | आहुतिभिराहुतीराप्नोति । प्रैषादीनामुभयत्र सद्भावात् ॥१९॥

विंशी।
प॒शुभि॑: प॒शूना॑प्नोति पुरो॒डाशै॑र्ह॒वीᳪं᳭ष्या । छन्दो॑भिः सामिधे॒नीर्या॒ज्या॒भिर्वषट्का॒रान् ।। २० ।।
उ० पशुभिः पशून् । पशुभिः पशूनाप्नोति । पुरोडाशैः हवींषि आप्नोति । छन्दोभिः छन्दांसि सामिधेनीभिः सामिधेनीः याज्याभिर्याज्याः । वषट्कारैर्वषट्कारानाप्नोति ॥ २० ॥
म० पशुभिः कृत्वा पशूनाप्नोति । पुरोडाशैः पुरोडाशानापेनोति । हविर्भिरन्यैर्हवींषि आप्नोति। छन्दोभिश्छन्दांसि आप्नोति। सामिधेनीभिः सामिधेनीराप्नोति । याज्याभिर्याज्या आप्नोति । वषट्कारैर्वषट्कारानाप्नोति । पश्वादीनामुभयत्र सद्भावात् अत्राप्युत्तरार्धलोपः पूर्ववत् ॥ २० ॥

एकविंशी।
धा॒नाः क॑र॒म्भः सक्त॑वः परीवा॒पः पयो॒ दधि॑ । सोम॑स्य रू॒पᳪं᳭ ह॒विष॑ आ॒मिक्षा॒ वाजि॑नं॒ मधु॑ ।। २१ ।।
उ० धानाः करम्भः । उदकमन्थः करम्भः । सक्तवः परीवापः हविष्पङ्क्तिः । दधि पयः । दधि सोमस्य रूपम्। हविषश्चात्र रूपम् । आमिक्षा पयस्या । वाजिनं मधु । मधुशब्दो वाजिनस्य विशेषणम् आनन्तर्यात् सोमसंस्तवश्व ॥ २१ ॥
म० धानादयः सोमस्य रूपं ध्येयाः । धानाः भृष्टधान्यम् । | करम्भः उदमन्थः । सक्तवः प्रसिद्धाः । परीवापः हविष्पङ्क्तिः । 'परिवापो जलस्थाने पर्युप्तपरिवारयोः' इति कोशः । पयोदधनी प्रसिद्धे । एतानि सोमरूपम् । आमिक्षा पयस्या । मधु मधुरम् । वाजिनं च हविषो रूपम् । उष्णे दुग्धे दध्नि क्षिप्ते घनभाग आमिक्षा । शिष्टं वाजिनम् ॥ २१ ॥

द्वाविंशी।
धा॒नाना॑ᳪं᳭ रू॒पं कुव॑लं परीवा॒पस्य॑ गो॒धूमा॑: । सक्तू॑नाᳪं᳭ रू॒पं बद॑रमुप॒वाका॑: कर॒म्भस्य॑ ।। २२ ।।

उ. धानानां रूपम् । अधस्तनमन्त्रोक्तानां सामहविषां सोमस्य च संपत्तिं सौत्रामणीद्रव्येष्वाह । धानानां रूपं कुवलं कोमलबदरम् । परीवापस्य गोधूमाः । सक्तूनां रूपं बदरम् । उपवाकाः करम्भस्य रूपम् । उपवाका यवकाः ॥ २२ ॥
म० नन्वधस्तनमन्त्रे धानादीनां सोमरूपत्वमुक्तम् तेऽत्र कुत्र सन्तीति धानादिसोमहविषां सोमस्य संपत्तिं सौत्रामणीद्रव्यैराह । कुवलं कोमलं बदरीफलं धानानां पूर्वोक्तानां रूपं ध्येयम् । 'कुवलं बदरीफले । मुक्ताफलोत्पलयोश्च' इति कोशः। गोधूमाः परीवापस्य रूपम् । बदरं सर्वं बदरीफलं सक्तूनां रूपम् । उपवाका यवाः करम्भस्य रूपं ज्ञेयम् ॥ २२ ॥

त्रयोविंशी।
पय॑सो रू॒पं यद्यवा॑ द॒ध्नो रू॒पं क॒र्कन्धू॑नि । सोम॑स्य रू॒पं वाजि॑नᳪं᳭ सौ॒म्यस्य॑ रू॒पमा॒मिक्षा॑ ।। २३ ।।
उ० पयसो रूपम् । पयसो रूपं यत् यवाः । दध्नः रूपं कर्कन्धूनि । कर्कन्धुर्बदरविशेषः सोमस्य रूपम् । वाजिनं सोमस्य च रूपमामिक्षा पयस्या ॥ २३ ॥
म० यत् ये यवाः ते पयसो रूपम् । कर्कन्धूनि स्थूलबदराणि दध्नो रूपम् । वाजिनं सोमस्य रूपम् । आमिक्षा पयस्या सौम्यस्य चरोः रूपं ज्ञेयम् ॥ २३ ॥

चतुर्विंशी ।
आ श्रा॑व॒येति॑ स्तो॒त्रिया॑: प्रत्याश्रा॒वो अनु॑रूपः । यजेति॑ धाय्यारू॒पं प्र॑गा॒था ये॑यजाम॒हाः ।। २४ ।।

उ० आश्रावय । इदानीं शस्त्रसंपत्तिः क्रियते । आश्रा३वय । इतिशब्दः प्रदर्शनार्थः । स्तोत्रियारूपः प्रत्याश्रावः अस्तु श्रौ३षट् । अनुरूपः यज इति । धाय्यारूपम् निष्केवल्ये स्तोत्रियानुरूपयोरनन्तरम् धाय्या शस्यन्ते । प्रगाथा येयजामहाः येयजामहे इति प्रगाथाः ॥ २४ ॥
म० शस्त्रसंपत्तिमाह । आश्रावयेति शब्दः स्तोत्रियारूपो ज्ञेयः । स्तोत्रे प्रथमस्तृचोऽनुवाकः स्तोत्रियः । प्रत्याश्रावः अस्तु औषडिति शब्दः । अनुरूपः उत्तरस्तृचः तद्रूपः । यजेति शब्दो धाय्याया रूपम् । निष्केवल्ये स्तोत्रियानुरूपयोरनन्तरं धाय्या शस्यते सा यजेति शब्दो ज्ञेयः । येयजामहाः येयजामह इति शब्दः प्रगाथाः प्रगाथरूपत्वेन ध्येयः ॥ २४ ॥

पञ्चविंशी।
अ॒र्ध॒ऋ॒चैरु॒क्थाना॑ᳪं᳭ रू॒पं प॒दैरा॑प्नोति नि॒विद॑: । प्र॒ण॒वै: श॒स्त्राणा॑ᳪं᳭ रू॒पं पय॑सा॒ सोम॑ आप्यते ।। २५ ।।
उ० अर्धऋचैः उक्थानां रूपमाप्नोति । पदैः आप्नोति निविदः[२]। निविदो न्यूङ्खा उच्यन्ते । प्रणवैः ओंकारैः शस्त्राणां रूपम् । पयसा सोम आप्यते ॥ २५॥
म० ऋचामर्धानि अर्धऋचास्तैः 'अर्धर्चादयः पुंसि च' (पा० ७।४।३१) इति पुंस्त्वम् 'ऋत्यकः' (पा० ६ । १ । १२८) इति ऋकारस्य सन्ध्यभावः । अत्रत्यैरर्धर्चैरुक्थानां शस्त्रविशेषाणां रूपमाप्यते प्राप्यते । पदैर्निविदो न्यूङ्खानाप्नोति । प्रणवैः ओङ्कारैः शस्त्राणां रूपमाप्यते । पयसा दुग्धेन सोम आप्यते। अर्धर्चादय उक्थादयो ध्येयाः ॥ २५ ॥

षड्विंशी।
अ॒श्विभ्यां॑ प्रातः सव॒नमिन्द्रे॑णै॒न्द्रं माध्यं॑न्दिनम् । वै॒श्व॒दे॒वᳪं᳭ सर॑स्वत्या तृ॒तीय॑मा॒प्तᳪं᳭ सव॑नम् ।। २६ ।।
उ०अश्विभ्यां प्रातःसवनमाप्तम्। इन्द्रेण ऐन्द्रं माध्यन्दिनं सवनमाप्तम् । वैश्वदेवं तृतीयं सवनं सरस्वत्या आप्तम् ॥२६॥
म० सवनसंपत्तिमाह । अश्विभ्यां देवाभ्यां प्रातःसवनमाप्तं प्राप्तम् । इन्द्रेण देवेन ऐन्द्रमिन्द्रदेवत्यं माध्यन्दिनं सवनं प्राप्तम् । सरस्वत्या देवतया कृत्वा वैश्वदेवं विश्वदेवदेवत्यं तृतीयं सवनं प्राप्तम् ॥ २६ ॥

सप्तविंशी।
वा॒य॒व्यै॒र्वाय॒व्या॒न्याप्नोति॒ सते॑न द्रोणकल॒शम् । कु॒म्भीभ्या॑मम्भृ॒णौ सु॒ते स्था॒लीभि॑ स्था॒लीरा॑प्नोति ।। २७ ।।
उ. वायव्यैः। सर्वेषां सोमपात्राणां वायव्यानीति संज्ञा । वायव्यैः वायव्यानि पात्राण्याप्नोति । सतेन द्रोणकलशम् । वैतसं पात्रं सत इत्युच्यते । कुम्भीभ्यां सुराधानीभ्यां शतच्छिद्राभ्याम् अम्भृणौ । अम्भृणौ पूतभृदाधवनीयावुच्येते । सुते अभिषुते सोमे यौ भवतः तौ आप्नोति । स्थालीभिः स्थालीः आप्नोति । उभयत्र हि स्थाल्यो भवन्ति ॥ २७ ॥
म० वायव्यानि सोमपात्राणि वायव्यैर्वायव्यानि पात्राणि आप्नोति । वैतसं पात्रं सतः तेन द्रोणकलशमाप्नोति । कुम्भी सुराधानी तद्द्वयमस्ति कुम्भीभ्यां शतच्छिद्राभ्यां सुराधानीभ्यामम्भृणौ पूतभृदाधवनीयौ सुतेऽभिषुते सोमे यौ स्तस्तावाप्नोति । स्थालीभिः कृत्वा स्थालीराप्नोति उभयत्र स्थालीसद्भावात् ॥ २७॥

अष्टाविंशी।
यजु॑र्भिराप्यन्ते॒ ग्रहा॒ ग्रहैः॒ स्तोमा॑श्च॒ विष्टु॑तीः । छन्दो॑भिरुक्थाश॒स्त्राणि॒ साम्ना॑वभृ॒थ आ॑प्यते ।। २८ ।।
उ० यजुर्भिराप्यन्ते । यजुर्भिः यजूंषि आप्यन्ते । ग्रहा ग्रहैराप्यन्ते । स्तोमाश्च विष्टुतीश्च छन्दोभिः उक्थशस्त्राणि साम्नावभृथ आप्यते । साम्ना साम आप्यते अवभृथेनावभृथः ॥ २८ ॥
म० यजुर्भिः यजूंषि आप्यन्ते । ग्रहा ग्रहैराप्यन्ते स्तोमैः स्तोमा आप्यन्ते । विष्टुतिभिर्विविधस्तुतिभिर्विष्टुतीर्विष्टुतय आप्यन्ते । छन्दोभिरुक्थाशस्त्राणि उक्थानि शस्त्राणि चाप्यन्ते। साम्ना सामाप्यते । अवभृथेनावभृथ आप्यते ॥ २८ ॥

एकोनत्रिंशी ।
इडा॑भिर्भ॒क्षाना॑प्नोति सूक्तवा॒केना॒शिष॑: । शं॒युना॑ पत्नीसंया॒जान्त्स॑मिष्टय॒जुषा॑ स॒ᳪं᳭स्थाम् ।। २९ ।।
उ० इडाभिर्भक्षान् । इडाभिः इडामाप्नोति । भक्षैर्भक्षानाप्नोति । सूक्तवाकेन सूक्तवाकम् । आशीर्भिराशिषः । शंयुना शंयुमाप्नोति । पनीसंयाजैः पत्नीसंयाजानाप्नोति । समिष्टयजुषा समिष्टयजुराप्नोति। संस्थया संस्थामाप्नोति २९
म० इडाभिरिडामाप्नोति । भक्षैर्भक्षानाप्नोति । सूक्तवाकेन सूक्तवाकमाप्नोति । आशीर्भिराशिष आप्नोति । शंयुना होमविशेषेण शंयुमाप्नोति । पत्नीसंयाजैः पत्नीसंयाजानाप्नोति । समिष्टयजुषा समिष्टयजुराप्नोति । संस्थया संस्थामाप्नोति । इडादीनामुभयत्र सद्भावात् ॥ २९॥

त्रिंशी ।
व्र॒तेन॑ दी॒क्षामा॑प्नोति दी॒क्षया॑ऽऽप्नोति॒ दक्षि॑णाम् । दक्षि॑णा श्र॒द्धामा॑प्नोति श्र॒द्धया॑ स॒त्यमा॑प्यते ।। ३० ।।
उ० व्रतेन। हुतोच्छिष्टभक्षश्चतूरात्रिमग्निहोत्रं जुहोतीति । अनेन व्रतेन दीक्षामाप्नोति । दीक्षया दक्षिणामाप्नोति । दक्षिणा दक्षिणयेति विभक्तिव्यत्ययः । श्रद्धामाप्नोति । अदिति सत्यनामसु पठितम् । तदस्यां धीयते आस्तिक्येनैवमेतदिति सा श्रद्धा पुण्यकृतां मनोविशेषः । श्रद्धया सौत्रामण्या सत्यमाप्यते । सत्यम् ज्ञानमनन्तं ब्रह्म । त्रयीलक्षणं वा ॥ ३०॥
म० हुतोच्छिष्टभक्षश्चतूरात्रिमग्निहोत्रं जुहोतीति । व्रतेन दीक्षामाप्नोति । दीक्षया दक्षिणामाप्नोति । दक्षिणा विभक्तिलोपः । दक्षिणया श्रद्धामाप्नोति । श्रदिति सत्यनाम । श्रत् सत्यं धीयते यस्यां सा श्रद्धा आस्तिक्यबुद्धिः पुण्यवतां मनोविशेषः । श्रद्धया सत्यं ज्ञानमनन्तं ब्रह्माप्यते प्राप्यते । श्रद्धां विना ज्ञानाभावात् ॥३०॥

एकत्रिंशी।
ए॒ताव॑द्रू॒पं य॒ज्ञस्य॒ यद्दे॒वैर्ब्रह्म॑णा कृ॒तम् । तदे॒तत्सर्व॑माप्नोति य॒ज्ञे सौ॑त्राम॒णी सु॒ते ।। ३१ ।।
उ० एतावत् । यत्परिमाणं रूपं सोमयज्ञस्य । यद्देवैश्च ब्रह्मणा च प्रजापतिना कृतं दृष्टम् । दर्शनकरणयोः को विशेष इतिचेत् । स्वमप्रतिबुद्धन्यायेन दर्शनम् । करणं तु बुद्धिपूर्वकम् । यदेतत्सर्वमाप्नोति यज्ञे सौत्रामणी । पूर्वसवर्णदीर्घ आदेशश्छान्दसः । सौत्रामण्याख्ये सुते सुरासोमाभिषुते ॥ ३१॥
म० यज्ञस्य सोमयज्ञस्य एतावत् एतत्परिमाणं रूपम् देवैर्ब्रह्मणा प्रजापतिना च यद्रूपं कृतं दृष्टम् । दर्शनकरणयोः को भेदः । सुप्तप्रतिबुद्धन्यायो दर्शनं । बुद्धिपूर्वं तु करणम् । सौत्रामणी । सप्तम्येकवचनस्य पूर्वसवर्णदीर्घः । सौत्रामणी सौत्रामण्यां यज्ञे सुते सुरासोमेऽभिषुते सति तदेतत्सोमयागरूपं सर्वमाप्नोति ॥ ३१॥

द्वात्रिंशी।
सुरा॑वन्तं बर्हि॒षद॑ᳪं᳭ सु॒वीरं॑ य॒ज्ञᳪं᳭ हि॑न्वन्ति महि॒षा नमो॑भिः ।
दधा॑ना॒: सोमं॑ दि॒वि दे॒वता॑सु॒ मदे॒मेन्द्रँ॒ यज॑मानाः स्व॒र्काः ।। ३२ ।।

उ० पयोग्रहाञ्जुहोति । सुरावन्तम् । त्रिष्टुबश्विसरस्वतीदेवत्या । यत् सुरावन्तं बर्हिषदम् 'सुरावान्वा एष बर्हिषद्यज्ञो यः सौत्रामणी' । सुवीरं कल्याणवीरम् यज्ञं हिन्वन्ति | वर्धयन्ति प्रापयन्ति वा । महिषा ऋत्विजः । नमोभिः नमस्कारैः अन्नैर्वा । दधानाः धारयन्तः। सोमं दिवि देवतासु । तत्र मदेम वयम् इन्द्रं यजमानाः । स्वर्काः शोभनार्चनाः कल्याणं मन्त्रा वा ॥ ३२ ॥
म० 'सुरावन्तमिति जुहोति' ( का० १९ । ३ । ८)। | अध्वर्युस्त्रीनपि पयोग्रहान्सहैव जुहोतीत्यर्थः । एवं सौत्रामण्याः सोमसंपत्तिमापाद्य प्रकृतमनुसरति । चतस्रस्त्रिष्टुभोऽश्विसरस्वतीन्द्रदेवत्याः । महिषा महान्तः ऋत्विजो यज्ञं सौत्रामणीसंज्ञं हिन्वन्ति वर्धयन्ति प्रापयन्ति वा । किंभूतं यज्ञम् । बर्हिषदं बर्हिषि सीदन्ति देवा यत्र स बर्हिषत्तम् । तथा सुरावन्तं सुरा विद्यते यत्र स सुरावान् तम् । 'सुरावान्वा एष बर्हिषद्यज्ञो यत्सौत्रामणी' ( १२ । ८।१।२) इति श्रुतेः । सुवीरं शोभना वीरा यत्र शोभनर्त्विजम् । कीदृशाः । महिषाः नमोभिरन्नैर्नमस्कारैर्वा सह दिवि स्वर्गे वर्तमानासु देवतासु सोमं दधानाः धारयन्तः । तत्र यज्ञे इन्द्रं यजमानाः यजन्तः सन्तो वयं मदेम हृष्येम । किंभूता वयम् । स्वर्काः शोभनोऽर्कोऽर्चनं मन्त्रा वा येषां ते स्वर्काः । यद्वा शोभनोऽर्कोऽन्नं येषां ते स्वर्का इति 'अर्को वै देवानामन्नमन्नं यज्ञो यज्ञेनैवैनमन्नाद्येन समर्धयन्ति' ( १२ । ८।१।२) इति श्रुतेः । 'अर्को देवो भवति यदेनमर्चन्ति अर्को मन्त्रो भवति यदेनेनार्चन्ति अर्कमन्नं भवत्यर्चति भूतान्यर्को वृक्षो भवति संवृतः कटुकिम्न' (निरु० ५।४) इति यास्कः । महिषशब्दो यद्यपि महन्नामसु पठितस्तथाप्यत्र ऋत्विग्वाचकः । 'महिषा नमोभिरित्यृत्विजो वै महिषाः' ( १२ । ८।१।२) इति श्रुतेः ॥ ३२॥

त्रयस्त्रिंशी।
यस्ते॒ रस॒: सम्भृ॑त॒ ओष॑धीषु॒ सोम॑स्य॒ शुष्म॒: सुर॑या सु॒तस्य॑ । तेन॑ जिन्व॒ यज॑मानं॒ मदे॑न॒ सर॑स्वतीम॒श्विना॒विन्द्र॑म॒ग्निम् ।। ३३ ।।
उ० सुराग्रहाञ्जुहोति । यस्ते रसः उक्ता देवता छन्दश्चाधस्तनया । हे सुरे, यस्तव रसः संभृतः एकीकृतः ओषधीषु वर्तमानः । सोमस्य च यः शुष्मः यद्बलम् । सुरया सह अभिषुतस्य तेनोभयेन रसेन बलेन च जिन्वन् प्रीणीहि यजमानं मदेन सुरोत्थेन सरस्वतीं च । अश्विनौ च इन्द्रं च अग्निं च ॥ ३३ ॥
म० 'पालाशैः सौरान्नमृण्मयमाहुतिमानशे' ( का० १९ । ३।९) इति श्रुतेर्यस्त इति प्रतिप्रस्थाता पालाशोलूखलैः सुराग्रहान्दक्षिणेऽग्नौ यजति । मृण्मयपात्रमाहुतिं न व्याप्नोतीत्यर्थः । हे सुरे, ओषधीषु वर्तमानो यस्ते तव रसः संभृत एकीकृतः 'अपां वा एष ओषधीनां च रसो यत्सुरा' (१२ । ८।१।४) इति श्रुतेः । सुरया सह सुतस्य सोमस्य च यः शुष्मः यद्बलम् । मदयतीति मदस्तेन मदेन मदजनकेन तेन सुरारसेन सोमशुष्मेण च यजमानं सरस्वतीमश्विनौ इन्द्रमग्निं च जिन्व प्रीणीहि ॥ ३३ ॥

