ऋग्वेदः सूक्तं २.२९

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं २.२८ ऋग्वेदः - मण्डल २
सूक्तं २.२९
कूर्मो गार्त्समदो, गृत्समदो वा।
सूक्तं २.३० →
दे. विश्वेदेवाः। त्रिष्टुप्


धृतव्रता आदित्या इषिरा आरे मत्कर्त रहसूरिवागः ।
शृण्वतो वो वरुण मित्र देवा भद्रस्य विद्वाँ अवसे हुवे वः ॥१॥
यूयं देवाः प्रमतिर्यूयमोजो यूयं द्वेषांसि सनुतर्युयोत ।
अभिक्षत्तारो अभि च क्षमध्वमद्या च नो मृळयतापरं च ॥२॥
किमू नु वः कृणवामापरेण किं सनेन वसव आप्येन ।
यूयं नो मित्रावरुणादिते च स्वस्तिमिन्द्रामरुतो दधात ॥३॥
हये देवा यूयमिदापय स्थ ते मृळत नाधमानाय मह्यम् ।
मा वो रथो मध्यमवाळृते भून्मा युष्मावत्स्वापिषु श्रमिष्म ॥४॥
प्र व एको मिमय भूर्यागो यन्मा पितेव कितवं शशास ।
आरे पाशा आरे अघानि देवा मा माधि पुत्रे विमिव ग्रभीष्ट ॥५॥
अर्वाञ्चो अद्या भवता यजत्रा आ वो हार्दि भयमानो व्ययेयम् ।
त्राध्वं नो देवा निजुरो वृकस्य त्राध्वं कर्तादवपदो यजत्राः ॥६॥
माहं मघोनो वरुण प्रियस्य भूरिदाव्न आ विदं शूनमापेः ।
मा रायो राजन्सुयमादव स्थां बृहद्वदेम विदथे सुवीराः ॥७॥


सायणभाष्यम्

' धृतव्रताः ' इति सप्तर्चं सप्तमं सूक्तं गार्त्समदस्य कूर्मस्य गृत्समदस्य वा आर्षं त्रैष्टुभं वैश्वदेवम् । तथा चानुक्रान्तं- धृतव्रताः सप्त वैश्वदेवम् ' इति । गतो विनियोगः ।।


धृत॑व्रता॒ आदि॑त्या॒ इषि॑रा आ॒रे मत्क॑र्त रह॒सूरि॒वागः॑ ।

शृ॒ण्व॒तो वो॒ वरु॑ण॒ मित्र॒ देवा॑ भ॒द्रस्य॑ वि॒द्वाँ अव॑से हुवे वः ॥१

धृत॑ऽव्रताः । आदि॑त्याः । इषि॑राः । आ॒रे । मत् । क॒र्त॒ । र॒ह॒सूःऽइ॑व । आगः॑ ।

शृ॒ण्व॒तः । वः॒ । वरु॑ण । मित्र॑ । देवाः॑ । भ॒द्रस्य॑ । वि॒द्वान् । अव॑से । हु॒वे॒ । वः॒ ॥१

धृतऽव्रताः । आदित्याः । इषिराः । आरे । मत् । कर्त । रहसूःऽइव । आगः ।

शृण्वतः । वः । वरुण । मित्र । देवाः । भद्रस्य । विद्वान् । अवसे । हुवे । वः ॥१

हे धृतव्रताः धृतकर्माणः आदित्याः अदितेः पुत्राः इषिराः गमनशीलाः सर्वैरभ्येषणीयाः प्रार्थनीया वा हे विश्वेदेवाः मदारे मत्तो दूरदेशे आगः विहितानुष्ठानादिजनितं पापं कर्त कुरुत करोतेश्छान्दसो विकरणस्य लुक् तप्तनप्तनथनाश्चेति तवादेशः तत्र दृष्टान्तः- रहसूरिव रहसि अन्यैरज्ञाते प्रदेशे सूयत इति रहसू: व्यभिचारिणी सा यथा गर्भं पातयित्वा दूरदेशे परित्यजति तद्वत् हे वरुण मित्र देवाः वो युष्मदीयस्य भद्रस्य युष्माभिः करणीयं श्रेयो विद्वान् जानन्नहं शृण्वतः मत्कृतानि स्तोत्राणि श्रोत्रेण जानतो वो युष्मान् अवसे रक्षणार्थं हुवे आह्वयामि ॥ १ ॥


