ऋग्वेदः सूक्तं २.३०

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं २.२९ ऋग्वेदः - मण्डल २
सूक्तं २.३०
गृत्समद (आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः
सूक्तं २.३१ →
दे. इन्द्रः, ६ इन्द्रासोमौ,८ (पूर्वाऽर्धर्चस्य) सरस्वती, ९ बृहस्पतिः, ११ मरुतः। त्रिष्टुप्, ११ जगती


ऋतं देवाय कृण्वते सवित्र इन्द्रायाहिघ्ने न रमन्त आपः ।
अहरहर्यात्यक्तुरपां कियात्या प्रथमः सर्ग आसाम् ॥१॥
यो वृत्राय सिनमत्राभरिष्यत्प्र तं जनित्री विदुष उवाच ।
पथो रदन्तीरनु जोषमस्मै दिवेदिवे धुनयो यन्त्यर्थम् ॥२॥
ऊर्ध्वो ह्यस्थादध्यन्तरिक्षेऽधा वृत्राय प्र वधं जभार ।
मिहं वसान उप हीमदुद्रोत्तिग्मायुधो अजयच्छत्रुमिन्द्रः ॥३॥
बृहस्पते तपुषाश्नेव विध्य वृकद्वरसो असुरस्य वीरान् ।
यथा जघन्थ धृषता पुरा चिदेवा जहि शत्रुमस्माकमिन्द्र ॥४॥
अव क्षिप दिवो अश्मानमुच्चा येन शत्रुं मन्दसानो निजूर्वाः ।
तोकस्य सातौ तनयस्य भूरेरस्माँ अर्धं कृणुतादिन्द्र गोनाम् ॥५॥
प्र हि क्रतुं वृहथो यं वनुथो रध्रस्य स्थो यजमानस्य चोदौ ।
इन्द्रासोमा युवमस्माँ अविष्टमस्मिन्भयस्थे कृणुतमु लोकम् ॥६॥
न मा तमन्न श्रमन्नोत तन्द्रन्न वोचाम मा सुनोतेति सोमम् ।
यो मे पृणाद्यो ददद्यो निबोधाद्यो मा सुन्वन्तमुप गोभिरायत् ॥७॥
सरस्वति त्वमस्माँ अविड्ढि मरुत्वती धृषती जेषि शत्रून् ।
त्यं चिच्छर्धन्तं तविषीयमाणमिन्द्रो हन्ति वृषभं शण्डिकानाम् ॥८॥
यो नः सनुत्य उत वा जिघत्नुरभिख्याय तं तिगितेन विध्य ।
बृहस्पत आयुधैर्जेषि शत्रून्द्रुहे रीषन्तं परि धेहि राजन् ॥९॥
अस्माकेभिः सत्वभिः शूर शूरैर्वीर्या कृधि यानि ते कर्त्वानि ।
ज्योगभूवन्ननुधूपितासो हत्वी तेषामा भरा नो वसूनि ॥१०॥
तं वः शर्धं मारुतं सुम्नयुर्गिरोप ब्रुवे नमसा दैव्यं जनम् ।
यथा रयिं सर्ववीरं नशामहा अपत्यसाचं श्रुत्यं दिवेदिवे ॥११॥



सायणभाष्यम्

' ऋतं देवाय ' इत्येकादशर्चमष्टमं सूक्तं गार्त्समदम् । अन्त्या जगती शिष्टास्त्रिष्टुभः । ' प्र हि क्रतुम् ' इत्येषा इन्द्रासोमदेवताका । ' सरस्वति त्वमस्मान् ' इत्यर्धर्चः सारस्वतः । ' यो नः सनुत्यः ' इत्येषा बार्हस्पत्या । अन्त्या मारुती । शिष्टा ऐन्द्र्यः । तथा चानुक्रान्तम्-' ऋतमेकादश जगत्यन्तं षष्ठ्यैन्द्रासोमी सरस्वति त्वमिति सारस्वतोऽर्धर्चो यो नो बृहस्पतिस्तं वोऽन्त्या मारुती ' इति । गतो विनियोगः।।


