शतपथब्राह्मणम्/काण्डम् १२/अध्यायः ७/ब्राह्मण २
१२.७.२
अप वा एतस्मात्तेज इंद्रियं वीर्यं क्रामति। यं सोमोऽतिपवते – ऊर्ध्वं वा, अवांचं वा॥१२.७.२.१॥
तदाहुः – अन्नं वा एतद् ब्राह्मणस्य – यत्सोमः। न वै सोमेन ब्राह्मणः सोमवामी सः। यो वा अलं भूत्यै सम्भूतिं न प्राप्नोति। यो वाऽलं पशुभ्यः सन्पशून्न विंदते। स सोमवामी। पशवो हि सोम इति॥१२.७.२.२॥
(१)स एतमाश्विनं धूम्रमालभेत।(२)सारस्वतं मेषम्।(३)ऐन्द्रमृषभम्। अश्विनौ वै देवानां भिषजौ। ताभ्यामेवैनं भिषज्यति। सरस्वती भेषजम्। तयैवास्मिन् भेषजं करोति। इंद्र इंद्रियं वीर्यम्। तेनैवास्मिन्निन्द्रियं वीर्यं दधाति॥१२.७.२.३॥
चक्षुर्वा अश्विनौ तेजः। यदाश्विनो भवति। चक्षुरेवास्मिंस्तत्तेजो दधाति, अथो श्रोत्रम्। समानं हि चक्षुश्च श्रोत्रं च॥१२.७.२.४॥
प्राणः सरस्वती वीर्यम्। यत्सारस्वतो भवति। प्राणमेवास्मिंस्तद्वीर्यं दधाति, अथो अपानम्। समानं हि प्राणश्चापानश्च॥१२.७.२.५॥
वागिन्द्रो बलम्। यदैंद्रो भवति। वाचमेवास्मिंतद्बलं दधाति, अथो मनः। समानं हि वाक् च मनश्च॥१२.७.२.६॥
आश्विनीरजाः सारस्वतीरवीरैंद्रीर्गाव इत्याहुः। यदेते पशव आलभ्यंते। एताभिरेव देवताभिरेतान्पशूनवरुन्धे॥१२.७.२.७॥
(४)वडवाऽनुशिशुर्भवति। यश एवैकशफमवरुंधे। आरण्यानां पशूनां लोमानि भवंति। आरण्यानां पशूनामवरुद्ध्यै।(५) वृकलोमानि भवंति। ओज एव जूतिमारण्यानां पशूनामवरुंधे। (६) व्याघ्रलोमानि भवंति। मन्युमेव राज्यमारण्यानां पशूनामवरुंधे। (७) सिंहलोमानि भवंति। सह एवेशामारण्यानां पशूनामवरुन्धे॥१२.७.२.८॥
(८) व्रीहयश्च (९) श्यामाकाश्च भवन्ति। (१०)गोधूमाश्च (११) कुवलानि च । (१२) उपवाकाश्च (१३)बदराणि च। (१४) यवाश्च (१५)कर्क्कन्धूनि च। (१६) शष्पाणि च (१७) तोक्मानि च। उभयमेव ग्राम्यं चान्नमारण्यं चावरुन्धे। अथो उभयेनैवान्नेन यथा रूपमिन्द्रियं वीर्यमात्मन्धत्ते॥१२.७.२.९॥
(१८) सीसेन शष्पाणि क्रीणाति। (१९) ऊर्णाभिस्तोक्मानि। (२०) सूत्रैर्व्रीहीन्। उभयोर्वा एतद्रूपम्। अयसश्च हिरण्यस्य च। यत्सीसम्। उभयं सौत्रामणी। इष्टिश्च पशुबन्धश्च। उभयस्यावरुद्ध्यै॥१२.७.२.१०॥
(२१) ऊर्णासूत्रेण क्रीणाति। तद्वा एतत् स्त्रीणां कर्म, यदूर्णासूत्रम्। कर्म वा इन्द्रियं वीर्यम्। तदेतदुत्सन्नं स्त्रीषु। तद्यदेवेन्द्रियं वीर्यमुत्सन्नं स्त्रीषु तदेवावरुन्धे॥१२.७.२.११॥
