ऋग्वेदः सूक्तं २.११

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं २.१० ऋग्वेदः - मण्डल २
सूक्तं २.११
गृत्समद (आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः
सूक्तं २.१२ →
दे. इन्द्रः। विराट्स्थाना, २१ त्रिष्टुप्


श्रुधी हवमिन्द्र मा रिषण्यः स्याम ते दावने वसूनाम् ।
इमा हि त्वामूर्जो वर्धयन्ति वसूयवः सिन्धवो न क्षरन्तः ॥१॥
सृजो महीरिन्द्र या अपिन्वः परिष्ठिता अहिना शूर पूर्वीः ।
अमर्त्यं चिद्दासं मन्यमानमवाभिनदुक्थैर्वावृधानः ॥२॥
उक्थेष्विन्नु शूर येषु चाकन्स्तोमेष्विन्द्र रुद्रियेषु च ।
तुभ्येदेता यासु मन्दसानः प्र वायवे सिस्रते न शुभ्राः ॥३॥
शुभ्रं नु ते शुष्मं वर्धयन्तः शुभ्रं वज्रं बाह्वोर्दधानाः ।
शुभ्रस्त्वमिन्द्र वावृधानो अस्मे दासीर्विशः सूर्येण सह्याः ॥४॥
गुहा हितं गुह्यं गूळ्हमप्स्वपीवृतं मायिनं क्षियन्तम् ।
उतो अपो द्यां तस्तभ्वांसमहन्नहिं शूर वीर्येण ॥५॥
स्तवा नु त इन्द्र पूर्व्या महान्युत स्तवाम नूतना कृतानि ।
स्तवा वज्रं बाह्वोरुशन्तं स्तवा हरी सूर्यस्य केतू ॥६॥
हरी नु त इन्द्र वाजयन्ता घृतश्चुतं स्वारमस्वार्ष्टाम् ।
वि समना भूमिरप्रथिष्टारंस्त पर्वतश्चित्सरिष्यन् ॥७॥
नि पर्वतः साद्यप्रयुच्छन्सं मातृभिर्वावशानो अक्रान् ।
दूरे पारे वाणीं वर्धयन्त इन्द्रेषितां धमनिं पप्रथन्नि ॥८॥
इन्द्रो महां सिन्धुमाशयानं मायाविनं वृत्रमस्फुरन्निः ।
अरेजेतां रोदसी भियाने कनिक्रदतो वृष्णो अस्य वज्रात् ॥९॥
अरोरवीद्वृष्णो अस्य वज्रोऽमानुषं यन्मानुषो निजूर्वात् ।
नि मायिनो दानवस्य माया अपादयत्पपिवान्सुतस्य ॥१०॥
पिबापिबेदिन्द्र शूर सोमं मन्दन्तु त्वा मन्दिनः सुतासः ।
पृणन्तस्ते कुक्षी वर्धयन्त्वित्था सुतः पौर इन्द्रमाव ॥११॥
त्वे इन्द्राप्यभूम विप्रा धियं वनेम ऋतया सपन्तः ।
अवस्यवो धीमहि प्रशस्तिं सद्यस्ते रायो दावने स्याम ॥१२॥
स्याम ते त इन्द्र ये त ऊती अवस्यव ऊर्जं वर्धयन्तः ।
शुष्मिन्तमं यं चाकनाम देवास्मे रयिं रासि वीरवन्तम् ॥१३॥
रासि क्षयं रासि मित्रमस्मे रासि शर्ध इन्द्र मारुतं नः ।
सजोषसो ये च मन्दसानाः प्र वायवः पान्त्यग्रणीतिम् ॥१४॥
व्यन्त्विन्नु येषु मन्दसानस्तृपत्सोमं पाहि द्रह्यदिन्द्र ।
अस्मान्सु पृत्स्वा तरुत्रावर्धयो द्यां बृहद्भिरर्कैः ॥१५॥
बृहन्त इन्नु ये ते तरुत्रोक्थेभिर्वा सुम्नमाविवासान् ।
स्तृणानासो बर्हिः पस्त्यावत्त्वोता इदिन्द्र वाजमग्मन् ॥१६॥
उग्रेष्विन्नु शूर मन्दसानस्त्रिकद्रुकेषु पाहि सोममिन्द्र ।
प्रदोधुवच्छ्मश्रुषु प्रीणानो याहि हरिभ्यां सुतस्य पीतिम् ॥१७॥
धिष्वा शवः शूर येन वृत्रमवाभिनद्दानुमौर्णवाभम् ।
अपावृणोर्ज्योतिरार्याय नि सव्यतः सादि दस्युरिन्द्र ॥१८॥
सनेम ये त ऊतिभिस्तरन्तो विश्वा स्पृध आर्येण दस्यून् ।
अस्मभ्यं तत्त्वाष्ट्रं विश्वरूपमरन्धयः साख्यस्य त्रिताय ॥१९॥
अस्य सुवानस्य मन्दिनस्त्रितस्य न्यर्बुदं वावृधानो अस्तः ।
अवर्तयत्सूर्यो न चक्रं भिनद्वलमिन्द्रो अङ्गिरस्वान् ॥२०॥
नूनं सा ते प्रति वरं जरित्रे दुहीयदिन्द्र दक्षिणा मघोनी ।
शिक्षा स्तोतृभ्यो माति धग्भगो नो बृहद्वदेम विदथे सुवीराः ॥२१॥


सायणभाष्यम्

' श्रुधी हवम् ' इत्येकविंशत्यृचमेकादशं सूक्तं गार्त्समदम् । अत्रानुक्रमणिका-' श्रुधि सैकेन्द्रं विराट्स्थानमृतेऽन्त्याम् ' इति । विराट्स्थाना त्रिष्टुप् । तल्लक्षणमनुक्रमण्यामुक्तं-' नवकौ वैराजस्त्रैष्टुभश्च द्वौ वा वैराजौ नवकस्त्रैष्टुभश्च विराट्स्थाना ' इति । अनया त्रिष्टुप् विशेषस्यानुक्तत्वात् । इन्द्रो देवता । पृष्ठ्यस्य चतुर्थेऽहनि मरुत्वतीयशस्त्रे द्वे सूक्ते निविद्धाने । तत्रेदं तृतीयं सूक्तम् । ' चतुर्थऽहनि ' इति खण्डे सूत्रितं-' श्रुधी हवमिन्द्र मरुत्वाँ इन्द्रेति मरुत्वतीयम् ' ( आश्व श्रौ. ७.११) इति ।।


