कौशिकसूत्रम्/अध्यायः ०३

विकिस्रोतः तः
Jump to navigation Jump to search

18
पूर्वस्य पूर्वस्यां पौर्णमास्यामस्तमित उदकान्ते कृष्णचैलपरिहितो निरृतिकर्माणि प्रयुङ्क्ते १
नाव्याया दक्षिणावर्ते शापेटं निखनेत् २
अपां सूक्तैरवसिञ्चति ३
अप्सु कृष्णं जहाति ४
अहतवसन उपमुच्योपानहौ जीवघात्याया उदाव्रजति ५
प्रोष्य तामुत्तरस्यां सांपदं कुरुते ६
शापेटमालिप्याप्सु निबध्य तस्मिन्नुपसमाधाय संपातवन्तं करोति ७
अश्नाति ८
आधाय कृष्णं प्रवाहयति ९
उपमुच्य जरदुपानहौ सव्येन जरच्छत्त्रं दक्षिणेन शालातृणान्यादीप्य जीर्णं वीरिणमभिन्यस्यति १०
अनावृतमावृत्य सकृज्जुहोति ११
सव्यं प्रहरत्युपानहौ च १२
जीर्णे वीरिण उपसमाधायायं ते योनिरिति जरत्कोष्ठाद्व्रीहीञ्छर्करामिश्रानावपति १३
आ नो भरेति धानाः १४
युक्ताभ्यां सह कोष्ठाभ्यां तृतीयाम् १५
कृष्णशकुनेः सव्यजङ्घायामङ्कमनुबध्याङ्के पुरोडाशं प्र पतेत इत्यनावृतं प्रपादयति १६
नीलं संधाय लोहितमाच्छाद्य शुक्लं परिणह्य द्वितीययोष्णीषमङ्केनोपसाद्य सव्येन सहाङ्केनावाङप्स्वपविध्यति १७
तृतीयया छन्नं चतुर्थ्या संवीतम् १८
पूर्वस्य चित्राकर्म १९
कुलाय शृतं हरितबर्हिषमश्नाति २०
अन्वक्ताः प्रादेशमात्रोरादधाति २१
नाव्ययोः सांवैद्ये पश्चादग्नेर्भूमिपरिलेखे कीलालं मुखेनाश्नाति २२
तेजोव्रतं त्रिरात्रमश्नाति २३
तद्भक्षः २४
शंभुमयोभुभ्यां ब्रह्म जज्ञानमस्य वामस्य यो रोहित उदस्य केतवो मूर्धाहं विषासहिमिति सलिलैः क्षीरौदनमश्नाति २५
मन्थान्तानि २६
द्वितीयेन प्रवत्स्यन्हविषामुपदधीत २७
अथ प्रत्येत्य २८
अथ प्रत्येत्य २९
अथ प्रार्थयमाणः ३०
अथ प्रार्थयमाणः ३१
चत्वारो धायाः पलाशयष्टीनां भवन्ति ३२
दर्भाणामुपोलवानां चत्वारः ३३
तं व्यतिषक्तमष्टावरमिध्मं सात्त्रिकेऽग्नावाधायाज्येनाभिजुहुयात् ३४
धूमं नियछेत ३५
लेपं प्राश्नीयात् ३६
तमु चेन्न विन्देदय सत्त्रस्यायतने यज्ञायतनमिव कृत्वा ३७
समुद्र इत्याचक्षते कर्म ३८

१८

19
अम्बयो यन्ति शंभुमयोभुभ्यां ब्रह्म जज्ञानमा गाव एका च म इति गा लवणं पाययत्युपतापिनीः १
प्रजननकामाः २
प्रपामवरुणद्धि ३
सं सं स्रवन्त्विति नाव्याभ्यामुदकमाहरतः सर्वत उपासेचम् ४
तस्मिन्मैश्रधान्यं शृतमश्नाति ५
मन्थं वा दधिमधुमिश्रम् ६
यस्य श्रियं कामयते ततो व्रीह्याज्यपय आहार्य क्षीरौदनमश्नाति ७
तदलाभे हरितगोमयमाहार्य शोषयित्वा त्रिवृति गोमयपरिचये शृतमश्नाति ८
शेरभकेति सामुद्रमप्सु कर्म व्याख्यातम् ९
अनपहतधाना लोहिताजाया द्रप्सेन संनीयाश्नाति १०
एतावदुपैति ११
तृणानां ग्रन्थीनुद्ग्रथ्नन्नपक्रामति १२
तानुदाव्रजन्नुदपात्रस्योदपात्रेणाभिप्लावयति मुखं विमार्ष्टि १३
एह यन्तु पशवः सं वो गोष्ठेन प्रजावतीः प्रजापतिरिति गोष्ठकर्माणि १४
गृष्टेः पीयूषं श्लेष्ममिश्रमश्नाति १५
गां ददाति १६
उदपात्रं निनयति १७
समुह्य सव्येनाधिष्ठायार्धं दक्षिणेन विक्षिपति १८
सारूपवत्से शकृत्पिण्डान्गुग्गुलुलवणे प्रतिनीय पश्चादग्नेर्निखनति १९
तिसृणां प्रातरश्नाति २०
विकृते संपन्नम् २१
आयमगन्नयं प्रतिसरोऽयम् मे वरणोऽरातीयोरिति मन्त्रोक्तान्वासितान्बध्नाति २२
उत्तमस्य चतुरो जातरूपशकलेनानुसूत्रं गमयित्वावभुज्य त्रैधं पर्यस्यति २३
एतमिध्ममित्युपसमाधाय २४
तमिमं देवता इति वासितमुल्लुप्य ब्रह्मणा तेजसेति बध्नाति २५
उत्तमो असीति मन्त्रोक्तम् २६
अक्षितास्त इति यवमणिम् २७
प्रथमा ह व्युवास सेत्यष्टक्याया वपां सर्वेण सूक्तेन त्रिर्जुहोति २८
समवत्तानां स्थालीपाकस्य २९
सहहुतानाज्यमिश्रान्हुत्वा पश्चादग्नेर्वाग्यतः संविशति ३०
महाभूतानां कीर्तयन्संजिहीते ३१

