शतपथब्राह्मणम्/काण्डम् १४/अध्यायः १/ब्राह्मण १

विकिस्रोतः तः
Jump to navigation Jump to search

प्रवर्ग्यसृष्टिप्रतिपादकं ब्राह्मणम्

देवा ह वै सत्त्रं निषेदुः। अग्निरिन्द्रः सोमो मखो विष्णुर्विश्वे देवा अन्यत्रैवाश्विभ्याम् - १४.१.१.[१]

तेषां कुरुक्षेत्रं देवयजनमास तस्मादाहुः कुरुक्षेत्रं देवानां देवयजनमिति तस्माद्यत्र क्व च कुरुक्षेत्रस्य निगच्छति तदेव मन्यत इदं देवयजनमिति तद्धि देवानां देवयजनम्- १४.१.१.[२]

त आसत। श्रियं गच्छेम यशः स्यामान्नादाः स्यामेति तथो एवेमे सत्त्रमासते श्रियं
गच्छेम यशः स्यामान्नादाः स्यामेति- १४.१.१.[३]

ते होचुः यो नः श्रमेण तपसा श्रद्धया यज्ञेनाहुतिभिर्यज्ञस्योदृचम्पूर्वोऽवगच्छात्स नः श्रेष्ठोऽसत्तदु नः सर्वेषां सहेति तथेति - १४.१.१.[४]

तद्विष्णुः प्रथमः प्राप स देवानां श्रेष्ठोऽभवत्तस्मादाहुर्विष्णुर्देवानां श्रेष्ठ इति - १४.१.१.[५]

स यः स विष्णुर्यज्ञः सः। स यः स यज्ञोऽसौ स आदित्यस्तद्धेदं यशो विष्णुर्न शशाक संयन्तुं तदिदमप्येतर्हि नैव सर्व इव यशः शक्नोति संयन्तुम् - १४.१.१.[६]

स तिसृधन्वमादायापचक्राम। स धनुरार्त्न्या शिर उपस्तभ्य तस्थौ तं देवा अनभिधृष्णुवन्तः समन्तं परिण्यविशन्त - १४.१.१.[७]

ता ह वम्र्य ऊचुः। इमा वै वम्र्यो यदुपदीका योऽस्य ज्यामप्यद्यात्किमस्मै प्रयच्छेतेत्यन्नाद्यमस्मै प्रयच्छेमापि धन्वन्नपोऽधिगच्छेत्तथास्मै सर्वमन्नाद्यं प्रयच्छेमेति तथेति - १४.१.१.[८]

तस्योपपरासृत्य। ज्यामपि जक्षुस्तस्यां च्छिन्नायां धनुरार्त्न्यौ विष्फुरन्त्यौ विष्णोः शिरः प्रचिच्छिदतुः - १४.१.१.[९]

तद्घृङ्ङिति पपात। तत्पतित्वाऽसावादित्योऽभवदथेतरः प्राङेव प्रावृज्यत तद्यद्घृङ्ङित्यपतत्तस्माद्घर्मोऽथ यत्प्रावृज्यत तस्मात्प्रवर्ग्यः - १४.१.१.[१०]

ते देवा अब्रुवन्। महान्बत नो वीरोऽपादीति तस्मान्महावीरस्तस्य यो रसो व्यक्षरत्तं पा(प?)णिभिः सम्ममृजुस्तस्मात्सम्म्राट् - १४.१.१.[११]

तं देवा अभ्यसृज्यन्त। यथा वित्तिं वेत्स्यमाना एवं तमिन्द्रः प्रथमः प्राप तमन्वङ्गमनु न्यपद्यत तं पर्यगृह्णात्तं परिगृह्येदं यशोऽभवद्यदिदमिन्द्रो यशो यशो ह भवति य एवं वेद - १४.१.१.[१२]

स उ एव मखः स विष्णुः। तत इन्द्रो मखवानभवन्मखवान्ह वै तम्मघवानित्याचक्षते परोऽक्षं परोऽक्षकामा हि देवाः - १४.१.१.[१३]

ताभ्यो वम्रीभ्योऽन्नाद्यं प्रायच्छन्। आपो वै सर्वमन्नं ताभिर्हीदमभिक्नूयमिवादन्ति यदिदं किञ्चादन्ति - १४.१.१.[१४]

अथेमं विष्णुं यज्ञं त्रेधा व्यभजन्त। वसवः प्रातःसवनं रुद्रा माध्यन्दिनं सवनमादित्यास्तृतीयसवनम् - १४.१.१.[१५]

अग्निः प्रातःसवनम्। इन्द्रो माध्यन्दिनं सवनं विश्वे देवास्तृतीयसवनम् - १४.१.१.[१६]

गायत्री प्रातःसवनम्। त्रिष्टुम्माध्यन्दिनं सवनं जगती तृतीयसवनं तेनापशीर्ष्णा यज्ञेन देवा अर्चन्तः श्राम्यन्तश्चेरुः - १४.१.१.[१७]

दध्यङ् ह वा आथर्वणः। एतं शुक्रमेतं यज्ञं विदांचकार यथायथैतद्यज्ञस्य शिरः प्रतिधीयते यथैष कृत्स्नो यज्ञो भवति - १४.१.१.[१८]

स हेन्द्रेणोक्त आस। एतं चेदन्यस्मा अनुब्रूयास्तत एव ते शिरश्छिन्द्यामिति - १४.१.१.[१९]