श्रु॒धी हव॑मिन्द्र॒ मा रि॑षण्य॒ः स्याम॑ ते दा॒वने॒ वसू॑नाम् ।

इ॒मा हि त्वामूर्जो॑ व॒र्धय॑न्ति वसू॒यव॒ः सिन्ध॑वो॒ न क्षर॑न्तः ॥१

श्रु॒धि । हव॑म् । इ॒न्द्र॒ । मा । रि॒ष॒ण्यः॒ । स्याम॑ । ते॒ । दा॒वने॑ । वसू॑नाम् ।

इ॒माः । हि । त्वाम् । ऊर्जः॑ । व॒र्धय॑न्ति । व॒सु॒ऽयवः॑ । सिन्ध॑वः । न । क्षर॑न्तः ॥१

श्रुधि। हवं । इंद्र । मा। रिषण्यः । स्याम । ते । दावने । वसूनां ।

इमाः । हि । त्वां । ऊर्जः । वर्धयंति । वसुऽयवः । सिंधवः । न । क्षरंतः ॥१॥

गृत्समदः स्तौति । हे इंद्र मे हवं मदीयमिदं स्तोत्रं श्रुधि । शृणु । मा रिषण्यः । मा हिंसीः । इदमल्पं न साधीय इति मा निराकार्षीः ॥ दुरस्युर्द्रविणस्युर्वृषण्यति रिषण्यतीति निपातितः ॥ वयं ते तव वसूनां दावने दानाय स्याम । पात्रभूता भवेम । इमा अस्माभिर्दत्तानि वसूयवो दातुर्यजमानस्य धनमिच्छंति ॥ छंदसि परेच्छायां क्यच् । तादृशानि क्षरंतः स्रवंतः सिंधव इव घृतक्षरणोपेतान्यूर्जो हविर्लक्षणान्यन्नानि त्वां वर्धयंति हि ॥


सृ॒जो म॒हीरि॑न्द्र॒ या अपि॑न्व॒ः परि॑ष्ठिता॒ अहि॑ना शूर पू॒र्वीः ।

अम॑र्त्यं चिद्दा॒सं मन्य॑मान॒मवा॑भिनदु॒क्थैर्वा॑वृधा॒नः ॥२

सृ॒जः । म॒हीः । इ॒न्द्र॒ । याः । अपि॑न्वः । परि॑ऽस्थिताः । अहि॑ना । शू॒र॒ । पू॒र्वीः ।

अम॑र्त्यम् । चि॒त् । दा॒सम् । मन्य॑मानम् । अव॑ । अ॒भि॒न॒त् । उ॒क्थैः । व॒वृ॒धा॒नः ॥२

सृजः । महीः । इंद्र। याः । अपिन्वः । परिऽस्थिताः । अहिना। शूर। पूर्वीः ।।

अमर्त्यं । चित् । दासं । मन्यमानं । अर्व । अभिनत् । उक्थैः । ववृधानः ॥२॥

शूर शत्रूणां हिंसक हे इंद्र या अपोऽपिन्वः । अवर्धयः । पूर्वीः प्रभूतास्ता अहिना मेघेन वृत्रेण वा परिष्ठिताः । अधिष्ठिता आक्रांताः । ततस्त्वं तस्मादहेः सकाशात् महीर्महतीरपः सृजः । व्यसृजः । उक्थैः शस्त्रैर्वावृधानो वर्धमानस्त्वं दासं सर्वस्योपक्षपयितारममर्त्यं चित् मरणधर्मरहितमेवात्मानं मन्यमानं तमसुरमवाभिनत् । अवाङ्मुखं यथा भवति तथा ॥ भिदिर् विदारणे । लङि सिपि रूपं ।


उ॒क्थेष्विन्नु शू॑र॒ येषु॑ चा॒कन्स्तोमे॑ष्विन्द्र रु॒द्रिये॑षु च ।

तुभ्येदे॒ता यासु॑ मन्दसा॒नः प्र वा॒यवे॑ सिस्रते॒ न शु॒भ्राः ॥३

उ॒क्थेषु॑ । इत् । नु । शू॒र॒ । येषु॑ । चा॒कन् । स्तोमे॑षु । इ॒न्द्र॒ । रु॒द्रिये॑षु । च॒ ।

तुभ्य॑ । इत् । ए॒ताः । यासु॑ । म॒न्द॒सा॒नः । प्र । वा॒यवे॑ । सि॒स्र॒ते॒ । न । शु॒भ्राः ॥३

उक्थेषु । इत् । नु । शूर। येषु । चाकन्। स्तोमेषु । इंद्र। रुद्रियेषु । च।

तुभ्यं । इत् । एताः । यासु । मंदसानः । प्र। वायवे। सिस्रते। न। शुभ्राः ॥३॥

हे शूरेंद्र येषूक्थेषु होत्रादिभिः क्रियमाणेषु शस्त्रेषु रुद्रियेषु । रुद्रियं सुखं । तत्साधनभूतेषु । यद्वा रुद्राः स्तोतारः । तत्कृतेषु उद्गातॄणां स्तोमेषु च नु क्षिप्रं चाकन् । स्तुतीः कामयसे ॥ कमतेः कनतेर्वा यङ्लुकि रूपं । यासु स्तोत्रशस्त्ररूपासु स्तुतिषु मंदसानो हृष्यन् भवसि ता एताः शुभ्रा दीप्यमानाः स्तुतयो वायवेऽस्मदीयं यज्ञं प्रत्यागच्छते तुभ्येत तुभ्यमेव प्रसिस्रते । त्वदर्थमेव प्रसरंति । न संप्रत्यर्थे । ता अधुना सेवस्व ॥


शु॒भ्रं नु ते॒ शुष्मं॑ व॒र्धय॑न्तः शु॒भ्रं वज्रं॑ बा॒ह्वोर्दधा॑नाः ।

शु॒भ्रस्त्वमि॑न्द्र वावृधा॒नो अ॒स्मे दासी॒र्विश॒ः सूर्ये॑ण सह्याः ॥४

शु॒भ्रम् । नु । ते॒ । शुष्म॑म् । व॒र्धय॑न्तः । शु॒भ्रम् । वज्र॑म् । बा॒ह्वोः । दधा॑नाः ।

शु॒भ्रः । त्वम् । इ॒न्द्र॒ । व॒वृ॒धा॒नः । अ॒स्मे इति॑ । दासीः॑ । विशः॑ । सूर्ये॑ण । स॒ह्याः॒ ॥४