१९

20
सीरा युज्ञन्तीति युगलाङ्गलं प्रतनोति १
दक्षिणमुष्टारं प्रथमं युनक्ति २
एहि पूर्णकेत्युत्तरम् ३
कीनाशा इतरान् ४
अश्विना फालं कल्पयतामुपावतु बृहस्पतिः
यथासद्बहुधान्यमयक्ष्मं बहुपूरुषमिति फालमतिकर्षति ५
इरावानसि धार्तराष्ट्रे तव मे सत्त्रे राध्यतामिति प्रतिमिमीते ६
अपहताः प्रतिष्ठा इत्यपूपैः प्रतिहत्य कृषति ७
सूक्तस्य पारं गत्वा प्रयच्छति ८
तिस्रः सीताः प्राचीर्गमयन्ति कल्याणीर्वाचो वदन्तः ९
सीते वन्दामहे त्वेत्यावर्तयित्वोत्तरस्मिन्सीतान्ते पुरोडाशेनेन्द्रं यजते १०
अश्विनौ स्थालीपाकेन ११
सीतायां संपातानानयन्ति १२
उदपात्र उत्तरान् १३
शष्पहविषामवधाय १४
सर्वमनक्ति १५
यत्र संपातानानयति ततो लोष्टं धारयन्तं पत्नी पृच्छत्यकृक्षतेति १६
अकृक्षामेति १७
किमाहार्षीरिति । १८
वित्तिं भूतिं पुष्टिं प्रजां पशूनन्नमन्नाद्यमिति १९
उत्तरतो मध्यमायां निवपति २०
अभ्यज्योत्तरफालं प्रातरायोजनाय निदधाति २१
सीताशिरःसु दर्भानास्तीर्य प्लक्षोदुम्बरस्य त्रींस्त्रींश्चमसान्निदधाति २२
रसवतो दक्षिणे शष्पवतो मध्यमे पुरोडाशवत उत्तरे २३
दर्भान्प्रत्यवभुज्य संवपति २४
सारूपवत्से शकृत्पिण्डान्गुग्गुलुलवणे प्रतिनीयाश्नाति २५
अनुडुत्सांपदम् २६

२०

21
पयस्वतीरिति स्फातिकरणम् १
शान्तफलशिलाकृतिलोष्टवल्मीकराशिवापं त्रीणि कूदीप्रान्तानि मध्यमपलाशे दर्भेण परिवेष्ट्य राशिपल्येषु करोति २
सायं भुञ्जते ३
प्रत्यावपन्ति शेषम् ४
आ भक्तयातनात् ५
अनुमन्त्रयते ६
अयं नो नभसस्पतिरिति पल्येऽश्मान संप्रोक्ष्यान्वृचं काशीनोप्यावापयति ७
आ गाव इति गा आयतीः प्रत्युत्तिष्ठति ८
प्रावृषि प्रथमधारस्येन्द्राय त्रिर्जुहोति ९
प्रजावतीरिति प्रतिष्टमाना अनुमन्त्रयते १०
कर्कीप्रवादानां द्वादशदाम्न्यां संपातवत्यामयं घास इह वत्सामिति मन्त्रोक्तम् ११
यस्ते शोकायेति वस्त्रसांपदी १२
तिस्रः कूदीमयोरूर्णनाभिकुलाय परिहिता अन्वक्ता आदधाति १३
अत्यन्तेषीका मौञ्जपरिहिता मधुना प्रलिप्य चिक्कशेषु पर्यस्य १४
उत पुत्र इति ज्येष्ठं पुत्रमवसाययति १५
मितशरणः सांपदं कुरुते १६
अर्धमर्धेनेत्यार्द्रपाणी रसं ज्ञात्वा प्रयच्छति १७
शान्तशाखया प्राग्भागमपाकृत्य १८
प्रत्यग्नि परिचृतति १९
तस्या अमावास्यायां तिस्रः प्रादेशमात्रीरादधाति २०
त्वे क्रतुमिति रसप्राशनी २१
रसकर्माणि कुरुते २२
स्तुष्व वर्ष्मन्निति प्राजापत्यामावास्यायामस्तमिते वल्मीकशिरसि दर्भावस्तीर्णेऽध्यधि दीपं धारयंस्त्रिर्जुहोति २३
तण्डुलसंपातानानीय रसैरुपसिच्याश्नाति २४
एवं पौर्णमास्यामाज्योतान् २५

