शतपथब्राह्मणम्/काण्डम् १४/अध्यायः १

विकिस्रोतः तः
Jump to navigation Jump to search

ब्राह्मण १

१ प्रवर्ग्यसृष्टिप्रतिपादकं ब्राह्मणम् --तत्र प्रथमं श्रीयशोऽन्नाद्यकामा अश्विभ्यां वर्जिताः अग्नीन्द्रसोममख• विष्णुविश्वेदेवाः कुरुक्षेत्र देवयजने किञ्चन सत्रं निषेदुरित्यभिधानं, तत्रास्माकं मध्ये श्रमेण तपसा श्रद्धया यज्ञेनाहुतिभिर्यः पूर्वो यज्ञस्योदृचमवगच्छात्स एव श्रेष्ठ इति ते देवा ऊचुरित्यभिधानं, तादृशो विष्णुः स एव च देवानां मध्ये श्रेष्ठोऽभूदिति प्रतिपादनम् , विष्णुयज्ञादित्यानां साम्यत्वोपपादनं, प्रसङ्गाद्यशः संयन्तुं केनापि न शक्यते इति लोकस्वभावप्रदर्शनं, ततो विष्णोः शिरःप्रच्छेदनेतिहासस्य सप्रकारकमुपवर्णनं, तत्पतितं शिर आदित्योऽभवदित्यभिधानं, घर्मप्रवर्ग्य-महावीर-सम्राट्शब्दानां सोपपत्तिकं निर्वचनम्, एतं प्रवर्ग्ययज्ञं देवाः प्रापुस्तत्रापि प्रथममिन्द्रः प्रापान्वङ्गं न्यपद्यतेमं यज्ञं परिगृह्य यशस्व्यभवच्चातस्तमिन्द्रं प्रत्यक्षेण मखवान्पारोक्ष्येण मघवानित्याचक्षत इत्यादि निरूपणं, ततो देवा छिद्भ्यो वम्रीभ्यः पूर्वं शिरःप्रच्छेदनेतिहासप्रसङ्गेन प्रतिज्ञातमन्नाद्यं प्रायच्छन्नित्यादि सोपपत्तिकमभिधानम् , एवमुपायेन प्राप्तस्य यज्ञस्य देवैः कृतस्य त्रेधाविभागस्य प्रदर्शनं, ततो देवानामपगतशिरस्कस्यात एव फलविहीनस्य यज्ञस्यानुष्ठानकरणादिप्रदर्शनम्, एवं छिन्नशिरस्कस्य यज्ञस्य फलसाधनत्वाभावात्तदनुष्ठानमेव सर्वत्रोत्सीदेदित्याशङ्क्य कश्चिद्दध्यङ्ङाथर्वणर्षिस्तत्संधानविद्याकुशल आसीदित्याद्यभिधानं, स चर्षिः पुराऽऽदित्यात्मना यज्ञशिरःसन्धानविद्यां शक्रायोपदिदेश-स चेन्द्र एवममन्यत यद्ययमिमां विद्यामन्यस्मा उपदिशेत्तदा सोऽपि मद्विधः स्यात्-अतस्तमृषिमितः परं त्वयैषा विद्या न कस्मा अप्युपदेष्टव्येत्याज्ञापितवानित्यादिप्रतिपादनम्, इन्द्रोपदेशात्प्रागेवाश्विनोर्यज्ञशिरःसन्धानविद्यादानं प्रतिश्रुतमासीदित्यादिनिरूपणम्, एवं दधीचा प्रतिश्रुतं - विद्यादानं स्मृत्वा तावश्विनौ दध्यञ्चमेत्य विद्यां देहीति प्रार्थितवन्तौ, तदानीं तयोर्दधीचश्च संजातयोरुक्तिप्रत्युक्त्योः प्रदर्शनम्, एवमश्विभ्यां प्रवर्ग्यविद्याया उपदेशे प्रार्थिते सति दधीचो विद्यादाने शक्रकृतप्रतिबन्धस्याभिधानं, ततः पुनरश्विनोर्दधीचश्च संजातसंवादेन तत्प्रतिबन्धनिवृत्युपायस्य प्रतिपादनम् , अश्विभ्यामभिहितमुपायमङ्गीकृत्य दध्यङ् ऋषिस्ताभ्यामश्विभ्यां विद्यामुपदिदिक्षुः सन्स्वसमीपं प्रापितवानित्यादिनिरूपणं, दधीचोऽश्विभ्यां मधुविद्यादानम्, इंद्रेण तस्य शिरश्छेदनम्, अश्विभ्यां च पुनस्तस्य स्वयंप्रदर्शितोपायेन शिरःसन्धानकरणं चेत्यादिप्रदर्शनम्, उक्तेऽर्थे कस्यचिन्मन्त्रस्य संवादप्रदर्शनम्, एतत्प्रवर्ग्याख्यं मधु साधारण्येन सर्वेषां नोपदेष्टव्यं किन्तु ज्ञातप्रियानूचानेभ्य एवेति नियमप्रतिपादनं, तथा ये पूर्वोक्ता उपदेशार्हाः शिष्यास्तेभ्योऽपि झठिति एषा मधुविद्या नोपदेष्टव्या किन्तु संवत्सरपर्यन्तं संवासोत्तरमेवेति नियमान्तरप्रतिपादनं, वक्ष्यमाणस्य मधुविद्याध्ययनव्रतस्य कालमाननिरूपणं, सोपपत्तिकमुक्तव्रतस्यानुष्ठेयस्वरूपनिरूपणम्, एतस्य प्रवर्ग्याख्यस्य कर्मणो यशोरूपेण प्रशंसनं, तत्र यशोरूपस्यादित्यात्मकस्य प्रवर्ग्यस्य सम्बन्धाद्यज्ञादिदक्षिणापर्यन्तानां वक्ष्यमाणानां यशस्वित्वप्रतिपादनं, प्रसङ्गाद्दक्षिणाविषये प्रतिग्रहीतुः कस्यचन विशेषनियमस्य प्रदर्शनम्, एतस्य प्रवर्ग्यस्यानुष्ठानकाले क्रतुनियमविशेषस्य विधानम्, आसुरेराचार्यस्य मतेनैकमेव सत्यवदनात्मकं दुष्करं व्रतं कर्तव्यमित्यभिधानं चेत्यादि.