शुभ्रं । नु । ते । शुष्मं । वर्धयंतः । शुभ्रं । वज्रं । बाह्वोः। दधानाः।।

शुभ्रः। त्वं । इंद्र। ववृधानः । अस्मे इति । दासीः। विशः । सूर्येण । सह्याः ॥४॥

हे इंद्र ते तव शुभ्रं शोभनं शुष्मं बलं स्तोत्रैर्वर्धयंतः शुभ्रं दीप्तं वज्रमायुधं नु क्षिप्रं तव बाहोर्दधाना निदधानाः । स्तूयमानो हींद्रोऽसुरवधाय वज्रमादत्त इतीत्थंरूपेणायुधं निदधाना भवामः । वावृधानः स्तोत्रैर्वर्धमानः शुभ्रस्तेजसा युक्तस्त्वमस्मे अस्माकं दासीरुपक्षपयित्रीर्विश आसुरीः प्रजाः सूर्येण सुष्ठु प्रेरकेण । आयुधं हि प्रेरयति त्वं युध्यस्वेति । एवंरूपेण बाह्वोर्निहितेन वज्रेण सह्याः । अभिभव ॥ सहतेर्व्यत्ययेन लिङि परस्मैपदं ॥


गुहा॑ हि॒तं गुह्यं॑ गू॒ळ्हम॒प्स्वपी॑वृतं मा॒यिनं॑ क्षि॒यन्त॑म् ।

उ॒तो अ॒पो द्यां त॑स्त॒भ्वांस॒मह॒न्नहिं॑ शूर वी॒र्ये॑ण ॥५

गुहा॑ । हि॒तम् । गुह्य॑म् । गू॒ळ्हम् । अ॒प्ऽसु । अपि॑ऽवृतम् । मा॒यिन॑म् । क्षि॒यन्त॑म् ।

उ॒तो इति॑ । अ॒पः । द्याम् । त॒स्त॒भ्वांस॑म् । अह॑न् । अहि॑म् । शू॒र॒ । वी॒र्ये॑ण ॥५

गुहा । हितं । गुह्यं। गूळ्हं । अप्ऽसु । अपिऽवृतं । मायिने । क्षियंतं।

उतो इति । अपः । द्यां । तस्तभ्वांसं। अहन् । अहिं। शूर। वीर्येण ॥ ५॥

हे शूरेंद्र गुहा गुहायां हितं निहितं अत एव गुह्यमप्रकाश्यं गूळ्हं गूढमपीवृतं तिरोहितं । अत्रैकस्मिंस्तिरोधानरूपेऽर्थे पुनरुक्तयस्तिरोधानभूयस्त्वप्रतिपादनपराः । अभ्यासे हि भूयानर्थो भवति । यथाहो दर्शनीयाहो दर्शनीयेति । तादृशं मायिनं मायाविनमसुरं क्षियंतं निवसंतं उतो अपि चापो द्यां दिवं च तस्तभ्वांस स्वसामर्थ्येन स्तंभयंतं इत्थंभूतमहिमसुरं मेघं वा वीर्येण सामर्थ्यभूतेन वज्रेणाहन् । हतवानसि ॥ हन हिंसागत्योरित्यस्य लङि रूपं ॥ ॥ ३॥


स्तवा॒ नु त॑ इन्द्र पू॒र्व्या म॒हान्यु॒त स्त॑वाम॒ नूत॑ना कृ॒तानि॑ ।

स्तवा॒ वज्रं॑ बा॒ह्वोरु॒शन्तं॒ स्तवा॒ हरी॒ सूर्य॑स्य के॒तू ॥६

स्तव॑ । नु । ते॒ । इ॒न्द्र॒ । पू॒र्व्या । म॒हानि॑ । उ॒त । स्त॒वा॒म॒ । नूत॑ना । कृ॒तानि॑ ।

स्तव॑ । वज्र॑म् । बा॒ह्वोः । उ॒शन्त॑म् । स्तव॑ । हरी॒ इति॑ । सूर्य॑स्य । के॒तू इति॑ ॥६

स्तव । नु । ते । इंद्र। पूर्व्या। महानि । उत । स्तवाम । नूतना । कृतानि

स्तव । वज्रं । बाह्वोः । उशंतं । स्तव । हरी इति । सूर्यस्य । केतू इति ॥६॥

हे इंद्र पूर्व्या पुरातनानि महानि महांति ते तव कर्माणि नु क्षिप्रं स्तव । स्तवाम । उत अपि च नूतनाधुनातनानि कृतानि कर्माणि स्तवाम । बाह्वोरुशंतं दीप्यमानं वज्रं स्तव । स्तवाम । किंच सूर्यस्य सुष्ठ प्रेरकस्य सुवीर्यस्य वा सूर्यात्मनो वेंद्रस्य केतू प्रज्ञापकौ हरी एतन्नामकावश्वौ स्तव। स्तवाम ॥ ष्टुञ् स्तुतौ । तिङां तिङो भवंतीत्युत्तमबहुवचनस्य मध्यमैकवचनादेशः । बहुलं छंदसीति शपो लुगभावः ।।


हरी॒ नु त॑ इन्द्र वा॒जय॑न्ता घृत॒श्चुतं॑ स्वा॒रम॑स्वार्ष्टाम् ।

वि स॑म॒ना भूमि॑रप्रथि॒ष्टारं॑स्त॒ पर्व॑तश्चित्सरि॒ष्यन् ॥७

हरी॒ इति॑ । नु । ते॒ । इ॒न्द्र॒ । वा॒जय॑न्ता । घृ॒त॒ऽश्चुत॑म् । स्वा॒रम् । अ॒स्वा॒र्ष्टा॒म् ।

वि । स॒म॒ना । भूमिः॑ । अ॒प्र॒थि॒ष्ट । अरं॑स्त । पर्व॑तः । चि॒त् । स॒रि॒ष्यन् ॥७

हरी इति । नु । ते। इंद्र। वाजयंता। घृतऽश्रुतं । स्वारं । अस्वार्ष्टां।

वि। समना। भूमिः। अप्रथिष्ट। अरंस्त । पर्वतः । चित्। सरिष्यन् ॥७॥

हे इंद्र वाजयंता वेगं कुर्वंतो ॥ तत्करोतीति णिच् । ते तव हरी एतन्नामकावश्वौ घृतश्चुतं घृतस्योदकस्य च्यावयितारं स्वारं मेघध्वनिं नु क्षिप्रमस्वार्ष्टां ॥ स्वरतिः शब्दकर्मा । पाकं पचतीतिवदेकधातोरनुवादः । लङि रूपं ॥ समना समस्थला यद्वा समना सर्वतो व्यप्रथिष्ट। गर्जनं श्रुत्वा ममोपरि वृष्टिर्भवतीति प्रथिताभूत् । तथा पर्वतश्चित् मेघोऽपि सरिष्यन् वर्षणार्थमितस्ततो गमिष्यन् अरंस्त । अरमत ॥ रमतेलुङि रूपं । ।