२१

22
ऋधङ्मन्त्रस्तदिदासेति मैश्रधान्यं भृष्टपिष्टं लोहितालंकृतं रसमिश्रमश्नाति १
अभृष्टं प्लक्षोदुम्बरस्योत्तरतोऽग्नेस्त्रिषु चमसेषु पूर्वाह्णस्य तेजसाग्रमन्नस्य प्राशिषमिति पूर्वाह्णे २
मध्यन्दिनस्य तेजसा मध्यमन्नस्य प्राशिषमिति मध्यन्दिने ३
अपराह्णस्य तेजसा सर्वमन्नस्य प्राशिषमित्यपराह्णे ४
ऋतुमत्या स्त्रिया अङ्गुलिभ्यां लोहितम् ५
यत्क्षेत्रं कामयते तस्मिन्कीलालं दधिमधुमिश्रम ६
संवत्सरं स्त्रियमनुपेत्य शुक्त्यां रेत आनीय तण्डुलमिश्रं सप्तग्रामम् ७
द्वादशीममावास्येति क्षीरभक्षो भवत्यमावास्यायां दधिमधुभक्षस्तस्य मूत्र उदकद
धिमधुपल्पूलनान्यासिच्य ८
क्रव्यादं नाडी प्र विवेशाग्निं प्रजाभाङ्गिरतो माययैतौ।
आवां देवी जुषाणे घृताची इममन्नाद्याय प्र विशतं स्वाहेति ९
निशायामाग्रयणतण्डुलानुदक्यान्मधुमिश्रान्निदधात्या यवानां पङ्क्तेः १०
एवं यवानुभयान्समोप्य ११
त्रिवृति गोमयपरिचये शृतमश्नाति १२
समृद्धमिति काङ्कायनः १३
ममाग्ने वर्च इति सात्त्रिकानग्नीन्दर्भपूतीकभाङ्गाभिः परिस्तीर्य गार्हपत्यशृतं सर्वेषु संपातवन्तं गार्हपत्यदेशेऽश्नाति १४
एवं पूर्वस्मिन्नपरयोरुपसंहृत्य १५
एवं द्रोणकलशे रसानुक्तम् १६

२२

23
यजूंषि यज्ञ इति नवशालायां सर्पिर्मधुमिश्रमश्नाति १
दोषो गायेति द्वितीयाम् २
युक्ताभ्यां तृतीयाम् ३
आनुमतीं चतुर्थीम् ४
शालामङ्गुलिभ्यां संप्रोक्ष्य गृहपत्न्यासाद उपविश्योदपात्रं निनयति ५
इहैव स्तेति वाचं विसृजते ६
ऊर्ध्वा अस्येति वार्ष्मणमौदुम्बरं मन्थप्रतिरूपमभिजुहोति ७
असंख्याता अधिशृत्य सप्तागमशष्कुलीः ८
त्वष्टा म इति प्रातर्विभुङ्क्ष्यमाणोऽश्नाति ९
ज्यायुं बध्नाति १०
दण्डं संपातवन्तं विमृज्य धारयति ११
वायुरेना इति युक्तयोश्चित्राकर्मनिशायां संभारान्संपातवतः करोति १२
अपरेद्युर्वायुरेना इति शाखयोदकधारया गाः परिक्रामति १३
प्रथमजस्य शकलमवधायौदुम्बरेणासिना लोहितेनेति मन्त्रोक्तम् १४
यथा चक्रुरितीक्षुकाशकाण्ड्या लोहितं निर्मृज्य रसमिश्रमश्नाति १५
सर्वमौदुम्बरम् १६
यस्येदमा रज इत्यायोजनानामप्ययः १७

२३

24
उच्छ्रयस्वेति बीजोपहरणम् १
आज्यमिश्रान्यवानुर्वरायां कृष्टे फालेनोदुह्यान्वृचं काशीन्निनयति निवपति २
अभि त्यमिति महावकाशेऽरण्य उन्नते विमिते प्राग्द्वारप्रत्यग्द्वारेष्वप्सु संपातानानयति ३
कृष्णाजिने सोमांशुन्विचिनोति ४
सोममिश्रेण संपातवन्तमश्नाति ५
आदीप्ते संपन्नम् ६
तां सवितरिति गृष्टिदाम बध्नाति ७
सं मा सिञ्चन्त्विति सर्वोदके मैश्रधान्यम् ८
दिव्यं सुपर्णमित्यृषभदण्डिनो वपयेन्द्रं यजते ९
अनुबद्धशिरःपादेन गोशालां चर्मणावच्छाद्यावदानकृतं ब्राह्मणान्भोजयति १०
प्रोष्य समिध आदायोर्जं बिभ्रदिति गृहसंकाशे जपति ११
सव्येन समिधो दक्षिणेन शालावलोकं संस्थभ्य जपति १२
अतिव्रज्य समिध आधाय सुमङ्गलि प्रजावति सुसीमेऽहं वां गृहपतिर्जीव्यासमिति स्थूणे गृह्णात्युपतिष्ठते १३
यद्वदामीति मन्त्रोक्तम् १४
गृहपत्न्यासाद उपविश्योदपात्रं निनयति १५
इहैव स्तेति प्रवत्स्यन्नवेक्षते १६
सूयवसादिति सूयवसे पशून्निष्ठापयति १७
दूर्वाग्रैरञ्जलावप आनीय दर्शं दार्शीभिरुपतिष्ठते १८
इन्द्रस्य कुक्षिः साहस्र इत्यृषभं संपातवन्तमतिसृजति १९
रेतोधायै त्वातिसृजामि वयोधायै त्वातिसृजामि यूथत्वायै त्वातिसृजामि गणत्वायै त्वातिसृजामि सहस्रपोषायै त्वातिसृजाम्यपरिमितपोषायै त्वातिसृजामि २०
एतं वो युवानमिति पुराणं प्रवृत्य नवमुत्सृजते संप्रोक्षति २१
उत्तरेण पुष्टिकाम ऋषभेनेन्द्रं यजते २२
संपत्कामः श्वेतेन पौर्णमास्याम् २३
सत्यं बृहदित्याग्रहायण्याम् २४
पश्चादग्नेर्दर्भेषु खदायां सर्वहुतम् २५
द्वितीयं संपातवन्तमश्नाति २६
तृतीयस्यादितः सप्तभिर्भूमे मातरिति त्रिर्जुहोति २७
पश्चादग्नेर्दर्भेषु कशिप्वास्तीर्य विमृग्वरीमित्युपविशति २८
यास्ते शिवा इति संविशति २९
यच्छयान इति पर्यावर्तते ३०
नवभिः शन्तिवेति दशम्योदायुषेत्युपोत्तिष्ठति ३१
उद्वयमित्युत्क्रामति ३२
उदीराणा इति त्रीणि पदानि प्राङ्वोदङ्वा बाह्येनोपनिष्क्रम्य यावत्त इति वीक्षते ३३
उन्नताच्च ३४
पुरस्तादग्नेः सीरं युक्तमुदपात्रेण संपातवतावसिञ्चति ३५
आयोजनानामप्ययः ३६
यस्यां सदोहविर्धाने इति जुहोति वरो म आगमिष्यतीति ३७
यस्यामन्नमित्युपतिष्ठते ३८
निधिं बिभ्रतीति मणिं हिरण्यकामः ३९
एवं वित्त्वा ४०
यस्यां कृष्णमिति वार्षकृतस्याचामति शिरस्यानयते ४१
यं त्वा पृषती रथ इति द्यौः पृषत्यादित्यो रोहितः ४२
पृषतीं गां ददाति ४३
पृषत्या क्षीरौदनं सर्वहुतम् ४४
पुष्टिकर्मणामुपधानोपस्थानम् ४५
सलिलैः सर्वकामः सलिलैः सर्वकामः ४६

