ऋग्वेदः सूक्तं २.३८

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं २.३७ ऋग्वेदः - मण्डल २
सूक्तं २.३८
गृत्समद (आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः
सूक्तं २.३९ →
दे. अश्विनौ। त्रिष्टुप्।


उदु ष्य देवः सविता सवाय शश्वत्तमं तदपा वह्निरस्थात् ।
नूनं देवेभ्यो वि हि धाति रत्नमथाभजद्वीतिहोत्रं स्वस्तौ ॥१॥
विश्वस्य हि श्रुष्टये देव ऊर्ध्वः प्र बाहवा पृथुपाणिः सिसर्ति ।
आपश्चिदस्य व्रत आ निमृग्रा अयं चिद्वातो रमते परिज्मन् ॥२॥
आशुभिश्चिद्यान्वि मुचाति नूनमरीरमदतमानं चिदेतोः ।
अह्यर्षूणां चिन्न्ययाँ अविष्यामनु व्रतं सवितुर्मोक्यागात् ॥३॥
पुनः समव्यद्विततं वयन्ती मध्या कर्तोर्न्यधाच्छक्म धीरः ।
उत्संहायास्थाद्व्यृतूँरदर्धररमतिः सविता देव आगात् ॥४॥
नानौकांसि दुर्यो विश्वमायुर्वि तिष्ठते प्रभवः शोको अग्नेः ।
ज्येष्ठं माता सूनवे भागमाधादन्वस्य केतमिषितं सवित्रा ॥५॥
समाववर्ति विष्ठितो जिगीषुर्विश्वेषां कामश्चरताममाभूत् ।
शश्वाँ अपो विकृतं हित्व्यागादनु व्रतं सवितुर्दैव्यस्य ॥६॥
त्वया हितमप्यमप्सु भागं धन्वान्वा मृगयसो वि तस्थुः ।
वनानि विभ्यो नकिरस्य तानि व्रता देवस्य सवितुर्मिनन्ति ॥७॥
याद्राध्यं वरुणो योनिमप्यमनिशितं निमिषि जर्भुराणः ।
विश्वो मार्ताण्डो व्रजमा पशुर्गात्स्थशो जन्मानि सविता व्याकः ॥८॥
न यस्येन्द्रो वरुणो न मित्रो व्रतमर्यमा न मिनन्ति रुद्रः ।
नारातयस्तमिदं स्वस्ति हुवे देवं सवितारं नमोभिः ॥९॥
भगं धियं वाजयन्तः पुरंधिं नराशंसो ग्नास्पतिर्नो अव्याः ।
आये वामस्य संगथे रयीणां प्रिया देवस्य सवितुः स्याम ॥१०॥
अस्मभ्यं तद्दिवो अद्भ्यः पृथिव्यास्त्वया दत्तं काम्यं राध आ गात् ।
शं यत्स्तोतृभ्य आपये भवात्युरुशंसाय सवितर्जरित्रे ॥११॥


सायणभाष्यम्

' उदु ष्यः ' इत्येकादशर्चं षष्ठं सूक्तं गार्त्समदं त्रैष्टुभं सवितृदेवताकम् । अत्रानुक्रमणिका- ' उदु ष्य एकादश सावित्रम् ' इति । व्यूढे दशरात्रे षष्ठेऽहनि वैश्वदेवशस्त्रे एतत्सूक्तं सावित्रनिविद्धानीयम् । ' व्यूळ्हश्चेत् ' इति खण्डे सूत्रितं-' षष्ठस्योदु ष्य देव इति गार्त्समदम् ' ( आश्व. श्रौ. ८.८) इति ।

उदु॒ ष्य दे॒वः स॑वि॒ता स॒वाय॑ शश्वत्त॒मं तद॑पा॒ वह्नि॑रस्थात् ।

नू॒नं दे॒वेभ्यो॒ वि हि धाति॒ रत्न॒मथाभ॑जद्वी॒तिहो॑त्रं स्व॒स्तौ ॥१

उत् । ऊं॒ इति॑ । स्यः । दे॒वः । स॒वि॒ता । स॒वाय॑ । श॒श्व॒त्ऽत॒मम् । तत्ऽअ॑पाः । वह्निः॑ । अ॒स्था॒त् ।

नू॒नम् । दे॒वेभ्यः॑ । वि । हि । धाति॑ । रत्न॑म् । अथ॑ । आ । अ॒भ॒ज॒त् । वी॒तिऽहो॑त्रम् । स्व॒स्तौ ॥१