ऋ॒तं दे॒वाय॑ कृण्व॒ते स॑वि॒त्र इन्द्रा॑याहि॒घ्ने न र॑मन्त॒ आपः॑ ।

अह॑रहर्यात्य॒क्तुर॒पां किया॒त्या प्र॑थ॒मः सर्ग॑ आसाम् ॥१

ऋ॒तम् । दे॒वाय॑ । कृ॒ण्व॒ते । स॒वि॒त्रे । इन्द्रा॑य । अ॒हि॒ऽघ्ने । न । र॒म॒न्ते॒ । आपः॑ ।

अहः॑ऽअहः । या॒ति॒ । अ॒क्तुः । अ॒पाम् । किय॑ति । आ । प्र॒थ॒मः । सर्गः॑ । आ॒सा॒म् ॥१

ऋतं । देवाय। कृण्वते । सवित्रे। इंद्राय । अहिऽघ्ने। न। रमंते । आपः । ।

अहःऽअहः । याति । अक्तुः । अपां। कियति । आ। प्रथमः । सर्गः । आसां ॥१॥

ऋतमुदकं वृष्टिलक्षणं कृण्वते कुर्वते देवाय द्योतमानाय सवित्रे सर्वस्य प्रेरकायाहिघ्नेऽहिं वृत्रं हतवत इंद्राय यागार्थमापो न रमंते । तस्माद्धेतोर्भीत्या नोपरता भवंति । तस्माद्व्यत्ययेन चतुर्थी । अपि तु तासामपामक्तुः सेचक स्रोतो ऽहरहः प्रत्यहं याति । गच्छति । आसां प्रथमः सर्गः प्राथमिकं जन्म कियात्या । कियति काले निष्पन्नं । आकारः प्रश्ने । किंशब्द आक्षेपे । यावति काले ता अजायंत स कालः कियान् । किं परिमाणं तस्य कालस्य । न किमपि । नित्या एव हि ता इत्यर्थः ।


यो वृ॒त्राय॒ सिन॒मत्राभ॑रिष्य॒त्प्र तं जनि॑त्री वि॒दुष॑ उवाच ।

प॒थो रद॑न्ती॒रनु॒ जोष॑मस्मै दि॒वेदि॑वे॒ धुन॑यो य॒न्त्यर्थ॑म् ॥२

यः । वृ॒त्राय॑ । सिन॑म् । अत्र॑ । अभ॑रिष्यत् । प्र । तम् । जनि॑त्री । वि॒दुषे॑ । उ॒वा॒च॒ ।

प॒थः । रद॑न्तीः । अनु॑ । जोष॑म् । अ॒स्मै॒ । दि॒वेऽदि॑वे । धुन॑यः । य॒न्ति॒ । अर्थ॑म् ॥२

यः । वृत्रायं । सिनं । अत्र । अभरिष्यत् । प्र। तं । जनित्री। विदुषे । उवाच ।।

पथः । रदंतीः । अनु। जोषं । अस्मै। दिवेऽदिवे। धुनयः । यंति। अर्थं ॥२॥

यः पुरुषो वृत्रायासुराय सिनमन्नमत्र पाकस्थान आहर्तुमभरिष्यत् संपादितवान् तं पुरुषं जनित्री जनयित्रींद्रस्य मातादितिर्विदुषेऽभिज्ञायेंद्राय प्रोवाच । प्रोक्तवती । प्रवचनस्य हननार्थत्वात् तं वृत्रं हतवानिति शेषः । अपि चास्मा अस्येंद्रस्यानुजोषमनुकाममिच्छामनुसृत्य पथो मार्गान् रदंतीर्विलिखंत्यो धुनयो नद्यो दिवेदिवे प्रतिदिवसमर्थमर्तव्यं गंतव्यं समुद्रं प्रति यंति। गच्छंति ॥


ऊ॒र्ध्वो ह्यस्था॒दध्य॒न्तरि॒क्षेऽधा॑ वृ॒त्राय॒ प्र व॒धं ज॑भार ।

मिहं॒ वसा॑न॒ उप॒ हीमदु॑द्रोत्ति॒ग्मायु॑धो अजय॒च्छत्रु॒मिन्द्रः॑ ॥३

ऊ॒र्ध्वः । हि । अस्था॑त् । अधि॑ । अ॒न्तरि॑क्षे । अध॑ । वृ॒त्राय॑ । प्र । व॒धम् । ज॒भा॒र॒ ।

