शतपथब्राह्मणम्/काण्डम् १४/अध्यायः १/ब्राह्मण ४

विकिस्रोतः तः
Jump to navigation Jump to search

प्रवर्ग्येऽवकाशोपस्थानं ब्राह्मणम्

स यदैतदध्वर्युः उपोत्तिष्ठन्नाह रुचितो घर्म इति। तदुपोत्थायावकाशैरुपतिष्ठन्ते प्राणा वा अवकाशाः प्राणानेवास्मिन्नेतद्दधाति षडुपतिष्ठन्ते षड्वा इमे शीर्षन्प्राणास्तानेवास्मिन्नेतद्दधाति - १४.१.४.[१]

गर्भो देवानामिति। एष वै गर्भो देवानां य एष तपत्येष हीदं सर्वं गृह्णात्येतेनेदं सर्वं गृभीतमेष उ प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मादाह गर्भो देवानामिति - १४.१.४.[२]

पिता मतीनामिति। पिता ह्येष मतीनां पतिः प्रजानामिति पतिर्ह्येष प्रजानाम् - १४.१.४.[३]

सं देवो देवेन सवित्रा गतेति। सं हि देवो देवेन सवित्रा गत। सं सूर्येण रोचत इति सं
हि सूर्येण रोचते - १४.१.४.[४]

समग्निरग्निनागतेति। सं ह्यग्निरग्निनागत सं दैवेन सवित्रेति सं हि दैवेन सवित्रा गत सं सूर्येणारोचिष्टेति सं हि सूर्येणारोचिष्ट - १४.१.४.[५]

स्वाहा समग्निस्तपसागतेति। सं ह्यग्निस्तपसा गताऽवरं स्वाहाकारं करोति परां देवतामसावेव बन्धुः सं दैव्येन सवित्रेति सं हि दैव्येन सवित्रा गत सं सूर्येणारूरुचतेति सं हि सूर्येणारूरुचत - १४.१.४.[६]

ते वा एते त्रयोऽवकाशा भवन्ति त्रयो वै प्राणाः प्राण उदानो व्यानस्तेनैवास्मिन्नेतद्दधाति - १४.१.४.[७]

धर्ता दिवो विभाति तपसस्पृथिव्यामिति। धर्ता ह्येष दिवो विभाति तपसस्पृथिव्यां
धर्ता देवो देवानाममर्त्यस्तपोजा इति धर्ता ह्येष देवो देवानाममर्त्यस्तपोजा वाचमस्मे नियच्छ देवायुवमिति यज्ञो वै वाग्यज्ञमस्मभ्यं प्रयच्छ येन देवान्प्रीणामेत्येवैतदाह - १४.१.४.[८]

अपश्यं गोपामनिपद्यमानमिति। एष वै गोपा य एष तपत्येष हीदं सर्वं गोपायत्यथो न निपद्यते तस्मादाहापश्यं गोपामनिपद्यमानमिति - १४.१.४.[९]

आ च परा च पथिभिश्चरन्तमिति। आ च ह्येष परा च देवैः पथिभिश्चरति स सध्रीचीः स विषूचीर्वसान इति सध्रीचीश्च ह्येष विषूचीश्च दिशो वस्तेऽथो रश्मीनावरीवर्त्ति भुवनेष्वन्तरिति पुनः पुनर्ह्येष एषु लोकेषु वरीवर्त्यमानश्चरति - १४.१.४.[१०]

विश्वासां भुवां पते। विश्वस्य मनसस्पते विश्वस्य वचसस्पते सर्वस्य वचसस्पत इत्येतस्य सर्वस्य पत इत्येतद्देवश्रुत्त्वं देव धर्म देवो देवान्पाहीति नात्र तिरोहितमिवास्ति - १४.१.४.[११]

अत्र प्रावीरनु वां देववीतय इति। अश्विनावेवैतदाहाश्विनौ वा एतद्यज्ञस्य शिरः प्रत्यधत्तां तावेवैतत्प्रीणाति तस्मादाहात्र प्रावीरनु वां देववीतय इति - १४.१.४.[१२]

मधु माध्वीभ्यां मधु माधूचीभ्यामिति। दध्यङ्ह वा आभ्यामाथर्वणो मधु नाम ब्राह्मणमुवाच तदेनयोः प्रियं धाम तदेवैनयोरेतेनोपगच्छति तस्मादाह मधु माध्वीभ्यां मधु माधूचीभ्यामिति - १४.१.४.[१३]

हृदे त्वा मनसे त्वा दिवे त्वा सूर्याय त्वा। ऊर्ध्वो अध्वरं दिवि देवेषु धेहीति नात्र
तिरोहितमिवास्ति - १४.१.४.[१४]

पिता नोऽसि पिता नो बोधीति। एष वै पिता य एष तपत्येष उ प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मादाह पिता नोऽसि पिता नो बोधीति नमस्ते अस्तु
मा मा हिंसीरित्याशिषमेवैतदाशास्ते - १४.१.४.[१५]

अथ पत्न्यै शिरोऽपावृत्य। महावीरमीक्षमाणां वाचयति त्वष्टृमन्तस्त्वा सपेमेति वृषा वै प्रवर्ग्यो योषा पत्नी मिथुनमेवैतत्प्रजननं क्रियते - १४.१.४.[१६]

अथैतद्वै। आयुरेत्ज्ज्योतिः प्रविशति य एऽतमनु वा ब्रूते भक्षयति वा तस्य व्रतचर्या या सृष्टौ - १४.१.४.[१७]