ऋग्वेदः सूक्तं २.३७

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं २.३६ ऋग्वेदः - मण्डल २
सूक्तं २.३७
गृत्समद (आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः
सूक्तं २.३८ →
दे. ऋतुदेवताः १-४ द्रविणोदा ऋतवश्च, ५ अश्विनौ ऋतवश्च, ६ अग्निः ऋतुश्च। जगती


मन्दस्व होत्रादनु जोषमन्धसोऽध्वर्यवः स पूर्णां वष्ट्यासिचम् ।
तस्मा एतं भरत तद्वशो ददिर्होत्रात्सोमं द्रविणोदः पिब ऋतुभिः ॥१॥
यमु पूर्वमहुवे तमिदं हुवे सेदु हव्यो ददिर्यो नाम पत्यते ।
अध्वर्युभिः प्रस्थितं सोम्यं मधु पोत्रात्सोमं द्रविणोदः पिब ऋतुभिः ॥२॥
मेद्यन्तु ते वह्नयो येभिरीयसेऽरिषण्यन्वीळयस्वा वनस्पते ।
आयूया धृष्णो अभिगूर्या त्वं नेष्ट्रात्सोमं द्रविणोदः पिब ऋतुभिः ॥३॥
अपाद्धोत्रादुत पोत्रादमत्तोत नेष्ट्रादजुषत प्रयो हितम् ।
तुरीयं पात्रममृक्तममर्त्यं द्रविणोदाः पिबतु द्राविणोदसः ॥४॥
अर्वाञ्चमद्य यय्यं नृवाहणं रथं युञ्जाथामिह वां विमोचनम् ।
पृङ्क्तं हवींषि मधुना हि कं गतमथा सोमं पिबतं वाजिनीवसू ॥५॥
जोष्यग्ने समिधं जोष्याहुतिं जोषि ब्रह्म जन्यं जोषि सुष्टुतिम् ।
विश्वेभिर्विश्वाँ ऋतुना वसो मह उशन्देवाँ उशतः पायया हविः ॥६॥

सायणभाष्यम्

।। श्रीगणेशाय नमः ।।

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ।।

अथ द्वितीयाष्टकस्याष्टमोऽध्याय आरभ्यते । द्वितीयमण्डलस्य चतुर्थानुवाके ' मन्दस्व ' इति षडृचं पञ्चमं सूक्तं गार्त्समदम् । ' मन्दस्व ' इत्यनुक्रान्तम् । पूर्वत्र ' ऋतव्यं तु जागतं तु ' इति तुशब्दप्रयोगादिदमपि जागतमृतव्यम् । तत्राद्याश्चतस्र ऋचो द्रविणोदोदेवताकाः पञ्चम्याश्विनी षष्ठ्याग्नेयी । दशरात्रे षष्ठेऽहनि ऋतुयाजेषु प्रैषानृक्शिरस्कान् कृत्वा तैः प्रैषैः प्रेषितव्यं यष्टव्यं च । तत्र सप्तमादीनां प्रैषाणामुपरिष्टात् ' मन्दस्व ' इत्याद्याः षडृचः क्रमेण प्रक्षेपणीयाः । सूत्रं तु पूर्वमेवोदाहृतम् ।।


मन्द॑स्व हो॒त्रादनु॒ जोष॒मन्ध॒सोऽध्व॑र्यव॒ः स पू॒र्णां व॑ष्ट्या॒सिच॑म् ।

तस्मा॑ ए॒तं भ॑रत तद्व॒शो द॒दिर्हो॒त्रात्सोमं॑ द्रविणोद॒ः पिब॑ ऋ॒तुभिः॑ ॥१

मन्द॑स्व । हो॒त्रात् । अनु॑ । जोष॑म् । अन्ध॑सः । अध्व॑र्यवः । सः । पू॒र्णाम् । व॒ष्टि॒ । आ॒ऽसिच॑म् ।

तस्मै॑ । ए॒तम् । भ॒र॒त॒ । त॒त्ऽव॒शः । द॒दिः । हो॒त्रात् । सोम॑म् । द्र॒वि॒णः॒ऽदः॒ । पिब॑ । ऋ॒तुऽभिः॑ ॥१