मिह॑म् । वसा॑नः । उप॑ । हि । ई॒म् । अदु॑द्रोत् । ति॒ग्मऽआ॑युधः । अ॒ज॒य॒त् । शत्रु॑म् । इन्द्रः॑ ॥३

ऊर्ध्वः । हि। अस्थात् । अधि। अंतरिक्षे । अध । वृत्राय । प्र। वधं । जभार ।

मिहं। वसीनः । उप। हि। ईं। अदुद्रोत्। तिग्मऽआयुधः । अजयत्। शत्रुं। इंद्रः ॥३॥

हिर्हेतौ । यस्मादयं वृत्रोंऽतरिक्ष ऊर्ध्वः सन् सर्वमावृत्याध्यस्थात् । अधिष्ठितोऽभूत् । अध अतः कारणात् वृत्राय वृत्रं प्रति वधं हननसाधनं वज्रमिंद्रः प्रजभार । प्रचिक्षेप ॥ हृग्रहोर्भः ॥ स हि स खलु वृत्रो मिहं वृष्टेः सेक्तारं मेघं वसान आच्छादयन् ईमेनमिंद्रमुपादुद्रोत्। उपागमत् ॥ दु द्रु गतौ । लङि छांदसः शपः श्लुः ॥ तिग्मायुधस्तीक्ष्णायुध इंद्रः शत्रु शातयितारं तं वृत्रमजयत् । जितवान् । बृहस्पते तपुषानेव विध्य वृकंड्रसो असुरस्य वीरान् ।। य जघंर्थ धृषता पुरा चिदेवा जहि शत्रुमस्माकमिंद्र ॥४॥


बृह॑स्पते॒ तपु॒षाश्ने॑व विध्य॒ वृक॑द्वरसो॒ असु॑रस्य वी॒रान् ।

यथा॑ ज॒घन्थ॑ धृष॒ता पु॒रा चि॑दे॒वा ज॑हि॒ शत्रु॑म॒स्माक॑मिन्द्र ॥४

बृह॑स्पते । तपु॑षा । अश्ना॑ऽइव । वि॒ध्य॒ । वृक॑ऽद्वरसः । असु॑रस्य । वी॒रान् ।

यथा॑ । ज॒घन्थ॑ । धृ॒ष॒ता । पु॒रा । चि॒त् । ए॒व । ज॒हि॒ । शत्रु॑म् । अ॒स्माक॑म् । इ॒न्द्र॒ ॥४

बृहस्पते । तपुषा । अश्नाऽइव । विध्य। वृकऽद्वरसः । असुरस्य । वीरान्।।

यथा जघंथ । धृषता। पुरा। चित् । एव। जहि। शत्रुं। अस्माकं । इंद्र ॥४॥

हे बृहस्पते बृहतां परिवृढानां पालयितरिंद्र तपुषा तापकेन दीप्तेन वज्रेणाश्नेव अशन्येव वृकद्वरसः संवृतद्वारस्यासुरस्य वीरान् पुत्रान् । यदा संवृतद्वारानसुरस्य वीरान् विध्य । ताडय ॥ वृणोतेः सृवृभूशुषिमुषिभ्यः किदिति कर्मणि कन्प्रत्ययः । द्रु गतौ । अस्मादौणादिकोऽसन्प्रत्ययः । वृकाणि संवृतानि द्वरांसि द्वाराणि येषां । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं ॥ हे इंद्र पुरा चित् पुरापि धृषता धर्षकेण बलेन यथा जघंथ त्वं हतवान् एवैवमेवास्माकं शत्रुं जहि । नाशय ॥ हंतेर्ज इति हो जादेशः ।


अव॑ क्षिप दि॒वो अश्मा॑नमु॒च्चा येन॒ शत्रुं॑ मन्दसा॒नो नि॒जूर्वाः॑ ।

तो॒कस्य॑ सा॒तौ तन॑यस्य॒ भूरे॑र॒स्माँ अ॒र्धं कृ॑णुतादिन्द्र॒ गोना॑म् ॥५

अव॑ । क्षि॒प॒ । दि॒वः । अश्मा॑नम् । उ॒च्चा । येन॑ । शत्रु॑म् । म॒न्द॒सा॒नः । नि॒ऽजूर्वाः॑ ।