उत्।ऊं इति।स्यः। देवः सविता।सवाय। शश्वत्तमं तत्ऽअपाः । वह्निः।अस्थात्।

नूनं । देवेभ्यः । वि।हि। धाति । रत्नं। अथ । आ। अभजत्। वीतिऽहोत्रं। स्वस्तौ॥१॥

स्यः स देवो द्योतमानः सविता सवाय लोकानां प्रसवायानुज्ञायै शश्वत्तमं प्रतिदिनमुदस्थात्। उत्तिष्ठति । कीदृशः सविता । तदपाः तत्प्रसवकर्मा ॥ अपः अप्न इति कर्मनामसु पाठात् ॥ वह्निर्वोढा जगतां । किंच नूनं संप्रति देवेभ्यः स्तोतृभ्यो रत्नं धनं वि हि धाति । प्रयच्छति ॥ हीति पूरणे ॥ अथ अपि च वीतिहोत्रं कांतयज्ञं यजमानं स्वस्तावविनाशे क्षेमेऽभजत् । भागिनं करोतु । यद्यपि स्वस्तिशब्दो विभक्त्यंतनिर्दिष्टशब्दपरस्तथापि अपर्यवसानादर्थपरो भवति ॥


विश्व॑स्य॒ हि श्रु॒ष्टये॑ दे॒व ऊ॒र्ध्वः प्र बा॒हवा॑ पृ॒थुपा॑णि॒ः सिस॑र्ति ।

आप॑श्चिदस्य व्र॒त आ निमृ॑ग्रा अ॒यं चि॒द्वातो॑ रमते॒ परि॑ज्मन् ॥२

विश्व॑स्य । हि । श्रु॒ष्टये॑ । दे॒वः । ऊ॒र्ध्वः । प्र । बा॒हवा॑ । पृ॒थुऽपा॑णिः । सिस॑र्ति ।

आपः॑ । चि॒त् । अ॒स्य॒ । व्र॒ते । आ । निऽमृ॑ग्राः । अ॒यम् । चि॒त् । वातः॑ । र॒म॒ते॒ । परि॑ऽज्मन् ॥२

विश्वस्य । हि। श्रुष्टये : देवः । ऊर्ध्वः । प्र। बाहवा। पृथुऽपाणिः । सिसर्ति ।

आपः।चित्।अस्य।व्रते। आ।निऽमृग्राः। अयं ।चित्। वातः। रमते।परिऽज्मन् ॥२॥

देवो द्योतमानः सविता पृथुपाणिर्महत्करो विश्वस्य श्रुष्टये जगतः सुखायोर्ध्व उद्गतः सन् बाहवा बाहू प्रसिसर्ति । प्रसारयति । आपश्चित् आपोऽप्यस्य व्रते प्रसवाख्ये कर्मणि सति ॥ व्रतं कर्वरमिति तन्नामसु पाठात् ॥ आ स्यंदंत इति शेषः । ताश्च निमृग्रा नितरां शोधयित्र्यो गंगादिरूपेण जगत्पावयंतीत्यर्थः । अयं चिद्वातोऽयमपि वायुः परिज्मन् परितो गते व्याप्तेंऽतरिक्षे रमते ॥


आ॒शुभि॑श्चि॒द्यान्वि मु॑चाति नू॒नमरी॑रम॒दत॑मानं चि॒देतोः॑ ।

अ॒ह्यर्षू॑णां चि॒न्न्य॑याँ अवि॒ष्यामनु॑ व्र॒तं स॑वि॒तुर्मोक्यागा॑त् ॥३

आ॒शुऽभिः॑ । चि॒त् । यान् । वि । मु॒चा॒ति॒ । नू॒नम् । अरी॑रमत् । अत॑मानम् । चि॒त् । एतोः॑ ।

अ॒ह्यर्षू॑णाम् । चि॒त् । नि । अ॒या॒न् । अ॒वि॒ष्याम् । अनु॑ । व्र॒तम् । स॒वि॒तुः । मोकी॑ । आ । अ॒गा॒त् ॥३