मंदस्व । होत्रात् । अनु। जोषं। अंधसः। अध्वर्यवः। सः। पूर्णां । वष्टि । आऽसिचं।

तस्मै। एतं।भरत। तत्ऽवशः। ददिः।होत्रात्। सोमं। द्रविणःऽदः। पिब। ऋतुऽभिः॥१॥

हे द्रविणोदो द्रविणसो धनस्य दातरेतन्नामक देव अंधसो देवानामन्नरूपस्य सोमस्य सोमेन होत्रात् होतृकर्तृकाद्यागादनु जोषं प्रीतिमनु मंदस्व । हे अध्वर्यवः स द्रविणोदाः पूर्णां संपूर्णामासिचं सिच्यमानामाहुतिं वष्टि । कामयते । अतस्तस्मै द्रविणोदसेऽग्नये एतं सोमं भरत । प्रापयत । तद्वशस्तत्कामो द्रविणोदा ददिर्दाता युष्माकमभीष्टफलस्य दाता भवतीति शेषः। किंच हे द्रविणोदो होत्रात् होतुर्यागात् ऋतुभिरिषमासाभिमानिभिर्ऋतुदेवैः सह सोमं पिब ॥


यमु॒ पूर्व॒महु॑वे॒ तमि॒दं हु॑वे॒ सेदु॒ हव्यो॑ द॒दिर्यो नाम॒ पत्य॑ते ।

अ॒ध्व॒र्युभि॒ः प्रस्थि॑तं सो॒म्यं मधु॑ पो॒त्रात्सोमं॑ द्रविणोद॒ः पिब॑ ऋ॒तुभिः॑ ॥२

यम् । ऊं॒ इति॑ । पूर्व॑म् । अहु॑वे । तम् । इ॒दम् । हु॒वे॒ । सः । इत् । ऊं॒ इति॑ । हव्यः॑ । द॒दिः । यः । नाम॑ । पत्य॑ते ।

अ॒ध्व॒र्युऽभिः॑ । प्रऽस्थि॑तम् । सो॒म्यम् । मधु॑ । पो॒त्रात् । सोम॑म् । द्र॒वि॒णः॒ऽदः॒ । पिब॑ । ऋ॒तुऽभिः॑ ॥२

यं।ऊं इति। पूर्वं।अहुवे। तं। इदं। हुवे। सः । इत्। ऊं इति। हव्यः। ददिः। यः। नाम। पत्यते।

अध्वर्युऽभिः। प्रऽस्थितं। सोम्यं मधु।पोत्रात्।सोम। द्रविणःऽदः।पिब।ऋतुऽभिः॥२॥

हे द्रविणोदो यमु यं त्वामेव पूर्वं होतृकर्तृके सोमयागेऽहुवे । आहूतवानस्मि इदं संप्रति तं तमेव पोतृकर्तृके सोमयागे हुवे । आह्वयामि। सेत् स एव द्रविणोदा हव्यो ह्वातव्यः ॥ उ इति पूरणे ॥ ददिरभीष्टफलस्य दाता यो नाम यः खलु पत्यते देवतात्वेनेष्टे तस्मै द्रविणोदसे सोम्यं सोमात्मकं मध्वध्वर्युभिः प्रस्थितं प्रणीतमासीत् । हे द्रविणोदः पोत्रात् पोतुर्यागादृतुभिरूर्जसंज्ञकैः सह सोमं पिब ।।


मेद्य॑न्तु ते॒ वह्न॑यो॒ येभि॒रीय॒सेऽरि॑षण्यन्वीळयस्वा वनस्पते ।

आ॒यूया॑ धृष्णो अभि॒गूर्या॒ त्वं ने॒ष्ट्रात्सोमं॑ द्रविणोद॒ः पिब॑ ऋ॒तुभिः॑ ॥३

मेद्य॑न्तु । ते॒ । वह्न॑यः । येभिः॑ । ईय॑से । अरि॑षण्यन् । वी॒ळ॒य॒स्व॒ । व॒न॒स्प॒ते॒ ।

आ॒ऽयूय॑ । धृ॒ष्णो॒ इति॑ । अ॒भि॒ऽगूर्य॑ । त्वम् । ने॒ष्ट्रात् । सोम॑म् । द्र॒वि॒णः॒ऽदः॒ । पिब॑ । ऋ॒तुऽभिः॑ ॥३