नि पर्व॑तः सा॒द्यप्र॑युच्छ॒न्सं मा॒तृभि॑र्वावशा॒नो अ॑क्रान् ।

दू॒रे पा॒रे वाणीं॑ व॒र्धय॑न्त॒ इन्द्रे॑षितां ध॒मनिं॑ पप्रथ॒न्नि ॥८

नि । पर्व॑तः । सा॒दि॒ । अप्र॑ऽयुच्छन् । सम् । मा॒तृऽभिः॑ । वा॒व॒शा॒नः । अ॒क्रा॒न् ।

दू॒रे । पा॒रे । वाणी॑म् । व॒र्धय॑न्तः । इन्द्र॑ऽइषिताम् । ध॒मनि॑म् । प॒प्र॒थ॒न् । नि ॥८

नि। पर्वतः । सादि। अप्रऽयुच्छन्।सं। मातृऽभिः । वावशानः । अक्रान्।।

दूरे। पारे। वाणीं । वर्धयंतः । इंद्रऽइषितां। धमनिं। पप्रथन्। नि ॥८॥

अप्रयुच्छन् अप्रमाद्यन् वर्षणे सावधानः पर्वतो मेघो निषादि । नभसि निषण आसीत् । मातृभिरद्भिर्माध्यमिकाभिवाग्भिर्वा संवावशानः सह शब्दं कुर्वाणोऽक्रान्। अक्रमीत् । इतस्ततः संचारमकरोत् । क्रमतेर्लङि बहुलं छंदसीति विकरणस्य लुक् ॥ दूरे पारेऽतिदूरेंऽतरिक्षे स्थितां वाणीं माध्यमिकां वाचं वर्धयंतः स्तोत्रैः समृद्धां कुर्वतः स्तोतारो मरुतो वेंद्रेषितामिंद्रेण प्रेरितां धमनिं शब्दं कुर्वाणां तां वाचं नितरां पप्रथन्। अप्रथयन् । ।


इन्द्रो॑ म॒हां सिन्धु॑मा॒शया॑नं माया॒विनं॑ वृ॒त्रम॑स्फुर॒न्निः ।

अरे॑जेतां॒ रोद॑सी भिया॒ने कनि॑क्रदतो॒ वृष्णो॑ अस्य॒ वज्रा॑त् ॥९

इन्द्रः॑ । म॒हाम् । सिन्धु॑म् । आ॒ऽशया॑नम् । मा॒या॒ऽविन॑म् । वृ॒त्रम् । अ॒स्फु॒र॒त् । निः ।

अरे॑जेताम् । रोद॑सी॒ इति॑ । भि॒या॒ने इति॑ । कनि॑क्रदतः । वृष्णः॑ । अ॒स्य॒ । वज्रा॑त् ॥९

इंद्रः । महां। सिंधुं । आऽशयानं। मायाऽविनं। वृत्रं । अस्फुरत् । निः।।

अरेजेतां। रोदसी इति । भियाने इति । कनिक्रदतः। वृष्णः । अस्य । वज्रात् ॥९॥

बलवानिंद्रो महां सिंधुं । स्यंदत इतस्ततः संचरतीति सिंधुर्मेघः । तमाशयानं तमधिष्ठाय शयानं मायाविनं वृत्रमसुरं । यद्वा सिंधुरुदकं । तदधिष्ठाय शयानं वृत्रं । वृणोत्याकाशमिति वृत्रो मेघः । तं निरस्फुरत् । निरहन् । वृष्णो वर्षकस्यास्येंद्रस्य कनिक्रदतः शब्दं कुर्वाणाद्वज्राद्भियाने भयं प्राप्ते रोदसी द्यावापृथिव्यापरेजेतां । अकंपेतां ॥ दाधर्तिदर्धर्तीत्यादिना कनिक्रदतशब्दो निपातितः ॥


अरो॑रवी॒द्वृष्णो॑ अस्य॒ वज्रोऽमा॑नुषं॒ यन्मानु॑षो नि॒जूर्वा॑त् ।

नि मा॒यिनो॑ दान॒वस्य॑ मा॒या अपा॑दयत्पपि॒वान्सु॒तस्य॑ ॥१०

अरो॑रवीत् । वृष्णः॑ । अ॒स्य॒ । वज्रः॑ । अमा॑नुषम् । यत् । मानु॑षः । नि॒ऽजूर्वा॑त् ।

नि । मा॒यिनः॑ । दा॒न॒वस्य॑ । मा॒याः । अपा॑दयत् । प॒पि॒ऽवान् । सु॒तस्य॑ ॥१०

अरोरवीत् । वृष्णः । अस्य । वज्रः । अमानुषं । यत्। मानुषः । निऽजूर्वात्।

नि। मायिनः । दानवस्य । मायाः । अपादयत् । पपिऽवान् । सुतस्य ॥१०॥

वृष्णः कामानां वर्षकस्यास्येंद्रस्य वज्रोऽरोरवीत् । भृशं शब्दमकरोत् । कदेत्यपेक्षायामाह। यद्यदा अमानुषं मनुष्याणां रहितं । यद्वा मानुषोऽहं न भवामीत्येवं मन्यमानं तमसुरं मानुषो मनुष्याणां हितकारी यद्वा मतिमानिंद्रो निजूर्वात् । नितरां हिंस्यात् । जिघांसतीत्यर्थः । जूर्वतेर्हिंसाकर्मणो लेटि रूपं ॥ सुतस्याभिषुतं सोमं पपिवान् पीतवान् मायिनो मायाविनो दानवस्य । दानुर्नाम वृत्रमाता दानुः शय इत्यादिषु दृष्टत्वात्। तस्याः पुत्रस्य वृत्रस्य माया वचनानि न्यपादयत् । न्यपातयत् । बबाधेति यावत् । ॥४॥


पिबा॑पि॒बेदि॑न्द्र शूर॒ सोमं॒ मन्द॑न्तु त्वा म॒न्दिनः॑ सु॒तासः॑ ।

पृ॒णन्त॑स्ते कु॒क्षी व॑र्धयन्त्वि॒त्था सु॒तः पौ॒र इन्द्र॑माव ॥११

पिब॑ऽपिब । इत् । इ॒न्द्र॒ । शू॒र॒ । सोम॑म् । मन्द॑न्तु । त्वा॒ । म॒न्दिनः॑ । सु॒तासः॑ ।