ब्राह्मण २

२ महावीरादिप्रवर्ग्यपात्रसम्भारब्राह्मणम्-तत्र प्रथमं महावीरादीनि मृन्मयानि पात्राणि निर्मातुं मृद्वल्मीकवपादीनां सम्भरणानां विधानम् , तत्राप्यादौ तेषां सम्भारसंज्ञाया निर्वचनं, तच्च सम्भरणमुत्तरत आस्तृते प्राचीनग्रीवे कृष्णाजिने, तत्रापि लोमवद्भागे विधेयमिति सार्थवादं विधानं, तत्राभ्रिरूपं साधनं विधाय तस्य प्रशंसनं, तस्या अभ्रेः प्रकृतिभूतमौदुम्बरवृक्षं विधाय तस्य प्रशंसनं, विकल्पेनाभ्रेः प्रकृतिभूतं विकङ्कतरूपं वृक्षान्तरं विधाय तस्योत्पत्तेरभिधानपूर्वकं प्रशंसनं, सा चाभ्रिररत्निमात्री भवतीति तस्याः परिमाणं विधाय तस्य प्रशंसनं, ततः सम्भारानाहर्तुं तस्याः समन्त्रकं स्तावकार्थवादातिदेशसहितमाहरणविधानम् , तामभ्रिं सव्ये हस्ते कृत्वा दक्षिणेन हस्तेनाभिमृश्य " युञ्जते मनः" इतीमं मन्त्रं जपतीति स्तावकार्थवादातिदेशसहितं विधानं, तयाऽभ्र्या खातां जलेनासिक्तां मृदं समन्त्रकमाहृत्योत्तरत आस्तृते कृष्णाजिने निदधातीति सप्रकारकं विधाय मृदाहरणमन्त्रं भागशोऽनूद्य च तस्य व्याख्यानं, मृत्सम्भरणानंतरं वल्मीकवपायाः समंत्रकं सम्भरणविधानं तस्य मन्त्रस्य, भागशोऽनूद्य व्याख्यानं स्तावकार्थवादातिदेशकथनं च, ततो वराहेण खातस्य मृत्पिण्डस्य समन्त्रकं सम्भरणविधानं, तस्य मन्त्रस्य भागशोऽनूद्य व्याख्यानं स्तावकार्थवादातिदेशकथनं च, ततः पूतिकरससम्भाराहरणं समन्त्रकं पूतिकादारशब्दयोर्निर्वचनसहितं च विधाय तस्य मन्त्रस्याभिप्रायकथनं स्तावकार्थवादातिदेशकथनं च, ततोऽजाक्षीरसम्भरणं समंत्रकं विधाय छिन्नशिरस्कस्य यज्ञस्याजाक्षीरस्य च परस्परसम्बन्धार्थतामुपपाद्य च स्तावकार्थवादातिदेशकथनम्, एतेषां विहितानां मृदादिपञ्चसम्भाराणां संहत्य प्रशंसनं, तत एकस्मिन्कृष्णाजिने सम्भृतानां पञ्चानामपि सम्भाराणां स्तावकार्थवादातिदेशसहितं समन्त्रकमभिमर्शनविधानं, महावीरादिनिर्माणाय देवयजनस्योत्तरतः परिश्रितं विधाय तत्र सम्भृतसम्भारानादाय गच्छन्तः " प्रैतु ब्रह्मणस्पतिः ” इतीमं