चतुस्त्रिंशी।
यम॒श्विना॒ नमु॑चेरासु॒रादधि॒ सर॑स्व॒त्यसु॑नोदिन्द्रि॒याय॑ ।
इ॒मं तᳪं᳭ शु॒क्रं मधु॑मन्त॒मिन्दु॒ᳪं᳭ सोम॒ᳪं᳭ राजा॑नमि॒ह भ॑क्षयामि ।। ३४ ।।
उ० पयोग्रहान् भक्षयन्ति द्वाभ्यां त्रिष्टुब्भ्यामृत्विग्यजमानाः । यमश्विना नमुचिरसुर इन्द्रस्य इन्द्रियं वीर्यमपिबत् तस्य शिरसि छिन्ने लोहितमिश्रः सोम उदतिष्ठत् तदुत्पूयापिबन्त तदभिवादिनी एषा ऋक् । यत् अश्विना अश्विनौ । नमुचेरासुरात् असुरपुत्रात् अधि सकाशादाहृत्य । सरस्वती च असुनोत् अभ्यषुणोत् । इन्द्रियाय वीर्याय इन्द्रभैषज्याय वा । इमं तं शुक्रम् शुक्लम् असंसृष्टलोहितम् । मधुमन्तं रसवन्तम् । इन्दुम् । 'इदि परमैश्वर्ये' परमेश्वरम् । सोमं राजानम् इह भक्षयामि ॥ ३४ ॥
म० 'अध्वर्युः प्रतिप्रस्थाताग्नीद्यमश्विनेत्याश्विनं भक्षयन्ति द्विर्द्विरावर्तᳪं᳭ होतृब्रह्ममैत्रावरुणाः सारस्वतमाश्विनवदैन्द्रं यजमानः' ( का० १९ । ३ । १०-१३) । त्रय आवृत्याश्विनं पयोग्रहं क्रमेण द्विर्द्विर्भक्षयन्ति सकृन्मन्त्रः । होत्रादयः सारस्वतं पयोग्रहमदन्ति यजमान ऐन्द्रं पयोग्रहमत्तीति सूत्रार्थः । नमुचिनेन्द्रस्य वीर्यं पीतम् तस्मिन् हते रुधिरमिश्रः सोमो जातस्तं देवाः पपुस्तदभिवादिन्येषा ऋक् । असुरस्यापत्यमासुरस्तस्मादसुरपुत्रान्नमुचेरधि सकाशाद् यं सोममाहरतामिति शेषः । 'अश्विनौ ह्येनं नमुचेरध्याहरताम्' ( १२ । ८ । १ । ३) इति श्रुतेः । सरस्वती च यं सोममश्विभ्यामानीतमसुनोदभ्यषुणोत् । किमर्थम् । इन्द्रियाय इन्द्रस्य वीर्याय भैषज्याय वा। तमश्व्याहृतं सरस्वतीसुतमिमं राजानमिह यज्ञेऽहं भक्षयामि । कीदृशं सोमम् । शुक्रं शुद्धं लोहितासंसृष्टमतएव मधुमन्तं रसवन्तमिन्दुम् । 'इदि परमैश्वर्ये' परमैश्वर्यप्रदम् ॥ ३४ ॥

पञ्चत्रिंशी।
यदत्र॑ रि॒प्तᳪं᳭ र॒सिन॑: सु॒तस्य॒ यदिन्द्रो॒ अपि॑ब॒च्छची॑भिः ।
अ॒हं तद॑स्य॒ मन॑सा शि॒वेन॒ सोम॒ᳪं᳭ राजा॑नमि॒ह भ॑क्षयामि ।। ३५ ।।
उ०. यदत्र । यत् अत्र अस्यां सुरायाम् रिप्तं लिप्तं लग्नम् । रसिनः रसवतः सुतस्य अभिषुतस्य सोमस्य । यच्च इन्द्रः अपिबत्पीतवान् । इन्द्रदेवत्यो हि सोमः । शचीभिः कर्मभिः । अहं तत् । यत्तदिति सुविज्ञाते नपुंसकलिङ्गता । अस्य मनसा शिवेन सोमं राजानमिति षष्ठ्या विपरिणामः । सोमस्य राज्ञः इह भक्षयामि ॥ ३५ ॥
म० 'यदत्रेति सौरान्भक्षयन्ति यथाभक्षितं प्राचीनावीतिनो दक्षिणतः' ( का० १९ । ३ । १४ ) । अध्वर्य्वादय आश्विनं होत्रादयः सारस्वतं यजमान ऐन्द्रं सुराग्रहं यदत्रेति मन्त्रेण विहारदक्षिणे स्थिताः प्राचीनावीतिनो भक्षयन्ति आघ्राणमन्येन मूल्येन भक्षणमित्यर्थः । रसोऽस्त्यस्मिन्निति रसी तस्य रसिनो रसवतः सुतस्याभिषुतस्य सोमस्य यत् । सामान्ये नपुंसकत्वम् । यो भागः अत्र सुरायां रिप्तं लिप्तं सोमसंबन्धि यत् सुरायां लग्नम् । यच्च सुरालग्नं सोमांशं शचीभिः कर्मभिः शुद्धं कृत्वा इन्द्रः अपिबत् । सोमं राजानमिति द्वितीये षष्ठ्यर्थे अस्य विशेषणवात् । अस्य सोमस्य राज्ञः तत् तं सुरानिर्गतं सोमं शिवेन शुद्धेन मनसा इह यज्ञेऽहं भक्षयामि सुरासकाशाच्छुद्धं कृत्वा भक्षयामि । तथाच श्रुतिः 'अहं तदस्य मनसा शिवेनेत्यशिव इव वा एष भक्षो यत्सुरा ब्राह्मणस्य शिवमेवैनमेतत्कृत्वात्मन्धत्ते' (१२। ८ । १।५) इति ॥ ३५॥

षट्त्रिंशी।
पि॒तृभ्य॑: स्वधा॒यिभ्य॑: स्व॒धा नम॑: पिताम॒हेभ्य॑: स्वधा॒यिभ्य॑: स्व॒धा नम॒: प्रपि॑तामहेभ्यः स्वधा॒यिभ्य॑: स्व॒धा नम॑: । अक्ष॑न् पि॒तरो ऽमी॑मदन्त पि॒तरोऽती॑तृपन्त पि॒तर॒: पित॑र॒: शुन्ध॑ध्वम् ।। ३६ ।।
उ० अङ्गारेषु बर्हिप्परिधिषु सुरां जुहोति । पितृभ्यः पैत्राणि यजूंष्यस्यां कण्डिकायाम् । पितृभ्यः स्वधायिभ्यः स्वधांप्रति गमनशीलाः स्वधायिनः 'सुप्यजातौ णिनिस्ताच्छील्ये' । स्वधानमः अन्नमस्तु । बहुवचनं पितृव्यसव्यपेक्षं पूजार्थं वा । पितामहेभ्यः उक्तोदर्कम् । प्रक्षालनेनोपसिञ्चति । अक्षन् अत्तवन्तः भक्षितवन्तः पितरः। अमीमदन्त मादिताः पितरः। अतीतृपन्त तर्पिताः पितरः। जपति पितरः पितरः शुंधध्वम् पाणिप्रक्षालनं कुरुध्वम् ॥ ३६॥
म० 'अङ्गारेषु वा बहिष्परिधि दक्षिणतो जुहोत्याश्विनमुत्तरे मध्यमे सारस्वतमैन्द्रं दक्षिणे पितृभ्य इति प्रतिमन्त्रं' (का० १९ । ३ । १७) सुराग्रहाणां भक्षणम् घ्राणम् अन्येन मूल्येन भूपालपानमिति पक्षत्रयमुक्तम् । चतुर्थमाह यद्वाहवनीयस्याङ्गारेषु परिधेर्बहिर्दक्षिणदिक्स्थेषु होमशेषान्सुराग्रहान्पितृभ्य इति प्रतिमन्त्रं जुहोति तदेवाह । उत्तरेऽङ्गारे आश्विनम् मध्यमे सारस्वतम् दक्षिणे ऐन्द्रं सुराग्रहं जुहोतीति सूत्रार्थः । अपसव्येन कर्म । सप्त यजूंषि पितृदेवत्यानि । पितृभ्यः स्वधासंज्ञकं नमोऽन्नमस्तु 'स्वधा वै पितॄणामन्नम्' इति श्रुतेः । यद्वा पितृभ्यः स्वधान्नमस्तु । तेभ्यो नमो नमस्कारश्चास्तु । कीदृशेभ्यः । स्वधायिभ्यः स्वधामन्नं प्रति यन्ति गच्छन्तीत्येवंशीलाः स्वधायिनस्तेभ्यः । 'इण् गतौ' इति धातोः 'सुप्यजातौ णिनिस्ताच्छील्ये (पा० ३ । २ । ७८) इति णिनिप्रत्ययः। पितृभ्य इति बहुवचनं पितृव्याद्यपेक्षं पूजार्थं वा । एवं पितामहेभ्यः प्रपितामहेभ्य इति मन्त्रौ व्याख्येयौ । 'अक्षन्पितर इति प्रक्षालनेनोपसिञ्चति' ( का० १९ । ३ । १८) । सौरग्रहहोमपात्रक्षालनजलेन यथास्वमङ्गारान्सिञ्चति प्रतिमन्त्रम् । पितरः अक्षन्भक्षितवन्तः । 'घस्लृ अदने' लङि रूपम् । पितरोऽमीमदन्त 'मद तृप्तौ तृप्ताः । अतीतृपन्त तर्पिता अस्माभिः पितरः । यद्वास्मानतीतृपन्त तर्पयन्ति तृप्ताः सन्तोऽभीष्टदानेन । 'पितरः शुन्धध्वमिति जपति' ( का० १९ । ३ । १९ ) हे पितरः, शुन्धध्वं शुद्धाः पाणिप्रक्षालनेन शुद्धा यूयं भवत ॥ ३६ ॥

सप्तत्रिंशी।
पु॒नन्तु॑ मा पि॒तर॑: सो॒म्यास॑: पु॒नन्तु॑ मा पिताम॒हाः पु॒नन्तु॒ प्रपि॑तामहाः । प॒वित्रे॑ण श॒तायु॑षा ।
पु॒नन्तु॑ मा पिताम॒हाः पु॒नन्तु॒ प्रपि॑तामहाः । प॒वित्रे॑ण श॒तायु॑षा॒ विश्व॒मायु॒र्व्य॒श्नवै ।। ३७ ।।
उ० नवर्चं वाचयति पावमानं पुनन्तु मा । द्वे पित्र्यावनुष्टुभौ । पुनन्तु मां पितरः सोम्यासः सोमसंपादिनः । पुनन्तु मां पितामहाः । पुनन्तु प्रपितामहाः । पावनं च पापापनोदः । शुद्धिः फलग्रहणयोग्यता । केन पुनन्तु । पवित्रेण । कथंभूतेन । शतायुषा । येन पूतः शतायुर्भवति तत्पवित्रं तत्साधनत्वाच्छतायुरेव । पुनन्तु मां पितामहाः पुनन्तु प्रपितामहाः पवित्रेण शतायुषा । आदरार्थोऽभ्यासः विशेषार्थो वा । तथा मां पितृपितामहाः प्रपितामहाः पुनन्तु यथा विश्वं सर्वमायुः अहं व्यश्नवै व्यश्नुयाँ प्राप्नुयाम् ॥ ३७॥
म० 'कुम्भीमासज्य कुम्भवच्छतवितृष्णां वालपवित्रहिरण्यानन्तर्धाय नवर्चं वाचयति पुनन्तु मेति' ( का० १९ । ३ । २०)। दक्षिणाहवनीयपार्श्वयोः स्तम्भद्वयोपरि दक्षिणाग्रं वंशं निधाय तत्रस्थे शिक्ये शतच्छिद्रां कुम्भीं निधाय कुम्भीतले वालादीनि निधाय तत्र सुराशेषं सिक्त्वाग्नेरुपरि स्रवन्त्यां सुरायां नवर्चं यजमानं वाचयेत् । वालो गोऽश्ववालकृतं सुरागलनम् । पवित्रमजाविलोमकृतं पयोगलनम् । हिरण्यं शतमानमितम् । प्रत्यृचं वाचनमिति सूत्रार्थः । द्वे पितृदेवत्येऽनुष्टुभौ । पितरो मा मां पुनन्तु शोधयन्तु । केन । पवित्रेण गोऽश्ववालकृतेन । कीदृशेन पवित्रेण । शतायुषा शतं शतवर्षमितमायुर्यस्मात्तच्छतायुस्तेन । येन पूतः शतायुर्भवतीत्यर्थः । पितामहाश्च मां पुनन्तु प्रपितामहाश्च मां पुनन्तु । कीदृशाः पित्रादयः । सोम्यासः सोम्याः सोमं संपादयन्ति सोम्याः । आदरार्थं पुनर्वचनम् । पितामहाः प्रपितामहाश्च मां पुनन्तु शतायुषा पवित्रेण । एवं पित्रादिभिः पूतोऽहं विश्वं सर्वमायुः व्यश्नवै व्याप्नवै प्राप्नुयाम् 'अशूङ् व्याप्तौ' लोट् ॥ ३७ ॥

अष्टत्रिंशी।
अग्न॒ आयू॑ ᳪं᳭षि पवस॒ आ सु॒वोर्ज॒मिषं॑ च नः । आ॒रे बा॑धस्व दु॒च्छुना॑म् ।। ३८ ।।
उ० अग्न आयूंषि । आग्नेयी गायत्री । हे अग्ने, यतस्त्वम् आयूंषि पवसे आयुःप्रापकाणि कर्माणि चेष्टयसे स्वभावतएव अतस्त्वां प्रार्थये। आसुव अभ्यनुजानीहि । उर्जं दधि उपसेचनम् । इषं च व्रीह्यादि नः अस्माकम् । एतद्धि जीवनहेत्वित्यभिप्रायः । किंच आरे दूरे एवावस्थितं सन्तं बाधस्व तैस्तैरुपायैः । दुच्छुनां दुष्टं श्वानम् । शुना चात्र दुर्जनप्रभृतयो लक्ष्यन्ते । तैः रहितो हि पुरुषः परमायुः प्राप्नोति ॥ ३८॥
म० प्रजापतिदृष्टाग्निदेवत्या गायत्री । हे अग्ने, त्वमायूंषि पवसे स्वत एवायुःप्रापकाणि कर्माणि पावयसे चेष्टयसे । अन्तर्भूतण्यन्तः । अतएव नोऽस्मदर्थमिषं ब्रीह्यादिधान्यमूर्जं दध्यादि च आसुव ज्ञापय देहीत्यर्थः । जीवनहेतुत्वात् । किंच आरे दूरेऽपि स्थितानां दुच्छुनां दुष्टाश्च ते श्वानश्च दुच्छ्वानः तेषाम् । कर्मणि षष्ठी । दुष्टान् शुनः सारमेयप्रायान्दुर्जनान्बाधस्व नाशयसि दुर्जने जीवनाशक्तेः ॥ ३८॥

एकोनचत्वारिंशी।
पु॒नन्तु॑ मा देवज॒ना॑: पु॒नन्तु॒ मन॑सा॒ धिय॑: । पु॒नन्तु॒ विश्वा॑ भू॒तानि॒ जात॑वेदः पुनी॒हि मा॑ ।। ३९ ।।
उ० पुनन्तु मा । लिङ्गोक्तदेवतानुष्टुप् । पुनन्तु मा देवजनाः देवानुगामिनः । पुनन्तु मनसा संयुक्ताः । धियः बुद्धयः कर्माणि वा । पुनन्तु विश्वानि भूतानि । त्वमपि हे जातवेदः पुनीहि माम् ॥ ३९ ॥
म० अनुष्टुप् देवजनधीविश्वभूतजातवेदोदेवत्या । देवजनाः देवानुगामिनो जना मां पुनन्तु । मनसा सह धियः बुद्धयः कर्माणि वा मां पुनन्तु । विश्वा विश्वानि सर्वाणि भूतानि मां पुनन्तु । हे जातवेदः, त्वमपि मां पुनीहि ॥ ३९ ॥

चत्वारिंशी।
प॒वित्रे॑ण पुनीहि मा शु॒क्रेण॑ देव॒ दीद्य॑त् । अग्ने॒ क्रत्वा॒ क्रतूँ॒२।।रनु॑ ।। ४० ।।
उ० पवित्रेण । आग्नेयी गायत्री । पवित्रेण पुनीहि माम् शुक्रेण शोचिष्मता शुक्लेन अशबलेन । हे देव, दीद्यत् दीप्यमान हे अग्ने, क्रत्वा कर्माणि च क्रियया च क्रतून् तान् तान् च क्रतून् अनु ॥ ४०॥
म० अग्निदेवत्या गायत्री । हे अग्ने हे देव, शुक्रेण शुक्लेन शुद्धेन पवित्रेण मा मां पुनीहि । किंभूतस्त्वम् । दीद्यत् अतिदीव्यतीति दीद्यत् दीप्यमानः । दिवेर्यङ्लुगन्तं रूपम् । किंच हे अग्ने, क्रतूननु अस्माकं यज्ञाननुलक्ष्य क्रत्वा क्रतुना कर्मणा त्वं पुनीहि यज्ञे मां पुनीहि । यद्वा यज्ञान्पुनीहि सम्यक् कारयेत्यर्थः ॥ ४० ॥

एकचत्वारिंशी।
यत्ते॑ प॒वित्र॑म॒र्चिष्यग्ने॒ वित॑तमन्त॒रा । ब्रह्म॒ तेन॑ पुनातु मा ।। ४१ ।।
उ० यत्ते । आग्नेयी गायत्री । ब्राह्मस्तृतीयः पादः । यत्ते तव पवित्रम् अर्चिषि हे अग्ने, विततं प्रसारितम् । अन्तरा मध्येन ब्रह्म सत्यं ज्ञानमनन्तम् त्रयीलक्षणपरं वा । तेन पवित्रेण अग्न्यनुज्ञातेन पुनातु मा माम् ॥ ४१ ॥
म० आग्नेयी गायत्री । तृतीयः. पादो ब्रह्मदेवत्यः । हे अग्ने, ते तव अर्चिषि ज्वालायामन्तरा मध्ये यत् ब्रह्म त्रयीरूपं परब्रह्मरूपं वा पवित्रं विततं विस्तृतं प्रसारितं तेन पवित्रेण मा मां भवान् पुनातु ॥४१॥

द्विचत्वारिंशी।
पव॑मान॒: सो अ॒द्य न॑: प॒वित्रे॑ण॒ विच॑र्षणिः । यः पोता॒ स पु॑नातु मा ।। ४२ ।।
उ० पवमानः । सोमदेवत्या गायत्री तृतीयः पादो वायव्यः। सः पवमानः सोमः । अद्य अस्मिन् द्यवि नः अस्मान् पवित्रेण विचर्षणिः । द्रष्टा कृताकृतावेक्षकः पुनातु । यश्च स्वभावतः पोता स पुनातु मां वायुः ॥ ४२ ॥
म० सोमदेवत्या गायत्री । तृतीयः पादो वायुदेवत्यः। स पवमानः पवतेऽसौ पवमानः शोधकः सोमः अद्यास्मिन् दिने पवित्रेण नोऽस्मान् पुनातु । कीदृशः सोमः । विचर्षणिः विविधं चष्टे विचर्षणिः द्रष्टा कृताकृतज्ञः । यद्वा विशिष्टाः चर्षणयो मनुष्याः ऋत्विजो यस्य सः । किंच यः पोता पुनाति पवते वा पोता वायुः स मा मां पुनातु ॥ ४२ ॥

त्रिचत्वारिंशी।
उ॒भाभ्यां॑ देव सवितः प॒वित्रे॑ण स॒वेन॑ च । मां पु॑नीहि वि॒श्वत॑: ।। ४३ ।।
उ० उभाभ्याम् । सावित्री गायत्री । हे देवसवितः, उभाभ्याम् पवित्रेण च । सवेनाभ्यनुज्ञया च । मां पुनीहि विश्वतः सर्वतः ॥ ४३॥
म० सवितृदेवत्या गायत्री । हे देव सवितः, उभाभ्यां कृत्वा विश्वतः सर्वतो मां पुनीहि । उभाभ्यां काभ्याम् । पवित्रेण अजाविलोमनिर्मितेन सवेनाभ्यनुज्ञया च त्वदाज्ञया यज्ञसिद्धिरित्यर्थः ॥ ४३ ॥

चतुश्चत्वारिंशी।।
वै॒श्व॒दे॒वी पु॑न॒ती दे॒व्यागा॒द्यस्या॑मि॒मा ब॒ह्व्य॒स्त॒न्वो॑ वी॒तपृ॑ष्ठाः ।
तया॒ मद॑न्तः सध॒मादे॑षु व॒यᳪं᳭ स्या॑म॒ पत॑यो रयी॒णाम् ।। ४४ ।।
उ० वैश्वदेवी त्रिष्टुप् अनिर्ज्ञाताभिधेया प्रवह्लिकेव | तत्र कांचिद्देवतामङ्गीकृत्य व्याचक्ष्महे । शतातृण्णाकुम्भी दक्षिणस्याग्नेरुपरिष्टात्क्षरति । सा चाभिधेया सौत्रामणीवा वाग्वा उखा वेत्यादि । विश्वेभ्यो देवेभ्यः आगता हिता वा वैश्वदेवी सुराकुम्भी । पुनती पावनं कुर्वाणा आगात् आगता । यस्याम् इमाः बह्व्यः धाराः तन्वः पुरः वीतपृष्ठाः कामितशरीराः । क्राम्यन्ते हि सुराधाराः । तया मदन्तः तया सह मोदमानाः । सधमादेषु 'सधमादस्थयोश्छन्दसि' इति सहस्य सधादेशः । सह मदनेषु वयं स्याम पतयः रयीणां धनानाम् ॥ ४४ ॥
म० विश्वदेवदेवत्या त्रिष्टुप् । इयं प्रवह्लिका अज्ञाताभिधेया । ततः कांचिद्देवतामुद्दिश्य व्याख्यास्यामः । दक्षिणाग्नेरुपरि शतातृण्णा कुम्भी क्षरति तां सौत्रामणीं वा वाचं वा उखां वा। देवी द्योतमाना सुराकुम्भी आगता । कीदृशी । वैश्वदेवी विश्वेभ्यः सर्वेभ्यो हिता वैश्वदेवी विश्वेभ्यो देवेभ्य आगता वा । पुनती पावनं कुर्वती । यस्यां कुम्भ्यामिमाः प्रत्यक्षतो दृश्यमानाः बह्व्यो बहुसंख्याकाः तन्वः शरीरप्राया धाराः वर्तन्ते । कीदृश्यस्तन्वः । वीतपृष्ठाः वीतमिष्टं पृष्ठं स्वरूपं यासां ताः कामितशरीराः सुराधाराः सुरैः काम्यन्ते । तया कुम्भ्या सधमादेषु यज्ञस्थानेषु मदन्तो मोदमानाः सन्तो वयं रयीणां धनानां पतयः स्याम भवेम । सह माद्यन्ति देवा येषु ते सधमादाः 'सध मादस्थयोश्छन्दसि' (पा० ६ । ३।९६) इति सहस्य सधादेशः ॥ ४४ ॥