पृ॒णन्तः॑ । ते॒ । कु॒क्षी इति॑ । व॒र्ध॒य॒न्तु॒ । इ॒त्था । सु॒तः । पौ॒रः । इन्द्र॑म् । आ॒व॒ ॥११

पिबऽपिब। इत्। इंद्र। शूर। सोमं। मंदैतु । त्वा। मंदिनः । सुतासः।।

पृणंतः । ते । कुक्षी इति । वर्धयंतु । इत्था । सुतः । पौरः । इंद्रं। आव ॥११॥

शूर बलवन् हे इंद्र पिब पिबेत् । अभिषुतमिमं सोमं पिबैव । आदरार्थैषा वीप्सा। मंदिनो मदकराः सुतास्तेऽभिषुताः सोमास्त्वा मंदंतु । त्वां मादयंतु ॥ मदि स्तुत्यादिषु । व्यत्ययेन परस्मैपदं ॥ ते सोमास्ते तव कुक्षी उदरस्योभौ पार्श्वौ पृणंतः पूरयंतः संतस्त्वां वर्धयंतु । इत्थानेन प्रकारेण पौर उदरपूरकः सुतोऽभिषुतः सोम इंद्रं त्वामाव । तर्पयतु ॥ अवतेस्तर्पणार्थस्य लिटि रूपं ।


त्वे इ॒न्द्राप्य॑भूम॒ विप्रा॒ धियं॑ वनेम ऋत॒या सप॑न्तः ।

अ॒व॒स्यवो॑ धीमहि॒ प्रश॑स्तिं स॒द्यस्ते॑ रा॒यो दा॒वने॑ स्याम ॥१२

त्वे इति॑ । इ॒न्द्र॒ । अपि॑ । अ॒भू॒म॒ । विप्राः॑ । धिय॑म् । व॒ने॒म॒ । ऋ॒त॒ऽया । सप॑न्तः ।

अ॒व॒स्यवः॑ । धी॒म॒हि॒ । प्रऽश॑स्तिम् । स॒द्यः । ते॒ । रा॒यः । दा॒वने॑ । स्या॒म॒ ॥१२

त्वे इति । इंद्र। अपि । अभूम। विप्राः। धियं । वनेम। ऋतऽया। सपंतः ।

अवस्यवः । धीमहि । प्रऽशस्तिं । सद्यः । ते । रायः। दावने। स्याम ॥१२॥

हे इंद्र विप्रा मेधाविनो वयं त्वे त्वयि त्वद्धृदयेऽभूम। अपि सानुनयप्रश्ने वर्तते । ते तव हृदये किं वर्तामह इति । ऋतया । ऋतं कर्मफलं । तत्कामनया सपंतस्त्वां परिचरणाख्येन कर्मणा स्पृशंतो वयं धियं त्वदुद्देशेन क्रियमाणं कर्म वनेम । संभजेमहि ॥ वन षण संभक्तौ । आशीर्लिङि लिड्याशिष्यङ्ङित्यङ्प्रत्ययः । किंच अवस्यवस्त्वत्तो रक्षणमिच्छंतः प्रशस्तिं । शस्तिः शंसनं । प्रकृष्टशंसनं स्तोत्रं धीमहि । त्वयि निदधीमहि । ततस्ते त्वदीयस्य रायो धनस्य दावने दानाय पात्रभूताः सद्यः स्याम । इदानीं भवेम ॥


स्याम॒ ते त॑ इन्द्र॒ ये त॑ ऊ॒ती अ॑व॒स्यव॒ ऊर्जं॑ व॒र्धय॑न्तः ।

शु॒ष्मिन्त॑मं॒ यं चा॒कना॑म देवा॒स्मे र॒यिं रा॑सि वी॒रव॑न्तम् ॥१३

स्याम॑ । ते । ते॒ । इ॒न्द्र॒ । ये । ते॒ । ऊ॒ती । अ॒व॒स्यवः॑ । ऊर्ज॑म् । व॒र्धय॑न्तः ।

शु॒ष्मिन्ऽत॑मम् । यम् । चा॒कना॑म । दे॒व॒ । अ॒स्मे इति॑ । र॒यिम् । रा॒सि॒ । वी॒रऽव॑न्तम् ॥१३

स्याम । ते । ते । इंद्र । ये । ते। ऊती । अवस्यवः । ऊर्जं। वर्धयंतः ।

शुष्मिन्ऽतमं। यं । चाकनाम। देव। अस्मे इति । रयिं । रासि। वीरऽवंतं ॥१३॥

हे इंद्र ते तवोती ऊत्या प्रणयनेन ॥ अवतेः प्राप्त्यर्थस्य क्तिनि रूपं । ये ते तवावस्यवो रक्षाकामा ऊर्जं हविर्लक्षणमन्नं वर्धयंतो भवंति ते तव वयं ते स्याम । त्वदधीना भवेम । देव द्योतमान हे इंद्र शुष्मिंतमं दानभागायार्हतया बलवत्तमं यद्वा शत्रूणां शोषयितृतमं यं रयिं चाकनाम । कामयामहे ॥ कनतेः कांत्यर्थस्य यङ्लुगंतस्य लोटि रूपं ॥ वीरवंतं पुत्रपौत्रैः सहितं तादृशं रयिमस्मे अस्मभ्यं रासि । देहि ॥


रासि॒ क्षयं॒ रासि॑ मि॒त्रम॒स्मे रासि॒ शर्ध॑ इन्द्र॒ मारु॑तं नः ।

स॒जोष॑सो॒ ये च॑ मन्दसा॒नाः प्र वा॒यवः॑ पा॒न्त्यग्र॑णीतिम् ॥१४

रासि॑ । क्षय॑म् । रासि॑ । मि॒त्रम् । अ॒स्मे इति॑ । रासि॑ । शर्धः॑ । इ॒न्द्र॒ । मारु॑तम् । नः॒ ।

स॒ऽजोष॑सः । ये । च॒ । म॒न्द॒सा॒नाः । प्र । वा॒यवः॑ । पा॒न्ति॒ । अग्र॑ऽनीतिम् ॥१४

रासि । क्षयं । रासि । मित्रं । अस्मे इति । रासि । शर्धः । इंद्र। मारुतं । नः ।

सऽजोषसः । ये। च। मंदसानाः । प्र। वायवः। पांति । अग्रऽनीतिं ॥१४॥

हे इंद्र क्षयं । क्षियंति निवसंत्यत्रेति क्षयो गृहं । तदस्मभ्यं रासि । देहि । तथा मित्रं सखायमस्मे अस्मभ्यं रासि ॥ वाक्यभेदादनिघातः ॥ मारुतं मरुतां देवविशां संबंधि शर्धो बलं नोऽस्मभ्यं रासि । एतेन मरुतामप्यागमनं प्रार्थ्यंते । ये मरुतः सजोषसः सह प्रीयमाणा महंतो मोदमाना वायवो यज्ञं प्रति गंतारः संतो ऽग्रणीतिमग्रे नीयमानं सोमं प्रपांति । प्रकर्षेण पिबंति तेषां शर्ध इति समन्वयः । यद्वा ये च वायवोऽग्रे नीयमानं सोमं पिबंति तेषां वायूनां बलं रासि ॥ वायव इति पूजायां बहुवचनं । वायुर्हि सोमस्याग्रपातेति ॥