मन्त्रं जपन्तीति च विधाय तस्य मन्त्रस्य व्याख्यानम्, उत्तरतो विहितं परिश्रितमनूद्य तस्योपपादनम, एवमानीतं सम्भारजातं तस्मिन्परिश्रिते खरे निदध्यादिति स्तावकार्थवादातिदेशसहितं समन्त्रकं विधानं, तेषां कृष्णाजिनस्थानां सम्भाराणां स्तावकार्थवादातिदेशसहितं समन्त्रकं संसर्जनविधानं, तया संसृष्टया मृदा महावीरकरणस्य विशिष्टलक्षणाभिधानपुरःसरं विधानम्, एवमुक्तलक्षणसम्पन्नं महावीरं कृत्वा तस्य समन्त्रकमभिमर्शनविधानम् , एतत्प्रकारेणैवान्यावपि द्वौ महावीरौ कर्तव्यावित्यभिधायैतयैव मृदा द्वयोः पिन्वनयोर्द्वयो रौहिणकपालयोश्च तूष्णींकरणविधानं, यदेतत्समन्त्रकं महावीरनिर्माणममन्त्रकं पिन्वनादिनिर्माणं चोक्तं तदुभयस्यापि संहत्य प्रशंसनम् , अवशिष्टस्य मृत्पिण्डस्य परित्यागप्रसक्तिं वारयित्वा प्रायश्चित्तार्थं धारणविधानं, प्रथममहावीरस्य समन्त्रकं स्तावकार्थवादातिदेशसहितमितरयोर्महावीरयोः पिन्वनयो रौहिणकपालयोश्चामन्त्रकं गवेधुकाभिः श्लक्ष्णीकरणविधानं, प्रथममहावीरस्य समन्त्रकं सार्थवादं स्तावकार्थवादातिदेशसहितं चेतरयोर्महावीरयोः पिन्वनयो रौहिणकपालयोश्चामन्त्रकमश्वशकृता धूपनकरणविधानम्, एतेषां महावीरादीनां श्रपणं विधाय पचनद्रव्याणां विधानम् , विहिते पचने पचनप्रकारकथनपूर्वकं मन्त्रं विनियुज्य तत्स्तावकार्थवादातिदेशकथनम् , इतरयोर्महावीरयोः पिन्वनयो रौहिणकपालयोश्च प्रथममहावीरवच्छ्रपणस्यामन्त्रकं विधानम्, एतेषामावापोद्धरणयोः कालविशेषस्य निरूपणं, महावीरत्रयस्योद्वपने क्रमेण मन्त्रत्रयं विनियुज्योद्वपनक्रियायां मन्त्रसङ्गतेरुपपादनं, पिन्वनयो रौहिणकपालयोश्च तूष्णीमुद्वपनविधानं, प्रथममहावीरस्यावापादुद्धृतस्याजाक्षीरेणासेचनस्य समन्त्रकं तत्स्तावकार्थवादातिदेशसहितं विधानम् , आवापादुद्धृतयोरितरयोर्महावीरयोः पिन्वनयो रौहिणकपालयोश्च तूष्णीमजाक्षीरेणासेचनस्य विधानं, प्रथमप्रवर्ग्यसृष्टिप्रतिपादकब्राह्मणस्यावसाने निरूपिताया व्रतचर्याया अत्राप्यतिदेशकरणं चेत्यादि.