पञ्चचत्वारिंशी।
ये स॑मा॒नाः सम॑नसः पि॒तरो॑ यम॒राज्ये॑ । तेषाँ॑ल्लो॒कः स्व॒धा नमो॑ य॒ज्ञो दे॒वेषु॑ कल्पताम् ।। ४५ ।।
उ० दक्षिणाग्नौ जुहोति । ये समानाः अनुष्टुप् पैत्री। ये समानाः जात्यादिभिः । समनसः समानमनस्काः पितरः यमराज्ये लोके इत्यस्य हि स्वे लोके राज्यम् । तेषां पितॄणां लोकः आयतनम् स्वधाशब्दोपलक्षितमन्नमस्तु । यद्वा तेषां पितॄणां लोक आयतनं स्वधाकारोपलक्षितमन्नमस्तु । नमस्कारोपलक्षिता च स्तुतिर्भवतु । यज्ञस्तु देवेषु कल्पतां समर्थो भवतु ॥ ४५ ॥
म० 'ये समाना इति यजमानो जुहोति' ( का० १९ । ३ । २३ ) । सकृद्गृहीतमाज्यं दक्षिणेऽग्नौ प्राचीनावीती दक्षिणामुखो यजमानो जुह्वा जुहोतीत्यर्थः । द्वे अनुष्टुभौ । आद्या पितृदेवत्या । यमराज्ये यमस्य राज्यं यस्मिन् तत्र यमलोके ये पितरो वर्तन्ते 'धर्मराजः पितृपतिः' इत्यभिधानात् । कीदृशाः पितरः । समानाः जातिरूपादिभिस्तुल्याः । समनसः समानं मनो येषां ते तुल्यमनस्काः 'समानस्य छन्दसि' (पा. ६ । ३ । ८४ ) इति समानस्य सादेशः। तेषां पितॄणां लोकः। विभक्तिव्यत्ययः । लोके स्वधा नमः स्वधाशब्दोपलक्षितं | नमोऽन्नमस्तु । यद्वान्नं नमस्कारश्चास्तु । यज्ञस्तु देवेषु कल्पतां देवांस्तर्पयितुं समर्थो भवत्वित्यर्थः ॥ ४५ ॥

षट्चत्वारिंशी।
ये स॑मा॒नाः सम॑नसो जी॒वा जी॒वेषु॑ माम॒काः । तेषा॒ᳪं᳭ श्रीर्मयि॑ कल्पताम॒स्मिँल्लो॒के श॒तᳪं᳭ समा॑: ।। ४६ ।।
उ०. उत्तरेऽग्नावाज्याहुतिं जुहोति । ये समानाः अनुष्टुप् । यजमानाः ये समानाः समनसः जीवाः जीवनवन्तः । जीवेषु जीवनवत्सु मध्ये मामकाः मदीयाः । तेषां संबन्धिनी श्रीः मयि कल्पतां क्लृप्ता भवतु । तान् परित्यज्य मामाश्रयत्वित्यर्थः । पापात्मानो हि गोत्रिणो भवन्ति । कुत्र कियन्तं च कालमित्यत आह । अस्मिन लोके शतं समाः। समाशब्दः संवत्सरवचनः ॥ ४६॥
म०. 'उत्तरे यज्ञोपवीत्युत्तरया' (का० १९ । ३ । २४)। उत्तरे उत्तरवेद्याहवनीये कृतसव्यो यजमान उत्तरयाग्रिमया ऋचाज्यं जुहोतीत्यर्थः । यजमानाशीः श्रीदेवत्या । जीवन्तीति जीवास्तेषु जीवेषु प्राणिषु मध्ये ये समानाः समनसः समनस्काः मामका मदीया जीवाः प्राणिनः । सपिण्डाः ये मे ते मामकाः 'तवकममकावेकवचने' (पा० ४ । ३ । ३) इति अस्मदो ममकादेशः । अस्मिन् लोके भूलोके शतं समाः शतवर्षपर्यन्तं तेषां मामकानां जीवानां श्रीर्मयि कल्पतां तांस्त्यक्त्वा मयि कलृप्ता भवतु । मामाश्रयतामित्यर्थः । गोत्रिणो हि पापात्मानः सहजाः शत्रवोऽत एवं प्रार्थ्यते ॥ ४६॥

सप्तचत्वारिंशी।
द्वे सृ॒ती अ॑शृणवं पितॄ॒णाम॒हं दे॒वाना॑मु॒त मर्त्या॑नाम् ।
ताभ्या॑मि॒दं विश्व॒मेज॒त्समे॑ति॒ यद॑न्त॒रा पि॒तरं॑ मा॒तरं॑ च ।। ४७ ।।
उ० पयः समन्वारब्धे जुहोति । द्वे सृती त्रिष्टुप् । पन्थानो ब्रवीति । ये एते शुक्लकृष्णे सृती यावेतौ देवयानपितृयाणौ पन्थानौ । अहमशृणवं पितॄणां श्रुतिवाक्येभ्यः । 'स एष देवयानो वा पितृयाणो वा पन्था' इति । देवानां देवयानगामिनाम् उत अपिच मर्त्यानां मरणधर्मिणां पितृयाणगामिनाम् । ताभ्यामिदं विश्वमेजत्समेति । तदः स्थाने यदो वृत्तिः । याभ्यां पथिभ्याम् इदं सर्वम् एजत् क्रियावत् समेति संगच्छति । यत् अन्तरा पितरं मातरं च । द्यौः पिता पृथिवी माता । सुहुतं ताभ्यां सृतीभ्यामस्तु ॥ ४७ ॥
म० 'अन्वारब्धेषु पयो जुहोति द्वे सृती इति' (का० १९ । ३ । २५)। ऋत्विग्यजमानेषु कृतान्वारम्भेषु अध्वर्युः पयोजुहोतीत्यर्थः। देवयानपितृयाणमार्गदेवत्या त्रिष्टुप् । मर्त्यानां मरणधर्मिणां प्राणिनां द्वे सृती द्वौ मार्गौ अहमशृणवं श्रुतवानस्मि श्रुतितः । स एष देवयानो वा पितृयाणो वा पन्था' इति श्रुतेः । के द्वे सृती अत आह । देवानां मार्ग एकः उतापि च पितॄणाम् देवमार्गः पितृमार्गश्चेति । पितरं मातरम् द्यौः पिता पृथिवी माता । 'असौ वै पितेयं माता' (१२ । ८ । १।२१) इति श्रुतेः । पितरं मातरं च अन्तरा भूलोकद्युलोकयोर्मध्ये तत् एजत् कम्पमानं क्रियावत् विश्वं सर्वमिदं ताभ्यां सृतिभ्यां देवयानपितृयाणाभ्यां समेति संगच्छते ताभ्यां सृतिभ्यां सुहुतमस्तु ॥ ४७ ॥

अष्टचत्वारिंशी।
इ॒दᳪं᳭ ह॒विः प्र॒जन॑नं मे अस्तु॒ दश॑वीर॒ᳪं᳭ सर्व॑गणᳪं᳭ स्व॒स्तये॑ ।
आ॒त्म॒सनि॑ प्रजा॒सनि॑ पशु॒सनि॑ लोक॒सन्य॑भय॒सनि॑ ।
अ॒ग्निः प्र॒जां ब॑हु॒लां मे॑ करो॒त्वन्नं॒ पयो॒ रेतो॑ अ॒स्मासु॑ धत्त ।। ४८ ।।
उ०. शेषं यजमानो भक्षयति । इदं हविः त्र्यवसाना अष्टिर्यजमानाशीः । इदं पयोलक्षणं हविः प्रजननं उत्पा दकम् मे मम अस्तु । दशवीरम् । 'प्राणा वै दशवीराः' । सर्वगणम् । 'अङ्गा वै सर्वगणाः' । स्वस्तये अविनाशाय । पुनरपि हविर्विशेष्यते । आत्मसनि आत्मानं यद्धविः सनोति संभजते तदात्मसनि । एवं प्रजासनि पशुसनि लोकसनि अभयसनि । अभयमपुनरावृत्तिः । अग्निः प्रजां बहुलाम् अतिवृद्धां मम करोतु । यूयं च हे ऋत्विजः, अन्नं च पयश्च रेतश्च अस्मासु धत्त ॥४८॥
मा० 'शेषं यजमानो भक्षयतीदᳪं᳭ हविरिति' (का० १९।। ३ । २६) । उखास्थितं शेषं पयो यजमानो भक्षयतीत्यर्थः ।। यजमानाशीर्देवत्या त्र्यवसाना अष्टिः एको व्यूहः । इदं पयोरूपं हविर्मे मम स्वस्तये अविनाशायास्तु । कीदृशं हविः । प्रजननं प्रजनयतीति प्रजननं प्रजोत्पादकम् । दशवीरं दश वीराः प्राणा यत्र तत् । यत्र पीते दशानां प्राणापानव्यानोदानसमाननागकूर्मकृकरदेवदत्तधनञ्जयसंज्ञानां प्राणानां स्वास्थ्यं भवतीत्यर्थः । 'प्राणा वै दशवीराः प्राणानेवात्मन्धत्ते' ( १२ । ८।१।२२) इति श्रुतेः । तथा सर्वगणं सर्वे गणा अङ्गानि यस्मिंस्तत् । यत्र पीतेऽङ्गानि स्वस्थानि स्युरित्यर्थः । 'अङ्गानि वै सर्वे गणा अङ्गान्येवात्मन्धत्ते' (१२।८।१।२२) इति श्रुतेः। आत्मसनि आत्मानं सनोति ददाति सनति संभजते वा 'षणु दाने' तुदादिः 'षण संभक्तौ' भ्वादिः । एवमग्रेऽपि । प्रजासनि पशुसनि 'आत्मानमेव सनोति पशून्सनोति' (१२। ८ । १। २२) इत्यादि श्रुतेः । लोकसनि लोकमैहिकं सनोति ऐहिकं सुखं ददातीत्यर्थः । 'लोकाय वै यजते तमेव जयति' (२२) इति श्रुतेः । अभयसनि अभयं स्वर्गं सनोति 'स्वर्गो वै लोकोऽभयᳪं᳭ स्वर्ग एव लोकेऽन्ततः प्रतितिष्ठति' (२२) इति श्रुतेः । एवं हविः प्रार्थ्याग्निं प्रार्थयते । अग्निमें मम प्रजां बहुलां प्रवृद्धां करोतु । एवमग्निमुक्त्वा ऋत्विज आह । हे ऋत्विजः, अस्मासु अन्नं व्रीह्यादि पयो दुग्धं रेतो वीर्यवत्तां यूयं धत्त स्थापयत । 'तद्य एवमेतेन याजयन्ति तानेतदाहैतम्मयि सर्वं धत्ते' ( २२) इति श्रुतेः ॥ ४८ ॥

एकोनपञ्चाशी।
उदी॑रता॒मव॑र॒ उत्परा॑स॒ उन्म॑ध्य॒माः पि॒तर॑: सो॒म्यास॑: ।
असुं॒ य ई॒युर॑वृ॒का ऋ॑त॒ज्ञास्ते नो॑ऽवन्तु पि॒तरो॒ हवे॑षु ।। ४९ ।।
उ० उदीरताम् । त्रयोदश पैञ्यस्त्रिष्टुभः जगत्येकादशी। यजमानवाचनम् । उदीरताम् 'ईर गतौ' उद उपसर्गात्परः । ऊर्ध्वं क्रमतां ऊर्ध्वं गच्छन्तु । अवरे येस्मिन् लोके अवस्थिताः पितरः । उत्परासः पर एव परासः ये च परस्मिन् लोकेऽवस्थितास्तेऽपि उदीरताम् तस्मादपि स्थानाद्विशिष्टतरं स्थानं गच्छन्तु । उन्मध्यमाः । मध्ये भवा मध्यमाः । येऽपि मध्यमास्ते ततो विशिष्टतत्स्थानमुद्गच्छन्तु । पितरः सोम्यासः सोमसंपादिनः । असुं ये ईयुः येऽपि असुं प्राणं ईयुः समन्वियुः वातात्मानः अवृका अनमित्राः मध्यस्थत्वमास्थिताः । ऋतज्ञाः सत्यज्ञा वा यज्ञज्ञा वा स्वाध्यायनिष्ठा वा । तेपि ततो विशिष्टतरं स्थानमृच्छन्तु । एवं च स्वकीयेन कर्मणा अस्मदीयेन च ये उन्नतिं प्राप्ताः ते नः अस्मान् अवन्तु पालयन्तु पितरः हवेषु आह्वानेषु ॥ ४९ ॥
म० सोमवतां बर्हिषदाममग्निष्वात्तानां च' ( का० १९ ।।३ । २१)। उदीरतामित्यादित्रयोदशर्चोऽनुवाकः तत्र । उदीरताम् ( ४९ ) अङ्गिरसः (५०) ये नः (५१) इति ऋक्त्रयस्याग्निष्वात्ता (६१) नित्यन्त्यायाश्च विनियोगः कल्पकृतोक्तः। त्वं सोम (५२) इति तृचं सोमवताम् बर्हिषद (५५) इति तृचं बर्हिषदाम् आयन्तु न (५८) इति तृचमग्निष्वात्तानाम् पुनन्तु ( ३९) इति नवर्चवाचनानन्तरं त्वं सोमेत्यादि (६२) तन्वं कल्पयातीत्यन्तं नवर्चं प्रत्यृचमध्वर्युर्यजमानेन वाचयतीत्यर्थः । त्रयोदश शङ्खदृष्टाः पितृदेवत्याः । एकादशी अग्निष्वात्ताः पितरः (५९) इयं जगती अन्या द्वादश त्रिष्टुभः । अवरे अस्मिन् लोकेऽवस्थिताः पितरः उदीरताम् ऊर्ध्वं क्रमन्ताम् ऊर्ध्वलोकं गच्छन्तु । 'ईर कम्पने' अदादिः लोट् । परासः पराः परस्मिन् लोके स्थिताः पितर उदीरतां तस्मादपि स्थानात् परं स्थानं गच्छतु । उन्मध्यमाः मध्ये भवा मध्यमाः पितरः उदीरताम् । कीदृशाः पितरः । सोम्यासः सोमं संपादयन्ति ते सोम्याः। ये च असुं प्राणमीयुः वातात्मानो वातरूपं प्राप्तास्ते पितरो हवेषु आह्वानेषु नोऽस्मानवन्तु रक्षन्तु । कीदृशाः। अवृकाः नास्ति वृकः शत्रुर्येषां ते उदासीनाः ऋतज्ञाः सत्यज्ञा यज्ञज्ञा वा स्वाध्यायनिष्ठा वा ॥ ४९ ॥

पञ्चाशी।
अङ्गि॑रसो नः पि॒तरो॒ नव॑ग्वा॒ अथ॑र्वाणो॒ भृग॑वः सो॒म्यास॑: ।
तेषां॑ व॒यᳪं᳭ सु॑म॒तौ य॒ज्ञिया॑ना॒मपि॑ भ॒द्रे सौ॑मन॒से स्या॑म ।। ५० ।।
उ० अङ्गिरसो नः । अङ्गिरा ऋषिस्तस्यापत्यानि बहूनि अङ्गिरसः नः अस्माकं पितरः नवग्वाः नवगतयः पुनःपुनरपुनरुक्त्या गच्छन्ति । नवनीया स्तोतव्या वा गतिर्येषां ते तथोक्ताः । ये च अथर्वाणः बहून्यपत्यानि अथर्वाणः । थर्वतिश्चरतिकर्मा तत्प्रतिषेधः । ये च भृगवः भृगोर्बहून्यपत्यानि । सोम्यासः सोमसंपादिनः । तेषां पितॄणां वयं सुमतौ स्याम । यज्ञियानां यज्ञसंपादिनाम् । अपिच भद्रे भन्दनीये सौमनसे कल्याणमनसे स्याम भवेम ॥५०॥
म० ये नोऽस्माकं पितरः तेषां सुमतौ शोभनबुद्धौ वयं स्याम भवेम । अस्तेर्लिङ् तेऽस्मासु सुमतिं कुर्वन्त्वित्यर्थः । तेषां भद्रे कल्याणकारिणि सौमनसे शोभनमनस्त्वेऽपि वयं स्याम । सुमनसो भावः सौमनसम् । अस्मासु कल्याणं मनः कुर्वन्त्वित्यर्थः । कीदृशानां तेषाम् । यज्ञियानां यज्ञे हिता यज्ञियाः यज्ञसंपादिनः । कीदृशाः पितरः । अङ्गिरसः अङ्गिरसो बहून्यपत्यानि अङ्गिरसः बहुत्वे तद्धितलोपः । नवा नूतना ग्वा गतिर्येषां ते नवा नवनीया स्तोतव्या ग्वा येषामिति वा । अथर्वाणः अथर्वणो मुनेर्बहून्यपत्यानि । भृगवः भृगोरपत्यानि । सोम्यासः | 'सोममर्हति यः' (पा० ४ । ४ । १३७ ) इति यः सोमसंपादिनः ॥५०॥

एकपञ्चाशी।
ये न॒: पूर्वे॑ पि॒तर॑: सो॒म्यासो॑ऽनूहि॒रे सो॑मपी॒थं वसि॑ष्ठाः ।
तेभि॑र्य॒मः स॑ᳪं᳭ररा॒णो ह॒वीᳪं᳭ष्यु॒शन्नु॒शद्भि॑: प्रतिका॒मम॑त्तु ।। ५१ ।।
उ० ये नः पूर्वे । ये नः अस्माकं पूर्वे पितरः सोम्यासः सोमसंपादिनः तेषां पितॄणाम् अनु ऊहिरे । 'वह प्रापणे' । देवाननु प्रापितवन्तः सोमपीथं सोमपानम् । वसिष्ठाः वसिष्ठस्य बहून्यपत्यानि । वसिष्ठः पुनर्वस्तृतमः कृतास्पदो वसति । तेभिः तैर्वसिष्ठैः यमः संरराणः संप्रियमाणः हवींषि । कथंभूतो यमः। उशन् ‘वश कान्तौ' अस्य कृतसंप्रसारणस्यैतद्रूपम् । कामयमानः । कथंभूतैर्वसिष्ठैः । उशद्भिः। कथमत्तु । प्रतिकामम् यथाकामं भक्षयतु ॥ ५१ ॥
म० नोऽस्माकं ये पूर्वे पितरः सोमपीथं सोमपानमनूहिरे अनुवहन्तिस्म देवान् प्रापितवन्तः । कीदृशाः । सोम्यासः सोमसंपादिनः । वसिष्ठाः वसिष्ठस्य गोत्रापत्यानि । यमः तेभिः तैः पितृभिः संरराणः प्रीयमाणः सन् प्रतिकामं हवींषि अत्तु भक्षयतु । 'रा दाने' शानच्प्रत्ययः । कीदृशो यमः । उशन् वष्टि कामयत इत्युशन् कामयमानः । कीदृशैः तैः । उशद्भिः उशन्ति ते उशन्तः तैः कामयमानैः 'वश कान्तौ शतृप्रत्ययः ॥५१॥

द्विपञ्चाशी।
त्वᳪं᳭ सो॑म॒ प्र चि॑कितो मनी॒षा त्वᳪं᳭ रजि॑ष्ठ॒मनु॑ नेषि॒ पन्था॑म् ।
तव॒ प्रणी॑ती पि॒तरो॑ न इन्दो दे॒वेषु॒ रत्न॑मभजन्त॒ धीरा॑: ।। ५२ ।।
उ० त्वं सोम । हे सोम, प्रचिकितः चिकित्वान् चेतनावान् प्रकर्षेण चेतनावान् विशिष्टचैतन्ययुक्तः त्वं मनीषा । मनस इच्छाविशिष्टतरा भवति यज्वनाम् । यद्वा हे सोम, त्वं प्रचिकितः । 'कित ज्ञाने' प्रकर्षेण ज्ञातासि । यावत् ज्ञातव्यम् मनीषा मनीषया स्वया प्रज्ञया । त्वं च रजिष्ठम् ऋजुतरं देवयानाख्यम् अनुनेषि अनुनयसि । पन्थां पन्थानम् । किंच । तव प्रणीती प्रणयनेन तवाभ्यनुज्ञानेन पितरः नः अस्माकम् हे इन्दो, देवेषु मध्ये रत्नं रमणीयं यज्ञफलम् अभजन्त धीराः धीमन्तः ॥५२॥
म०. त्वं मनीषा मनीषया स्वप्रज्ञया रजिष्ठमृजुतमं देवयानं पन्थां पन्थानमनुनेषि अनुनयसि प्रापयसि । मनीषा तृतीयैकवचने पूर्वसवर्णदीर्घः । अत्यन्तमृजुः रजिष्ठः 'अतिशायने तमबिष्ठनौ' (पा० ५। ३।५५) “विभाषर्जोश्छन्दसि' (पा. ६।४। १६२) इयृकारस्य र इष्ठादिषु । पन्थाम् 'अयस्मयादीनि छन्दसि' (पा० १ । ४ । २० ) इति सर्वनामस्थानेऽपि पदसंज्ञायां 'नलोपः प्रातिपदिकान्तस्य' (पा० ८ । २।७) इति नलोपे सवर्णदीर्घे पन्थानमिति रूपम् । अनुनेषि नयतेः शपि लुप्ते गुणे लटि रूपम् । कीदृशस्त्वम् । प्रचिकितः 'कित ज्ञाने' प्रकर्षेण चिकितः चेतनावान् विशिष्टचैतन्ययुतः । किंच हे इन्दो सोम, नोऽस्माकं पितरः तव प्रणीती प्रणीत्या प्रणयनेनाभ्यनुज्ञानेन देवेषु विषये रत्नं रमणीयं यज्ञफलमभजन्त सिषेविरे सोमयागेनैव स्वर्गाप्तेः । कीदृशाः पितरः । धीराः धीमन्तः यज्ञज्ञानवन्तः ॥ ५२ ॥