२४
इत्यथर्ववेदे कौशिकसूत्रे तृतीयोऽध्यायः समाप्तः



(३,१[१८].१) पूर्वस्य पूर्वस्यां पौर्णमास्यामस्तमित उदकान्ते कृष्णचैलपरिहितो निरृतिकर्माणि प्रयुङ्क्ते

(३,१[१८].२) नाव्याया दक्षिणावर्ते शापेटं निखनेत्

(३,१[१८].३) अपां सूक्तैरवसिञ्चति

(३,१[१८].४) अप्सु कृष्णं जहाति

(३,१[१८].५) अहतवसन उपमुच्य_उपानहौ जीवघात्याया उदाव्रजति

(३,१[१८].६) प्रोष्य तामुत्तरस्यां सांपदं कुरुते

(३,१[१८].७) शापेटमालिप्याप्सु निबध्य तस्मिन्नुपसमाधाय संपातवन्तं करोति

(३,१[१८].८) अश्नाति

(३,१[१८].९) आधाय कृष्णं प्रवाहयति

(३,१[१८].१०) उपमुच्य जरदुपानहौ सव्येन जरत्_छत्त्रं दक्षिणेन शालातृणाण्यादीप्य जीर्णं वीरिणमभिन्यस्यति

(३,१[१८].११) अनावृतमावृत्य सकृज्जुहोति

(३,१[१८].१२) सव्यं प्रहरत्युपानहौ च

(३,१[१८].१३) जीर्णे वीरिण उपसमाधाय <अयं ते योनिर्[३.२०]> इति जरत्कोष्ठाद्व्रीहीञ्शर्करामिश्रानावपति

(३,१[१८].१४) <आ नो भर [५.७]> इति धानाः

(३,१[१८].१५) युक्ताभ्यां सह कोष्ठाभ्यां तृटीयाम्

(३,१[१८].१६) कृष्णशकुनेः सव्यजङ्घायामङ्कमनुबध्याङ्के पुरोडाशं <प्र पतेतः [७.११५]> इति अनावृतं प्रपादयति

(३,१[१८].१७) नीलं संधाय लोहितमाछाद्य शुक्लं परिणह्य द्वितीयया_उष्णीषमङ्केन_उपसाद्य सव्येन सहाङ्केनावाङप्सु_अपविध्यति

(३,१[१८].१८) तृतीयया छन्नं चतुर्थ्या संवीतम्

(३,१[१८].१९) पूर्वस्य चित्राकर्म

(३,१[१८].२०) कुलायशृतं [एद्. कुलाय श्, बुत्दृष्टव्यम्‌ Cअलन्द्Kल्. ष्छ्र्. ५८] हरितबर्हिषमश्नाति

(३,१[१८].२१) अन्वक्ताः प्रादेशमात्रीरादधाति

(३,१[१८].२२) नाव्ययोः सांवैद्ये पश्चादग्नेर्भूमिपरिलेखे कीलालं मुखेनाश्नाति

(३,१[१८].२३) तेजोव्रतं त्रिरात्रमश्नाति

(३,१[१८].२४) तद्भक्षः

(३,१[१८].२५) शंभुमयोभुभ्यां [१.५ + १.६]> <ब्रह्म जज्ञानम् [४.१.१]> <अस्य वामस्य [९.९]> <यो रोहितो [१३.१.२५]> <उदस्य केतवो [१३.२.१]> <मूर्धाहं [१६.३.१]> <विषासहिम् [१७.१.१५]> इति सलिलैः क्षीरौदनमश्नाति