व्यन्त्विन्नु येषु॑ मन्दसा॒नस्तृ॒पत्सोमं॑ पाहि द्र॒ह्यदि॑न्द्र ।

अ॒स्मान्सु पृ॒त्स्वा त॑रु॒त्राव॑र्धयो॒ द्यां बृ॒हद्भि॑र॒र्कैः ॥१५

व्यन्तु॑ । इत् । नु । येषु॑ । म॒न्द॒सा॒नः । तृ॒पत् । सोम॑म् । पा॒हि॒ । द्र॒ह्यत् । इ॒न्द्र॒ ।

अ॒स्मान् । सु । पृ॒त्ऽसु । आ । त॒रु॒त्र॒ । अव॑र्धयः । द्याम् । बृ॒हत्ऽभिः॑ । अ॒र्कैः ॥१५

व्यंतु । इत्। नु । येषु । मंदसानः । तृपत् । सोम। पाहि। द्रुह्यत् । इंद्र।

अस्मान् । सु। पृत्ऽसु । आ । तरुत्र। अवर्धयः । द्यां । बृहत् ऽभिः । अर्कैः ॥१५॥

हे इंद्र येषु तव सहायभूतेषु मरुत्सु मंदसानो माद्यन्भवसि ते मरुतो नु क्षिप्रं व्यंतु । सोमं भक्षयंतु । इत एवार्थे । द्रह्यत् ॥ दृंहतेरिदं रूपं ॥ आत्मानं दृढीकुर्वन् त्वं तृपत् तर्पयंतमिमं सोमं पाहि । पिब। तरुत्र शत्रूणां हिंसक हे इंद्र बृहद्भिर्बलवद्भिरर्कैरर्चनीयैर्मरुद्भिः सहितस्त्वं । आ इति चार्थे । तेनास्मान् द्यां च सु सुष्ठु पृत्सु पशुपुत्रादिभिरस्मान् अस्मत्पालनेन च दिवमवर्धयः । यद्वा येषु सोमेषु मंदसानो मोदमानो भवसि ते सोमा व्यंतु । त्वां गच्छंतु । शेषं पूर्ववत् ॥ ॥ ५ ॥


बृ॒हन्त॒ इन्नु ये ते॑ तरुत्रो॒क्थेभि॑र्वा सु॒म्नमा॒विवा॑सान् ।

स्तृ॒णा॒नासो॑ ब॒र्हिः प॒स्त्या॑व॒त्त्वोता॒ इदि॑न्द्र॒ वाज॑मग्मन् ॥१६

बृ॒हन्तः॑ । इत् । नु । ये । ते॒ । त॒रु॒त्र॒ । उ॒क्थेभिः॑ । वा॒ । सु॒म्नम् । आ॒ऽविवा॑सान् ।

स्तृ॒णा॒नासः॑ । ब॒र्हिः । प॒स्त्य॑ऽवत् । त्वाऽऊ॑ताः । इत् । इ॒न्द्र॒ । वाज॑म् । अ॒ग्म॒न् ॥१६

बृहंतः । इत्। नु। ये। ते । तरुत्र। उक्थेभिः । वा। सुम्नं । आऽविवासान्।

स्तृणानासः । बर्हिः। पस्त्यऽवत् । त्वाऽऊताः। इत् । इंद्र। वाजं । अग्मन् ॥१६॥

तरुत्र आपद्भ्यस्तारक हे इंद्र ये पुमांसः सुम्नं सुखकरं त्वामुक्थैः शस्त्रैराविवासान्। परिचरेयुः । विवासतेर्लेट्यडागमः ॥ त एव पुमांसो नु क्षिप्रमविलंबेन बृहंतो महांतो भवंतीति पूरणः । किंच बर्हिः स्तृणानासो वेद्यां बर्हिराच्छादयंतो ये त्वां परिचरंति ते त्वोता इत् त्वया रक्षिताः संत एव पस्त्यावत् गृहसहितं वाजमन्नमग्मन् । गच्छंति ।।


उ॒ग्रेष्विन्नु शू॑र मन्दसा॒नस्त्रिक॑द्रुकेषु पाहि॒ सोम॑मिन्द्र ।

प्र॒दोधु॑व॒च्छ्मश्रु॑षु प्रीणा॒नो या॒हि हरि॑भ्यां सु॒तस्य॑ पी॒तिम् ॥१७

उ॒ग्रेषु॑ । इत् । नु । शू॒र॒ । म॒न्द॒सा॒नः । त्रिऽक॑द्रुकेषु । पा॒हि॒ । सोम॑म् । इ॒न्द्र॒ ।

प्र॒ऽदोधु॑वत् । श्मश्रु॑षु । प्री॒णा॒नः । या॒हि । हरि॑ऽभ्याम् । सु॒तस्य॑ । पी॒तिम् ॥१७

उग्रेषु । इत् । नु । शूर। मंदसानः । त्रिऽकद्रुकेषु । पाहि । सोमं । इंद्र।।

प्रऽदोधुवत् । श्मश्रुषु । प्रीणानः । याहि। हरिऽभ्यां । सुतस्य । पीतिं ॥ १७॥

हे शूर बलवन्निंद्र उग्रेषूद्गूर्णेषु बहुस्तोत्रशस्त्रवत्सु त्रिकद्रुकेषु ज्योतिर्गौरायुरित्येतन्नामकेष्वाभिप्लविकेष्वहःसु मंदसानो हृष्यन् सोमं पाहि । पिब । ततः प्रीणानः सोमपानेन प्रीतो भवन् श्मश्रुषु लिप्तं सोमं प्रदोधुवत् ॥ धूञ् कंपने । यङ्लुगंतस्य शतरि रूपं । पुनःपुनर्धुन्वन् सुतस्याभिषुतस्य पीतिं पानमुद्दिश्य हरिभ्यामश्वाभ्यां युक्तः सन् याहि । गच्छ ॥