त्रिपञ्चाशी।
त्वया॒ हि न॑: पि॒तर॑: सोम॒ पूर्वे॒ कर्मा॑णि च॒क्रुः प॑वमान॒ धीरा॑: ।
व॒न्वन्नवा॑तः परि॒धीँ२।। रपो॑र्णु वी॒रेभि॒रश्वै॑र्म॒घवा॑ भवा नः ।। ५३ ।।
उ० त्वया हि नः यस्मात्त्वया आश्रयभूतेन नः अस्माकं पितरः हे सोम, पूर्वे पूर्वजाः कर्माणि चक्रुः । कृतवन्तः हे पवमान, धीराः धीमन्तः । अव अतः प्रार्थये च त्वाम् वन्वन् संभजमानः तानि तानि कर्माण्यस्मदीयानि । अवातः वाताद्युपद्रवरहितः एकचित्तः । परिधीन् सर्वतो निहितान् यज्ञोपद्रवकारिणः अपोर्णु । 'ऊर्णुन् आच्छादने' अपगमय । वीरेभिः वीरैश्चाश्वैश्च सहितः । मघवा धनवान् भव नः अस्माकम् । यो यस्य ददाति स तस्य धनवानिति मतिः ॥ ५३॥
म०. हे सोम, हे पवमान शोधक, नोऽस्माकं धीरा धीमन्तः पूर्वे पूर्वजाः पितरः हि यस्मात्कारणात् त्वया कृत्वा कर्माणि यज्ञादीनि चक्रुः अतः प्रार्थये त्वं परिधीनुपद्रवकारिणः अपोर्णुहि अपगमय । 'ऊर्णुञ् आच्छादने' लोट् । परिदधति सर्वत उपद्रवाय तिष्ठन्ति ते परिधयो यज्ञोपद्रावकाः । कीदृशस्त्वम् । वन्वन् वनुत इति वन्वन् अस्मत्कर्माणि संभजमानः । | तथाऽवातः नास्ति वातो यस्य । वात उपलक्षणं । वाताद्युपद्रवरहितः । किंच वीरेभिर्वीरैः अश्वैश्च सहितः सन्नोऽस्माकं मघवा धनवान् भव । मघं धनमस्यास्तीति मघवा । यो यस्य दाता | स तदीयधनवानिति लोकप्रसिद्धिः । भवेत्यस्य संहितायां दीर्घः । परिधीन् अपेत्यत्र 'दीर्घादटि समानपादे' (पा. ८। | ३ । ६) इति नकारस्य रुः ॥ ५३ ॥

चतुःपञ्चाशी।
त्वᳪं᳭ सो॑म पि॒तृभि॑: संविदा॒नोऽनु॒ द्यावा॑पृथि॒वी आ त॑तन्थ ।
तस्मै॑ त इन्दो ह॒विषा॑ विधेम व॒यᳪं᳭ स्या॑म॒ पत॑यो रयी॒णाम् ।। ५४ ।।
उ० त्वं सोम। यस्त्वं हे सोम, पितृभिः संविदानः संवादं कुर्वाणः । अनु द्यावापृथिवी आततन्थ । 'तनु विस्तारे' | अन्वातनोषि दृढीकरोषि द्यावापृथिव्यौ । तस्मै तव हे इन्दो, हविषा विधेम हविर्दद्म इति वाक्यार्थः । वयं च हविःप्रदानानन्तरं भवेम पतयो धनानाम् ॥ ५५ ॥
सोमवतां । पितॄणां षडृचः समाप्तः ॥
म० हे सोम, त्वं द्यावापृथिवी अन्वाततन्थ विस्तारितवान् 'तनु विस्तारे' लिट् 'बभूथाततन्थ-(पा० ७ । २ । ६४) इत्यादिना निपातः । किंभूतस्त्वम् । पितृभिः संविदानः संवित्त इति संविदानः संवादं कुर्वाणः 'समो गमि-' (पा० १।३ २९ ) इत्यादिना अत्मनेपदित्वाच्छानच् । हे इन्दो, तस्मै ते तुभ्यं वयं हविषा विधेम हविर्दद्मः । विभक्तिव्यत्ययः विधतिर्दानार्थः । हविर्दानेन च वयं रयीणां धनानां पतयः स्याम भवेम ॥ ५४ ॥ सोमवतां पितॄणां षडृचः समाप्तः ।

पञ्चपञ्चाशी।
बर्हि॑षदः पितर ऊ॒त्यर्वागि॒मा वो॑ ह॒व्या च॑कृमा जु॒षध्व॑म् ।
त आ ग॒ताव॑सा॒ शन्त॑मे॒नाथा॑ न॒: शं योर॑र॒पो द॑धात ।। ५५ ।।
उ० बर्हिषदः तिस्र ऋचो बर्हिषदाम् । हविर्यज्ञयाजिनो बर्हिषदः बर्हिषि सीदन्तीति बर्हिषदः पितरः । ऊती ऊत्या अर्वाक् अर्वाञ्च आगच्छत । को हेतुरागमन इति चेत् । इमा इमानि वः युष्माकं हव्या हवींषि चकृम । तानि जुषध्वं सेवध्वम् । यैश्च युष्माभिरधस्तनानि हवींष्यासेवितानि । ते यूयं पुनरप्याहूयमानाः आगताः । अवसा अन्नेन हविर्लक्षणेन । शंतमेन । शमिति सुखनाम । सुखयितृतमेन हेतुभूतेन अथ परितुष्टाः यज्ञसमाप्त्युत्तरकालम् नोऽस्माकं शंयोः पदद्वयमेतत् । शमनं च रोगाणां दधात । यावनं च भयानां दधात । अन्यदपि यत्किंचित् अरपः अपापं तदस्माकं दधात ॥ ५५ ॥
म०. अतो बर्हिषदां पितॄणां तृचः । बर्हिषदः बर्हिषि दर्भे सीदन्तीति बर्हिषदः । पृषोदरादित्वादन्त्यलोपः । हे बर्हिषदः पितरः, ते यूयमूत्या अवनेन निमित्तेन अर्वागागत आगच्छत । किमर्थमिति चेत् । वो युष्माकमिमा इमानि हव्या हव्यानि वयं चकृम । करोतेर्लिट् । कृतवन्तः तानि यूयं जुषध्वं सेवध्वम् । अथानन्तरं शंतमेन सुखयितृतमेनावसान्नेन तर्पिताः सन्तो नोऽस्माकं शं सुखं रोगशमनं यो भयपृथक्करणमरपः पापाभावं च दधात धत्त स्थापयत 'तप्तनव्-' (पा० ७ । १। ४५) इति तबादेशात् । 'श्नाभ्यस्तयोरातः' (पा० ६ । ४ । ११२) इति आलोपाभावः । शं योः 'शमनं च रोगाणां यावनं च भयानाम्' इति । 'यास्कः । 'रपो रिप्रमिति पापनामनी भवतः ॥ ५५॥

षट्पञ्चाशी।
आऽहं पि॒तॄन्त्सु॑वि॒दत्राँ॑२ अवित्सि॒ नपा॑तं च वि॒क्रम॑णं च॒ विष्णो॑: ।
ब॒र्हि॒षदो॒ ये स्व॒धया॑ सु॒तस्य॒ भज॑न्त पि॒त्वस्त इ॒हाग॑मिष्ठाः ।। ५६ ।।
उ० आहम् । आ अवित्सि आभिमुख्येन वेद्मि विदितवान् । अहं पितॄन् सुविदत्रान् । सुविदत्रः कल्याणदानः। कल्याणदानान् । नपातं च विक्रमणं च विष्णोः व्याप्तुर्यज्ञस्य । न विद्यते यत्रोपगतानां पातः स नपातः देवयानः पन्थाः । विविधं क्रमणं यत्र गतानां स विक्रमणः पितृयाणः पन्थाः। तत्र हि अरघट्टघटीवत् उत्तराधरं प्राणिनो गच्छन्ति । देवयानपितृयाणौ पन्थानौ यज्ञसंबन्धिनावहं वेद्मि । तद्गतांश्च पितॄन् । यत एवमतो ब्रवीमि । बर्हिषदो ये पितरः स्वधया अन्नेन सह सवनीयलक्षणेन । सुतस्य अभिषुतस्य सोमस्य भजन्ते सेवन्ते । पित्वः पानं सोमपानं ते इह अस्मिन्कर्मणि आगमिष्ठाः आगच्छन्त्वित्याख्यातसन्नतिः ॥ ५६ ॥
म० अहं पितॄन् आ अवित्सि आभिमुख्येन वेद्मि विदितवान् । विदेर्लुङि आत्मनेपदे उत्तमैकवचनरूपम् । कीदृशान् पितॄन् । सुविदत्रान् सुष्ठु विशेषेण ददतीति सुविदत्राः तान् कल्याणदानान् । किंच वेवेष्टि विष्णुः तस्य विष्णोः व्यापनशीलस्य यज्ञस्य 'यज्ञो वै विष्णुः' (१।१।३ । १) इति श्रुतेः । तस्य नपातं विक्रमणं च वेद्मि । नास्ति पातो यत्र स नपातो देवयानपथः । यत्र गतानां पातो नास्ति विविधं क्रमणं गमनागमनं यत्र स विक्रमणः पितृयाणपथः । यत्र गतानां पुनर्भोगान्ते पतनम् यज्ञसंबन्धिनौ देवयानपितृयाणौ पन्थानौ वेद्मीत्यर्थः । उद्गामिनः पितॄंश्च । अतो ब्रवीमि ये बर्हिषदः पितरः स्वधया सवनीयलक्षणेनान्नेन सह सुतस्याभिषुतस्य सोमस्य पित्वः पानं भजन्त भजन्ते सेवन्ते । लङ् अडभाव आर्षः । ते इह यज्ञे आगमिष्ठाः आगच्छन्तु । लोडर्थे लुङ् पुरुषवचनव्यत्ययः ॥५६॥

सप्तपञ्चाशी।
उप॑हूताः पि॒तर॑: सो॒म्यासो॑ बर्हि॒ष्ये॒षु नि॒धिषु॑ प्रि॒येषु॑ ।
त आ ग॑मन्तु॒ त इ॒ह श्रु॑व॒न्त्वधि॑ ब्रुवन्तु॒ ते॑ऽवन्त्व॒स्मान् ।। ५७ ।।
उ० उपहूताः पितरः सोम्यासः सोमसंपादिनः । बर्हिर्ष्येषु निधिषु प्रियेषु । हविर्विशेषणान्येतानि । बर्हिषि भवेषु बर्हिष्येषु बर्हिषि सादितेषु हविःष्वित्यर्थः । निधिभूतेषु पितॄणां प्रियेषु अभिरुचितेषु ते पितर एतज्ज्ञात्वा आगमन्तु आगच्छन्तु । आगत्य च ते इह श्रुवन्तु शृण्वन्तु अस्मदीयानि वचांसि।श्रुत्वा च अधिब्रुवन्तु यद्वक्तव्यं पितृमिः पुत्राणाम् । ते च अवन्तु रक्षन्तु सर्वतः अस्मान् ॥ ५७ ॥
म० हे पितरः, इह यज्ञे आगमन्तु आगच्छन्तु । व्यत्ययेन शपो लुक् । ते श्रुवन्तु अस्मद्वचः शृण्वन्तु । श्रुत्वा च अधिब्रुवन्तु पितृभिः पुत्राणां यद्वक्तव्यं तद्वदन्तु । ते अस्मानवन्तु । कीदृशाः पितरः । प्रियेषु अभिरुचितेषु हविःषु उपहूताः सोम्यासः सोम्याः । कीदृशेषु प्रियेषु । बर्हिष्येषु बर्हिषि भवानि बर्हिष्याणि तेषु बर्हिषि सादितेषु तथा निधिषु निधिभूतेषु निधिवत्स्थापनीयेषु ॥ ५७ ॥

अष्टपञ्चाशी।
आय॑न्तु नः पि॒तर॑: सो॒म्यासो॑ऽग्निष्वा॒त्ताः प॒थिभि॑र्देव॒यानै॑: ।
अ॒स्मिन्य॒ज्ञे स्व॒धया॒ मद॒न्तोऽधि॑ ब्रुवन्तु॒ ते॒ऽवन्त्व॒स्मान् ।। ५८ ।।
उ० आयन्तु नः । चतस्रोऽग्निष्वात्तेभ्यः । आयन्तु आगच्छन्तु नः अस्माकं पितरः । सोम्यासः सोमसंपादिनः । अग्निष्वात्ताः पुनः यान् अग्निरेव स्वदयति । नहि ते श्रौतस्मार्तकर्मकारिणः । पथिभिर्देवयानैः देवसहगमनैः । देवसहयायिनस्ते पितरो येषामेतत्कर्म क्रियते पुत्रपौत्रप्रपौत्रैः । उक्तं च 'पुत्रेण लोकं जयति पौत्रेणानन्त्यमश्नुते । अथ पुत्रस्य पौत्रेण ब्रध्नयाप्नोति विष्टपम् इति। आगत्य च। अस्मिन्यज्ञे स्वधया अन्नेन । मदन्तः तृप्यन्तः । परिपुष्टा अधिब्रुवस्तु । तेऽवन्त्वस्मानिति व्याख्यातम् ॥ ५८ ॥
म० चतस्र ऋचोऽग्निष्वात्तानां पितॄणाम् । नोऽस्माकं पितरः देवयानैः पथिभिर्मागैः आयन्तु आगच्छन्तु । देवैः सह यान्ति पितरो येषु ते देवयाना मार्गाः तैः । कीदृशाः पितरः। सोम्यासः सोम्याः सोमपानार्हाः । अग्निष्वात्ताः अग्निना स्वात्ताः स्वादिताः अग्निर्यान् दहन् स्वादयति । श्रौतस्मार्तकर्मानुष्ठायिनः । येषां पुत्रादिभिरेतत्कर्मानुष्ठीयते । तदुक्तम् ‘पुत्रेण लोकान् जयति पौत्रेणानन्त्यमश्नुते । अथ पुत्रस्य पौत्रेण ब्रध्नस्याप्नोति विष्टपम्' इति । किंच पितर आगत्यास्मिन् यज्ञे स्वधयान्नेन मदन्तः तृप्यन्तस्तुष्टाः सन्तो नोऽस्मानधिब्रुवन्तु अधिकान् वदन्तु । तद्वाक्यात्तथैव वयमधिकाः स्यामेत्यर्थः । ते पितरोऽस्मानवन्तु पालयन्तु ॥ ५८ ॥

एकोनषष्टी।
अग्नि॑ष्वात्ताः पितर॒ एह ग॑च्छत॒ सद॑:सदः सदत सुप्रणीतयः ।
अ॒त्ता ह॒वीᳪं᳭षि॒ प्रय॑तानि ब॒र्हिष्यथा॑ र॒यिᳪं᳭ सर्व॑वीरं दधातन ।। ५९ ।।
उ० अग्निष्वात्ताः पितरः आ इह गच्छत आगच्छत इह । एत्य च सदःसदः गृहं गृहं प्रति सदत उपविशत । . हे सुप्रणीतयः साधुप्रणयनाः । ततः सुखोपविष्टाः अत्त भक्षयत । हवींषि प्रयतानि व्यपगतरागद्वेषमोहैरभिसंस्कृतानि शुचीनि । बर्हिषि अन्नानि । अथ तृप्ताः सन्तः रयिं धनं सर्ववीरं दधातन। नकार उपजनः।।५९।।
म० हे अग्निष्वात्ताः पितरः, इह यज्ञे यूयमागच्छत। आगत्य च सदःसदः प्रतिगृहं सदत उपविशत 'नित्यवीप्सयोः' (पा० ८।१।४) इति द्वित्वम् । कीदृशा यूयम् । सुप्रणीतयः शोभना प्रणीतिः प्रणयनं येषां ते । ततः सदस्युपविष्टाः सन्तः हवींषि अत्त भक्षयत । अत्तेर्लोट् संहितायां दीर्घः । कीदृशानि हवींषि । बर्हिषि दर्भे प्रयतानि नियमपूर्वकं स्थापितानि प्रकर्षेण यम्यन्ते नियम्यन्ते तानि प्रयतानि । अथानन्तरं तृप्ताः सन्तः सर्ववीरं रयिं दधातन स्थापयत सर्वे वीराः वा यत्र तम् । 'निपातस्य च' (पा० ६ । ३ । १३६) इति दीर्घोऽथशब्दस्य 'तप्तनव्' (पा. ७।१।४५) इति तनबादेशः ॥ ५९ ॥

षष्टी।
ये अ॑ग्निष्वा॒त्ता ये अन॑ग्निष्वात्ता॒ मध्ये॑ दि॒वः स्व॒धया॑ मा॒दय॑न्ते ।
तेभ्य॑: स्व॒राडसु॑नीतिमे॒तां य॑थाव॒शं त॒न्वं॒ कल्पयाति ।। ६० ।।
उ० ये अग्निष्वात्ताः ये पितरः अग्निष्वात्ता अग्निना आस्वादिताः ये च अनग्निष्वात्ताः श्मशानकर्माप्राप्ताः । मध्ये दिवः द्युलोकस्य स्वधया स्वकर्मफलोपभोगेन मादयन्ते सुखं संसेवन्ते । तेभ्यः । तेषामिति विभक्तिव्यत्ययः । स्वराट् स्वयमेव राजत इति स्वराट् । अकृतकैश्वर्यो यः स स्वराडुच्यते । असुनीतिम् एताम् आत्मनो द्वितीयं सहायं कृत्वा । असून् प्राणान्नयतीत्यसुनीतिः । एताम् एतमिति लिङ्गव्यत्ययः । यथाकामं यथारुचि तन्वं शरीरं कल्पयाति कल्पयतु ॥६०॥ -
म० ये पितरः अग्निष्वात्ताः अग्निना दग्धाः विधिवदौर्ध्वदेहिकं प्राप्ताः । ये चानग्निष्वात्ता न अग्निना खादिता अदग्धाः श्मशानकर्म न प्राप्ताः सन्तः दिवः स्वर्गस्य मध्ये स्वधयान्नेन स्वकर्मोपार्जितेन मादयन्ते तृप्यन्ति सुखं सेवन्ते । | स्वराट् स्वेनैव राजते स्वराट् यमः तेभ्यः पितृभ्योऽर्थे यथावशं वशोऽभिलाषः यथाकाममेतां मनुष्यसंबन्धिनीं तन्वं शरीरं कल्पयाति कल्पयतु । लेट् 'लेटोऽडाटौ' तेभ्यो नरशरीरं यमो ददात्वित्यर्थः । कीदृशीं तन्वम् । असुनीतिम् असून् प्राणान् नयति प्राप्नोत्यसुनीतिः प्राणयुक्ता चिरकालजीविनीत्यर्थः । ते यथा पुनः स्तम्भनं कुर्वन्ति ॥ ६० ॥

एकषष्टी।
अ॒ग्नि॒ष्वा॒त्तानृ॑तु॒मतो॑ हवामहे नाराश॒ᳪं᳭से सो॑मपी॒थं य आ॒शुः ।
ते नो॒ विप्रा॑सः सु॒हवा॑ भवन्तु व॒यᳪं᳭ स्या॑म॒ पत॑यो रयी॒णाम् ।। ६१ ।।
उ० अग्निष्वात्तान् । अग्निष्वात्तान् पितॄन् ऋतुमतः ऋतुसंयुक्तान् हवामहे आह्वयामः । नाराशंसे सोमपीथं सोमपानम् ये आशुः प्राप्नुयुः । नाराशंसे चमसे पितॄणां भक्षः श्रूयते । 'अथ यदि नाराशंसेषु सन्न' इत्युपक्रम्य । 'पितृभ्यो नाराशᳪं᳭सेभ्यः' इति । ते चाहूयमानाः विप्रासः मेधाविनः सुहवाः स्वाह्वाना भवन्तु । एवं कृते वयं स्याम पतयो रयीणाम् ॥ ६१ ॥
म० अग्निष्वात्तान् पितॄन् वयं हवामहे आह्वयामः । कीदृशान् । ऋतुमतः ऋतवो विद्यन्ते येषु ते ऋतुमन्तः तानृतुयुक्तानाह्वयामः । ये पितरो नाराशंसे चमसे सोमपीथं सोमपानमाशुः अश्नन्ति स्म 'अश भोजने' लिट् । 'अथ यदि नाराशᳪं᳭सेषु सन्न' इत्युपक्रम्य 'पितृभ्यो नाराशᳪं᳭सेभ्यः स्वाहेति जुहुयात्' (१२। ६।१।३३ ) इति श्रुत्या नाराशंसे चमसे पितॄणां भक्षः प्रतिपादितः । ते पितरो नोऽस्माकं सुहवाः स्वाह्वाना भवन्तु । अस्मदाहूताः शीघ्रमायान्त्वित्यर्थः । एवं पितृष्वाहूतेषु वयं रयीणां धनानां पतयः स्वामिनः स्याम भवेम ॥ ६१॥