तो॒कस्य॑ । सा॒तौ । तन॑यस्य । भूरेः॑ । अ॒स्मान् । अ॒र्धम् । कृ॒णु॒ता॒त् । इ॒न्द्र॒ । गोना॑म् ॥५

अव। क्षिप। दिवः । अश्मानं। उच्चा। येन। शत्रुं। मंदसानः । निऽजूर्वाः ।।

तोकस्य । सातौ। तनयस्य । भूरेः। अस्मान्। अर्धं। कृणुतात्। इंद्र। गोनां ॥५॥

हे इंद्र दिवो नभसः सकाशादश्मानमश्मवत्कठिनं वज्रमुच्चा उच्चैर्वर्तमानस्त्वमवक्षिप । अस्मदीयान् शत्रूनुद्दिश्यावस्तात्क्षिप । येन वज्रेण मंदसानः स्तोतृभिः स्तूयमानः सन् शत्रुं निजूर्वाः । न्यहिंसीः ॥ जुर्वी हिंसार्थः । लेट्यडागमः । तथा तोकस्य भूरेर्भर्तव्यस्य तनयस्य पौत्रस्य सातौ संभजने ॥ निमित्ते सप्तम्येषा ॥ संभजनार्थं । तथा हे इंद्र गोनां गवां संभजनार्थं चास्मान् अस्माकं । विभक्तिव्यत्ययः ॥ अर्धं समृद्धिं कृणुतात् । कुरु ॥ गोः पादांत इति गोशब्दस्यामो नुडागमः ॥ ॥१२॥


प्र हि क्रतुं॑ वृ॒हथो॒ यं व॑नु॒थो र॒ध्रस्य॑ स्थो॒ यज॑मानस्य चो॒दौ ।

इन्द्रा॑सोमा यु॒वम॒स्माँ अ॑विष्टम॒स्मिन्भ॒यस्थे॑ कृणुतमु लो॒कम् ॥६

प्र । हि । क्रतु॑म् । वृ॒हथः॑ । यम् । व॒नु॒थः । र॒ध्रस्य॑ । स्थः॒ । यज॑मानस्य । चो॒दौ ।

इन्द्रा॑सोमा । यु॒वम् । अ॒स्मान् । अ॒वि॒ष्ट॒म् । अ॒स्मिन् । भ॒यऽस्थे॑ । कृ॒णु॒त॒म् । ऊं॒ इति॑ । लो॒कम् ॥६

प्र। हि। क्रतुं । वृहथः । यं । वनुथः । रध्रस्य । स्थः । यजमानस्य। चोदौ।।

इंद्रासोमा। युवं । अस्मान्। अविष्टं । अस्मिन्।भयऽस्थे। कृणुतं।ऊं इति। लोकं ॥६॥

हे इंद्रासोमौ यं वैरिणं वनुथो हिंसथः ॥ वनुष्यतिर्हंतिकर्मेति यास्कः ॥ तं क्रतुं द्वेषस्य कर्तारं प्र हि वृहथः । प्रकर्षेणोद्यच्छथः खलु । उन्मूलयथ इत्यर्थः । वृह्व उद्यमने तौदादिकः । तथा रध्रस्य राधकस्य यजमानस्य चोदौ शत्रूणां प्रेरकौ स्थः । भवथः । तथा हे इंद्रासोमौ युवं युवामस्मानविष्टं । अवतं । अस्मिन्भयस्थे भयस्थाने युद्धे ॥ घञर्थे कविधानमित्यधिकरणे कप्रत्ययः । मरुद्वृधादित्वात्पूर्वपदांतोदात्तत्वं । तस्मिन्युद्धे लोकं भयरहितं स्थानं कृणुतं । कुरुतं । उ इति पादपूरणः ॥