(३,१[१८].२६) मन्थान्तानि

(३,१[१८].२७) द्वितीयेन प्रवत्स्यन् हविषामुपदधीत

(३,१[१८].२८) अथ प्रत्येत्य

(३,१[१८].२९) अथ प्रत्येत्य

(३,१[१८].३०) अथ प्रार्थयमाणः

(३,१[१८].३१) अथ प्रार्थयमाणः

(३,१[१८].३२) चत्वारो धायाः पलाशयष्टीनां भवन्ति

(३,१[१८].३३) दर्भाणामुपोलवानां चत्वारः

(३,१[१८].३४) तं व्यतिषक्तमष्टावरमिध्मं सात्त्रिके_अग्नौ_आधायाज्येनाभिजुहुयात्

(३,१[१८].३५) धूमं नियछेत

(३,१[१८].३६) लेपं प्राश्नीयात्

(३,१[१८].३७) तमु चेन्न विन्देदथ सत्त्रस्यायतने यज्ञायतनमिव कृत्वा

(३,१[१८].३८) समुद्र इत्याचक्षते कर्म


(३,२[१९].१) <अम्बयो यन्त्य्[१.४.१]> शंभुमयोभुभ्यां [१.५ + १.६] <ब्रह्म जज्ञानम् [४.१]> <आ गावो [४.२१.१]> <एका च मे [५.१५.१]> इति गा लवणं पाययत्युपतापिनीः

(३,२[१९].२) प्रजननकामाः

(३,२[१९].३) प्रपामवरुणद्धि

(३,२[१९].४) <सं सं स्रवन्तु [१.१५.१]> इति नाव्याभ्यामुदकमाहरतः सर्वत उपासेचम्

(३,२[१९].५) तस्मिन्मैश्रधान्यं शृतमश्नाति

(३,२[१९].६) मन्थं वा दधिमधुमिश्रम्

(३,२[१९].७) यस्य श्रियं कामयते ततो व्रीहि_आज्यपय आहार्य क्षीरौदनमश्नाति

(३,२[१९].८) तदलाभे हरितगोमयमाहार्य शोषयित्वा त्रिवृति गोमयपरिचये शृतमश्नाति

(३,२[१९].९) <शेरभक [२.२४.१]> इति सामुद्रमप्सु कर्म व्याख्यातम्

(३,२[१९].१०) अनपहतधाना लोहिताजाया द्रप्सेन संनीयाश्नाति

(३,२[१९].११) एतावदुपैति

(३,२[१९].१२) तृणानां ग्रन्थीनुद्ग्रथ्नन्नपक्रामति

(३,२[१९].१३) तानुदाव्रजन्नुदपात्रस्य_उदपात्रेणाभिप्लावयति मुखं विमार्ष्टि [नोते चोन्ज्. ष्पेइजेर्ंुसेउम् ९ २५०]

(३,२[१९].१४) <एह यन्तु पशवो [२.२६.१]> <सं वो गोष्ठेन [३.२४.१]> <प्रजावतीः [४.२१.७ । ७.७५]> <प्रजापतिर्[६.११.३]> इति गोष्ठकर्माणि

(३,२[१९].१५) गृष्टेः पीयूषं श्लेष्ममिश्रमश्नाति

(३,२[१९].१६) गां ददाति

(३,२[१९].१७) उदपात्रं निनयति

(३,२[१९].१८) समूह्य सव्येनाधिष्ठायार्धं दक्षिणेन विक्षिपति

(३,२[१९].१९) सारूपवत्से शकृत्पिण्डान् गुग्गुलुलवणे प्रतिनीय पश्चादग्नेर्निखनति

(३,२[१९].२०) तिसृणां प्रातरश्नाति

(३,२[१९].२१) विकृते संपन्नम्

(३,२[१९].२२) <आयमगन् [३.५.१]> <अयं प्रतिसरो [८.५.१]> <अयं मे वरणो [१०.३.१]> <अरातीयोर्[१०.६.१]> इति मन्त्रोक्तान् वासितान् बध्नाति

(३,२[१९].२३) उत्तमस्य चतुरो जातरूपशकलेनानुसूत्रं गमयित्वावभुज्य त्रैधं पर्यस्यति

(३,२[१९].२४) <एतमिध्मम् [१०.६.३५]> इत्युपसमाधाय

(३,२[१९].२५) <तमिमं देवता [१०.६.२९]> इति वासितमुल्लुप्य <ब्रह्मणा तेजसा [१०.६.३०]> इति बध्नाति

(३,२[१९].२६) <उत्तमो असि [६.१५.१]> इति मन्त्रोक्तम्

(३,२[१९].२७) <अक्षितास्त [६.१४२.३]> इति यवमणिम्

(३,२[१९].२८) <प्रथमा ह व्युवास सा [३.१०]> इत्यष्टक्याया वपां सर्वेण सूक्तेन त्रिर्जुहोति

(३,२[१९].२९) समवत्तानां स्थालीपाकस्य

(३,२[१९].३०) सहहुतानाज्यमिश्रान् हुत्वा पश्चादग्नेर्वाग्यतः संविशति

(३,२[१९].३१) महाभूतानां कीर्तयन् संजिहीते


(३,३[२०].१) <सीरा युञ्जन्ति [३.१७.१]> इति युगलाङ्गलं प्रतनोति

(३,३[२०].२) दक्षिणमुष्टारं प्रथमं युनक्ति

(३,३[२०].३) <एहि पूर्णक []>_इत्युत्तरम्

(३,३[२०].४) कीनाशा इतरान्

(३,३[२०].५) <अश्विना फालं कल्पयतामुपावतु बृहस्पतिः । यथासद्बहुधान्यमयक्ष्मं बहुपूरुषम् [पै.सं.८.१८.६]> इति फालमतिकर्षति