द्विषष्टी।
आच्या॒ जानु॑ दक्षिण॒तो नि॒षद्ये॒मं य॒ज्ञम॒भिगृ॑णीत॒ विश्वे॑ ।
मा हि॑ᳪं᳭सिष्ट पितर॒: केन॑चिन्नो॒ यद्व॒ आग॑: पुरु॒षता॒ करा॑म ।। ६२ ।।
उ० आच्या जानु । दशर्चोऽनुवाकः । तत्र नव पित्र्या दशम्यैन्द्री गायत्री। द्वितीयातृतीये नवमी चानुष्टुभः । त्रिष्टुभ इतराः । पितर उच्यन्ते । आच्या जानु सव्यं जानु पातयित्वा । दक्षिणतो निषद्य दक्षिणतोऽवस्थानं कृत्वा । रूपतोयं निर्देशः । एवंस्वभावा होते । 'अथैनं पितरः प्राचीनावीतिनः सव्यं जान्वाच्योपासीत' इति श्रुतिः । इममस्मदीयं यज्ञम् अभिगृणीत अभिष्टुवत दक्षिणामन्त्रकालकर्तृहविर्यजमानोत्कर्षैः साध्वयं यज्ञ इति । विश्वे सर्वे सोमवन्तः बर्हिषदः अग्निष्वात्ताश्च । मा च हिंसिष्ट । माच हिंसां कुरुत । हे पितरः केनचिदपि नः अस्मान् यत् यद्यपि वः युष्माकम् आगः अपराधः। आगःशब्दः सान्तो नपुंसकलिङ्गोऽपराधवचनः । पुरुषता । विभक्तिलोपः पुरुषत्वेन चलचित्ततया । कराम कुर्मः ॥ ६२ ॥
म० कात्यायनेन आच्या जान्वित्यनुवाकस्य विनियोगो नोक्तः । उदीरतामित्यनुवाकद्वयस्य श्राद्धेऽश्नत्सु द्विजेषु जपे विनियोगः । दशर्चोऽनुवाकः । आद्या नव पितृदेवत्याः । द्वे त्रिष्टुभौ । हे पितरः, विश्वे सर्वे सोमवन्तो बर्हिषदोऽग्निष्वात्ताश्च यूयमिमं यज्ञं सौत्रामणीमभिगृणीत अभिष्टुत । दक्षिणामन्त्रकालकर्तृहविर्यजमानोत्कर्षैः साध्वयं यज्ञ इति स्तुतिं कुरुतेत्यर्थः । किं कृत्वा । जान्वाच्य वामजानु पातयित्वा । तथा दक्षिणतो निषद्य दक्षिणाभिमुखा उपविश्य । स हि तेषां स्वभावः । अथैनं पितरः प्राचीनावीतिनः सव्यं जान्वाच्योपासीदन्' इति श्रुतेः । किंच हे पितरः, केनचित् केनाप्यपराधेन नोऽस्मान् मा हिंसिष्ट हिंसां मा कुरुत । हिनस्तेर्लुङ् । यत् यस्मात् पुरुषता पुरुषस्य भावः पुरुषता विभक्तिलोपः । पुरुषभावेन चलचित्तत्वेन वो युष्माकमागोऽपराधं वयं कराम कुर्मः। करोतेः शपि लङि रूपम् अडभावः । यद्यप्यपराधिनो वयं तथापि मास्मान् वधिष्टेत्यर्थः ॥ ६२॥

त्रिषष्टी।
आसी॑नासो अरु॒णीना॑मु॒पस्थे॑ र॒यिं ध॑त्त दा॒शुषे॒ मर्त्या॑य ।
पु॒त्रेभ्य॑: पितर॒स्तस्य॒ वस्व॒: प्र य॑च्छत॒ त इ॒होर्जं॑ दधात ।। ६३ ।।

उ० आसीनासः ये यूयमासीनाः । अरुणीनाम् अरुणवर्णानां अरुणवर्णाहि ता ऊर्णा भवन्ति याभिः कुतपाः क्रियन्ते कुतपप्रियाश्च पितरः 'कुतपं चासने दद्यात्' इति स्मृतिः। यद्वा अरुणवर्णानां रश्मीनाम् उपस्थे उत्सङ्गे आसीना आदित्यलोकजितः पितर उच्यन्ते । रयिं धनम् धत्त दत्त । दाशुषे हवींषि दत्तवते यजमानाय मर्त्याय मनुष्याय । पुत्रेभ्यश्च हे पितरः, यजमानार्थं पुत्रवचनम् । सर्वे हि पितॄणां पुत्रा यजमानाः । तस्य यजमानस्य वस्वः प्रयच्छत दत्त । यदभिप्रेतं वसुनो धनस्य च इह अस्मदीये उर्जं दधात स्थापयत ॥ ६३ ॥
म०. हे पितरः, दाशुषे हविर्दत्तवते मर्त्याय मनुष्याय यजमानाय यूयं रयिं धनं धत्त दत्त । कीदृशा यूयम् । अरुणीनामरुणवर्णानामूर्णानामुपस्थे उपरिभागे आसीनासः आसीनाः उपविष्टाः । याभिः कुतपाः क्रियन्ते ता ऊर्णा अरुणा भवन्ति 'कुतपं चासने दद्यात्' इति स्मृतेः कुतपप्रियाः पितरः । यद्वा अरुणीनामरुणवर्णानां रश्मीनामुपस्थे उत्सङ्गे आसीनाः । आदित्यलोकस्था इत्यर्थः । किंच हे पितरः, पुत्रेभ्यो यजमानेभ्यः तस्य वस्वः वसुनो धनस्य प्रयच्छत दत्त । कर्मणि षष्ठी । यदभीष्टं धनं तद्दत्त । पितॄणां पुत्रा एव यजमानाः । ते यूयमिहास्मदीये यज्ञे ऊर्जं रसं दधात स्थापयत ॥ ६३॥

चतुःषष्टी।
यम॑ग्ने कव्यवाहन॒ त्वं चि॒न्मन्य॑से र॒यिम् । तन्नो॑ गी॒र्भिः श्र॒वाय्यं॑ देव॒त्रा प॑नया॒ युज॑म् ।। ६४ ।।
उ०. यमग्ने कव्यवाहन । स्विष्टकृदग्निरुच्यते चतसृभिर्ऋग्भिः । हे अग्ने कव्यवाहन, कव्यं वोढव्यमेत्ययमधिकारो यस्य स एवं संबोध्यते । यं रयिं हविर्लक्षणं धनम् त्वं चित् त्वमपि मन्यसे अवगच्छसि । साधु शक्यते तेन श्रेयःप्राप्तुमिति । तं हविर्लक्षणं रयिं धनम् नः अस्माकं स्वभूतम् गीर्भिः वाग्भिः पुरोनुवाक्यायाज्यावषट्कारलक्षणाभिः । श्रवाय्यम् हविर्विशेषणमेतत् । श्रवणीयम् देवत्रा देवेभ्यः पनय देहि । पनतिर्दानकर्मा । युजं यथायोगम् ॥ ६४ ॥
म०. द्वे अनुष्टुभौ । कव्यं पितृभ्यो देयमन्नं वहतीति कव्यवाहनः 'कव्यपुरीषपुरीष्येषु ञ्युट्' (पा० ३।२।६५) इति ञ्युट्प्रत्ययः । हे कव्यवाहन हे अग्ने, त्वं चित् त्वमपि यं रयिं हविर्लक्षणं धनं मन्यसे उत्तम जानासि नोऽस्माकं तं रयिं देवत्रा देवेषु पनय देहि । पनतिर्दानकर्मा । 'देवमनुष्यपुरुष' (पा० ५। ४ । ५६) इत्यादिना सप्तम्यर्थे देवात् त्राप्रत्ययः । कीदृशं रयिम् । गीर्भिः वाग्भिः पुरोनुवाक्यायाज्यावषट्कारलक्षणाभिः श्रवाय्यं श्रोतुं योग्यम् 'श्रुदक्षिस्पृहिगृहिदयिभ्य आय्यः' ( उणा० ३ । ९५) इति शृणोतेराय्यप्रत्ययः । तथा युजं युज्यत इति युक् तम् 'क्विप् च' (पा० ३ । २ । ७६ ) इति क्विप्प्रत्ययः योग्यम् ॥ ६४ ॥

पञ्चषष्टी ।
यो अ॒ग्निः क॑व्य॒वाह॑नः पि॒तॄन् यक्ष॑दृता॒वृध॑: ।
प्रेदु॑ ह॒व्यानि॑ वोचति दे॒वेभ्य॑श्च पि॒तृभ्य॒ आ ।। ६५ ।।
उ० यो अग्निः कव्यवाहनः कव्यं पितॄणां हविरुच्यते । यच्च हविः पितॄन् यक्षत् इष्टवान् ऋतावृधः सत्यवृधो वा यज्ञवृधो वा । द्वितीयाबहुवचनमेतत् । स इदानीं प्रेदु हव्यानि वोचति । प्रवोचति प्रब्रवीतु हव्यानि हवींषि । देवेभ्यश्च पितृभ्य आ । समुच्चयार्थीय आकारः । देवेभ्यश्च पितृभ्यश्च । इमानि देवेभ्य इमानि पितृभ्य इति ॥ ६५ ॥
म० यः कव्यवाहनोऽग्निः पितॄन्यक्षदिष्टवान् 'लेटोऽडाटौ' 'सिब्बहुलं लेटि' इतो लोपः । कीदृशान् पितॄन् । ऋतावृधः ऋतं सत्यं यज्ञं वा वर्धयन्ति ते ऋतावृधः । संहितायां दीर्घः। तान् । सोऽग्निरिदानीं देवेभ्यः पितृभ्यश्च हव्यानि हवींषि प्रवोचति प्रब्रवीतु । इमानि देवेभ्य इमानि पितृभ्य इति वदत्वित्यर्थः । इत् उ निपातौ पादपूरणौ । आकारः समुच्चयार्थः । व्यत्ययेन वचेः शपि 'वच उम्' (पा० ७ । ४ । २७) इति छान्दस उमागमः ॥ ६५ ॥

षट्षष्टी।
त्वम॑ग्न ईडि॒तः क॑व्यवाह॒नावा॑ड्ढ॒व्यानि॑ सुर॒भीणि॑ कृ॒त्वी ।
प्रादा॑: पि॒तृभ्य॑: स्व॒धया॒ ते अ॑क्षन्न॒द्धि त्वं दे॑व॒ प्रय॑ता ह॒वीᳪं᳭षि॑ ।। ६६ ।।
उ० त्वमग्ने । यस्त्वं हे अग्ने, ईडितः अध्येषितः सन् कव्यवाहन अवाट् 'वह प्रापणे' इत्यस्यैतद्रूपम् । ऊढवानसि । हव्यानि हवींषि । सुरभीणि सुगन्धीनि । कृत्वी कृत्वा । कृत्वा हवींषि । प्रादाः प्रदत्तवानसि पितृभ्यः स्वधया पितृमन्त्रेण । ते च पितरः । अक्षन् अत्तवन्तो भक्षितवन्तः। अद्धि भक्षय त्वं हे देव । प्रयता प्रयतानि शुचीनि हवींषि ॥६६॥
म० चतस्रस्त्रिष्टुभः । हे कव्यवाहन, हे अग्ने, त्वं हव्यानि हवींषि सुरभीणि कृत्वी सुगन्धानि कृत्वा अवाट् वहसि स्म । वहेर्लुङि इडागमाभावे सिचो लोपे रूपमवाट् । 'स्नात्व्यादयश्च' ( पा० ७।१। ४९ ) इति कृत्वीति निपातः । कीदृशस्त्वम्। ईडितः स्तुतः देवैर्ऋत्विग्भिश्च । किंच हव्यानि ऊढ्वा स्वधया पितृमन्त्रेण पितृभ्यः त्वं प्रादाः दत्तवानसि । ददातेर्लुङि रूपम् । ते च पितरः अक्षन् भक्षयन्ति स्म । 'घस्लृ अदने' इत्यस्य रूपम् । हे देव, त्वमपि अद्धि हवींषि भक्षय । 'अद भक्षणे' लोट् । कीदृशानि हवींषि । प्रयता प्रयतानि शुद्धानि ॥६६॥

सप्तषष्टी ।
ये चे॒ह पि॒तरो॒ ये च॒ नेह याँश्च॑ वि॒द्म याँ२।। उ॑ च॒ न प्र॑वि॒द्म ।
त्वं वे॑त्थ॒ यति॒ ते जा॑तवेदः स्व॒धाभि॑र्य॒ज्ञँᳪं᳭ सुकृ॑तं जुषस्व ।। ६७ ।।
उ० ये चेह । ये पितरः इहास्मिन्समीपे इह वा लोके आसते । ये च नेह । यान् च पितॄन् विद्म अवगच्छामः । यान् । उ इति निपातः पादपूरणः । च न प्रविद्मः न प्रजानीमः । त्वं वेत्थ यति ते जातवेदः । तेशब्दः आदौ क्रियते द्वितीयान्तो वाक्यस्य बलीयस्त्वात् । तान् त्वं वेत्थ वेत्सि जानासि । यति । अविभक्तिको निर्देशः । यतीन् शुचीन् नित्यनैमित्तिककर्मकरणान्निर्दग्धकल्मषान् । हे जातवेदः । अतएवमुच्यसे । स्वधाभिः पितृसंबद्धैर्हविर्भिः । यज्ञं पितृयज्ञम् । सुकृतं साधुकृतम् । जुषस्व सेवस्व ॥६७॥
म० ये पितर इह लोके वर्तन्ते ये च इह लोके न सन्ति यांश्च पितॄन् वयं विद्म जानीमः । उ पादपूरणः । यांश्च पितॄन् वयं न प्रविद्म न प्रकर्षेण जानीमः । हे जातवेदः, ते पितरो यति यावन्तो वर्तन्ते तान् त्वं वेत्थ जानासि । या संख्या येषां ते यति 'किमः संख्यापरिमाणे' (पा० ५।२। ४१) इत्यादिना सूत्रेण यत्तद्भ्यामपि डतिरिति वार्तिकेन यच्छब्दात् डतिप्रत्ययः 'डति च' (पा. १।१।२५) इति तस्य षट्संज्ञत्वात् 'षट्भ्यो लुक्' (पा० ७ । १ । २२) इति जसो लुक् । यद्वा यतीन् शुचीन् नित्यनैमित्तिकानुष्ठानैर्निष्पापान ते तान् त्वं वेत्थ । यति विभक्तिलोपः । ते इत्यत्र व्यत्ययेन जस् । किंच स्वधाभिः पितॄणामन्नैः सुकृतं शोभनं कृतं यज्ञं त्वं जुषस्व सेवस्व॥६७ ॥

अष्टषष्टी।
इ॒दं पि॒तृभ्यो॒ नमो॑ अस्त्व॒द्य ये पूर्वा॑सो॒ य उप॑रास ई॒युः ।
ये पार्थि॑वे॒ रज॒स्या निष॑त्ता॒ ये वा॑ नू॒नᳪं᳭ सु॑वृ॒जना॑सु वि॒क्षु ।। ६८ ।।
उ० इदं पितृभ्यः । इदमिति प्रत्यक्षतो निर्देशः । पितृभ्यो नमः अन्नं हविर्लक्षणं अस्तु । अद्य अद्यतनम् ये पितरः पूर्वासः पूर्वमीयुः स्वर्गम् । ये च उपरासः उपरतव्यापाराः कृतकृत्याः परं ब्रह्म ईयुर्याताः । ये च पार्थिवे रजसि। पृथिव्यां भवं पार्थिवं रजः ज्योतिरग्निः तत्र आनिषत्ताः आभिमुख्येन निषण्णाः । अग्निलोकं प्राप्ता इत्यर्थः । ये वा ये च नूनं निश्चयेन । सुवृजनासु साधुवृत्तासु । विक्षु यजमानेषु निषण्णाः । तेभ्य इदं पितृभ्यो नमो अस्त्वद्येति संबन्धः ॥ ६८॥
म० ये पितरः पूर्वासः पूर्वे ईयुः स्वर्गं जग्मुः । ये च उपरासः उपराः उपरमन्ते विरमन्ति ते उपरा उपरतव्यापाराः कृतकृत्याः सन्त ईयुः परं ब्रह्म प्रापुः । ये च पार्थिवे रजसि पृथिव्यां भवं पार्थिवं रजो ज्योतिरग्निः तस्मिन्ना निषत्ताः आभिमुख्ये निषण्णाः 'नसत्तनिषत्त-' (पा. ८ । २ । ६१) इत्यादिना निष्ठायां निपातः । ये वा । वा समुच्चयार्थः । ये च नूनं निश्चितं विक्षु प्रजासु यजमानलक्षणासु निषण्णाः । कीशीषु विक्षु । सुवृजनासु शोभनं वृजनं बलं यासां ताः सुवृजनास्तासु धर्मरूपबलयुक्तासु । अद्यास्मिन् दिने तेभ्यश्चतुर्विधेभ्यः स्वर्गब्रह्माग्नियजमानस्थेभ्यः इदं नमोऽन्नमस्तु ॥ ६८ ॥

एकोनसप्ततितमी।
अधा॒ यथा॑ नः पि॒तर॒: परा॑सः प्र॒त्नासो॑ अग्न ऋ॒तमा॑शुषा॒णाः ।
शुचीद॑य॒न् दीधि॑तिमुक्थ॒शास॒: क्षामा॑ भि॒न्दन्तो॑ अरु॒णीरप॑ व्रन् ।। ६९ ।।

उ० अधा यथा । अथैवं सति यथा येन प्रकारेण नः अस्माकं पितरः परासः पराएव परासः उत्कृष्टाः । प्रत्नासः । प्रत्नशब्दः पुराणवचनः । पुराणाः हे अग्ने, ऋतं यज्ञम् आशुषाणाः अश्नवानाः व्याप्नुवन्तः । शुचि अविभक्तिको निर्देशः । शुचिं दीप्तं भास्वरम् । इच्छब्द एवार्थे । अयन् आगताः प्राप्ताः दीधितिम् आदित्यरश्मिम् तत आदित्यमण्डलम् । एष हि देवयानः पन्थाः । उक्थशासः उक्थानि ये शंसन्ति यज्ञेषु ते उक्थशासः । पितॄणां विशेषणमेतत् । एवं वयमपि हे अग्ने, त्वत्प्रसादात् क्षामा भिन्दन्तः । क्षामा अविभक्तिको निर्देशः । क्षामां पृथिवीं भिन्दन्तः वेदिचात्वालयूपावटादिखननैः । यद्वा पृथिव्याश्रयाणि यज्ञे व्रीहिपशुयूपादीनि भिन्दन्तः यज्ञं सर्वोपकारकमनुतिष्ठन्त इत्यर्थः । अरुणीः आरोचनाः। रश्मीन् अपव्रन् अपवृणुमः । अप्रवृत्य च रश्मीन् देवपन्थानमनुतिष्ठाम इत्यर्थः ॥ ६९ ॥
म० हे अग्ने, नोऽस्माकं पितरः अध अथानन्तरं देहयात्रोत्तरकालं यथा येन प्रकारेण शुचि । सुपो लोपः । इदेवार्थे । शुचिं निर्मलं दीधितिं रविमण्डलमेव अयन् प्राप्ताः । 'अय गतौ' लङ् अडभाव आर्षः । कीदृशाः पितरः । परासः परा उत्कृष्टाः प्रत्नासः प्रत्नाः पुराणाः ऋतं यज्ञमाशुषाणाः अश्नुवाना व्याप्नुवन्तः । एवंभूताः पितरः यथा देवयानं पन्थानं प्राप्ताः तथा वयमपि अरुणीः अरुणवर्णाः सूर्यदीधितिमपव्रन् अपवृणुमः । सूर्यरश्मीनपवृत्य देवयानमार्ग प्राप्नुम इत्यर्थः । 'वृञ् वरणे' विकरणव्यत्ययेन शपि लुप्ते लङि रूपम् । अडभावः । पुरुषव्यत्ययश्छान्दसः। कीदृशा वयम् । उक्थशासः यज्ञेषु उक्थानि शस्त्राणि शंसन्ति वदन्ति ते उक्थशसः । क्विप् संहितायां दीर्घः । तथा क्षामा क्षामां भूमिं भिन्दन्तः वेदिचात्वालयूपावटोपरवादिखननैर्विदारयन्तः । सर्वोपकरणैर्यज्ञं कुर्वन्त इत्यर्थः ॥ ६९ ॥

सप्ततितमी।
उ॒शन्त॑स्त्वा॒ नि धी॑मह्यु॒शन्त॒: समि॑धीमहि । उ॒शन्नु॑श॒त आ व॑ह पि॒तॄन् ह॒विषे॒ अत्त॑वे ।। ७० ।।
उ० उशन्तस्त्वा । 'वश कान्तौ' अस्य कृतसंप्रसारणस्यैतद्रूपम् । हे अग्ने, यतो वयमुशन्तः कामयमानाः त्वां निधीमहि स्थापयामहे । यतश्च उशन्तः कामयमाना एव समिधीमहि संदीपयामः । यतस्त्वमपि उशन्कामयमान एव । उशतः कामयमानानेव आवह पितॄन् । किमर्थमिति चेत् । हविषे अत्तवे हविषः अदनाय ॥ ७० ॥
म० अनुष्टुप् । हे अग्ने, उशन्तः कामयमाना वयं तं त्वा निधीमहि स्थापयामः । कामयमाना एव वयं त्वां समिधीमहि संदीपयामः । त्वं च उशन् कामयमानः सन् उशतः कामयमानान् पितॄनावह आनय । किं कर्तुम् । हविषे अत्तवे हविः अत्तुं भक्षयितुम् । तुमर्थे तवेप्रत्ययः विभक्तिव्यत्ययः ॥ ७० ॥