आशुऽभिः ।चित्। यान्।वि।मुचाति । नूनं । अरीरमत्। अतमानं। चित्। एतोः।

अह्यर्षूणां ।चित्।नि।अयान्।अविष्यां। अनु।व्रतं।सवितुः।मोकी। आ।अगात् ॥३॥

यान गच्छन् सविताशुभिश्चिच्छीघ्रगामिभिरपि रश्मिभिर्विमुचाति । विमुच्यते । नूनमिति पूरणः । अतमानं चित्सततं गच्छंतमपि जनमेतोर्गमनादरीरमत् । उपरमयति । किंच अह्यर्षूणां । अहिमाहंतारं शत्रुमर्षंत्यभिगच्छंतीत्यह्यर्षवः । तेषामप्यविष्यां गमनेच्छां न्ययान् । नियच्छति । सवितुः प्रेरकस्य सूर्यस्य व्रतं कर्मानुपश्चान्मोकी रात्रिः । मोकी शोकीति रात्रिनामसु पाठात् ॥ आगात् । आगच्छति । सवितुश्चेष्टोपरतौ रात्रिरागच्छतीति यावत् ॥


पुन॒ः सम॑व्य॒द्वित॑तं॒ वय॑न्ती म॒ध्या कर्तो॒र्न्य॑धा॒च्छक्म॒ धीरः॑ ।

उत्सं॒हाया॑स्था॒द्व्यृ१॒॑तूँर॑दर्धर॒रम॑तिः सवि॒ता दे॒व आगा॑त् ॥४

पुन॒रिति॑ । सम् । अ॒व्य॒त् । विऽत॑तम् । वय॑न्ती । म॒ध्या । कर्तोः॑ । नि । अ॒धा॒त् । शक्म॑ । धीरः॑ ।

उत् । स॒म्ऽहाय॑ । अ॒स्था॒त् । वि । ऋ॒तून् । अ॒द॒र्धः॒ । अ॒रम॑तिः । स॒वि॒ता । दे॒वः । आ । अ॒गा॒त् ॥४

पुनरिति । सं। अव्यत् । विऽततं । वयंती। मध्या। कर्तोः । नि। अधात्। शक्म। धीरः।

उत्। संऽहाय । अस्थात् । वि। ऋतून् । अदर्धः । अरमतिः । सविता। देवः। आ ।अगात् ॥४॥

वयंती वस्त्रं वयंती नारीव रात्रिर्विततमालोकं पुनः समव्यत् । संवेष्टयते । पुनः शब्दः पूर्वेद्युरप्येवमकार्षीदिति द्योतयति। धीरः प्राज्ञोऽपि सर्वो लोकः कर्तोः क्रियमाणं कर्म ॥ कर्तोः कर्तवा इति तन्नामसु पाठात् ॥ शक्म कर्तुं शक्यमपि मध्या मध्य उपक्रांतं कर्मापरिसमाप्येत्यर्थः । न्यधात् । निहितवान् । सवितर्युपरत इति । शेषः । सर्वो लोकः संहाय शय्यां विहायोदस्थात् । अवशिष्टं कर्म कर्तुं पुनरुत्तिष्ठति ॥ संपूर्वो जहातिः शय्यापरित्यागे वर्तते । तथा च श्रूयते । कलिः शयानो भवति संजिहानस्तु द्वापरः । ऐ० ब्रा० ७.१५. । इति । सविता सर्वस्य प्रसविता सूर्योऽरमतिरनुपरतिर्देवो द्योतमान आगात् । आगच्छति । उदेतीति यावत् । ऋतून् कालविशेषांश्च व्यदर्दः। विदारयति ॥


नानौकां॑सि॒ दुर्यो॒ विश्व॒मायु॒र्वि ति॑ष्ठते प्रभ॒वः शोको॑ अ॒ग्नेः ।

ज्येष्ठं॑ मा॒ता सू॒नवे॑ भा॒गमाधा॒दन्व॑स्य॒ केत॑मिषि॒तं स॑वि॒त्रा ॥५

नाना॑ । ओकां॑सि । दुर्यः॑ । विश्व॑म् । आयुः॑ । वि । ति॒ष्ठ॒ते॒ । प्र॒ऽभ॒वः । शोकः॑ । अ॒ग्नेः ।

ज्येष्ठ॑म् । मा॒ता । सू॒नवे॑ । भा॒गम् । आ । अ॒धा॒त् । अनु॑ । अ॒स्य॒ । केत॑म् । इ॒षि॒तम् । स॒वि॒त्रा ॥५