(३,३[२०].६) <इरावानसि धार्तराष्ट्रे तव मे सत्त्रे राध्यताम् []> इति प्रतिमिमीते

(३,३[२०].७) <अपहताः प्रतिष्ठाः []> इत्यपूपैः प्रतिहत्य कृषति

(३,३[२०].८) सूक्तस्य पारं गत्वा प्रयछति

(३,३[२०].९) तिस्रः सीताः प्राचीर्गमयन्ति कल्याणीर्वाचो वदन्तः

(३,३[२०].१०) <सीते वन्दामहे त्वा [३.१७.८]> इत्यावर्तयित्वा_उत्तरस्मिन् सीतान्ते पुरोडाशेन_इन्द्रं यजते

(३,३[२०].११) अश्विनौ स्थालीपाकेन

(३,३[२०].१२) सीतायां संपातानानयन्ति

(३,३[२०].१३) उदपात्रे_उत्तरान्

(३,३[२०].१४) शष्पहविषामवधाय

(३,३[२०].१५) सर्वमनक्ति

(३,३[२०].१६) यत्र संपातानानयति ततो लोष्टं धारयन्तं पत्नी पृछत्यकृक्षत_इति

(३,३[२०].१७) अकृक्षाम_इति

(३,३[२०].१८) किमाहार्षीरिति

(३,३[२०].१९) <वित्तिं भूतिं पुष्टिं प्रजां पशूनन्नमन्नाद्यम् [दृष्टव्यम्‌ इ.अ. पै.सं.५.३५.१, पै.सं.१९.५३.१९? (= पै.सं.K १९.५३.१०)]> इति

(३,३[२०].२०) उत्तरतो मध्यमायां निवपति

(३,३[२०].२१) अभ्यज्य_उत्तरफालं प्रातरायोजनाय निदधाति

(३,३[२०].२२) सीताशिरःसु दर्भानास्तीर्य प्लक्ष_उदुम्बरस्य त्रींस्_त्रींश्चमसान्निदधाति

(३,३[२०].२३) रसवतो दक्षिणे शष्पवतो मध्यमे पुरोडाशवत उत्तरे

(३,३[२०].२४) दर्भान् प्रत्यवभुज्य संवपति

(३,३[२०].२५) सारूपवत्से शकृत्पिण्डान् गुग्गुलुलवणे प्रतिनीयाश्नाति

(३,३[२०].२६) अनडुत्सांपदम्


(३,४[२१].१) <पयस्वतीर्[३.२४]> इति स्फातिकरणम्

(३,४[२१].२) शान्तफलशिलाकृतिलोष्टवल्मीकराशिवापं त्रीणि कूदीप्रान्तानि मध्यमपलाशे दर्भेण परिवेष्ट्य राशिपल्येषु करोति

(३,४[२१].३) सायं भुञ्जते

(३,४[२१].४) प्रत्यावपन्ति शेषम्

(३,४[२१].५) आ भक्तयातनात्

(३,४[२१].६) अनुमन्त्रयते

(३,४[२१].७) <अयं नो नभसस्पतिः [६.७९]> इति पल्ये_अश्मानं संप्रोक्ष्यान्वृचं काशी ओप्यावापयति

(३,४[२१].८) <आ गावो [४.२१]> इति गा आयतीः प्रत्युत्तिष्ठति

(३,४[२१].९) प्रावृषि प्रथमधारस्य_इन्द्राय त्रिर्जुहोति

(३,४[२१].१०) <प्रजावतीः []> इति प्रतिष्ठमाना अनुमन्त्रयते

(३,४[२१].११) कर्कीप्रवादानां द्वादशदाम्न्यां संपातवत्याम् <अयं घासो ... इह वत्साम् [४.३८.७ द्]> इति मन्त्रोक्तम्

(३,४[२१].१२) <यस्ते शोकाय [५.१.३]> इति वस्त्रसांपदी

(३,४[२१].१३) तिस्रः कूदीमयीरूर्णनाभिकुलाय परिहिता अन्वक्ता आदधाति

(३,४[२१].१४) अत्यन्तेषीकामौञ्जपरिहिता [थुस्wइथ्Cअलन्द्, आZ प्. ५५, न्. ५] मधुना प्रलिप्य चिक्कशेषु पर्यस्य

(३,४[२१].१५) <उत पुत्रः [५.१.८]> इति ज्येष्ठं पुत्रमवसाययति

(३,४[२१].१६) मितशरणः सांपदं कुरुते

(३,४[२१].१७) <अर्धमर्धेन [५.१.९]> इत्यार्द्रपाणिरसंज्ञात्वा [सो Cअलन्द्॑ एद्. आर्द्रपाणी रसं ज्ञात्वा] प्रयछति

(३,४[२१].१८) शान्तशाखया प्राग्भागमपाकृत्य

(३,४[२१].१९) प्रत्यग्नि परिचृतति

(३,४[२१].२०) तस्या अमावास्यायां तिस्रः प्रादेशमात्रीरादधाति

(३,४[२१].२१) <त्वे क्रतुम् [५.२.३]> इति रसप्राशनी

(३,४[२१].२२) रसकर्माणि कुरुते

(३,४[२१].२३) <स्तुष्व वर्ष्मन् [५.२.७]> इति प्राजापत्यामावास्यायामस्तमिते वल्मीकशिरसि दर्भावस्तीर्णे_अध्यधि दीपं धारयंस्त्रिर्जुहोति