एकसप्ततितमी।
अ॒पां फेने॑न॒ नमु॑चे॒: शिर॑ इ॒न्द्रोद॑वर्तयः । विश्वा॒ यदज॑य॒ स्पृध॑: ।। ७१ ।।
उ० अथेन्द्रो मन्त्रः सोमो राजेत्यस्य निदानभूतः पठ्यते । अपां फेनेन । तृतीयपादप्रभृतिव्याख्यानं यच्छब्दयोगात् । विश्वाः सर्वाः । यत् यदा अजयः स्पृधः संग्रामान् । अथ तदा अपां फेनेन फेनपुञ्जेन नमुचेः असुरस्य शिरः हे इन्द्र, त्वमुदवर्तयः उद्वर्तितवानसि । उत्पूर्वो वृतिः छेदने वर्तते ॥ ७१ ॥
म० इन्द्रो गायत्री अग्रिमानुवाकनिदानभूता । हे इन्द्र, यत् यदा त्वं विश्वाः स्पृधः सर्वान् संग्रामानजयो जितवानसि तदा अपां फेनेन जलडिण्डीरेण नमुचेरसुरस्य शिरः उदवर्तयः छिन्नवानसि । उत्पूर्वो वृतिः छेदार्थः ॥ ७ ॥

द्विसप्ततितमी।।
सोमो॒ राजा॒मृत॑ᳪं᳭ सु॒त ऋ॑जी॒षेणा॑जहान्मृ॒त्युम् ।
ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यं वि॒पान॑ᳪं᳭ शु॒क्रमन्ध॑स॒ इन्द्र॑स्येन्द्रि॒यमि॒दं पयो॒ऽमृतं॒ मधु॑ ।। ७२ ।।
उ० इदानीमेतं च मन्त्रं वक्ष्यमाणं चानुवाकं श्रुत्या संबध्नाति । 'तस्य शीर्षे छिन्ने लोहितमिश्रः सोमोऽतिष्ठत्तस्मात्तदबीभत्सत एतदन्धसो विपानमपश्यत्सोमो राजामृतं सुत इति तेनैनं स्वदयित्वात्मन्नदधत' इति । सोमो राजा । अष्टौ ग्रहोपस्थानमश्विसरस्वतीन्द्रा अपश्यन् । आद्यास्तिस्रो महाबृहत्यः पङ्क्तिश्चतुर्थी अन्ते अतिजगत्यौ शेषे अतिशक्वर्यौ । यथा एककारणानि वसूनि विविच्यमानानि दृश्यन्ते । यथा पृथग्भूतानि संसृज्यानि पुनर्विवेच्यमानानि दृश्यन्ते। एवमयमपि लोहितमिश्रः सोमः सोम एवेत्यनुवाकार्थः । सोमो राजा सोमः राजा सुतः अभिषुतः अमृतं संपद्यते रसीभावात् । स्थूलस्य हि सूक्ष्मताऽमृतीभावः । ऋजीषरूपेणचाजहात्त्यजति मृत्युं मूर्तत्वादृजीषभावस्य सत्यमेतत् । अनेन च ऋतेन सत्येन सत्यमेतत् ज्ञातम् इन्द्रियं वीर्यं विपानं विविक्तं लोहितात्सोमपानं पानयोग्यं वा विपानम् शुक्रं रजो हितम् अन्धसः अन्नात्संभूतं भूयात् । अथ इन्द्रस्य इदमिन्द्रियं पयः अमृतं मधु भवतु ॥ ७२ ॥
म० 'सोमो राजेत्यनुवाकेन ग्रहानुपतिष्ठते युगपत्' (का० १९ । २ । २४) अष्टर्चेनानुवाकेन समानकालमेव पयोग्रहान्सुराग्रहांश्चाध्वर्युरुपतिष्ठते । यद्वा चतुर्भिः पयोग्रहांश्चतुर्भिः सुराग्रहान् । ग्रहणानन्तरमेवोपस्थानं मन्त्रपाठक्रमादत्रालेखीत्यर्थः । अश्विसरस्वतीन्द्रदृष्टा अष्टौ ऋचः । आद्यास्तिस्रो महाबृहत्यः । यस्याश्चत्वारः पादा अष्टकाः पञ्चमो द्वादशकः सा महाबृहती। सोमो राजा सुतोऽभिषुतः सन् अमृतममृतरूपो रसरूपो भवति । स्थूलस्य सूक्ष्मतापादनममृतीभावः । यत ऋजीषेण ऋजीषं नीरसं सोमलताचूर्णम् तद्रूपेण मृत्युं स्थूलभावमजहाज्जहाति । ऋतेन अनेन सत्येन एतत् सत्यम् ज्ञातम् यत् अन्धसोऽन्नस्य सोमस्य विपानं विविच्य पानं शुक्रं शुक्लं शुद्धमतएव इन्द्रियं वीर्यप्रदं भूयात् पयश्चेन्द्रस्येदृशं भवतु ।। कीदृशं इन्द्रियम् । वीर्यवत् अमृतमजरामरत्वप्रदं मधु मधुरं च । अपां फेनेनेत्यस्य मन्त्रस्यास्यष्टर्चानुवाकस्य च श्रुत्या संबन्ध उक्तः । 'तस्य शीर्ष्णि छिन्ने लोहितमिश्रः सोमोऽतिष्ठत् तस्मादबीभत्सन्त त एतदन्धसो विपानमपश्यन् सोमो राजामृतᳪं᳭ सुत इति तेनैनᳪं᳭ स्वदयित्वात्मन्नदधत' इति । यथा एककारणानि वस्तूनि विविच्यमानानि दृश्यन्ते यथाच पृथग्भूतानि संमृष्टानि पुनर्विविच्यन्ते एवमयमपि लोहितमिश्रः सोमो विविक्तः सोम एवेति सर्वानुवाकार्थः ॥ ७२॥

त्रिसप्ततितमी।।।
अ॒द्भ्यः क्षी॒रं व्य॑पिब॒त् क्रुङ्ङा॑ङ्गिर॒सो धि॒या ।
ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यं वि॒पान॑ᳪं᳭ शु॒क्रमन्ध॑स॒ इन्द्र॑स्येन्द्रि॒यमि॒दं पयो॒ऽमृतं॒ मधु॑ ।। ७३ ।।
उ० अद्भ्यः क्षीरम् । क्षीरोदकयोः संसृष्टयोः अद्भ्यः सकाशात् क्षीरं वियुत्य अपिबत् पीतवान् । क्रुङ् हंसः हंसजातिमास्थाय आङ्गिरसः प्राणः । सह्यङ्गानां रसः धिया प्रज्ञया । इत्थंभूता हि तस्य प्रज्ञा तस्यां जात्यामेव स्थितस्य भवति । सत्यमेतत् । अनेन ऋतेन सत्यमिन्द्रियं विपानं शुक्रं अन्धसः संभूतं भूयात् । अथ इन्द्रस्य इन्द्रियं विपानममृतं मधु भूयात् ॥ ७३ ॥
म० अङ्गिरसः अङ्गानां रसः प्राणो यथा क्रुङ् हंसो भूखा धिया प्रज्ञया अद्भ्यः सकाशात् क्षीरं दुग्धमपिबत् पिबति । संसृष्टाभ्यां क्षीरोदकाभ्यां क्षीरमेव हंसः पिबतीति जातिस्वभावः । अनेन सत्येनेदं सत्यं यदन्धसो विपानं शुक्रं भवतु । अथेन्द्रस्य पयो वीर्यममृतं भवतु ॥ ७३ ॥

चतुःसप्ततितमी।
सोम॑म॒द्भ्यो व्य॑पिब॒च्छन्द॑सा ह॒ᳪं᳭सः शु॑चि॒षत् ।
ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यं वि॒पान॑ᳪं᳭ शु॒क्रमन्ध॑स॒ इन्द्र॑स्येन्द्रि॒यमि॒दं पयो॒ऽमृतं॒ मधु॑ ।। ७४ ।।
उ० सोममद्भ्यः । सोमोदकयोः संसृष्टयोः सोमं वियुत्यापिबत् अद्यःध सकाशात् । छन्दसा छन्दोनिबद्धेन वेदेन । हंस आदित्यः शुचिषत् । एतत्सत्यम् । ऋतेनेत्यादि समानम् ॥ ७४ ॥
म० हंसः आदित्यः अद्भ्यः सकाशात् छन्दसा वेदेन वेदरूपैः किरणैर्यथा सोमं व्यपिबत् पिबति सोमोदकाभ्यां रविः सोममेव पिबति । ऋतेनेत्युक्तम् । कीदृशो रविः । शुचिषत् शुचि निर्मले गगने सीदतीति शुचिषत् ॥ ७४ ॥

पञ्चसप्ततितमी।
अन्ना॑त्परि॒स्रुतो॒ रसं॒ ब्रह्म॑णा॒ व्य॑पिबत् क्ष॒त्रं पय॒: सोमं॑ प्र॒जाप॑तिः ।
ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यं वि॒पान॑ᳪं᳭ शु॒क्रमन्ध॑स॒ इन्द्र॑स्येन्द्रि॒यमि॒दं पयो॒ऽमृतं॒ मधु॑ ।। ७५ ।।
उ० अन्नात्परिस्रुतः । अन्नाद्धविर्लक्षणात् संपरिस्रुतश्च रसं ब्रह्मणा त्रयीलक्षणेन व्यपिबत् । क्षत्रं च व्यपिबत् । क्षत्रस्य पानं वशीकरणम् पयः सोमम् प्रजापतिः प्रथमशरीरी । सत्यमेतत् ऋतेन सत्यमिति समानम् ॥ ७५ ॥
म० अतिजगती द्वापञ्चाशदक्षरा । प्रजापतिः प्रथमशरीरी परिस्रुतोऽन्नात्सुरारूपादन्नात् रसं ब्रह्मणा गायत्रीलक्षणेन व्यपिबत् विविच्य पीतवान् । क्षत्रं च व्यपिबत् वशीचकार । क्षत्रियस्य पानं वशीकरणम् । पयः सोमं च व्यपिबत् । अनेन सत्येनेदं सत्यम् ॥ ७५ ॥

षट्सप्ततितमी।
रेतो॒ मूत्रं॒ वि ज॑हाति॒ योनिं॑ प्रवि॒शदि॑न्द्र॒यिम् । गर्भो॑ ज॒रायु॒णाऽऽवृ॑त॒ उल्बं॑ जहाति॒ जन्म॑ना ।
ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यं वि॒पान॑ᳪं᳭ शु॒क्रमन्ध॑स॒ इन्द्र॑स्येन्द्रि॒यमि॒दं पयो॒ऽमृतं॒ मधु॑ ।। ७६ ।।
उ० रेतो मूत्रम् व्यवहितपदप्रायः । रेतः विजहाति त्यजति । योनिं स्त्रीप्रजननम् प्रविशत् इन्द्रियं शिश्नम् । योनिप्रवेशादन्यत्र मूत्रं विजहाति । तुल्यद्वारयोरपि मूत्ररेतसोर्मूत्रस्थानं हित्वान्यत्रावतिष्ठते रेतः । सत्यमेतत् ततः गर्भो जरायुणा आवृतः वेष्टितः । जरायुं च उल्बं च विजहाति त्यजति । जन्मना प्रसवेन । सत्यमेतत् । नानास्थानानामेकद्वाराणां प्रथममुदाहरणम् । एकस्थानानामनेकद्वाराणां द्वितीयम् । ऋतेनेति व्याख्यातम् ॥ ७६ ॥
म० अतिशक्कर्यौ द्वे षष्ठ्यक्षरातिशक्वरी । इन्द्रियं पुंप्रजननं शिश्नं योनिं स्त्रीप्रजननं प्रविशत् सत् रेतो वीर्यं विजहाति त्यजति । योनिप्रवेशादन्यत्र मूत्रं विजहाति । समानद्वारयोरपि रेतोमूत्रयोर्मूत्रस्थानादन्यत्र रेतोऽवतिष्ठते । जरायुणा गर्भवेष्टनेनावृतो गर्भः जन्मना कृत्वा उल्बं जरायुं जहाति । भिन्नस्था नानामेकद्वाराणामाद्यमुदाहरणम् । एकस्थानानामनेकद्वाराणां द्वितीयम् । ऋतेनेति व्याख्यातम् ॥ ७६ ॥ .

सप्तसप्ततितमी।
दृ॒ष्ट्वा रू॒पे व्याक॑रोत् सत्यानृ॒ते प्र॒जाप॑तिः । अश्र॑द्धा॒मनृ॒तेऽद॑धाच्छ्र॒द्धाᳪं᳭ स॒त्ये प्र॒जाप॑तिः ।
ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यं वि॒पान॑ᳪं᳭ शु॒क्रमन्ध॑स॒ इन्द्र॑स्येन्द्रि॒यमि॒दं पयो॒ऽमृतं॒ मधु॑ ।। ७७ ।।
उ०. दृष्ट्वा रूपे । दृष्ट्वा उपलभ्य रूपे सत्यानृतयोः । इदं सत्यमेवंरूपमिदमनृतमेवंरूपमिति व्याकरोत् । व्याकरणं पृथक्कार्यावस्थानम् । कथं व्याकरोत् । अश्रद्धाम् अनृते अदधात् अनृतनिमित्तत्वात् अश्रद्धायाः। श्रद्धामास्तिक्यम् सत्ये । कः अदधात् । प्रजापतिः सत्यमेतत् ऋतेनेति व्याख्यातम् ॥ ७७ ॥
म० प्रजापतिः रूपे रूपवती मूर्तिमती सत्यानृते दृष्ट्वा व्याकरोत् । व्याकरणं पृथक्त्वं कृतवान् इदं सत्यमिदमनृतमिति पृथगवास्थापयत् । तदेवाह । अनृते अश्रद्धां नास्तिक्यमदधात् अस्थापयत् अनृतस्याश्रद्धानिमित्तत्वात् । सत्ये श्रद्धामदधात् सत्यस्य श्रद्धानिमित्तत्वात् । श्रद्धास्तिक्यबुद्धिः । अनेन ऋतेनेत्युक्तम् ॥ ७७ ॥

अष्टसप्ततितमी।
वेदे॑न रू॒पे व्य॑पिबत् सुतासु॒तौ प्र॒जाप॑तिः ।
ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यं वि॒पान॑ᳪं᳭ शु॒क्रमन्ध॑स॒ इन्द्र॑स्येन्द्रि॒यमि॒दं पयो॒ऽमृतं॒ मधु॑ ।। ७८ ।।
उ० वेदेन रूपे । वेदेन परिज्ञानेन त्रय्या वा विद्यया । रूपे सुतासुतयोः व्यपिबत् । सुतः सोम उच्यते पयश्चासुतः परिस्रुत्प्रजापतिः सत्यमेतत् अनेन ऋतेनेति व्याख्यातम् ७८
म० महाबृहती । प्रजापतिः सुतासुतौ सुतासुतयोः रूपे वेदेन ज्ञानेन त्रय्या विद्यया वा व्यपिबत् विविच्य पीतवान् ।। सुतः सोमः असुतः पयः परिस्रुच्च । ऋतेनेत्युक्तम् ॥ ७८ ॥

एकोनाशीतितमी।
दृ॒ष्ट्वा प॑रि॒स्रुतो॒ रस॑ᳪं᳭ शु॒क्रेण॑ शु॒क्रं व्य॑पिबत् पय॒: सोमं॑ प्र॒जाप॑तिः ।
ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यं वि॒पान॑ᳪं᳭ शु॒क्रमन्ध॑स॒ इन्द्र॑स्येन्द्रि॒यमि॒दं पयो॒ऽमृतं॒ मधु॑ ।। ७९ ।।
उ० दृष्ट्वा परिस्रुतः रसं शुक्रेण अमलेन शुक्रममलम् । वियुत्य अपिबत् पयश्च सोमं च द्वे प्रजापतिः । सत्यमेतत् । ऋतेनेति व्याख्यातम् ॥ ७९ ॥
म० अतिजगती । प्रजापतिः परिस्रुतः सुराया रसं दृष्ट्वा शुक्रेण शुद्धेन मन्त्रेण पयः सोमं च शुक्रं शुक्लं शुद्धं कृत्वा व्यपिबत् वियुज्य पीतवान् । ऋतेनेत्युक्तार्थम् ॥ ७९ ॥

अशीतितमी।
सीसे॑न॒ तन्त्रं॒ मन॑सा मनी॒षिण॑ ऊर्णासू॒त्रेण॑ क॒वयो॑ वयन्ति ।
अ॒श्विना॑ य॒ज्ञᳪं᳭ स॑वि॒ता सर॑स्व॒तीन्द्र॑स्य रू॒पं वरु॑णो भिष॒ज्यन् ।। ८० ।।
उ० खुरैर्वसाग्रहान्द्वात्रिंशतं जुहोति । सीसेनेति प्रत्यृचम् षोडश जगत्यः । यथेन्द्रस्य भैषज्यं क्रियते तथा आभिरुच्यते । यज्ञः पटेन रूप्यते प्रथमायामृचि । सीसेन ऊर्णासूत्रेण च तन्त्रमिव पूर्वापरैः सूत्रैर्दक्षिणोत्तरैश्च वयन्ति यज्ञम् । के वयन्ति । मनीषिणः मेधाविनः । कवयः क्रान्तदर्शनाः । मनसा पर्यालोच्य गुणत उक्त्वा अथेदानीं नामत आह । अश्विनौ सविता सरस्वती वरुणश्च । किमर्थं पुरस्कृत्य यज्ञं वयति इन्द्रस्य रूपं भिषज्यन् ॥ ८०॥
म० 'खुरैर्वसाग्रहान्द्वात्रिᳪं᳭शतं जुहोति सीसेनेति प्रत्यृचम्' | ( का० १९ । ४ । १२) । पञ्चपलो ग्रह इति परिशिष्टोक्तेः ऋषभखुराणां महत्त्वाच्चार्षभैः खुरैः पशूनां वसां गृहीत्वा सीसेनेति प्रतिमन्त्रं द्वात्रिंशत्संख्यान्सुराग्रहान् जुहोति । एकेन मन्त्रेण द्वयोर्होम इत्यर्थः । अश्विसरस्वतीन्द्रदेवत्याः षोडश जगत्यः । 'जगतीभिर्जुहोति' ( १२ । ८ । ३ । १३) इति श्रुतिबलाद्बह्वक्षरन्यूनानामपि कासांचिज्जगतीत्वमेव । दस्रादिभिर्यथा इन्द्रस्य भैषज्यं कृतं तदनेनानुवाकेन प्रतिपाद्यते । अश्विना अश्विनौ दस्रौ सविता सरस्वती वरुणश्च मनसा विचार्य यज्ञं सौत्रामणीं वयन्ति निष्पादयन्ति । केन । सीसेन ऊर्णासूत्रेण च सीसेन शष्पक्रयणादूर्णया तोक्मक्रयणात् ताभ्यां यज्ञनिष्पादनमित्यर्थः । तत्र दृष्टान्तः । सीसेन ऊर्णासूत्रेण च तन्त्रमिव यथा कश्चित्सीसेन धातुविशेषेण तन्त्रमङ्गदविशेषं वयति ऊर्णासूत्रेण च तन्त्रं पटं वयति तद्वत् 'तन्त्रं राष्ट्रे च सिद्धान्ते परच्छन्दाप्रधानयोः । अङ्गदे कुटुम्बकृते तन्तुवाने परिच्छदे' इति कोशात् । कीदृशा अश्व्यादयः । मनीषिणः | मेधाविनः । कवयः क्रान्तदर्शनाः । इन्द्रस्य रूपं भिषज्यन् भिषज्यन्तः 'भिषज् रुग्जये' कण्ड्वादित्वाद्यक् ततः शतृ प्रत्ययः । वचनव्यत्ययः । इन्द्रभैषज्याय यज्ञं वयन्तीत्यर्थः ॥ ८०॥ .