नाना। ओकांसि । दुर्यः । विश्वं । आयुः । वि। तिष्ठते । प्रऽभवः। शोकः । अग्नेः।

ज्येष्ठं। माता। सूनवे। भागं। आ । अधात् । अनु। अस्य। केतं। इषितं । सवित्रा ॥५॥

प्रभवः प्रभूतोऽग्नेः शोकस्तेजो दुर्यो गृह्यो गृहे भवो नानौकांसि यजमानानां पृथग्भूतान्गृहान्वितिष्ठते । अधितिष्ठति । विश्वमायुः सर्वमन्नं चाधितिष्ठति ॥ आयुः सूनृतेत्यन्ननामसु पाठात् ॥ मातोषाः सवित्रान्विषितं प्रेषितमस्य केतं प्रज्ञापकमग्नेर्ज्येष्ठं प्रथममग्निहोत्राख्यं भागं सूनवेऽग्नय आधात् । आदधाति ॥ ॥२॥


स॒माव॑वर्ति॒ विष्ठि॑तो जिगी॒षुर्विश्वे॑षां॒ काम॒श्चर॑ताम॒माभू॑त् ।

शश्वाँ॒ अपो॒ विकृ॑तं हि॒त्व्यागा॒दनु॑ व्र॒तं स॑वि॒तुर्दैव्य॑स्य ॥६

स॒म्ऽआव॑वर्ति । विऽस्थि॑तः । जि॒गी॒षुः । विश्वे॑षाम् । कामः॑ । चर॑ताम् । अ॒मा । अ॒भू॒त् ।

शश्वा॑न् । अपः॑ । विऽकृ॑तम् । हि॒त्वी । आ । अ॒गा॒त् । अनु॑ । व्र॒तम् । स॒वि॒तुः । दैव्य॑स्य ॥६

संऽआववर्ति । विऽस्थितः। जिगीषुः । विश्वेषां । कामः । चरतां । अमा। अभूत् ।

शश्वान्। अपः। विऽकृतं । हिची। आ । अगात्। अनु । व्रतं । सवितुः । दैव्य॑स्य ॥६॥

जिगीषुर्विजयेच्छुर्योद्धा विष्ठितो युद्धार्थं प्रस्थितः समाववर्ति । समावर्तयति । विश्वेषां सर्वेषां चरतां जंगमानाममा। अमा दम इति गृहनामसु पाठात् । गृहं प्रति कामोऽभूत् । भवति । शश्वान् नित्यं कर्मरतोऽपः कर्म विकृतमर्धकृतं हित्वी हित्वागात् । गृहमागच्छति । एतत्सर्वं दैव्यस्य दिवि भवस्य सवितुः प्रेरकस्य सूर्यस्य व्रतमस्तमयाख्यं कर्मानु जायत इत्यर्थः ॥

त्वया॑ हि॒तमप्य॑म॒प्सु भा॒गं धन्वान्वा मृ॑ग॒यसो॒ वि त॑स्थुः ।

वना॑नि॒ विभ्यो॒ नकि॑रस्य॒ तानि॑ व्र॒ता दे॒वस्य॑ सवि॒तुर्मि॑नन्ति ॥७

त्वया॑ । हि॒तम् । अप्य॑म् । अ॒प्ऽसु । भा॒गम् । धन्व॑ । अनु॑ । आ । मृ॒ग॒यसः॑ । वि । त॒स्थुः॒ ।

वना॑नि । विऽभ्यः॑ । नकिः॑ । अ॒स्य॒ । तानि॑ । व्र॒ता । दे॒वस्य॑ । स॒वि॒तुः । मि॒न॒न्ति॒ ॥७

त्वया । हितं । अप्यं । अप्ऽसु । भागं । धन्व । अनु । आ । मृगयसः । वि। तस्थुः ।

वननि। विऽभ्यः। नकिः । अस्य । तानि । व्रता । देवस्य । सवितुः । मिनंति ॥ ७॥

हे सवितस्त्वयाप्स्वंतरिक्षे ॥ आपः पृथिवीत्यंतरिक्षनामसु पाठात् ॥ जलाधारे वा हितं निहितमप्यमपां संबंधिनं भागं धन्वानु निर्जल प्रदेशेष्वरण्येषु मृगयसो मृगयमाणा मृगा आ समंताद्वितस्थुः । अधितिष्ठंति । किंच वनानि वृक्षा विभ्यः पक्षिभ्य आवासादिरूपेण त्वया भागो दत्तः । अथ देवस्य सवितुस्तानि तादृशानि व्रता व्रतानि कर्माणि नकिर्मिनंति । केऽपि न हिंसंति ॥