(३,४[२१].२४) तण्डुलसंपातानानीय रसैरुपसिच्याश्नाति

(३,४[२१].२५) एवं पौर्णमास्यामाज्य_ऊतान्


(३,५[२२].१) <ऋधङ्मन्त्रो [५.१]> <तदिदास [५.२]> इति मैश्रधान्यं भृष्टपिष्टं लोहितालंकृतं रसमिश्रमश्नाति

(३,५[२२].२) अभृष्टं प्लक्ष_उदुम्बरस्य_उत्तरतो_अग्नेस्त्रिषु चमसेषु पूर्वाह्णस्य तेजसाग्रमन्नस्य प्राशिषमिति पूर्वाह्णे

(३,५[२२].३) मध्यन्दिनस्य तेजसा मध्यमन्नस्य प्राशि.अमिति मध्यन्दिने

(३,५[२२].४) अपराह्णस्य तेजसा सर्वमन्नस्य प्राशिषमित्यपराह्णे

(३,५[२२].५) ऋतुमत्या स्त्रिया अङ्गुलिभ्यां लोहितम्

(३,५[२२].६) यत्क्षेत्रं कामयते तस्मिन् कीलालं दधिमधुमिश्रम्

(३,५[२२].७) संवत्सरं स्त्रियमनुपेत्य शुक्त्यां रेत आनीय तण्डुलमिश्रं सप्तग्रामम्

(३,५[२२].८) द्वादशीममावास्या_इति क्षीरभक्षो भवत्यमावास्यायां दधिमधुभक्षस्तस्य मूत्रे_उदकदधिमधुपल्पूलनानि_आसिच्य

(३,५[२२].९) <क्रव्यादं नाडी प्र विवेशाग्निं प्रजाभाङ्गिरतो माययैतौ । आवां देवी जुषाणे घृताची इममन्नाद्याय प्र विशतं स्वाहा []> इति

(३,५[२२].१०) निशायामाग्रयणतण्डुलानुदक्यान्मधुमिश्रान्निदधात्या यवानां पङ्क्तेः

(३,५[२२].११) एवं यवानुभयान् समोप्य

(३,५[२२].१२) त्रिवृति गोमयपरिचये शृतमश्नाति

(३,५[२२].१३) समृद्धमिति काङ्कायनः

(३,५[२२].१४) <ममाग्ने वर्चो [५.३]> इति सात्त्रिकानग्नीन् दर्भपूतीकभाङ्गाभिः परिस्तीर्य गार्हपत्यशृतं सर्वेषु संपातवन्तं गार्हपत्यदेशे_अश्नाति

(३,५[२२].१५) एवं पूर्वस्मिन्नपरयोरुपसंहृत्य

(३,५[२२].१६) एवं द्रोणकलशे रसानुक्तम्


(३,६[२३].१) <यजूंषि यज्ञे [५.२६]> इति नवशालायां सर्पिर्मधुमिश्रमश्नाति [बुत्Cअलन्द्जुहोति]

(३,६[२३].२) <दोषो गाय [६.१]> इति द्वितीयाम्

(३,६[२३].३) युक्ताभ्यां तृतीयाम्

(३,६[२३].४) आनुमतीं चतुर्थीम्

(३,६[२३].५) शालामङ्गुलिभ्यां संप्रोक्ष्य गृहपत्न्यासाद उपविश्य_उदपात्रं निनयति

(३,६[२३].६) <इहैव स्त [७.६०.७]> इति वाचं विसृजते

(३,६[२३].७) <ऊर्ध्वा अस्य [५.२७]> इति वार्ष्मणमौदुम्बरं मन्थप्रतिरूपमभिजुहोति

(३,६[२३].८) असंख्याता अधिशृत्य सप्तागमशष्कुलीः

(३,६[२३].९) <त्वष्टा मे []> इति प्रातर्+विभक्ष्यमाणो [सो Cअलन्द्॑ एद्. विभुङ्क्ष्यमाणो]_अश्नाति

(३,६[२३].१०) ज्याजुं बद्नाति

(३,६[२३].११) दण्डं संपातवन्तं विमृज्य धारयति

(३,६[२३].१२) <वायुरेनाः [६.१४१]> इति युक्तयोश्चित्राकर्म निशायां संभारान् संपातवतः करोति

(३,६[२३].१३) अपरेद्युर्<वायुरेनाः [६.१४१]> इति शाखया_उदकधारया गाः परिक्रामति

(३,६[२३].१४) प्रथमजस्य शकलमवधाय_औदुम्बरेणासिना <लोहितेन [६.१४१.२]> इति मन्त्रोक्तम्

(३,६[२३].१५) <यथा चक्रुर्[६.१४१.३]> इतीक्षुकाशकाण्ड्या लोहितं निर्मृज्य रसमिश्रमश्नाति

(३,६[२३].१६) सर्वमौदुम्बरम्

(३,६[२३].१७) <यस्येदमा [६.३३]> इत्यायोजनानामप्ययः


(३,७[२४].१) <उच्छ्रयस्व [६.१४२]> इति बीजोपहरणम्

(३,७[२४].२) आज्यमिश्रान् यवानुर्वरायां कृष्टे फालेन_उदुह्यान्वृचं काशीन्निनयति निवपति

(३,७[२४].३) <अभि त्यम् [७.१४]> इति महावकाशे_अरण्य उन्नते विमिते प्राग्द्वारप्रत्यग्द्वारेष्वप्सु संपातानानयति