एकाशीतितमी।
तद॑स्य रू॒पम॒मृत॒ᳪं᳭ शची॑भिस्ति॒स्रो द॑धुर्दे॒वता॑: सᳪं᳭ररा॒णाः ।
लोमा॑नि॒ शष्पै॑र्बहु॒धा न तोक्म॑भि॒स्त्वग॑स्य मा॒ᳪं᳭सम॑भव॒न्न ला॒जाः ।। ८१ ।।
उ० तदस्य । तत् अस्येन्द्रस्य रूपम् अमृतममरणधर्मि । शचीभिः कर्मभिः । तिस्रो देवताः संदधुः संरराणाः । अश्विनौ सरस्वती च । कथं संदधुः । लोमानि तावत् शष्पैः संदधुः । बहुधा न तोक्मभिस्त्वगस्य । नकारः समुच्चये । आअध्यायसमाप्तेः । त्वचमिति विभक्तिव्यत्ययः । बहुधा न तोक्मभिस्त्वचमस्येन्द्रस्य संदधुः। मांसम् अभवच्च लाजा:८१
म०. तिस्रो देवताः अश्विसरस्वत्यः संरराणाः सम्यक् रममाणाः सत्यः अस्येन्द्रस्य तदमृतममरणधर्मि रूपं शचीभिः कर्मभिः संदधुः कर्माङ्गैः संधानं चक्रुः । तदेवाह । लोमानि इन्द्ररोमाणि शष्पैर्विरूढव्रीहिभिः संदधुः । अस्येन्द्रस्य त्वक् त्वचं च तोक्मभिः विरूढयवैर्बहुधा संदधुर्लाजा न लाजाश्चास्य मांसं समभवत् । अध्यायसमाप्तिपर्यन्तं नकाराः सर्वे चकारार्थाः ॥ ८१ ॥

द्व्यशीतितमी।
तद॒श्विना॑ भि॒षजा॑ रु॒द्रव॑र्तनी॒ सर॑स्वती वयति॒ पेशो॒ अन्त॑रम् ।
अस्थि॑ म॒ज्जानं॒ मास॑रैः कारोत॒रेण॒ दध॑तो॒ गवां॑ त्व॒चि ।। ८२ ।।
उ० तदश्विना तत् पेशः रूपम् इन्द्रस्य । अश्विनौ भिषजौ । रुद्रवर्तनी । रुद्रस्येव वर्तनिर्मार्गो ययोस्तौ रुद्रवर्तनी रुग्णवर्तनी वा । रोरूयमाणौ वर्तेते इति वा । सरस्वती च । वयति वयन्ति । बहुवचनमेकवचनस्य । संबध्नन्ति अन्तरमभ्यन्तरम् । किं वयन्ति । अस्थि च मज्जानं च तावत् मासरैश्च कारोतरेण च यथाक्रमं वयन्ति । किं कुर्वाणाः । दधतः स्थापयन्तः । गवां त्वचि चर्मणि सुराम् ॥ ८२ ॥
म० रुद्रवत् वर्तनिर्मार्गो ययोस्तौ रुद्रवर्तनी रुग्णवर्तनी वा। भिषजा भिषजौ वैद्यौ अश्विना अश्विनौ सरस्वती च तदन्तरं शरीरान्तर्वर्ति पेश इन्द्रस्य रूपम् वयति वयन्ति संबध्नन्ति वचनव्यत्ययः । तदेवाह । मासरैः शष्पादिचूर्णचरुनिःस्रावैः । अस्थि संबध्नन्ति । कारोतरेण गलनवाससा मज्जानं वयन्ति । कीदृशास्ते । गवां त्वचि चर्मणि दधतः सुरां स्थापयन्तः ॥ ८२॥

त्र्यशीतितमी। .
सर॑स्वती॒ मन॑सा पेश॒लं वसु॒ नास॑त्याभ्यां वयति दर्श॒तं वपु॑: ।
रसं॑ परि॒स्रुता॒ न रोहि॑तं न॒ग्नहु॒र्धीर॒स्तस॑रं॒ न वेम॑ ।। ८३ ।।
उ. सरस्वती मनसा । सरस्वती मनसा पर्यालोच्य । पेशलम् । पेश इति हिरण्यनाम रूपनाम च । हिरण्यवद्वा रूपवद्वा । वसु नासत्याभ्यां च सहिता वयति पटमिव सृजति । दर्शतं वपुः दर्शनीयं वपुः शरीरम् इन्द्रस्य । रसं परिस्रुता न रोहितम् । सरं च परिस्रुता सरस्वती नासत्याभ्यामश्विभ्यां सहिता वयति । वपुषो रञ्जनार्थम् । अतो रोहित इन्द्रो वेदेषु पठ्यते । अथ तदा नग्नहुः किण्वः धीरः धीमान् । तसरं न वेम तसरं च वेम च संपद्यते । नग्नहोः कर्तृत्वमात्रं विवक्षितम् । विवक्षातः कारकाणि भवन्ति । तसरं वेम च कुविन्दानां प्रसिद्धम् । तसरं वयनसाधनम् ॥ ८३ ॥
म०. नासत्याभ्यामश्विभ्यां सहिता सरस्वती वसु धनं दर्शतं दर्शनीयं वपुश्च वयति पटमिव सृजति । इन्द्रस्येति शेषः । कीदृशं वसु । पेशलं पेश इति हिरण्यरूपयोर्नाम । पेशं लाति गृह्णाति पेशलं हिरण्यवद्रूपवद्वा । मनसा विचार्येति शेषः । परिस्रुता परिस्रुतः सुरायाः रोहितं लोहितं रसं न रसं च वयति इन्द्रवपुषो रञ्जनाय । अतएव वेदेषु रोहित इन्द्रः पठ्यते । अथ तदा नग्नहुः किण्वः सुराकन्दः पूर्वोक्तः तसरं वयनसाधनं वेम न वेमा च भवति । तसरवेमानौ कुविन्दानां प्रसिद्धौ । कीदृशो नग्नहुः । धीरः धियमीरयति प्रेरयतीति धीरः । मादक इत्यर्थः । विवक्षातः कारकाणि भवन्तीति वचनान्नग्नहोः कर्तृत्वं विवक्षितम् ॥ ८३ ॥

चतुरशीतितमी।
पय॑सा शु॒क्रम॒मृतं॑ ज॒नित्र॒ᳪं᳭ सुर॑या॒ मूत्रा॑ज्जनयन्त॒ रेत॑: ।
अपाम॑तिं दुर्म॒तिं बाध॑माना॒ ऊव॑ध्यं॒ वात॑ᳪं᳭ स॒ब्वं तदा॒रात् ।। ८४ ।।
उ० पयसा शुक्रम् । पयसा दुग्धेन कारणभूतेन शुक्रं च अमृतं च जनित्रम् आजन्म जनयन्तः अश्विनौ सरस्वती च प्रकृतत्वात् इन्द्रस्तु भैषज्यः । सुरया च मूत्रात् मूत्रमिति साधु । मूत्रं च रेतश्च जनयन्त । किंच । अपामतिं दुर्मतिं बाधमानाः । अपबाधमानाः अमतिममननं वध्यभावं दुर्मतिं च । ऊवध्यम् आमाशयगतमन्नं वा तम् तत्सहचरितं सर्वं पक्वाशयगतमशुचिः । तदारात् तदेतत् सुरया जनयन्त । आरात् सुरासंनिकर्षात् । संनिकर्षों हि गन्धादिभिः ॥ ८४ ॥
म० प्रकृतत्वादश्विनौ सरस्वती च पयसा दुग्धेन रेतो वीर्यं जनयन्त उदपादयन् । अडभाव आर्षः । इन्द्रस्येति शेषः। कीदृशं रेतः । शुक्रं शुक्लम् अमृतमनश्यत् । जनित्रं जनयतीति जनित्रं जयनशीलम् । आरात् समीपे स्थित्वा तत्प्रसिद्धमूवध्यं वातं नाडीगतं सब्वं च सुरया कृत्वा मूत्रात् मूत्रं चाजनयन्त । आमाशयगतमन्नमूवध्यम् पक्वाशयगतमन्नं सब्वम् । । कीदृशास्ते । अमतिं वध्यभावं दुर्मतिं दुर्बुद्धिं च बाधमाना निवर्तर्यन्तः सद्बुद्धिं ददत इत्यर्थः ॥ ८४ ॥

पञ्चाशीतितमी ।
इन्द्र॑: सु॒त्रामा॒ हृद॑येन स॒त्यं पु॑रो॒डाशे॑न सवि॒ता ज॑जान ।
यकृ॑त् क्लो॒मानं॒ वरु॑णो भिष॒ज्यन् मत॑स्ने वाय॒व्यैर्न मि॑नाति पि॒त्तम् ।। ८५ ।।

उ० इन्द्रः सुत्रामा । पुरोडाशदेवता इन्द्रं भिषज्यन्ति । | इन्द्रः सुत्रामा हृदयेन । हृदयमिति विभक्तिव्यत्ययः । इन्द्रस्य जजान जनयति । सत्यम् इन्द्रस्य पुरोडाशेन सविता जनयति । यकृच्च क्लोमानं च जनयति । वरुणः इन्द्रस्य भिषज्यन्मतस्ने च पित्तं च वायव्यैः ऊर्ध्वपात्रैः ऊर्ध्वपात्राणां सौमिकानां वायव्यानीति उक्तम् । मिनाति निर्मिमीते मृजति ॥ ८५ ॥
म०. सुष्ठु त्रायते रक्षति सुत्रामा इन्द्रः पुरोडाशदेवता । इन्द्रस्य हृदयेन हृदयं जजान जनयति । सविता च पुरोडाशेनेन्द्रस्य सत्यं जजान । वरुणो भिषज्यन् इन्द्रस्य चिकित्सां कुर्वन् सन् यकृत् कालखण्डं क्लोमानं गलनाडिकां च जजान । वायव्यैः सौमिकौरूर्ध्वपात्रैः मतस्ने हृदयोभयपार्श्वस्थे अस्थिनी पित्तं न पित्तं च मिनाति निर्मिमीते सृजतीत्यर्थः । सोमिकान्यौर्ध्वपात्राणि वायव्यसंज्ञानि ॥ ८५ ॥

षडशीतितमी।
आ॒न्त्राणि॑ स्था॒लीर्मधु॒ पिन्व॑माना॒ गुदा॒: पात्रा॑णि सु॒दुघा॒ न धे॒नुः ।
श्ये॒नस्य॒ पत्रं॒ न प्ली॒हा शची॑भिरास॒न्दी नाभि॑रु॒दरं॒ न मा॒ता ।। ८६ ।।
उ० आन्त्राणि स्थालीः । स्थाल्यः आन्त्राणि अभवन् । किं कुर्वाणाः । मधु पिन्वमानाः । पिन्वतिः सेचनार्थः । गुदाः पात्राणि अभवन् । सुदुघा च धेनुः दक्षिणा च आदित्यस्येष्टेः । गुदा एव अभवन् । श्येनस्य च पत्रं प्लीहा अभवत् । शचीभिः कर्मभिः । आसन्दी नाभिः इन्द्रस्य उदरं च माता च । आसन्दीस्थोऽभिषिच्यते अतस्ततो जायते ॥८६॥
म०. स्थालीः स्थाल्यः आन्त्राणि अभवन् । कीदृश्यः स्थाल्यः । मधु पिन्वमानाः सिञ्चन्त्यः । पात्राणि गुदा गुदस्थानान्यभवन् । सुदुघा न धेनुः शोभनं दुग्धे सा सुदुघा दोग्ध्री च धेनुः आदित्येष्टेर्दक्षिणारूपा गुदा एवाभवत् । श्येनस्य पत्रं च प्लीहा हृदयवामभागस्थः शिथिलमांसपिण्डः गुल्मसंज्ञोऽभवत् । आसन्दी शचीभिर्नाभिरुदरं चाभवत् । कीदृश्यासन्दी । माता जननीस्थानीया आसंद्यामभिषिच्यतेतऽस्ततो जायत एव । नाश्चार्थाः ॥ ८६ ॥

सप्ताशीतितमी।
कु॒म्भो व॑नि॒ष्ठुर्ज॑नि॒ता शची॑भि॒र्यस्मि॒न्नग्रे॒ योन्यां॒ गर्भो॑ अ॒न्तः ।
प्ला॒शिर्व्य॑क्तः श॒तधा॑र॒ उत्सो॑ दु॒हे न कु॒म्भी स्व॒धां पि॒तृभ्य॑: ।। ८७ ।।
उ० कुम्भो वनिष्ठुः । सुरासंधानकुम्भो वनिष्ठुः जनिता च जनकश्च । शचीभिः स्वकीयैरेव कर्मभिः । यस्मिन्कुम्भे अग्रे प्रथमं योन्यां गर्भः । अन्तर्मध्ये सुरालक्षण उषितः । किंच । प्लाशिर्व्यक्तः । स्पष्टः शतधार उत्सः कूपः बहुस्रोतत्वात् कूप उक्तः । दुहे न कुम्भी स्वधां पितृभ्यः ॥ ८७ ॥
म० कुम्भः सुराधानकुम्भः शचीमिः कर्मभिः कृत्वा वनिष्ठुः स्थूलान्त्रं जनिता जनयति । यस्मिन् कुम्भे योन्यां कुम्भरूपे योनौ स्थाने अग्रे प्रथममन्तर्मध्ये गर्भः सुरारूप उषितः । शतधार उत्सः कूपतुल्यः कुम्भः व्यक्तः स्पष्टः प्लाशिः शिश्नोऽभवत् । कुम्भी सुराधानी च पितृभ्यः स्वधां दुहे दुग्धे अन्नं पूरयति 'लोपस्त आत्मनेपदेषु' (पा० ७ । १। ४१) इति तलोपः ॥ ८७ ॥

अष्टाशीतितमी।
मुख॒ᳪं᳭ सद॑स्य॒ शिर॒ इत् सते॑न जि॒ह्वा प॒वित्र॑म॒श्विना॒सन्त्सर॑स्वती ।
चप्पं॒ न पा॒युर्भि॒षग॑स्य॒ वालो॑ व॒स्तिर्न शेपो॒ हर॑सा तर॒स्वी ।। ८८ ।।
उ० मुखं सत् । अस्येन्द्रस्य मुखं सत् । एकदेशलोपः सन्तमिति प्राप्ते । तथाच श्रुतिः 'मुखं सन्तमस्य जिह्वा । पवित्रं चप्यं न पायुर्वस्तिर्वालः' इति । शिर इत् सतेन जिह्वा पवित्रम् आसन् आस्येति च । चप्यं च पायुः भिषगस्य वालः वस्तिश्च शेपो हरसा तरस्वी । वालस्य त्रिधा परिणामः वैद्यः वस्तिः शेपश्च । कीदृशः शेपः । हरसा वीर्येण तरस्वी वेगवान् ॥ ८८॥ ।
म० अस्येन्द्रस्य सत् सतः पात्र विशेषो मुखमभूत् । सतशब्दस्यान्तलोपश्छान्दसः । सतेन इत् सतेनैवास्य शिरोऽभूत् । पवित्रं जिह्वाभवत्। अश्विना अश्विनौ सरस्वती च आसन् आस्येऽभवन् । चप्यं च पायुरिन्द्रियमभूत् । वालो सुरागलनवस्त्रमस्येन्द्रस्य भिषग्वैद्यो वस्तिर्गुदं शेपो लिङ्गं चाभूत् । वालेन त्रयं जातम् । कीदृशः शेपः । हरसा वीर्येण तरस्वी वेगवान् ॥ ८८ ॥

एकोननवतितमी।
अ॒श्विभ्यां॒ चक्षु॑र॒मृतं॒ ग्रहा॑भ्यां॒ छागे॑न॒ तेजो॑ ह॒विषा॑ शृ॒तेन॑ ।
पक्ष्मा॑णि गो॒धूमै॒: कुव॑लैरु॒तानि॒ पेशो॒ न शु॒क्रमसि॑तं वसाते ।। ८९ ।।
उ०. अश्विभ्यां चक्षुः । अश्विभ्यामिन्द्रस्य चक्षुः संस्क्रियते । तदेवामृतम् । ग्रहाभ्यामश्विदेवत्याभ्याम् छागेन तेजः चक्षुषः क्रियते । कथंभूतेन छागेन । हविषा शृतेन । हविर्भूतेन पक्वेन अपरम् पक्ष्माणि चक्षुषः लोमानि गोधूमैः संस्क्रियते । कुवलैर्बदरविशेषैः उतानि निविष्टानि पक्ष्मसु रोमाणि संस्क्रियते । पेशो न शुक्रमसितं वसाते । पेशो न रूपं च चक्षुषः शुक्रं शुक्लम् असितं कृष्णं च वसाते आच्छादयेते प्रकृतत्वादश्विनौ ॥ ८९ ॥
म० अश्विभ्यामिन्द्रस्य चक्षुः क्रियते ग्रहाभ्यामश्विदेवत्याभ्यां चक्षुरेवामृतमनश्वरं क्रियते । शृतेन पक्वेन हविषा छागेन छागरूपेण पक्वहविषा तेजश्चक्षुःसंबन्धि क्रियते । गोधूमैः पक्ष्माणि नेत्रलोमानि क्रियन्ते । कुवलैर्बदरैः उतानि चक्षुर्निविष्टानि लोमानि क्रियन्ते । शुक्रं शुक्लमसितं कृष्णं च पेशः रूपं शुक्लकृष्णे नेत्रगते रूपे वसाते आच्छादयेते । कुर्वात इत्यर्थः । प्रकृतत्वादश्विनौ कर्तारौ ॥ ८९ ॥

नवतितमी । ।
अवि॒र्न मे॒षो न॒सि वी॒र्या॒य प्रा॒णस्य॒ पन्था॑ अ॒मृतो॒ ग्रहा॑भ्याम् ।
सर॑स्वत्युप॒वाकै॑र्व्या॒नं नस्या॑नि ब॒र्हिर्बद॑रैर्जजान ।। ९० ।।
उ० अविर्न । अविश्च मेषः सारस्वतः नसि नासिकायाम् वीर्याय अवस्थितः । प्राणस्य च पन्था मार्गः अमृतः ग्रहाभ्यां सारस्वताभ्यां क्रियते । सरस्वती च उपवाकैः व्यानं जजान जनयति । नस्यानि नासिकाप्रभवाणि च बहिः बदरैः जनयति ॥ ९० ॥
म० अविः सारस्वतो मेषश्च नसि इन्द्रस्य नासिकायां वीर्यायावस्थितः ग्रहाभ्यां सारस्वताभ्यां प्राणस्य प्राणवायोः पन्था मार्गोऽमृतः अनश्वरः क्रियते । सरस्वती उपवाकैर्यवाङ्कुरैः कृत्वा व्यानमिन्द्रस्य व्यानवायुं जजान जनयति । बर्हिर्बदरैः सह नस्यानि नासिकाभवानि लोमानि जजान ॥ ९० ॥

एकनवतितमी।
इन्द्र॑स्य रू॒पमृ॑ष॒भो बला॑य॒ कर्णा॑भ्या॒ᳪं᳭ श्रोत्र॑म॒मृतं॒ ग्रहा॑भ्याम् ।
यवा॒ न ब॒र्हिर्भ्रु॒वि केस॑राणि क॒र्कन्धु॑ जज्ञे॒ मधु॑ सार॒घं मुखा॑त् ।। ९१ ।।
उ० इन्द्रस्य रूपम् । इन्द्रस्य रूपं संस्करोति ऋषभः बलायावतिष्ठते । कर्णाभ्यां श्रोत्रम् अतीतानागतवर्तमानशब्दग्राहि । अमृतम् ग्रहाभ्यामैन्द्राभ्यां स्थापितम् । यवाश्च बर्हिश्च । भ्रुवि केसराणि भ्रुवोः लोमानि अभवन् । कर्कन्धु च यज्ञे मधु सारघम् मुखात् कर्कन्धु बदरम् यज्ञे स्वयमेव यज्ञे इन्द्रस्य मुखात् । मधु लालाश्लेष्मादि मधुशब्देनोच्यते सादृश्यात् । सारघम् । सरघाः भ्रमराः । यथा सारघम् मधु इतश्चेतश्चाहृतं भवति । एवं लालादि सर्वस्मादङ्गाद्भवति ॥ ९१ ॥
म० ऋषभः बलाय सामर्थ्यायेन्द्रस्य रूपं चक्रे । ग्रहाभ्यामैन्द्राभ्याममृतं भूतभविष्यद्वर्तमानशब्दग्राहि श्रोत्रं श्रोत्रेन्द्रियं कर्णाभ्यामिन्द्रस्य कर्णयोश्चक्रे । कर्णशष्कुल्योः श्रोत्रेन्द्रियं स्थापितमित्यर्थः । यवा बर्हिश्च भ्रुवि भ्रुवोः केसराणि लोमान्यभवन् कर्कन्धु बदरं मुखात् सारघं मधु तत्तुल्यं लालाश्लेष्मादि जज्ञे । सरघा मधुमक्षिका तत्संबन्धि सारघम् । यथा मधु नानातरुभ्य आनीयते एवं लालादि सर्वाङ्गेभ्यो भवति इति लालादीनां मधुसाम्यम् ॥ ९१ ॥ .. .