यू॒यं दे॑वा॒ः प्रम॑तिर्यू॒यमोजो॑ यू॒यं द्वेषां॑सि सनु॒तर्यु॑योत ।

अ॒भि॒क्ष॒त्तारो॑ अ॒भि च॒ क्षम॑ध्वम॒द्या च॑ नो मृ॒ळय॑ताप॒रं च॑ ॥२

यू॒यम् । दे॒वाः॒ । प्रऽम॑तिः । यू॒यम् । ओजः॑ । यू॒यम् । द्वेषां॑सि । स॒नु॒तः । यु॒यो॒त॒ ।

अ॒भि॒ऽक्ष॒त्तारः॑ । अ॒भि । च॒ । क्षम॑ध्वम् । अ॒द्य । च॒ । नः॒ । मृ॒ळय॑त । अ॒प॒रम् । च॒ ॥२

यूयम् । देवाः । प्रऽमतिः । यूयम् । ओजः । यूयम् । द्वेषांसि । सनुतः । युयोत ।

अभिऽक्षत्तारः । अभि । च । क्षमध्वम् । अद्य । च । नः । मृळयत । अपरम् । च ॥२

हे देवाः प्रमतिः प्रकृष्टा मतिर्यस्य पित्रादेस्तादृशोपि यूयमेव तथा ओजो बलमपि यूयमेव अपि च यूयं द्वेषांसि द्वेष्टृणि रक्षःपिशाचादीनि सनुतरित्यव्ययम् अन्तर्हितनामैतत् अन्तर्हिते प्रदेशे युयोत पृथकुरुत् यु मिश्रणामिश्रणयोः छान्दसःशपःश्लुः पूर्ववत्तस्यतबादेशः अभिक्षत्तारः अभितः शत्रूणां हिंसितारो यूयं अभिचक्षमध्वं अभिभवत च शत्रून् अद्यास्मिन्दिने च नोस्मान्मृळयत सुखयत अपरं च अपरमपि कालं आगामिन्यपिकाले अस्मान्मृळयत ॥२॥


किमू॒ नु वः॑ कृणवा॒माप॑रेण॒ किं सने॑न वसव॒ आप्ये॑न ।

यू॒यं नो॑ मित्रावरुणादिते च स्व॒स्तिमि॑न्द्रामरुतो दधात ॥३

किम् । ऊं॒ इति॑ । नु । वः॒ । कृ॒ण॒वा॒म॒ । अप॑रेण । किम् । सने॑न । व॒स॒वः॒ । आप्ये॑न ।

यू॒यम् । नः॒ । मि॒त्रा॒व॒रु॒णा॒ । अ॒दि॒ते॒ । च॒ । स्व॒स्तिम् । इ॒न्द्रा॒म॒रु॒तः॒ । द॒धा॒त॒ ॥३

किम् । ऊं इति । नु । वः । कृणवाम । अपरेण । किम् । सनेन । वसवः । आप्येन ।

यूयम् । नः । मित्रावरुणा । अदिते । च । स्वस्तिम् । इन्द्रामरुतः । दधात ॥३

हे देवा: वो युष्माकं नु अद्येदानीं किमु कृणवाम किं खलु कर्तुं शक्नवाम न किमपीत्यर्थ: तथा अपरेण अपरकालभाविना कर्मणा किं कर्तुं शक्ताः तथा हे वसवो वासयितारो देवाः सनेन सनातनेन आप्येन आप्तव्येन कर्मणा युष्माकं किं कर्तुं शक्ताः सर्वदापि युष्मदनुगुणं परिचरणं कर्तुं न शक्ता इत्यर्थ: हे मित्रावरुणौ हे अदिते हे इन्दामरुतः देवताद्वन्द्वे चेति पूर्वपदस्यानङ् ते च सर्वे यूयं स्वस्ति अविनाशं नोस्मभ्यं दधात धत्त प्रयच्छत लोटितस्यतबादेशेङित्त्वाभावेनातोलोपाभावः ॥ ३ ॥