तदु हाश्विनोरनुश्रुतमास। दध्यङ्ङु ह वा आथर्वण एतं शुक्रमेतं यज्ञम्वेद यथायथैतद्यज्ञस्य शिरः प्रतिधीयते यथैष कृत्स्नो यज्ञो भवतीति - १४.१.१.[२०]

तौ हैत्योचतुः। उप त्वाऽयावेति किमनुवक्ष्यमाणावित्येतं शुक्रमेतं यज्ञं यथायथैतद्यज्ञस्य शिरः प्रतिधीयते यथैष कृत्स्नो यज्ञो भवतीति - १४.१.१.[२१]

स होवाच। इन्द्रेण वा उक्तोऽस्म्येतं चेदन्यस्मा अनुब्रूयास्तत एव ते शिरश्छिन्द्यामिति तस्माद्वै बिभेमि यद्वै मे स शिरो न च्छिन्द्यान्न वामुपनेष्य इति - १४.१.१.[२२]

तौ होचतुः। आवां त्वा तस्मात्त्रास्यावह इति कथं मा त्रास्येथे इति यदा नाऽउपनेष्यसेऽथ ते शिरश्छित्त्वान्यत्रापनिधास्यावोऽथाश्वस्य शिर आहृत्य तत्ते प्रतिधास्यावस्तेन नावनुवक्ष्यसि स यदा नावनुवक्ष्यस्यथ ते तदिन्द्रः शिरश्छेत्स्यत्यथ ते स्वं शिर आहृत्य तत्ते प्रतिधास्याव इति तथेति - १४.१.१.[२३]

तौ होपनिन्ये। तौ यदोपनिन्येऽथास्य शिरश्छित्त्वान्यत्रापनिदधतुरथाश्वस्य शिर आहृत्य तद्धास्य प्रतिदधतुस्तेन हाभ्यामनूवाच स यदाभ्यामनूवाचाथास्य तदिन्द्रः शिरश्चिच्छेदाथास्य स्वं शिर आहृत्य तद्धास्य प्रतिदधतुः - १४.१.१.[२४]

तस्मादेतदृषिणाभ्यनूक्तम्। दध्यङ् ह यन्मध्वाथर्वणो वामश्वस्य शीर्ष्णा प्र यदीमुवाचेत्ययतं तदुवाचेति हैवैतदुक्तम् - १४.१.१.[२५]

तन्न सर्वस्मा अनुब्रूयात् एनस्यं हि तदथो नेन्म इन्द्रः शिरश्छिनददिति यो न्वेव
ज्ञातस्तस्मै ब्रूयादथ योऽनूचानोऽथ योऽस्य प्रियः स्यान्न त्वेव सर्वस्मा इव - १४.१.१.[२६]

सम्वत्सरवासिनेऽनुब्रूयात्। एष वै सम्वत्सरो य एष तपत्येष उ प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मात्सम्वत्सरवासिनेऽनुब्रूयात् - १४.१.१.[२७]

तिस्रो रात्रीर्व्रतं चरति। त्रयो वा ऋतवः सम्वत्सरस्य सम्वत्सर एष य एष तपत्येष उ प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मात्तिस्रो रात्रीर्व्रतं चरति - १४.१.१.[२८]

तप्तमाचामति। तपस्व्यनुब्रवा इत्यमांसाश्यनुब्रूते तपस्व्यनुब्रवा इति- १४.१.१.[२९]

अमृण्मयपायी। अस्ति वा अस्यां संसृष्टमिव यदस्यामनृतं वदति तस्मादमृण्मयपायी - १४.१.१.[३०]

अशूद्रोच्छिष्टी। एष वै घर्मो य एष तपति सैषा श्रीः सत्यं ज्योतिरनृतं स्त्री शूद्रः श्वा कृष्णः शकुनिस्तानि न प्रेक्षेत नेच्छ्रियं च पाप्मानं च नेज्ज्योतिश्च तमश्च नेत्सत्यानृते संसृजानीति - १४.१.१.[३१]

अथैष वाव यशः। य एष तपति तद्यत्तदादित्यो यशो यज्ञो हैव तद्यशस्तद्यत्तद्यज्ञो यशो यजमानो हैव तद्यशस्तद्यत्तद्यजमानो यश ऋत्विजो
हैव तद्यशस्तद्यत्तदृत्विजो यशो दक्षिणा हैव तद्यशस्तस्माद्यामस्मै दक्षिणामानयेयुर्न ता इत्सद्योऽन्यस्मा अतिदिशेन्नेद्यन्मेदं यश आगंस्तत्सद्योऽन्यस्मा अतिदिशानीति श्वो वैव भूते द्व्यहे वा तदात्मन्येवैतद्यशः
कृत्वा यदेव तद्भवति तत्सद्ददाति हिरण्यं गां वासोऽश्वं वा - १४.१.१.[३२]

अथैतद्वा। आयुरेतज्ज्योतिः प्रविशति य एतमनु वा ब्रूते भक्षयति वा तस्य व्रतचर्या नातपति प्रच्छादयेत नेदेतस्मात्तिरोऽसानीति नातपति निष्ठीवेन्नेदेतमभिनिष्ठीवानीति नातपति प्रस्रावयेत नेदेतमभिप्रस्रावया इति यावद्वा एष आतपति तावानेष नेदेतमेतैर्हिनसानीत्यवज्योत्य रात्रावश्नीयात्तदेतस्य रूपं क्रियते य एष तपति तदु होवाचासुरिरेकं ह वै देवा व्रतं चरन्ति यत्सत्यं तस्मादु सत्यमेव वदेत् - १४.१.१.[३३]