धि॒ष्वा शवः॑ शूर॒ येन॑ वृ॒त्रम॒वाभि॑न॒द्दानु॑मौर्णवा॒भम् ।

अपा॑वृणो॒र्ज्योति॒रार्या॑य॒ नि स॑व्य॒तः सा॑दि॒ दस्यु॑रिन्द्र ॥१८

धि॒ष्व । शवः॑ । शू॒र॒ । येन॑ । वृ॒त्रम् । अ॒व॒ऽअभि॑नत् । दानु॑म् । औ॒र्ण॒ऽवा॒भम् ।

अप॑ । अ॒वृ॒णोः॒ । ज्योतिः॑ । आर्या॑य । नि । स॒व्य॒तः । सा॒दि॒ । दस्युः॑ । इ॒न्द्र॒ ॥१८

धिष्व । शवः । शूर। येन । वृत्रं । अवऽअभिनत् । दानुं । और्णऽवाभं।

अप । अवृणोः। ज्योतिः । आर्याय। नि । सव्यतः । सादि। दस्युः । इंद्र ॥१८॥

शूर हे इंद्र शवस्तादृशं बलं धिष्व । धारय ॥ दधातेर्लोटि बहुलं छंदसीति शपो लुक् । छंदस्युभयथेति वा स आर्धधातुकत्वादिडागमः ॥ येन बलेन दानुं दानोः पुत्रं वृत्रमौर्णवाभं । ऊर्णनाभिः कीटविशेष और्णवाभ इत्युच्यते । तमिवावाभिनत्। बिभेदिथ। यद्वा और्ण ऊर्णनाभिः । तदाभं तत्सदृशमित्यर्थः । ततस्तमोरूपस्य हननादार्याय कर्मणामनुष्ठात्रे जनाय कुत्साय राजर्षये वा ज्योतिः प्रकाशकमादित्यमपावृणोः।। उद्घाटितवानसि । दस्युः कर्मणामुपक्षपयिता स वृत्रः सव्यतस्तव सव्यपार्श्वे निषादि । त्वया नितरां सन्नो बाधितो वर्तते । ।


सने॑म॒ ये त॑ ऊ॒तिभि॒स्तर॑न्तो॒ विश्वा॒ः स्पृध॒ आर्ये॑ण॒ दस्यू॑न् ।

अ॒स्मभ्यं॒ तत्त्वा॒ष्ट्रं वि॒श्वरू॑प॒मर॑न्धयः सा॒ख्यस्य॑ त्रि॒ताय॑ ॥१९

सने॑म । ये । ते॒ । ऊ॒तिऽभिः॑ । तर॑न्तः । विश्वाः॑ । स्पृधः॑ । आर्ये॑ण । दस्यू॑न् ।

अ॒स्मभ्य॑म् । तत् । त्वा॒ष्ट्रम् । वि॒श्वऽरू॑पम् । अर॑न्धयः । सा॒ख्यस्य॑ । त्रि॒ताय॑ ॥१९

सनेम । ये। ते । ऊति ऽभिः। तरंतः । विश्वाः । स्पृधः । आर्येण । दस्यून ।

अस्मभ्यं । तत् । त्वाष्ट्रं । विश्वऽरूपं । अरंधयः । साख्यस्य । त्रिताय ॥१९॥

सनेम तान्पुरुषान् संभजेम ये ते तवोतिभिः पालनैर्विश्वाः स्पृधः स्पर्धमानाः सर्वा विशस्तरंतो हिंसंतः। तथार्येणार्थभावेन दस्यूनुपक्षपयितॄन् हिंसंतो भवंति । तदस्मभ्यं वशमानय । किं तत् । तदाह । त्वाष्ट्रं त्वष्टुः सुतं विश्वरूपमेतन्नामकमसुरमरंधयः ॥ रध्यतिर्वशगमने ॥ वशमानयः । यद्वा तमसुरमवधीः ॥ रध हिंसासंराड्योः । रधिजभोरचीति नुम् ॥ इंद्रस्त्वाष्ट्रमवधीदित्ययमर्थस्तैत्तिरीयके विश्वरूपो वै त्वाष्ट्रः । तै° २.५.१.। इत्यत्र महता प्रबंधेन प्रपंचितः । किंच साख्यस्य सखिभावस्यानुपालनाय त्रिताय महर्षये वशमानयः । यद्वा सनेम ते वयं प्रवृद्धा भवेम ये वयं तव रक्षाभिः स्पर्धमानाः प्रजा दस्यूंश्च तरंतोऽतिक्रामंतो भवेम । सनेमेति वृद्ध्यर्थं आद्युदात्तः । यथा सनेम मित्रावरुणा सनंतः । ७.५२.१.। इति। सकर्मकश्चेत् मध्योदात्तः । सनेम वाजं तव ।८.६१.४.। इति । तरंतः । तॄ प्लवनतरणयोः। शतरि रूपं । संज्ञावचनश्चेदंतोदात्तः । यथा तरंत इव मंहना । ५.६१.१०.। इति ॥


अ॒स्य सु॑वा॒नस्य॑ म॒न्दिन॑स्त्रि॒तस्य॒ न्यर्बु॑दं वावृधा॒नो अ॑स्तः ।

अव॑र्तय॒त्सूर्यो॒ न च॒क्रं भि॒नद्व॒लमिन्द्रो॒ अङ्गि॑रस्वान् ॥२०

अ॒स्य । सु॒वा॒नस्य॑ । म॒न्दिनः॑ । त्रि॒तस्य॑ । नि । अर्बु॑दम् । व॒वृ॒धा॒नः । अ॒स्त॒रित्य॑स्तः ।

अव॑र्तयत् । सूर्यः॑ । न । च॒क्रम् । भि॒नत् । व॒लम् । इन्द्रः॑ । अङ्गि॑रस्वान् ॥२०