ह॒ये दे॑वा यू॒यमिदा॒पयः॑ स्थ॒ ते मृ॑ळत॒ नाध॑मानाय॒ मह्य॑म् ।

मा वो॒ रथो॑ मध्यम॒वाळृ॒ते भू॒न्मा यु॒ष्माव॑त्स्वा॒पिषु॑ श्रमिष्म ॥४

ह॒ये । दे॒वाः॒ । यू॒यम् । इत् । आ॒पयः॑ । स्थ॒ । ते । मृ॒ळ॒त॒ । नाध॑मानाय । मह्य॑म् ।

मा । वः॒ । रथः॑ । म॒ध्य॒म॒ऽवाट् । ऋ॒ते । भू॒त् । मा । यु॒ष्माव॑त्ऽसु । आ॒पिषु॑ । श्र॒मि॒ष्म॒ ॥४

हये । देवाः । यूयम् । इत् । आपयः । स्थ । ते । मृळत । नाधमानाय । मह्यम् ।

मा । वः । रथः । मध्यमऽवाट् । ऋते । भूत् । मा । युष्मावत्ऽसु । आपिषु । श्रमिष्म ॥४

हये देवाः छान्द्सोवर्णोपजनः हे देवाः यूयमित् यूयमेव आापयः धनस्य प्रापयितारो बन्धवः स्थ भवथ ते यूयं नाधमानाय अभिमतं फलं याचमानाय मह्यं स्तोत्रे मृळत सुखयत तथा वो युष्माकं रथः ऋतेस्मदीये यज्ञे निमित्तभूते मध्यमवाट्मा भूत् मध्यमेन मन्दगमनेन वाहको मा भूत् शीघ्रं युष्मान्वहत्वित्यर्थः वयं युष्मावत्सु युष्मत्सदृशेष्वापिषु बन्धुषु सत्सु मा श्रमिष्म श्रान्ता मा भूम वतुप्प्रकरणेयुप्ष्मद्स्मद्भ्यां छन्दसि सादृश्यउपसंख्यानमिति वतुप् आसर्वनाम्न इत्यात्वम॥ ४ ॥


प्र व॒ एको॑ मिमय॒ भूर्यागो॒ यन्मा॑ पि॒तेव॑ कित॒वं श॑शा॒स ।

आ॒रे पाशा॑ आ॒रे अ॒घानि॑ देवा॒ मा माधि॑ पु॒त्रे विमि॑व ग्रभीष्ट ॥५

प्र । वः॒ । एकः॑ । मि॒म॒य॒ । भूरि॑ । आगः॑ । यत् । मा॒ । पि॒ताऽइ॑व । कि॒त॒वम् । श॒शा॒स ।

आ॒रे । पाशाः॑ । आ॒रे । अ॒घानि॑ । दे॒वाः॒ । मा । मा॒ । अधि॑ । पु॒त्रे । विम्ऽइ॑व । ग्र॒भी॒ष्ट॒ ॥५

प्र । वः । एकः । मिमय । भूरि । आगः । यत् । मा । पिताऽइव । कितवम् । शशास ।

आरे । पाशाः । आरे । अघानि । देवाः । मा । मा । अधि । पुत्रे । विम्ऽइव । ग्रभीष्ट ॥५