न मा॑ तम॒न्न श्र॑म॒न्नोत त॑न्द्र॒न्न वो॑चाम॒ मा सु॑नो॒तेति॒ सोम॑म् ।

यो मे॑ पृ॒णाद्यो दद॒द्यो नि॒बोधा॒द्यो मा॑ सु॒न्वन्त॒मुप॒ गोभि॒राय॑त् ॥७

न । मा॒ । त॒म॒त् । न । श्र॒म॒त् । न । उ॒त । त॒न्द्र॒त् । न । वो॒चा॒म॒ । मा । सु॒नो॒त॒ । इति॑ । सोम॑म् ।

यः । मे॒ । पृ॒णात् । यः । दद॑त् । यः । नि॒ऽबोधा॑त् । यः । मा॒ । सु॒न्वन्त॑म् । उप॑ । गोभिः॑ । आ । अय॑त् ॥७

न। मा। तमत्। न। श्रमत्। न। उत। तंद्रत्। न। वोचाम्। मा। सुनोत्। इति । सोमं ।

यः । मे। पृणात् । यः । ददत्। यः । निऽबोधात् । यः । मा। सुन्वंतं। उप। गीर्भिः । आ । अयत् ॥७॥

स इंद्रो मां न तमत् । न तमयतु । न ग्लपयतु । तथा न श्रमत् । श्रांतं मा करोतु । तमु ग्लानौ श्रमु तपसि खेदे च । अनयोहेतुमण्यंतयोर्लेट्यडागमः । छंदस्युभयथेति शप आर्धधातुकत्वास्मेरनिटोति णिलोपः ॥ उत अपि च मां न तंद्रत् । न तंद्रयेत् । तंद्र्यालस्येन युक्तं मा करोतु ॥ तंद्रीशब्दात्तत्करोतीति णिच्। णाविष्ठवत्प्रातिपदिकस्येति टिलोपः । अन्यत् पूर्ववत् ॥ इंद्रयागाय सोमं मा सुनोत माभिषुणुतेत्यन्यान्यजमानान् प्रति न वोचाम । न ब्रवाम ॥ वक्तेश्छांदसो लुङ् । सुनोतेत्यत्र तप्तनप्तनथनाश्चेति तस्य तबादेशः । तस्य पित्त्वेन ङित्त्वाभावाद्गुणः ॥ य इंद्रो मे मम पृणात् कामान् पूरयेत् यश्च ददत् अभीष्टं फलं दद्यात् यश्च निबोधात् अस्मदीयं स्तोत्रं यागं वावगच्छेत् य इंद्रः सुन्वंतं सोममभिषुण्वंतं मामस्मभ्यं दातव्यैर्गोभिः सहोपायत् उपागच्छेत् । स इंद्र इति पूर्वत्रान्वयः ॥ पृणादित्यादिषु लेट्यडागमः ॥


सर॑स्वति॒ त्वम॒स्माँ अ॑विड्ढि म॒रुत्व॑ती धृष॒ती जे॑षि॒ शत्रू॑न् ।

त्यं चि॒च्छर्ध॑न्तं तविषी॒यमा॑ण॒मिन्द्रो॑ हन्ति वृष॒भं शण्डि॑कानाम् ॥८

सर॑स्वति । त्वम् । अ॒स्मान् । अ॒वि॒ड्ढि॒ । म॒रुत्व॑ती । धृ॒ष॒ती । जे॒षि॒ । शत्रू॑न् ।

त्यम् । चि॒त् । शर्ध॑न्तम् । त॒वि॒षी॒ऽयमा॑णम् । इन्द्रः॑ । ह॒न्ति॒ । वृ॒ष॒भम् । शण्डि॑कानाम् ॥८