या॒द्रा॒ध्यं१॒॑ वरु॑णो॒ योनि॒मप्य॒मनि॑शितं नि॒मिषि॒ जर्भु॑राणः ।

विश्वो॑ मार्ता॒ण्डो व्र॒जमा प॒शुर्गा॑त्स्थ॒शो जन्मा॑नि सवि॒ता व्याकः॑ ॥८

या॒त्ऽरा॒ध्य॑म् । वरु॑णः । योनि॑म् । अप्य॑म् । अनि॑ऽशितम् । नि॒ऽमिषि॑ । जर्भु॑राणः ।

विश्वः॑ । मा॒र्ता॒ण्डः । व्र॒जम् । आ । प॒शुः । गा॒त् । स्थ॒ऽशः । जन्मा॑नि । स॒वि॒ता । वि । आ । अ॒क॒रित्य॑कः ॥८

यात्ऽराध्यं । वरुणः । योनिं । अप्यं । अनिऽशितं । निऽमिषि । जर्भुराणः ।

विश्वः । मार्तांडः। व्रजं । आ । पशुः । गात् । स्थऽशः । जन्मानि । सविता। वि। आ । अकरित्यकः ॥ ८॥

वरुणो याद्राध्यं यातां गच्छतां राध्यं राधनीयमप्यमाप्तुं योग्यमनिशितमतीक्ष्णं । सुखकरमिति यावत्। योनिं स्थानं निमिषि निमेषे सवितुरस्तमये सति विश्रमार्थं प्राणिभ्यः प्रयच्छति। वरुणस्य रात्रेर्निर्वाहकत्वात् । जर्भुराणो भृशं गच्छन् विश्वः सर्वो मार्तांडो मृताद्भिन्नादंडादुत्पद्यमानः पक्ष्यागात् । आगच्छति। विश्वः पशुरपि व्रजं गोष्ठमागात् । सविता प्रेरकः स्थशः स्थाने स्थाने जन्मानि जातानि भूतानि व्याकः । पृथगकार्षीत् ॥


न यस्येन्द्रो॒ वरु॑णो॒ न मि॒त्रो व्र॒तम॑र्य॒मा न मि॒नन्ति॑ रु॒द्रः ।

नारा॑तय॒स्तमि॒दं स्व॒स्ति हु॒वे दे॒वं स॑वि॒तारं॒ नमो॑भिः ॥९

न । यस्य॑ । इन्द्रः॑ । वरु॑णः । न । मि॒त्रः । व्र॒तम् । अ॒र्य॒मा । न । मि॒नन्ति॑ । रु॒द्रः ।

न । अरा॑तयः । तम् । इ॒दम् । स्व॒स्ति । हु॒वे । दे॒वम् । स॒वि॒तार॑म् । नमः॑ऽभिः ॥९

न । यस्य । इंद्रः। वरुणः । न । मित्रः । व्रतं । अर्यमा। न। मिनंति । रुद्रः।

न । अरातयः । तं । इदं । स्वस्ति । हुवे। देवं । सवितारं । नमःऽभिः ॥९॥

यस्य सवितुर्देवस्य व्रतं प्रसवाख्यं कर्मेंद्रो न मिनाति । न हिनस्ति । वरुणश्च न मिनाति मित्रश्चार्यमा च न मिनाति रुद्रश्च न मिनाति । अरातयोऽसुराश्च न मिनंति ॥ मिनातीति श्रुतमाख्यातं यथायोगं विपरिणामेन प्रत्येकमभिसंबध्यते ॥ तं सवितारं सर्वस्य प्रेरकं देवं द्योतमानमिदमिदानीं नमोभिन्नरूपैर्हविर्भिः सह ॥ नम आयुरित्यन्ननामसु पाठात् ॥ स्वस्ति क्षमाय हुवे । स्तौमि ॥


भगं॒ धियं॑ वा॒जय॑न्त॒ः पुरं॑धिं॒ नरा॒शंसो॒ ग्नास्पति॑र्नो अव्याः ।

आ॒ये वा॒मस्य॑ संग॒थे र॑यी॒णां प्रि॒या दे॒वस्य॑ सवि॒तुः स्या॑म ॥१०

भग॑म् । धिय॑म् । वा॒जय॑न्तः । पुर॑म्ऽधिम् । नरा॒शंसः॑ । ग्नाःपतिः॑ । नः॒ । अ॒व्याः॒ ।

आ॒ऽअ॒ये । वा॒मस्य॑ । स॒म्ऽग॒थे । र॒यी॒णाम् । प्रि॒याः । दे॒वस्य॑ । स॒वि॒तुः । स्या॒म॒ ॥१०