हे देवाः वो युष्माकं मध्ये अहमेकः सन् भूरि बहुलं आग: पापं प्रमिमय अहं प्रकर्षेण हिंसिषं कथमस्माकं मध्ये त्वमेव इति चेदुच्यते-यद्यस्मात् मा मां पितेव कितवं यथा अपथप्रवृत्तं पुत्रं पितानुशास्ति तथा शशास अनुशिष्टं च कृढ्वे शासु अनुशिष्टावित्यस्माल्लिटि मध्यमस्य रूपम् अपि च हे देवाः युप्मदीयाः पाशा: आरे अस्मत्तो दूरदेशे सन्तु अघानि पापानि च आरे सन्तु मा मा अधिपुत्रे अधि:सप्तम्यर्थानुवादी पुत्रे पश्यति सति पितरं संतं विमिव पक्षिणमिव व्याधः मा ग्रभीष्ट मा गृह्णीध्वम् माङिलुङि हग्रहोर्भ इति भत्वम् ॥ ५ ॥


अ॒र्वाञ्चो॑ अ॒द्या भ॑वता यजत्रा॒ आ वो॒ हार्दि॒ भय॑मानो व्ययेयम् ।

त्राध्वं॑ नो देवा नि॒जुरो॒ वृक॑स्य॒ त्राध्वं॑ क॒र्ताद॑व॒पदो॑ यजत्राः ॥६

अ॒र्वाञ्चः॑ । अ॒द्य । भ॒व॒त॒ । य॒ज॒त्राः॒ । आ । वः॒ । हार्दि॑ । भय॑मानः । व्य॒ये॒य॒म् ।

त्राध्व॑म् । नः॒ । दे॒वाः॒ । नि॒ऽजुरः॑ । वृक॑स्य । त्राध्व॑म् । क॒र्तात् । अ॒व॒ऽपदः॑ । य॒ज॒त्राः॒ ॥६

अर्वाञ्चः । अद्य । भवत । यजत्राः । आ । वः । हार्दि । भयमानः । व्ययेयम् ।

त्राध्वम् । नः । देवाः । निऽजुरः । वृकस्य । त्राध्वम् । कर्तात् । अवऽपदः । यजत्राः ॥६

हे यजत्राः यष्टव्या देवाः अद्येदानीमर्वाञ्चोस्मदभिमुखा भवत वो युष्माकं हार्दि हद्यवस्थितं रक्षणं भयमानो बिभ्यदहं आव्ययेयं आभिमुख्येन प्राप्नुयाम् व्ययगतौ भौवादिकः हे देवाः वृकस्य तस्करस्य आरण्यशुनो वा संबन्धिनः निजुरो निहननात् जूरीहिंसार्थः अस्मात्संपदादिलक्षणो भावे क्विप् छान्दसो ह्रस्वः नोस्मान् त्राध्वं त्रायध्वम् तथा हे यजत्राः अवपदः आपदः कर्तात्कर्तुः सकाशात्त्राध्वं त्रायध्वम् ॥ ६ ॥


माहं म॒घोनो॑ वरुण प्रि॒यस्य॑ भूरि॒दाव्न॒ आ वि॑दं॒ शून॑मा॒पेः ।

मा रा॒यो रा॑जन्सु॒यमा॒दव॑ स्थां बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥७

मा । अ॒हम् । म॒घोनः॑ । व॒रु॒ण॒ । प्रि॒यस्य॑ । भू॒रि॒ऽदाव्नः॑ । आ । वि॒द॒म् । शून॑म् । आ॒पेः ।

मा । रा॒यः । रा॒ज॒न् । सु॒ऽयमा॑त् । अव॑ । स्था॒म् । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥७