ब्राह्मण ३

३ घर्मसन्दीपनं ब्राह्मण-तत्र प्रथमं अस्य च प्रवर्ग्यस्यानारभ्याधीतत्वेन स्वातन्त्र्यमाशंक्य क्रतुप्रवेशस्य प्रतिपादनं, तत्र सप्रवर्ग्ये क्रतौ आतिथ्येष्ट्यनंतरमुपसदः पुरा प्रवर्ग्यानुष्ठानकाल इति प्रतिपादनं, ततस्तावदसंस्कृतानां पात्राणां यागानर्हत्वात्तत्संस्काराय द्वन्द्वशः पात्रासादनस्य सार्थवादं विधानं, ततोऽध्वर्युः प्रोक्षणीः संस्कृत्यादायोपोत्तिष्ठन् "ब्रह्मन्प्रचरिष्यामः होतरभिष्टुहि" इति प्रैषद्वयं ब्रूयादिति विधाय तस्य प्रैषद्वयस्याभिप्रायकथनम् , एवमध्वर्युणा प्रार्थितस्य होतुरभिष्टवस्य प्रतिपदं तात्पयार्थकथनपुरःसरं तत्सा• धनभूतर्क्सङ्घगतप्रथमर्चः प्रतीकप्रदर्शनेनाभिधानं, स्तावकार्थवादातिदेशसहितमासादितानां पात्राणां प्रोक्षणविधानं, विहितं प्रोक्षणमनूद्य तत्र महावीरत्रयस्य प्रोक्षणे क्रमेण मन्त्रत्रयं विनियुज्य तस्य व्याख्यानं, घर्मदुहो धेनोर्बन्धनाय स्थूणानिखननस्य सविशेषं विधानम्, आसादितायाः सम्राडासन्द्या देशविशेषे स्थापनविधानम् , एतस्याः सम्राडासन्द्याः सार्थवादं वृक्षविशेषोच्छ्रायपरिमाणावयनानां विधानं, राजासन्द्या उत्तरतः सम्राडासन्द्याः स्थापनस्य प्रकारद्वयेन प्रशंसनं, प्रचरणीयस्य महावीरस्य कालविशेषनिर्देशपुरःसरं समन्त्रकं घृतेन समञ्जनं विधाय तस्य मन्त्रस्य व्याख्यानं, गार्हपत्यस्योत्तरत उपक्षिप्ते प्रवृञ्जनार्थे सैकते खरे रजतशतमानरुक्मप्रक्षेपस्य सप्रयोजनं सोपपत्तिकं समन्त्रकं विधानं, होत्रा " संसीदस्व" इत्युच्यमाने मुञ्जप्रलवान्द्विगुणानादीप्याध्वर्युः प्रतिदिशं खरे कुर्यादिति सोपपत्तिकं सार्थवादं विधानम्, आदीपनप्रभृति प्रवृञ्जनसमये पत्नीमुखवेष्टनस्य सप्रयोजनमभिधानं, मुञ्जप्रलवेषु विहितं प्रवृञ्जनार्थं महावीरासादनमनूद्य तत्र मन्त्रं विधाय च तत्प्रशंसनं, वक्ष्यमाणं पृथिवीसम्बन्धि यदाशी:प्रतिपादनं तत्सर्वं यज्ञस्यैवेति निरूपणं, महावीरस्य समन्ताच्चतुर्दिक्षूपरिष्टाद्दिशि चैवं पञ्चसु दिक्षु प्रादेशं धारयन्तं यजमानं पृथिवीदेवत्यान्याशिषः प्रतिपादकानि यजूंषि वाचयेदध्वर्युरिति