भगं। धियं । वाजयंतः । पुरंऽधिं । नराशंसः । ग्नाःपतिः । नः । अव्याः।

आऽअये । वामस्य । संऽगथे । रयीणां। प्रियाः । देवस्य । सवितुः । स्याम् ॥१०॥

भगं भजनीयं धियं ध्यातव्यं पुरंधिं पुरस्य धारयितारं बहुप्रज्ञं वा सवितारं ॥ पुरंधिर्बहुधिरिति यास्कः ॥ वाजयंतो वाजिनं बलिनं कुर्वतः ॥ विभक्तिव्यत्ययः ॥ नः स्तुवतोऽस्मान् नराशंसो नरैः शंसनीयो ग्नास्पतिर्देवपत्नीनां पतिश्छंदसां पतिर्वा ॥ तथा च श्रूयते छंदांसि वै ग्ना इति उत ग्ना व्यंतु देवपत्नीः । ऋग्वे° ५. ४६.८.। इति च ॥ सविताव्याः । अव्यात्। किंच वामस्य धनस्य रयीणां पशूनां च ॥ तथा च श्रूयते पशवो वै रयिरिति ॥ आय आगमने संगथे संगमने च निमित्ते देवस्य द्योतमानस्य सवितुः प्रेरकस्य वयं प्रियाः स्याम। भवेम ॥


अ॒स्मभ्यं॒ तद्दि॒वो अ॒द्भ्यः पृ॑थि॒व्यास्त्वया॑ द॒त्तं काम्यं॒ राध॒ आ गा॑त् ।

शं यत्स्तो॒तृभ्य॑ आ॒पये॒ भवा॑त्युरु॒शंसा॑य सवितर्जरि॒त्रे ॥११

अ॒स्मभ्य॑म् । तत् । दि॒वः । अ॒त्ऽभ्यः । पृ॒थि॒व्याः । त्वया॑ । द॒त्तम् । काम्य॑म् । राधः॑ । आ । गा॒त् ।

शम् । यत् । स्तो॒तृऽभ्यः॑ । आ॒पये॑ । भवा॑ति । उ॒रु॒ऽशंसा॑य । स॒वि॒तः॒ । ज॒रि॒त्रे ॥११

अस्मभ्यं । तत्। दिवः । अत्ऽभ्यः। पृथिव्याः। त्वया । दत्तं । काम्यं। राधः। आ । गात् ।

शं । यत् । स्तोतृऽभ्यः । आपये । भवाति । उरुऽशंसाय। सवितः । जरित्रे ॥११॥

हे सवितः अस्मभ्यं त्वया दत्तं तत् प्रसिद्धं काम्यं कमनीयं राधो धनं दिवो द्युलोकात् अद्भ्योंऽतरिक्ष लोकात् पृथिव्या भूमेश्चा गात् । आगच्छतु । किंच स्तोतृभ्यः स्तोतॄणामापये बंधवे तद्वंशजाय यद्धनं शं सुखकरं भवाति भवेत् उरुशंसाय बहुस्तुतये जरित्रे स्तोत्रे मह्यं ॥ जरिता कारुरिति स्तोतृनामसु पाठात् ॥ हे सवितः तत्प्रयच्छ ॥ ॥३॥

मण्डल २

सूक्तं २.१

सूक्तं २.२

सूक्तं २.३

सूक्तं २.४

सूक्तं २.५

सूक्तं २.६

सूक्तं २.७

सूक्तं २.८

सूक्तं २.९

सूक्तं २.१०

सूक्तं २.११

सूक्तं २.१२

सूक्तं २.१३

सूक्तं २.१४

सूक्तं २.१५

सूक्तं २.१६

सूक्तं २.१७

सूक्तं २.१८

सूक्तं २.१९

सूक्तं २.२०

सूक्तं २.२१

सूक्तं २.२२

सूक्तं २.२३

सूक्तं २.२४

सूक्तं २.२५

सूक्तं २.२६

सूक्तं २.२७

सूक्तं २.२८

सूक्तं २.२९

सूक्तं २.३०

सूक्तं २.३१

सूक्तं २.३२

सूक्तं २.३३

सूक्तं २.३४

सूक्तं २.३५

सूक्तं २.३६

सूक्तं २.३७

सूक्तं २.३८

सूक्तं २.३९

सूक्तं २.४०

सूक्तं २.४१

सूक्तं २.४२

सूक्तं २.४३


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_२.३८&oldid=208878" इत्यस्माद् पुनः प्राप्तिः