मा । अहम् । मघोनः । वरुण । प्रियस्य । भूरिऽदाव्नः । आ । विदम् । शूनम् । आपेः ।

मा । रायः । राजन् । सुऽयमात् । अव । स्थाम् । बृहत् । वदेम । विदथे । सुऽवीराः ॥७

हे वरुण मघोनो धनवतः प्रियस्यानुकूलस्य भूरिदावः भूरेर्बहुलस्य दातुरहं मा आविदं मा आवेद्यानि अविद्नं विज्ञापनं मा करवाणि किंतदनावेद्यं आपेर्ज्ञातेः शूनं शून्यं दारिद्र्यम् वर्णलोपश्छान्दसः यद्वा शूनं गतं प्राप्तं दारिद्र्यम् टुओश्विगतिवृद्योः श्वीदितोनिष्ठायामितीट्प्रतिषेधः यजादित्वात्संप्रसारणम् ओदितश्चेति नकारः वृषादित्वादाद्युदात्तत्वम् एतदुक्तं भवति अस्मदीयाः पुत्राद्यः क्षुधिता इति प्रभुसमीपेभिधाय याचमानो मा भूवमिति हे राजन्सुयमात् सुष्ठु नियम्यतेनेन पुरुषो गृह इति सुयमः ईषद्दुःसुष्वितिखल् तादृशाद्रायो धनान्मावस्थां अवयुत्य स्थितो मा भूवं वयं सुवीराः शोभनपुत्रा विदथे यज्ञे गृहे वा वर्तमानाः सन्तो बृहत् प्रौढं स्तोत्रं वदेम उच्चारयाम॥१७॥


[सम्पाद्यताम्]

विश्वेदेवाः उपरि पौराणिकाः संदर्भाः

विश्वेदेवाः उपरि वैदिकाः संदर्भाः

टिप्पणी

कर्णाटकप्रदेशे प्राचीनमन्दिरोपरि ओम् चिह्नम्

सूक्तस्य देवतारूपेण विश्वेदेवानां उल्लेखमस्ति। सोमयागे सुत्यादिवसे त्रयाणां सवनानां सम्पादनं भवति - प्रातःसवनम्, माध्यन्दिनसवनम् एवं तृतीयसवनम्। प्रातःसवनस्य अधिपतिः वसवः/ब्रह्मा भवन्ति, माध्यन्दिनस्य रुद्राः/इन्द्रः एवं तृतीयस्य आदित्याः/विश्वेदेवाः(शतपथब्राह्मणम् १४.१.१.१५)। वर्तमाने संदर्भे, कूर्मस्य ऋषेः त्रयाः सूक्ताः सन्ति - २.२७ सूक्तं आदित्यदेवताकम्, २.२८ सूक्तं वरुणदेवताकं एवं २.२९ विश्वेदेवाः देवताकम्। यदि २.२९ सू्क्तस्य देवता विश्वेदेवाः सन्ति, तर्हि किं अयं सम्भवमस्ति यत् अयं सूक्तं तृतीयसवनस्य प्रतीकमस्ति (यदि अयं तृतीयसवनस्य प्रतीकं भवेत्, तर्हि पूर्वौ सूक्तौ प्रातः एवं माध्यन्दिनस्य प्रतीकौ भवेताम्)। तृतीयसवनस्य किं वैशिष्ट्यम् अस्ति। एकः सुझावमस्ति यत् प्रातःसवनस्य सम्बन्धं ओंकारस्य अ मात्रातः अस्ति, माध्यन्दिनस्य उ मात्रातः एवं तृतीयस्य म मात्रातः। अ मात्रायाः अधिपतिः ब्रह्मा अस्ति। तस्य कार्यं सृष्टिकरणं, सृष्ट्यां यत्र - यत्र न्यूनता अस्ति, तस्य पूरणं( कुम्भकप्राणायामे श्वासस्य पूरणम्)। उ मात्रायाः अधिपतिः विष्णुरस्ति। तस्य कार्यं जगतः प्रतिष्ठाकरणं अस्ति। यत्र - यत्र ऊर्जायाः क्षयं अस्ति, तस्य निरोधम्। कुम्भकप्राणायामस्य शब्दे - श्वासस्य धारणम्। म मात्रायाः अधिपतिः रुद्रः अस्ति। तस्य कार्यं अवशिष्ट, अपशिष्ट ऊर्जायाः बहिः क्षेपणं विसर्जनमस्ति। कुम्भकस्य शब्दानुसारेण अयं रेचकमस्ति। प्रस्तुते सूक्ते एते वैशिष्ट्याः केषां रूपेषु प्रकटीभवन्ति, अयं अन्वेषणीयः।