द्विनवतितमी।।
आ॒त्मन्नु॒पस्थे॒ न वृक॑स्य॒ लोम॒ मुखे॒ श्मश्रू॑णि॒ न व्या॑घ्रलो॒म ।
केशा॒ न शी॒र्षन्यश॑से श्रियै॒ शिखा॑ सि॒ᳪं᳭हस्य॒ लोम॒ त्विषि॑रिन्द्रि॒याणि॑ ।। ९२ ।।
उ० आत्मन्नुपस्थे । आत्मनि उपस्थे च यानि लोमानि तानि वृकस्य लोमानि । लोमेति जातावेकवचनम् । मुखे श्मशूणि च यानि तानि व्याघ्रस्य लोमानि । केशा न शीर्षन ये च केशाः शिरसि यशसे निहिताः या च श्रियै शिखा निहिता या च त्विषिः दीप्तिः यानि चेन्द्रियाणि तदेतत्सिंहस्य लोम ॥ ९२ ॥
म० आत्मन् आत्मनि शरीरे उपस्थे गुह्ये च यानि लोमानि तानि वृकस्य लोमानि । लोमेति जातावेकवचनम् । मुखे यानि श्मश्रूणि तानि च व्याघ्रलोम । शीर्षन् शीर्ष्णि शिरसि च यशसे यशोर्थं ये केशाः या च श्रियै शोभायै शिखा या च त्विषिः कान्तिः यानि चेन्द्रियाणि तत्सर्वं सिंहस्य लोम ॥ ९२ ॥

त्रिनवतितमी।
अङ्गा॑न्या॒त्मन् भि॒षजा॒ तद॒श्विना॒त्मान॒मङ्गै॒: सम॑धा॒त् सर॑स्वती ।
इन्द्र॑स्य रू॒पᳪं᳭ श॒तमा॑न॒मायु॑श्च॒न्द्रेण॒ ज्योति॑र॒मृतं॒ दधा॑नाः ।। ९३ ।।
उ० अङ्गान्यात्मन् । अङ्गानि यस्मिन्नात्मनि भिषजौ वैद्यौ अश्विनौ समधाताम् तदात्मानम् । अङ्गैः समधात्सरस्वती । एवमिन्द्रस्य रूपं शतमानं बहुप्रतिमानम् । अश्विनौ सरस्वती च । चक्षुः चन्द्रेण हिरण्मयेन ज्योतिः अमृतं च दधानाः ॥ ९३ ॥
म० भिषजा भिषजौ अश्विना अश्विनौ आत्मन् आत्मनि अङ्गान्यवयवान् समधातां समयोजयताम् । सरस्वती तन्त्रमात्मानमङ्गैः समधात्संदधे । कीदृशा अश्व्यादयः । इन्द्रस्य रूपमायुश्च चन्द्रेणाह्लादकेन ज्योतिर्ज्योतिषा सहामृतमनश्वरं दधानाः संपादयन्तः । कीदृशं रूपम् । शतमानं शतानामनेकेषां प्राणिनां मानं पूजा यस्मिन् तज्जगत्पूज्यमित्यर्थः ॥ ९३ ॥

चतुर्नवतितमी। ।
सर॑स्वती॒ योन्यां॒ गर्भ॑म॒न्तर॒श्विभ्यां॒ पत्नी॒ सुकृ॑तं बिभर्ति ।
अ॒पाᳪं᳭ रसे॑न॒ वरु॑णो॒ न साम्नेन्द्र॑ᳪं᳭ श्रि॒यै ज॒नय॑न्न॒प्सु राजा॑ ।। ९४ ।।
उ० सरस्वती योन्याम् । व्यवहितपदप्रायः । सरस्वतीयं योन्याम् इन्द्रलक्षणं गर्भम् अन्तर्मध्ये अश्विभ्यां पत्नीभूत्वा सुकृतं शोभनीकृतं बिभर्ति धारयति । तमेवेन्द्रं जनयन् श्रियै विभूत्यै वरुणश्च अप्सु राजा अपां रसेन साम्ना च बिभर्ति ॥ ९४ ॥
म० सरस्वती अश्विभ्यां पत्नी अश्विनोः पत्नी भूत्वा योन्यामन्तर्योनिमध्ये गर्भमिन्द्रलक्षणं सुकृतं यथा तथा शोभनं कृतं बिभर्ति । अप्सु राजा अपामीश्वरो वरुणः अपां रसेन साम्ना उदकरसभूतेन साम्ना इन्द्रं श्रियै जनयन्सन् बिभर्तीत्यनुषङ्गः । नश्चार्थः ॥ ९४ ॥

पश्चनवतितमी।
तेज॑: पशू॒नाᳪं᳭ ह॒विरि॑न्द्रि॒याव॑त् परि॒स्रुता॒ पय॑सा सार॒घं मधु॑ ।
अ॒श्विभ्यां॑ दु॒ग्धं भि॒षजा॒ सर॑स्वत्या सुतासु॒ताभ्या॑म॒मृत॒: सोम॒ इन्दु॑: ।। ९५ ।।
इति माध्यन्दिनीयायां वाजसनेयसंहितायां ऊनविंशोऽध्यायः ॥ १९ ॥

उ० तेजः पशूनाम् । तेजः पशूनामुपादाय हविश्च इन्द्रियवत् वीर्यवत् उपादाय । परिस्रुता हविर्भूतया । पयसा हविर्भूतेन सारघमिव मधु । अश्विभ्यां दुग्धम् । सरघाः भ्रमराः ते यथा अद्भ्यः ओषधीभ्यश्च रसमादाय दुहन्ति एवमेतेभ्यो द्रव्येभ्यः अश्विभ्यां दुग्धं सौत्रामणीलक्षणम् । कथंभूताभ्याम् । भिषजा भिषग्भ्याम् सरस्वत्या च । किंच सुता सुताभ्यां परिस्रुत्पयोभ्यां सकाशात् अमृतः सोमः इन्दुः दुग्धे। एवं यैः सौत्रामणी दृष्टा तेभ्यः ऋषिभ्यो नमोऽश्विभ्यां च सरस्वत्यै च । एवमियमृषिश्रुतिः ॥ ९५ ॥
इति उवटकृतौ मन्त्रभाष्ये एकोनविंशतितमोऽध्यायः ॥१९॥
म० भिषजा भिषग्भ्यामश्विभ्यां सरस्वत्या च इन्द्रियावत् इन्द्रियवत् वीर्यवत् पशूनां संबन्धि हविरादाय परिस्रुता पयसा च सह सारघं मधु चादाय इन्द्रार्थे तेजो दुग्धं स्रावितम् । सुतासुताभ्यां परिस्रुत्पयोभ्यां सकाशात् अमृतोऽमृतरूपः इन्दुरैश्वर्यप्रदः सोमश्च दुग्धः । एवं यैः सरस्वत्यश्विभिरिन्द्राय नानाद्रव्येभ्यो नानारसानादायोपकारः कृतः तेभ्यः सौत्रामणीद्रष्टृभ्यो नमः ॥ ९५ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे।
सुगदीन्द्राभिषेकान्तोऽध्यायो नवदशोऽगमत् ॥ १९ ॥




[सम्पाद्यताम्]

टिप्पणी

द्र. पशु उपरि टिप्पणी

१. सौत्रामणीयागो द्विविधः-( १ ) चरकसौत्रामणीयागः ( २ ) कौकिलसौत्रामणीयागश्चेति । तत्र तैत्तिरीयसंहितायां राजसूययागानुषङ्गेण यः पठितः स चरकसौत्रामणीयागः। ‘अग्निं चित्वा सौत्रामण्या यजेत मैत्रावरुण्या वा' ( तैब्रा ३.१२.५.१२) इतिविध्युपदिष्टोऽपि चरकसौत्रामणीयाग एव । तैब्रा १.४.२; १.८.५-६ अत्रापि चरकसौत्रामणीसंबन्धिनो मन्त्रा विधिश्चोपदिष्टः । सोऽयं यागो नैमित्तिकः काम्यश्च । तैब्रा २.६ अत्र प्रदत्तस्तु कौकिलसौत्रामणी, स च नित्यो हविःसंस्थारूपः । अस्य विधायकं ब्राह्मणं नास्ति । मैत्रायणीकाठकसंहितयोरपि कौकिलसौत्रामणीयागस्य विधायकं ब्राह्मण नास्ति । कपिष्ठलकठशाखायां सौत्रामणीप्रकरणं नास्ति । वाजसनेयसंहितायां राजसूयानन्तरं चरकसौत्रामणीयागः पठितः, चयनानन्तरं च कौकिलसौत्रामणी । उभयोः ब्राह्मणं पृथग्विद्यते । तत्र चरकसौत्रामणीयागोऽङ्गभूतो नैमित्तिकश्च । कौकिलसौत्रामणीयागो नित्यनैमित्तिककाम्यभेदेन त्रिविधः । तत्र नित्ये ब्राह्मणस्यैवाधिकारः। चरककौकिलयोः बहुशः साम्यभावात् प्रतिशाखमुभौ यागौ सम्यग्बोधार्थं क्रमेण प्रदत्तौ । तत्रापि कौकिलसौत्रामणीयागस्य हविःसंस्थारूपत्वादादौ स दीयते । शाङ्खायनब्राह्मणे गोपथब्राह्मणे च केवलं कौकिलसौत्रामणीयागो निरूपितः । - श्रौतकोशः(वैदिकसंशोधनमण्डल, पुणे, प्रथमो भागः, पृ.६९८

सौत्रामणी यागपद्धतिः(हिन्दी)

१९.१३

दीक्षायै रूपꣳ शष्पाणि प्रायणीयस्य तोक्मानि । क्रयस्य रूपꣳ सोमस्य लाजाः सोमाꣳशवो मधु ॥

प्रातःसवनस्यैतद् रूपं यच्छष्पाणि। अयं वै लोकः प्रातःसवनम्। स आश्विनः। आश्विनेन पयसा प्रथमां रात्रिं परिषिंचति। स्वेनैवैनमेतल्लोकेन स्वया देवतया स्वेन रूपेण प्रातःसवनेन समर्द्धयति॥१२.८.२.८॥ माध्यंदिनस्यैतत्सवनस्य रूपं यत्तोक्मानि। अंतरिक्षं वै माध्यंदिनं सवनम्। तत्सारस्वतम्। सारस्वतेन पयसा द्वितीयां रात्रिं परिषिंचति। स्वेनैवैनमेतल्लोकेन स्वया देवतया स्वेन रूपेण माध्यंदिनेन सवनेन समर्धयति॥१२.८.२.९॥ तृतीयसवनस्यैतद् रूपं यत् लाजाः। द्यौर्वै तृतीयसवनम्। सैन्द्री। ऐंद्रेण पयसा तृतीयां रात्रिं परिषिंचति। स्वेनैवैनमेतल्लोकेन स्वया देवतया स्वेन रूपेण तृतीयसवनेन समर्द्धयति॥माश. १२.८.२.१०

१९.१८

हविर्धानं यद् अश्विनाग्नीध्रं यत् सरस्वती । इन्द्रायैन्द्रꣳ सदस् कृतं पत्नीशालं गार्हपत्यः ॥

अश्विनौ वै देवानां भिषजौ। ताभ्यामेवैनं भिषज्यति। सरस्वती भेषजम्। तयैवास्मिन् भेषजं – माश १२.७.२.३

सर्व आश्विना भवन्ति। भैषज्याय। सर्वे सारस्वताः। अन्नाद्यस्यैवावरुद्ध्यै। - १२.८.२.१६



रक्षाबन्धन

श्रावणी पूर्णिमा एकलमासीय कोकिलाव्रतस्य अवसानं भवति। अस्मिन् अवसरे द्वारस्य उभयोः पार्श्वयोः कोकिलायाः चित्रस्य चित्रणं भवति। कोकिलाव्रतं संकेतं ददाति यत् अयं कौकिलसौत्रामणीयागस्य पौराणिकं रूपमस्ति।

सौत्रामणीयागे आहवनीयसंज्ञके अग्नौ सुरायाः होमं भवति। यत्किञ्चित् अग्नौ होमं भवति, तत् देवेभ्यः भवति। किन्तु देवाः सुरायाः सेवनं न कुर्वन्ति। ते सोमस्य सेवनं एव कुर्वन्ति। मनुष्येभ्यः सोमस्य सौलभ्यं नास्ति, अतएव ते सुरायाः सेवनं कुर्वन्ति। आधुनिकविज्ञानानुसारेण मनुष्यादयः पशवः यत्किंचित् खादन्ति, तस्य चरमपरिणतिः सुरा अथवा एल्कोहलरूपे भवति। सुरायाः अणोः खण्डनात् ऊर्जायाः, ऊष्मायाः जननं भवति, यस्मात् ऊर्जातः देहव्यापारस्य संचालनं भवति। तदा सौत्रामण्यां सुरायाः होमस्य किं रहस्यं भवितुं शक्यते। सौत्रामण्यां यस्य सुरायाः उत्पादनं भवति, तस्याः उत्पादनाय मुख्यतया त्रि-चत्वारि द्रव्याणां उपयोगं भवति। एकः - शष्पः, अंकुरिताः व्रीहयः। द्वितीयः - तोक्मः, अंकुरिताः यवाः। तृतीयः - लाजा। शष्पस्य क्रयं सुराविक्रेतातः सीसाद्रव्यस्य मौल्ये भवति, तोक्मस्य ऊर्णा मौल्ये, लाजायाः सूत्रस्य मौल्ये। चतुर्थ नग्नहूसंज्ञकानां द्रव्याणां क्रयं गुडस्य मौल्ये भवति। सीसा द्रव्यः नपुंसकतायाः संकेतमस्ति। अत्र शष्पस्य क्रयणं सीसाद्रव्यस्य मौल्ये उल्लेखनं संकेतं ददाति यत् साधनातः नपुंसकस्थिति प्राप्त्यानन्तरं यस्य सुरायाः जननं देहमध्ये भविष्यति, शोधनोपरि तस्याः आहुतिः देवेभ्यः दातुं शक्यं अस्ति।

चित्रे वामपार्श्वे यः चित्रणमस्ति, तत् सौत्रामणीयागे पयःआहुतेः चित्रणं भवितुं शक्यते। दक्षिणपार्श्वे सुराहोमस्य चित्रणं भवितुं शक्यते।

१९.८५ यकृत् क्लोमानं वरुणो भिषज्यन्

चेतो हृदयं यकृन् मेधा व्रतं पुरीतत् - शौअ ९.१२.११

  1. भागवतपुराणस्य ३.१२.४७ कथनमस्ति - ऊष्माणमिन्द्रियाण्याहुः अन्तःस्था बलमात्मनः। अष्टम्यां यजुषि कथनमस्ति - आश्विनं तेजः। पुराणेषु एकः नैमिषारण्यः तीर्थः अस्ति यस्य वर्गीकरणं तैजसतीर्थेषु अस्ति। लक्ष्मीनारायणसंहितयाः ३.२२७.४५ कथनमस्ति - क्षेत्रं वै नैमिषारण्यं कुण्ठितं यत्र मानसम् ।। इन्द्रियाणि कुण्ठितानि निवृत्तानि स्थिराणि च ।
  2. निविच्छंसनप्रकार- (हौ०) सोमयज्ञेषु प्रकृतिभूतज्योतिष्टोमातिरात्रप्रकरणे प्रथमायां सोमसंस्थायामग्निष्टोमे तद्विकृतिषु चैकाहाहीनसत्रेषु त्रिषु प्रातर्माध्यन्दिनतृतीयसवनेषु होतुः शस्त्रेषु आदौ मध्येऽन्ते च पदश: आम्नाता निविदः (निवित्पदानि) शस्यन्ते । कथं ता: शस्या इति शंसनप्रकार निर्दिश्यते । तत्र होता उच्चैः एकश्रुत्येन 'शोंसावो३म्' इत्याहूय निविदामेकैकं पदावग्राहं (पृथक् पृथगवसानं) शस्त्वा उत्तमेन पदेन प्रणुत्य (टे: ओ३म् इति प्रणवं कृत्वा) तत् निविद्धानीयसूक्तस्यपूर्वेणोपसन्तनुयात् इति । शंसनप्रकारश्चायं 'अग्निर्देवेद्ध' इति निविद् व्यतिरिक्तानामन्यासां निविदाम्, पदश: आम्नातानां पदसमाम्नायानां (तु० ऐतश-प्रलाप-) च समानो भवति (तु० - आ० श्रौ० ५।९।१५-१९)। तत्र आज्यशस्त्रसूक्तादौ 'अग्निर्देवेद्ध' (ऋ०खि० ५ ।५।१) इत्यस्या निविदः शंसने 'शोंसावो३म्' इत्याहावो न कर्तव्य: न च सूक्तान्तोपसन्तान: । उत्तमेन पदेन सूक्तस्य पूर्वेण पदेन सहोपसन्तानस्तु भवत्येव (तु०- आ० श्रौ० ५ ।९) । अन्यत्र विषये तु 'आह्वयतेऽथ निविदं दधाति । निविदं शस्त्वा सूक्तं शंसति' इति समानो धर्म: इति विशेषोऽवधेय:। निविदां सामिधेन्युत्तरं पठ्यमानां सन्तानो न कार्यः। इति च विशेषोऽवधेय: द्र० श्रौ० को० २ भा० पृ० ३२४ । निवित्पदपाठविधि- । मी०को० पृ० २३८० ।
    निवित्पदनिगद- (हौ०) इष्टियज्ञेषु प्रकृतिभूते हविर्यागानां तृतीये दर्शपूर्णमासप्रकरणे सामिधेनीनामुत्तमेन प्रणवेन 'अग्ने महाँ असि ब्राह्मण भारत' इत्यार्षेय प्रवरनिगदानन्तरं 'देवेद्धः' इत्यादि ‘परिभूरसि' इत्यन्त: चतुर्दशपदो निगदो निवित्पदनिगद इत्युच्यते । निगदस्वरूपस्तु ‘देवेद्धो, मन्विद्धः, ऋषिष्टुतो, विप्रानुमदितः, कविशस्तो, घृताहवन: प्रणीर्यज्ञानां, रथीरध्वराणाम्, अतूर्तो होता, तूर्णिर्हव्यवाट् । आस्पात्रं जुहूर, देवानां चमसो देवयानो, ऽराँ इवाग्ने नेमिर्देवाँस्त्वं परिभूरसि' इति (तु०- तै० ब्रा० ३।५।३ आ० श्रौ० १।३।६ षड्गुरुशिष्य:, नारायण: देवत्रात:)। द्र० निगद- । निविदां सामिधेन्युत्तर पठ्यमानानां सन्तानो न कार्य: । द्र० मी०को० पृ० २३८० ।
    निवित्पाठविधि– (हौ०) सोमयज्ञेषु प्रकृतिभूतज्योतिष्टोमातिरात्रप्रकरणे प्रथमायां सोमसंस्थायामग्निष्टोमे तद्विकृतिषु चैकाहाहीनसत्रेषु प्रात:सवने होतुरुभयो: शस्त्रयोरादौ पदशो निविद: पठ्यन्ते, माध्यन्दिने सवने उभयोः शस्त्रयोर्मध्ये पदशो निविदः पठ्यन्ते, तृतीयसवने च उभयो: शस्त्रयो: अन्ते पदशो निविदः पठ्यन्ते इति सवनत्रये होतु: शस्त्राणामादिमध्यावसानेषु निविदां पाठो विहित: (तु०-ऐ० ब्रा० सा० ३।१०)। तासामेकैकं पदं अवग्राहं (पृथगवसानम्) होता शंसति उत्तमेन प्रणोति अन्तिमे पदे प्रणवं करोतीत्यर्थः । ताश्च त्रिषु सवनेषु होतुरेव शस्त्रेषु पठ्यन्ते । होत्रकाणां मैत्रावरुणब्राह्मणाच्छंस्यच्छावाकानां शस्त्रेषु तु निविदो न शस्यन्ते । इति विशेषोऽवधातव्यः । तत्र प्रात: सवने आज्यशस्त्रादौ 'अग्निर्देवेद्धः' इत्यादीनि द्वादश पदानि निविदः (ऋ०खि० ५ ।५।१), प्रउगशस्त्रे सप्तसु तृचेषु एकैकस्य तृचस्यादौ ‘वायुरग्रेगाः' इत्याद्याः सप्त ऋच: पुरोरुक्संज्ञका निविदः (ऋ०खि० ५।६।१-७) भवन्ति । माध्यन्दिन सवने मरुत्वतीयशस्त्रस्य निविद्धानीयसूक्तस्य मध्ये 'इन्द्रो मरुत्वान्'(ऋ० खि० ५ ।५ ।५।२) इत्यादीनि विंशति: पदानि निविदो धीयन्ते, निष्केवल्यशस्त्रस्य निविद्धानीयसूक्तस्य मध्ये 'इन्द्रो देव:' (ऋ०खि० ५।५।३) इत्यादीनि विंशति: पदानि निविदो धीयन्ते । तृतीयसवने वैश्वदेवशस्त्रस्य निविद्धानीयानां चतुर्णां सूक्तानामेकैकस्योपोत्तमाया: (अन्त्यपूर्वायाः) अन्ते यथाक्रमं प्रथमस्य 'देव: सविता' (ऋ० खि० ५।५।४) इत्यादीनि विंशति: पदानि, द्वितीयस्य ‘द्यावापृथिवी सोमस्य (ऋ.खि. ५।५।५) इत्यादीनि पञ्चदश पदानि, तृतीयस्य 'ऋभवो देवा:' (ऋ० खि० ५।५।६) इत्यादीनि सप्तदश पदानि, चतुर्थस्य 'विश्वेदेवाः' (ऋ०खि० ५ ।५।७) इत्यादीनि त्रिंशत्पदानि निविदो धीयन्ते। अग्निमारुतस्य शस्त्रस्य निविद्धानीयानां त्रयाणां सूक्तानामेकैकस्यान्ते यथासंख्यं प्रथमस्य 'अग्निर्वैश्वानरः' इत्यादीनि पञ्चदश पदानि, द्वितीयस्य 'मरुतो देवा:' (ऋ० खि० ५।५।९) इत्यादीनि चतुर्दश पदानि, तृतीयस्य 'अग्निर्जातवेदा:' (ऋ०खि० ५।५।१०) इत्यादीनि षोडश पदानि च निविदो धीयन्ते। इह यदिदं माध्यन्दिनतृतीयसवनयो निर्विद्धानीयसूक्तानां मध्ये अन्ते च निवित्पदानां सामान्येन पठनमुक्तं तत्र मरुत्वतीयस्य सूक्त (ऋचः) 'तस्यार्धा: शस्त्वा अर्धा: परिशिष्यमध्ये निविदं दधाति' इति ब्राह्मणेन सूक्तस्यार्धे निविन्निधानोपाय: सामान्येन प्रदर्शित: (तु०- नारायणः) परं सूक्तानि समसंख्याकानि विषमसंख्यकानि चाम्नातानि । तेषु निविद्धानमाश्वलायनेनैवमुक्तम्-'एकभूयसी: शस्त्वा मरुत्वतीयां निविदं दध्यात् सर्वत्र । एवमयुजासु माध्यन्दिने । एकां तृचे, अर्धा: युग्मासु । एकां शिष्ट्वा तृतीयसवने' इति (आ० श्रौ० ५।१४।२०-२३) । अर्थात् माध्यन्दिने विषमसंख्येषु सूक्तेषु सूक्तस्यार्धा एकाधिका: (एकभूयसी:) शस्त्वा तदन्तराले निविदो दध्यात् । समसंख्येषु अर्धा: शस्त्वा निविदो दध्यात् । (तु०- नारायणः) तृचे एकां शस्त्वा मध्ये निविदो दध्यात् । तृतीयसवने तु निविद्धानीयस्य सूक्तस्यान्त्यामेकामृचं शिष्ट्वा निविदो धीयन्ते । अर्थात् वैश्वदेवाग्निमारुतयोः शस्त्रयो: सर्वत्रोपोत्तमाया अनन्तरं निविद्धानं भवति । - श्रौतयज्ञप्रक्रिया - पदार्थानुक्रमकोषः - प. पीताम्बरदत्त शास्त्री,(राष्ट्रियसंस्कृतसंस्थानम्, नवदेहली)