विधाय क्रमेण तत्तद्दिक्सम्बद्धं मन्त्रं त्रेधा विभज्य च तस्य तस्य मन्त्रस्य भागशो व्याख्यानं, महावीरस्य दक्षिणदेशे उत्तानेन पाणिना निह्नवकरणस्य मन्त्रतदर्थविवरणसहितं विधानं, महावीरस्योत्तरदेशे वर्तमानां भूमिमभिमृश्य " मनोरश्वाऽसि " इतीमं मन्त्रं जपेदिति सोपपत्तिकं विधानं, महावीरस्य त्रयोदशभिर्वैकङ्कतसमिद्भिः परिश्रयणं विधातुं पूर्वं तासु द्वाभ्यां समिद्भ्यां समन्त्रकाभ्यां प्रथमं परिश्रयणं कार्यमिति प्रतिपादनम्, अवशिष्टाभिः समिद्भिः परिश्रयणं तूष्णीं कार्यमिति सप्रकारकमभिधानम् , तस्यैतस्य त्रयोदशत्वसम्पादनस्य प्रशंसनपूर्वकं निगमनम् , महावीरस्योपरिष्टात्सुवर्णशतमानस्य रुक्मस्य सार्थवादं सप्रयोजनं समन्त्रकं स्थापन विधानम् , ततोऽध्वर्युर्धवित्रैर्महावीरं त्रिराधुनोतीति समन्त्रकं सार्थवादं विधानम् , तत्रैकं धवित्रं प्रतिप्रस्थात्र एकमग्नीधे दत्त्वैकं च स्वयं गृहीत्वाऽध्वर्युस्ताभ्यां सहाप्रदक्षिणं परिक्रामन् त्रिराधुनोतीति सार्थवादं विधानम् , पुनस्त्रिः प्रदक्षिणं परिक्रामद्भिस्तैराधूननं कार्यमिति सार्थवादं विधानम् , रौहिणपुरोडाशयोः श्रपणविधानम् , उपरि निहितस्य सुवर्णशतमानस्यादानविधानम्, एवं धवित्रैराधूननेन सन्तापितस्य घर्मस्य वेदनार्थं कालविशेषे कञ्चित्प्रैषमन्त्रं ब्रूयादिति धर्मविशेषसहित सप्रकारकं सार्थवादं विधानम् , प्रथमप्रवर्ग्यसृष्टिप्रतिपादकब्राह्मणस्यावसाने निरूपिताया व्रतचर्याया अत्राप्यतिदेशकरणं चेत्यादि.


ब्राह्मण ४

४ प्रवर्ग्येऽवकाशोपस्थानं ब्राह्मणम् -- तत्र प्रथममध्वर्युणा " रुचितो घर्मः " इति प्रेषिते प्रवर्ग्यकर्तार ऋत्विज आसनादुत्थायावकाशाख्यैर्मन्त्रैर्घर्ममुपतिष्ठन्त इति विधानम् , उपस्थातॄणां संख्यामुपजीव्य प्रशंसनम् , तेषामवकाशमन्त्राणां वाक्यशोऽनूद्य व्याख्यानम् , ततः पत्न्याः शिरोऽपावृत्य महावीरमीक्षमाणां तां " त्वष्टृमन्तस्त्वा" इत्येनामृचं वाचयतीति सार्थवादं विधानम् , प्रथमप्रवर्यसृष्टिप्रतिपादकब्राह्मणस्यावसाने निरूपिताया व्रतचर्याया अत्राप्यतिदेशकरणं चेत्यादि.