सरस्वति । त्वं । अस्मान् । अविड्ढि। मरुत्वती । धृषती । जेषि । शत्रून्।

त्यं । चित् । शर्धंतं । तविषीऽयमाणं । इंद्रः । हंति । वृषभं । शंडिकानां ॥८॥

हे सरस्वति सरणवति देवि त्वमस्मान् स्तोतृन् अविड्ढि। रक्ष ॥ रक्षार्थस्यावतेर्लेट्येतद्रूपं ॥ तथा मरुत्वती मरुद्भिर्युक्ता । मध्यमस्थाना हि वाक् सरस्वती मरुतश्च मध्यमस्थानस्थाः । अतस्तद्वती सती धृषती धर्षयंती शत्रून् शातयितॄन् वैरिणो जेषि । जय ॥ जयतेश्छांदसः शपः श्लुः ॥ किंचायमिंद्रस्त्यं चित् तमप्यसुरं हंति । हतवान् । व्यत्ययेन भूतार्थे लट् । कीदृशं । शर्धंतं । प्रसहनशीलं ॥ शृधु प्रसहने ॥ तविषीयमाणं । तविषी बलमिवाचरंतं सर्वस्य भंजने शक्तं । शंडिकानां । शंडामर्कावसुरपुरोहितौ । तै० सं०६. ४. १०.१.। शंडवंश्यानां मध्ये वृषभं प्रधानं ॥


यो न॒ः सनु॑त्य उ॒त वा॑ जिघ॒त्नुर॑भि॒ख्याय॒ तं ति॑गि॒तेन॑ विध्य ।

बृह॑स्पत॒ आयु॑धैर्जेषि॒ शत्रू॑न्द्रु॒हे रीष॑न्तं॒ परि॑ धेहि राजन् ॥९

यः । नः॒ । सनु॑त्यः । उ॒त । वा॒ । जि॒घ॒त्नुः । अ॒भि॒ऽख्याय॑ । तम् । ति॒गि॒तेन॑ । वि॒ध्य॒ ।

बृह॑स्पते । आयु॑धैः । जे॒षि॒ । शत्रू॑न् । द्रु॒हे । रिष॑न्तम् । परि॑ । धे॒हि॒ । रा॒ज॒न् ॥९

यः । नः । सनुत्यः । उत । वा। जिघत्नुः । अभिऽख्याय । तं । तिगितेन । विध्य।

बृहस्पते । आयुधैः । जेषि । शत्रून्। द्रुहे। रिषंतं । परि। धेहि। राजन् ॥९॥

हे बृहस्पते यो नोऽस्माकं सनुत्यः । सनुतरित्यंतर्हितनाम । अंतर्हिते देशे भवश्चोरः ॥ सगर्भसयूथसनुताद्यत् ॥ उत वा अपि वा यो जिघत्नुर्जिघांसुर्भवति । तमभिख्याय संवीक्ष्य तिगितेन तीक्ष्णेनायुधेन विध्य । ताडय । तथास्मदीयान् शत्रून् आयुधैरायोधनसाधनैरिष्वादिभिर्जेषि। जय । तथा हे राजन् राजमान बृहस्पते द्रुहे द्रोग्ध्रे शत्रवे रिषंतं हिंसंतं वज्रं परिधेहि । परितो धारय । प्रक्षिपेत्यर्थः ।।


अ॒स्माके॑भि॒ः सत्व॑भिः शूर॒ शूरै॑र्वी॒र्या॑ कृधि॒ यानि॑ ते॒ कर्त्वा॑नि ।

ज्योग॑भूव॒न्ननु॑धूपितासो ह॒त्वी तेषा॒मा भ॑रा नो॒ वसू॑नि ॥१०

अ॒स्माके॑भिः । सत्व॑ऽभिः । शू॒र॒ । शूरैः॑ । वी॒र्या॑ । कृ॒धि॒ । यानि॑ । ते॒ । कर्त्वा॑नि ।

ज्योक् । अ॒भू॒व॒न् । अनु॑ऽधूपितासः । ह॒त्वी । तेषा॑म् । आ । भ॒र॒ । नः॒ । वसू॑नि ॥१०

अस्माकेभिः । सत्वऽभिः । शूर। शूरैः। वीर्या। कृधि। यानि । ते । कर्त्वानि।

ज्योक्। अभूवन्। अनुऽधूपितासः । हत्वी। तेषां । आ। भर। नः । वसूनि ॥१०॥

हे शूर शौर्यवन्निंद्र अस्माकेभिरास्माकीनैः सत्वभिः परेषां सादकैः शूरैः शीर्योपेतैर्भटैस्तानि वीर्या वीरकर्माणि कृधि कुरु यानि ते त्वया कर्त्वानि करणीयानि । कृत्यार्थे तवैकेनिति करोतेस्त्वन्प्रत्ययः । ज्योक् चिरकालमनुधूपितासो धूपायमानहृदया मदीयाः शत्रवोऽभूवन् । आसन्। हत्वी तान् हत्वा ॥ स्नात्व्यादयश्चेतीकारः । तेषां शत्रूणां वसुनि धनानि नोऽस्मभ्यमाभर । आहर॥