अस्य सूक्तस्य ऋषिः कूर्मः अस्ति। कूर्मोपरि मन्दराचलं स्थापयित्वा ततः समुद्रमन्थनस्य आख्यानं विस्मर्तव्यं नास्ति। किं अयं संभवमस्ति यत् अयं सूक्तं असुरेषु मध्ये सुधायाः वितरणस्य प्रतीकमस्ति।

कर्मकाण्डे तृतीयसवनं ऋभुदेवताकं भवति। ऋभूणां (ऋभु, विभु, वाजः) उत्पत्तिः आसुरी अस्ति। अनेन प्रकारेण, तृतीयसवने आसुरी तत्त्वे देवत्वस्य स्थापना भवति। अन्यशब्देषु, आचारे देवत्वस्य प्रतिष्ठा भवति। अस्मिन् सूक्ते अस्य बहवः प्रमाणाः सन्ति। उदाहरणार्थं - यन्मा पितेव कितवं शशास। विश्वेदेवाः कितवस्य शासनं पितैव कुर्वन्ति।

मैत्रायणी संहितायां उल्लेखमस्ति - द्यावापृथिव्योर्दक्षिणं पार्श्वं विश्वेषां देवानामुत्तरम्- मै.सं. ३.१५.५। अयं संकेतमस्ति यत् यदा साधना ऊर्ध्वमुखी अस्ति, यदा ऊर्जायाः रोहणं पृथिवीतः द्युलोकपर्यन्तं ऋजुमार्गेण भवति, तत् दक्षिणं पक्षमस्ति। यदा ऊर्जायाः रोहणं दिशानां अनुदिशं भवति, तदा अयं विकासं विश्वे देवाः संज्ञकं भवति।

नारद पुराणे १.११९.५० पौष शुक्ल दशम्यां तिथ्यां विश्वेदेवानां पूजाकरणस्य निर्देशमस्ति। अयं संकेतमस्ति यत् यः वैशिष्ट्यम् दशम्याः तिथ्याः अस्ति, तदैव विश्वे देवानां अप्यस्ति। एकादश्याः दशम्यातः घोरविरोधमस्ति। कारणं। एकादश्यां देवानां स्थितिः दैशिकप्रकारा भवति। दशम्यां अदैशिकप्रकारा। विश्वेदेवाः देवानां समूहः अस्ति। किन्तु तस्य समूहस्य अनेकता अद्यापि वर्तते। अनेन कारणेन विश्वेदेवाः दैशिकाः(vector) न सन्ति।

मण्डल २

सूक्तं २.१

सूक्तं २.२

सूक्तं २.३

सूक्तं २.४

सूक्तं २.५

सूक्तं २.६

सूक्तं २.७

सूक्तं २.८

सूक्तं २.९

सूक्तं २.१०

सूक्तं २.११

सूक्तं २.१२

सूक्तं २.१३

सूक्तं २.१४

सूक्तं २.१५

सूक्तं २.१६

सूक्तं २.१७

सूक्तं २.१८

सूक्तं २.१९

सूक्तं २.२०

सूक्तं २.२१

सूक्तं २.२२

सूक्तं २.२३

सूक्तं २.२४

सूक्तं २.२५

सूक्तं २.२६

सूक्तं २.२७

सूक्तं २.२८

सूक्तं २.२९

सूक्तं २.३०

सूक्तं २.३१

सूक्तं २.३२

सूक्तं २.३३

सूक्तं २.३४

सूक्तं २.३५

सूक्तं २.३६

सूक्तं २.३७

सूक्तं २.३८

सूक्तं २.३९

सूक्तं २.४०

सूक्तं २.४१

सूक्तं २.४२

सूक्तं २.४३


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_२.२९&oldid=208789" इत्यस्माद् पुनः प्राप्तिः