(३,७[२४].४) कृष्णाजिने सोमांशून् विचिनोति

(३,७[२४].५) सोममिश्रेण संपातवन्तमश्नाति

(३,७[२४].६) आदीप्ते संपन्नम्

(३,७[२४].७) <तां सवितः [७.१५]> इति गृष्टिदाम बध्नाति

(३,७[२४].८) <सं मा सिञ्चन्तु [७.३३]> इति सर्वोदके मैश्रधान्यम्

(३,७[२४].९) <दिव्यं सुपर्णं [७.३९]> इत्यृषभदण्डिनो वपया_इन्द्रं यजते

(३,७[२४].१०) अनुबद्धशिरःपादेन गोशालां चर्मणावछाद्यावदानकृतं ब्राह्मणान् भोजयति

(३,७[२४].११) प्रोष्य समिध आदाय_ <ऊर्जं बिभ्रद्[७.६०]> इति गृहसंकाशे जपति

(३,७[२४].१२) सव्येन समिधो दक्षिणेन शालावलीकं संस्तभ्य जपति

(३,७[२४].१३) अतिव्रज्य समिध आधाय <सुमङ्गलि प्रजावति सुशीमे [सो Cअलन्द्॑ एद्. सुसीमे] _अहं वां गृहपतिर्जीव्यासम्> इति स्थूणे गृह्णात्युपतिष्ठते

(३,७[२४].१४) <यद्वदामि [१२.१.५८]> इति मन्त्रोक्तम्

(३,७[२४].१५) गृहपत्न्यासादे_उपविश्य_उदपात्रं निनयति

(३,७[२४].१६) <इहैव स्त [७.६०.७]> इति प्रवत्स्यन्नवेक्षते

(३,७[२४].१७) <सूयवसाद्[७.७३.११]> सूयवसे पशून्निष्ठापयति

(३,७[२४].१८) दूर्वाग्रैरञ्जलौ_अप आनीय दर्शं दार्शीभिरुपतिष्ठते

(३,७[२४].१९) <इन्द्रस्य कुक्षिर्[७.१११]> <साहस्रस्[९.४]> इत्यृषभं संपातवन्तमतिसृजति

(३,७[२४].२०) रेतोधायै त्वातिसृजामि वयोधायै त्वातिसृजामि यूथत्वायै त्वातिसृजामि गणत्वायै त्वातिसृजामि सहस्रपोषायै त्वातिसृजाम्यपरिमितपोस्.आयै त्वातिसृजामि

(३,७[२४].२१) <एतं वो युवानं [९.४.२४]> इति पुराणं प्रवृत्य नवमुत्सृजते संप्रोक्षति

(३,७[२४].२२) उत्तरेण पुष्टिकाम ऋषभेण_इन्द्रं यजते

(३,७[२४].२३) संपत्कामः श्वेतेन पौर्णमास्याम्

(३,७[२४].२४) <सत्यं बृहद्[१२.१]> इत्याग्रहायण्याम्

(३,७[२४].२५) पश्चादग्नेर्दर्भेषु खदायां सर्वहुतम्

(३,७[२४].२६) द्वितीयं संपातवन्तमश्नाति

(३,७[२४].२७) तृतीयस्यादितिः सप्तभिर्<भूमे मातर्[१२.१.६३]> इति त्रिर्जुहोति

(३,७[२४].२८) पश्चादग्नेर्दर्भेषु कशिपु_आस्तीर्य <विमृग्वरीं []> इत्युपविशति

(३,७[२४].२९) <यास्ते शिवास्[९.२.२५]> इति संविशति

(३,७[२४].३०) <यच्छयानः []> इति पर्यावर्तते

(३,७[२४].३१) नवभिः <शन्तिवा [१२.१.५९]> इति दशम्या_ <उदायुषा [३.३१.१०]> इत्युपोत्तिष्ठति

(३,७[२४].३२) <उद्वयं [७.५३.७]> इत्युत्क्रामति

(३,७[२४].३३) <उदीराणा [१२.१.२८]> इति त्रीणि पदानि प्राङ्वा_उदङ्वा बाह्येन_उपनिष्क्रम्य <यावत्ते [१२.१.३३]> इति वीक्षते

(३,७[२४].३४) उन्नताच्च

(३,७[२४].३५) पुरस्तादग्नेः सीरं युक्तमुदपात्रेण संपातवतावसिञ्चति

(३,७[२४].३६) आयोजनानामप्ययः

(३,७[२४].३७) <यस्यां सदोहविर्धाने [१२.१.३८४०]> इति जुहोति वरो म आगमिष्यतीति

(३,७[२४].३८) <यस्यामन्नं [१२.१.४२]> इत्युपतिष्ठते

(३,७[२४].३९) <निधिं बिभ्रति [१२.१.४४४५]> इति मणिं हिरण्यकामः

(३,७[२४].४०) एवं वित्त्वा

(३,७[२४].४१) <यस्यां कृष्णम् [१२.१.५२]> इति वार्षकृतस्याचमति शिरस्यानयते

(३,७[२४].४२) <यं त्वा पृषती रथे [१३.१.२१२६]> इति द्यौः पृषत्यादित्यो रोहितः

(३,७[२४].४३) पृषतीं गां ददाति

(३,७[२४].४४) पृषत्या क्षीरौदनं सर्वहुतम्

(३,७[२४].४५) पुष्टिकर्मणामुपधानोपस्थानम्

(३,७[२४].४६) सलिलैः सर्वकामः सलिलैः सर्वकामः


(कौ.सू.३ Cओलोफोन्) इति अथर्ववेदे कौशिकसूत्रे तृतीयोऽध्यायः समाप्तः