तद्धैतत् अन्येऽध्वर्यवः – सीसेन क्लीबाच्छष्पाणि क्रीणंति। तत्तदिति। न वा एष स्त्री,न पुमान्। यत् क्लीबः। नेष्टिर्न पशुबंधः सौत्रामणीति वदंतः। तदु तथा न कुर्यात्। उभयं वै सौत्रामणी। इष्टिश्च पशुबंधश्च। व्यृद्धमु वा एतन्मनुष्येषु। यत् क्लीबः। यज्ञमुख एव ते यज्ञस्य व्यृद्धिं दधति। ये तथा कुर्वन्ति। सोमविक्रयिण एव क्रीणीयात्। सोमो वै सौत्रामणी यज्ञमुख एव तत्सोमरूपं करोति। यज्ञस्य समृद्ध्यै॥१२.७.२.१२॥
(२२) शतातृण्णा कुंभी भवति। बहुधेव स व्यस्रवत्। अथो शतोन्मानो वै यज्ञो यज्ञमेवावरुंधे। (२३) सतं भवति। सदेवावरुंधे। (२४) चप्पं भवति। अन्नाद्यस्यैवावरुद्ध्यै। (२५) पवित्रं भवति। पुनंति ह्येनम्। (२६) वालो भवति। पाप्मनो व्यावृत्त्यै। (२७) सुवर्णं (२८) हिरण्यं भवति। रूपस्यैवावरुद्ध्यै। (२९) शतमानं भवति। शतायुर्वै पुरुषः शतेंद्रियः। आयुरेवेन्द्रियं वीर्यमात्मन्धत्ते॥१२.७.२.१३॥
(३०) आश्वत्थं पात्रं भवति। अपचितिमेवावरुंधे। (३१) औदुंबरं भवति। ऊर्जमेवावरुंधे। (३२) नैयग्रोधं भवति। स्वधामेवावरुंधे। (३३) स्थाल्यो भवंति। पृथिव्या एवान्नाद्यमवरुंधे॥१२.७.२.१४॥
(३४) पालाशान्युपशयानि भवंति। ब्रह्म वै पलाशः। ब्रह्मणैव स्वर्गं लोकं जयति। अपाष्ठिहस्य (३५,३६) पत्रे भवतः। त्विषिमेव राज्यं वयसामवरुंधे। षट्त्रिंशदेतानि भवंति। षट्त्रिंशदक्षरा वै बृहती। बार्हताः पशवः। बृहत्यैवास्मै पशूनवरुंधे॥१२.७.२.१५॥
तदाहुः – अन्यदेवत्याः पशवो भवंति। अन्यदेवत्या- पुरोडाशाः। विलोमैतत्क्रियते। कथमेतत्सलोम भवतीति। ऐंद्रः पशूनामुत्तमो भवति। ऐंद्रः पुरोडाशानां प्रथमः। इंद्रियं वै वीर्यम् इंद्रः। इंद्रियेणैवास्मा इंद्रियं वीर्यं संदधाति। इंद्रियेणेंद्रियं वीर्यमवरुंधे॥१२.७.२.१६॥
सावित्रः पुरोडाशो भवति। सवितृप्रसूततायै। वारुणो भवति। वरुणो वा एतं गृह्णाति। यः पाप्मना गृहीतो भवति। वरुणेनैवैनं वरुण्यान्मुंचति। अंत्यो भवति। अंतत एवैनं वरुणपाशात्प्रमुंचति॥१२.७.२.१७॥
एकादशकपाल ऐंद्रो भवति। एकादशाक्षरा वै त्रिष्टुप्। इंद्रियमु वै वीर्यं त्रिष्टुप्। इन्द्रियस्यैव वीर्यस्यावरुद्ध्यै॥१८॥ द्वादशकपालः सावित्रो भवति। द्वादश वै मासाः संवत्सरस्य। संवत्सरं वा अन्नाद्यमन्वायत्तम्। संवत्सरादेवास्मा अन्नाद्यमवरुंधे॥१२.७.२.१९॥
दशकपालो वारुणो भवति। दशाक्षरा वै विराट्। अन्नं विराट्। वरुणोऽन्नपतिः। वरुणेनैवास्मा अन्नमवरुन्धे। मध्यत एतैः पुरोडाशैः प्रचरति। मध्यं वा एतेषां योनिः। स्वादेवैनान् योनेः प्रजनयति॥१२.७.२.२०॥
वडवाऽनुशिशुर्दक्षिणा भवति। उभयं वा एषा जनयति। अश्वं चाश्वतरं च। उभयं सौत्रामणी। इष्टिश्च पशुबन्धश्च। उभयस्यैवावरुद्ध्यै॥१२.७.२.२१॥