तं व॒ः शर्धं॒ मारु॑तं सुम्न॒युर्गि॒रोप॑ ब्रुवे॒ नम॑सा॒ दैव्यं॒ जन॑म् ।

यथा॑ र॒यिं सर्व॑वीरं॒ नशा॑महा अपत्य॒साचं॒ श्रुत्यं॑ दि॒वेदि॑वे ॥११

तम् । वः॒ । शर्ध॑म् । मारु॑तम् । सु॒म्न॒ऽयुः । गि॒रा । उप॑ । ब्रु॒वे॒ । नम॑सा । दैव्य॑म् । जन॑म् ।

यथा॑ । र॒यिम् । सर्व॑ऽवीरम् । नशा॑महै । अ॒प॒त्य॒ऽसाच॑म् । श्रुत्य॑म् । दि॒वेऽदि॑वे ॥११

तं ।वः । शंर्धं । मारुतं । सुम्नऽयुः । गिरा। उप। ब्रुवे। नर्मसा। दैव्यं। जनं ।

यथा। रयिं । सर्वऽवीरं। नशामहै। अपत्यऽसाचं । श्रुत्यं । दिवेऽदिवे ॥११॥

हे मरुतो वो युष्माकं शर्धं बलं मारुतं मरुत्समूहरूपं दैव्यं देवेनेंद्रेण संबद्धं जनं प्रादुर्भूतं एवंगुणविशिष्टं बलं नमसा नमस्कारेण हविषा वा गिरा स्तोत्रेणोपब्रुवे । स्तौमि । यथा येन प्रकारेण वयं सर्ववीरं सर्वैर्वीरैर्विशेषेण शत्रूणां प्रेरकैर्भटैरुपेतमपत्यसाचमपत्यैरपतनहेतुभूतैः पुत्रादिभिरुपेतं श्रुत्यं श्रवणीयं प्रशस्यभूतं रयिं दिवेदिवे प्रतिदिवसं नशामहै । व्याप्नवाम ॥ नशतिर्व्याप्तिकर्मा । लेट्यडागमः । वैतोऽन्यत्रेत्यैकारः ॥ ॥ १३॥


[सम्पाद्यताम्]

२.३०.९ यो नः इति

धृतव्रता वैश्वदेवम् शतमैन्द्रं परं तु यत् ।

प्र हि क्रतुमिति त्वस्याम् इन्द्रासोमौ सह स्तुतौ ।।८४। ।

सरस्वती त्वमित्यस्मिन्न् अर्धर्चं मध्यमा तु वाक् ।

बृहस्पतिस्तुतिर्यो नस् तं व ऋङ् मरुतां स्तुतिः ।।बृहद्देवता ४.८५।।

मण्डल २

सूक्तं २.१

सूक्तं २.२

सूक्तं २.३

सूक्तं २.४

सूक्तं २.५

सूक्तं २.६

सूक्तं २.७

सूक्तं २.८

सूक्तं २.९

सूक्तं २.१०

सूक्तं २.११

सूक्तं २.१२

सूक्तं २.१३

सूक्तं २.१४

सूक्तं २.१५

सूक्तं २.१६

सूक्तं २.१७

सूक्तं २.१८

सूक्तं २.१९

सूक्तं २.२०

सूक्तं २.२१

सूक्तं २.२२

सूक्तं २.२३

सूक्तं २.२४

सूक्तं २.२५

सूक्तं २.२६

सूक्तं २.२७

सूक्तं २.२८

सूक्तं २.२९

सूक्तं २.३०

सूक्तं २.३१

सूक्तं २.३२

सूक्तं २.३३

सूक्तं २.३४

सूक्तं २.३५

सूक्तं २.३६

सूक्तं २.३७

सूक्तं २.३८

सूक्तं २.३९

सूक्तं २.४०

सूक्तं २.४१

सूक्तं २.४२

सूक्तं २.४३


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_२.३०&oldid=213335" इत्यस्माद् पुनः प्राप्तिः