अथर्ववेदः/काण्डं ९/सूक्तम् १२

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ९.११ अथर्ववेदः - काण्डं ९
सूक्तं ९.१२ (९.७)
ब्रह्मा
सूक्तं ९.१३ →
दे. गौः। १. आर्ची बृहती, २ - --- - - -

अस्य सूक्तस्य गोष्ठकर्मणि विनियोगः(कौ.सू. १९.१४)। - - - - -मेध्यवृषभस्य यानि भिन्नभिन्नान्यङ्गानि तानि भिन्नभिन्नदेवतारूपाणि भवन्तीति तस्य प्रशंसा।

9.7
प्रजापतिश्च परमेष्ठी च शृङ्गे इन्द्रः शिरो अग्निर्ललाटं यमः कृकाटम् ॥१॥
सोमो राजा मस्तिष्को द्यौरुत्तरहनुः पृथिव्यधरहनुः ॥२॥
विद्युज्जिह्वा मरुतो दन्ता रेवतीर्ग्रीवाः कृत्तिका स्कन्धा घर्मो वहः ॥३॥
विश्वं वायुः स्वर्गो लोकः कृष्णद्रं विधरणी निवेष्यः ॥४॥
श्येनः क्रोडोऽन्तरिक्षं पाजस्यं बृहस्पतिः ककुद्बृहतीः कीकसाः ॥५॥
देवानां पत्नीः पृष्टय उपसदः पर्शवः ॥६॥
मित्रश्च वरुणश्चांसौ त्वष्टा चार्यमा च दोषणी महादेवो बाहू ॥७॥
इन्द्राणी भसद्वायुः पुच्छं पवमानो बालाः ॥८॥
ब्रह्म च क्षत्रं च श्रोणी बलमूरू ॥९॥
धाता च सविता चाष्ठीवन्तौ जङ्घा गन्धर्वा अप्सरसः कुष्ठिका अदितिः शफाः ॥१०॥
चेतो हृदयं यकृन् मेधा व्रतं पुरीतत्॥११॥
क्षुत्कुक्षिरिरा वनिष्ठुः पर्वताः प्लाशयः ॥१२॥
क्रोधो वृक्कौ मन्युराण्डौ प्रजा शेपः ॥१३॥
नदी सूत्री वर्षस्य पतय स्तना स्तनयित्नुरूधः ॥१४॥
विश्वव्यचाश्चर्मौषधयो लोमानि नक्षत्राणि रूपम् ॥१५॥
देवजना गुदा मनुष्या आन्त्राण्यत्रा उदरम् ॥१६॥
रक्षांसि लोहितमितरजना ऊबध्यम् ॥१७॥
अभ्रं पीबो मज्जा निधनम् ॥१८॥
अग्निरासीन उत्थितोऽश्विना ॥१९॥
इन्द्रः प्राङ्तिष्ठन् दक्षिणा तिष्ठन् यमः ॥२०॥
प्रत्यङ्तिष्ठन् धातोदङ्तिष्ठन्त्सविता ॥२१॥
तृणानि प्राप्तः सोमो राजा ॥२२॥
मित्र ईक्षमाण आवृत्त आनन्दः ॥२३॥
युज्यमानो वैश्वदेवो युक्तः प्रजापतिर्विमुक्तः सर्वम् ॥२४॥
एतद्वै विश्वरूपं सर्वरूपं गोरूपम् ॥२५॥
उपैनं विश्वरूपाः सर्वरूपाः पशवस्तिष्ठन्ति य एवं वेद ॥२६॥ {२१}


[सम्पाद्यताम्]

टिप्पणी

९.१२.११ यकृन् मेधा

यकृतोपरि टिप्पणी

९.१२.१२ पर्वताः प्लाशयः

द्र. तैब्रा. २.६.४.४