अस्य। सुवानस्य। मंदिनः। त्रितस्य । नि। अर्बुदं । ववृधानः । अस्तरित्यस्तः ।

अवर्तयत् । सूर्यः । न। चक्रं । भिनत् । वलं। इंद्रः । अंगिरस्वान् ॥२०॥

मंदिनोऽस्य मदकरमिमं सुवानस्य सुतवतस्त्रितस्य तीर्णनमस्कस्य महर्षेरर्थं वावृधानः सोमेन वर्धमान इंद्रोऽर्बुदं । अंबूनि ददातीत्यर्बुदो मेघः । अनुस्वारस्य रेफश्छांदसः । यद्वा नामैतत् । अर्बुदाख्यमसुरं न्यस्तः।। स्तॄ हिंसायामित्यस्य लङि तिपि बहुलं छंदसीति विकरणस्य लुक् । गुणे कृते हलङ्यादिना तिलोपः । नितरामवधीत् । महांतं चिदर्बुदं नि क्रमीः पदा ।१.५१.६.। इत्यादिष्वर्बुदवधः स्पष्टमुक्तः । किंच अंगिरस्वान् अंगिरोभिः सहित इंद्रोऽवर्तयत् । असुरहननार्थं वज्रमभ्रामयत् । सूर्यो न। यथा सूर्यश्चक्रं भ्रामयति तद्वत्। यद्वा यस्मादसुराद्भिया सूर्यः स्वकीयं रथचक्रं नावर्तयत् । निषेधार्थीयोऽत्र नकारः । वर्तयितुं नाशकत् तं वलं पणीनां प्रभुमसुरं भिनत् । वज्रेणाभिनत्। यद्वा द्विचक्रो हि पूर्वं सूर्यस्य रथः । तस्यैकं चक्रमिंद्रेणापहृतं । सूर्य इति शाप सुलुगिति षष्ठ्येकवचनस्य सुः । सूर्यस्य संबंध्यपहृतं तदेकं चक्रमवर्तयत् । रक्षोहननार्थमभ्रामयत् । तेन चक्रेण वलमभिनच्च । नश्चार्थे ॥


अहर्गणेषु माध्यंदिनसवनेषु तायमानरूपेष्वच्छावाकस्याहरहः शस्यसंज्ञकमभितष्टेवेति सूक्तं । नूनं सा त इत्येषा तस्यांते शंसनीया । सूत्रितं च । नूनं सा त इत्यंतमुत्तमं । आ° ७. ४.। इति ॥

नू॒नं सा ते॒ प्रति॒ वरं॑ जरि॒त्रे दु॑ही॒यदि॑न्द्र॒ दक्षि॑णा म॒घोनी॑ ।

शिक्षा॑ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो॑ नो बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥२१

नू॒नम् । सा । ते॒ । प्रति॑ । वर॑म् । ज॒रि॒त्रे । दु॒ही॒यत् । इ॒न्द्र॒ । दक्षि॑णा । म॒घोनी॑ ।

शिक्ष॑ । स्तो॒तृऽभ्यः॑ । मा । अति॑ । ध॒क् । भगः॑ । नः॒ । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥२१

नूनं । सा । ते। प्रति । वरं। जरित्रे। दुहीयत् । इंद्र । दक्षिणा । मघोनी।

शिक्ष। स्तोतृऽभ्यः। मा। अति।धक्। भगः।नः।बृहत्। वदेम विदथे। सुवीराः ॥२१॥

हे इंद्र या दक्षिणा दक्षमुत्साहनं करोतीति दक्षिणा स्तोतृभ्यो देया ते त्वत्संबंधिनी मघोनी धनवत जरित्रे स्तोत्रे वरं श्रेष्ठमभिमतमर्थं नूनं प्रतिदुहीयत् । इदानीं प्रतिदोग्धि। संपादयतीत्यर्थः । तादृशीं दक्षिणां स्तोतृभ्योऽस्मभ्यं शिक्ष । प्रयच्छ । किंच भगो भजनीयस्त्वं माति धक् ॥ दहेर्दानार्थस्य लुङि मंत्रे घसेत्यादिना च्लेर्लुक् ॥ नोऽस्मानतिक्रम्यान्येभ्यो दक्षिणां मा दाः । प्रथममस्मभ्यं दत्त्वा पश्चादन्येभ्यो दीयतामित्यर्थः । यद्वा नोऽस्माकं कामान् मा धक् । मा धाक्षीः। अपेक्षितफलदानेन पूरयेत्यर्थः । सुवीराः शोभनपुत्रपौत्राः संतो वयं विदथे ऽस्मिन्यज्ञे बृहत् प्रभूतं स्तोत्रं वदेम । त्वामुद्दिश्य ब्रवाम । अत्र सा ते प्रतिदुग्धामिति प्रकृत्य वीरो वीरयत्यमित्रान् वेतेर्वा स्याद्गतिकर्मणो वीरयतेर्वेत्यंतं निरुक्तमनुसंधेयं । नि० १.७.॥॥६॥ ॥१॥

[सम्पाद्यताम्]

निरुक्तं तदिदं वार्यम् इन्द्र श्रेष्ठान्यृचान्त्यया । वव्रे वरमिदं सर्वं तदाकर्ण्य शचीपतिः ।। ७४ ।।

तथेत्युक्त्वा तुराषाट् तु पाणौ जग्राह दक्षिणे। ऋषिश्चास्य सखित्वेन पाणिना पाणिमस्पृशत् । । ७५ । ।

सहितौ जग्मतुश्चैवं महेन्द्रसदनं प्रति । तत्रैनमार्हयत्प्रीत्या स्वयमेव पुरंदरः । । ७६ ।।

कर्मणा विधिदृष्टेन तमृषिं चाभ्यपूजयत् । सखित्वाच्च पुनश्चैनम् उवाच हरिवाहनः ।। ७७ ।।

गृणन्मादयसे यस्मात् त्वमस्मानृषिसत्तम । तस्माद्गृत्समदो नाम शौनहोत्रो भविष्यसि । । ७८ ।।

ततो द्वादशभिः सूक्तैस् तुष्टावेन्द्रं श्रुधीत्यृषिः । ददर्श संस्तुवन्नेव तत्र स ब्रह्मणस्पतिम् ।।बृहद्देवता ४.७९ ।।


मण्डल २

सूक्तं २.१

सूक्तं २.२

सूक्तं २.३

सूक्तं २.४

सूक्तं २.५

सूक्तं २.६

सूक्तं २.७

सूक्तं २.८

सूक्तं २.९

सूक्तं २.१०

सूक्तं २.११

सूक्तं २.१२

सूक्तं २.१३

सूक्तं २.१४

सूक्तं २.१५

सूक्तं २.१६

सूक्तं २.१७

सूक्तं २.१८

सूक्तं २.१९

सूक्तं २.२०

सूक्तं २.२१

सूक्तं २.२२

सूक्तं २.२३

सूक्तं २.२४

सूक्तं २.२५

सूक्तं २.२६

सूक्तं २.२७

सूक्तं २.२८

सूक्तं २.२९

सूक्तं २.३०

सूक्तं २.३१

सूक्तं २.३२

सूक्तं २.३३

सूक्तं २.३४

सूक्तं २.३५

सूक्तं २.३६

सूक्तं २.३७

सूक्तं २.३८

सूक्तं २.३९

सूक्तं २.४०

सूक्तं २.४१

सूक्तं २.४२

सूक्तं २.४३


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_२.११&oldid=196911" इत्यस्माद् पुनः प्राप्तिः