मेद्यंतु । ते। वह्नयः। येभिः । ईयसे । अरिषण्यन्। वीळयस्व । वनस्पते ।

आऽयूय ।धृष्णो इति। अभिऽगूर्य। त्वं ।नेष्ट्रात्। सोमं। द्रविणःऽदः।पिब। ऋतुऽभिः॥३॥

हे द्रविणोदो येभिर्यैर्वाहैरीयसे प्राप्नोषि ॥ ते तव वह्नयो वोढार इति यास्केनोक्तत्वात् । नि० ८. ३. ॥ ते मेद्यंतु । तृप्यंतु । हे वनस्पते वनानां पते अरिषण्यन् अहिंसन वीळयस्व । दृढीभव। हे धृष्णो धर्षक त्वमायूयागत्य अभिगूर्योद्यम्य नेष्ट्रात् नेष्टुर्यागादृतुभिः सहःसंज्ञकैः सह सोमं पिब ॥


अपा॑द्धो॒त्रादु॒त पो॒त्राद॑मत्तो॒त ने॒ष्ट्राद॑जुषत॒ प्रयो॑ हि॒तम् ।

तु॒रीयं॒ पात्र॒ममृ॑क्त॒मम॑र्त्यं द्रविणो॒दाः पि॑बतु द्राविणोद॒सः ॥४

अपा॑त् । हो॒त्रात् । उ॒त । पो॒त्रात् । अ॒म॒त्त॒ । उ॒त । ने॒ष्ट्रात् । अ॒जु॒ष॒त॒ । प्रयः॑ । हि॒तम् ।

तु॒रीय॑म् । पात्र॑म् । अमृ॑क्तम् । अम॑र्त्यम् । द्र॒वि॒णः॒ऽदाः । पि॒ब॒तु॒ । द्रा॒वि॒णः॒ऽद॒सः ॥४

अपात् । होत्रात् । उत। पोत्रात् । अमत्त। उत। नेष्ट्रात् । अजुषत। प्रयः । हितं ।

तुरीयं । पात्रं। अमृक्तं। अमर्त्यं । द्रविणःऽदाः । पिबतु । द्राविणःऽदसः ॥४॥

अच्छावाकस्येयं । यो द्रविणोदा होत्राद्धोतुयागात् सोममपात् पीतवान् उत किंच पोत्रात्पोतुर्यागादमत्त सोमं पीत्वामाद्यत् । उत अपि च नेष्ट्रात नेष्टुर्यागाद्धितं दत्तं प्रयो देवानामन्नरूपं सोममजुषत् । असेविष्ट । स द्राविणोदसो हवीरूपद्रविणस्य प्रदातृभ्य ऋत्विग्भ्यो हितः ॥ ऋत्विजोऽत्र द्रविणोदस उच्यंते हविषो दातारस्ते चैनं जनयंति । नि०८.२.। इति यास्केनोक्तत्वात् ॥ तादृशो द्रविणोदा अमृक्तं दशापवित्रेणामृष्टममर्त्यममरणसाधनं तुरीयं पात्रं चतुर्थपात्रस्थं सोमं पिबतु ॥


अ॒र्वाञ्च॑म॒द्य य॒य्यं॑ नृ॒वाह॑णं॒ रथं॑ युञ्जाथामि॒ह वां॑ वि॒मोच॑नम् ।

पृ॒ङ्क्तं ह॒वींषि॒ मधु॒ना हि कं॑ ग॒तमथा॒ सोमं॑ पिबतं वाजिनीवसू ॥५

अ॒र्वाञ्च॑म् । अ॒द्य । य॒य्य॑म् । नृ॒ऽवाह॑नम् । रथ॑म् । यु॒ञ्जा॒था॒म् । इ॒ह । वा॒म् । वि॒ऽमोच॑नम् ।

पृ॒ङ्क्तम् । ह॒वींषि॑ । मधु॑ना । आ । हि । क॒म् । ग॒तम् । अथ॑ । सोम॑म् । पि॒ब॒त॒म् । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू ॥५

अर्वांचं । अद्य । यय्यं। नृऽवाहनं। रथे। युंजाथां। इह । वां। विऽमोचनं ।

पृंक्तं । हवींषि। मधुना। आ । हि। कं । गतं। अथ । सोमं। पिबतं । वाजिनीवसू इति वाजिनीवसू ॥५॥

हे अश्विनौ अद्यास्मिन्नहनि यय्यं ययिं गंतारं नृवाहणं नेत्रोर्युवयोर्वोढारमिह यज्ञे वां युवयोर्विमोचनं विमोचयितारं रथमर्वांचं यथार्वाग्भवति तथा युंजाथां। किंच मधुना स्वादुरसेन हवींषि पृंक्तं । संयोजयतं । अथ चा गतं । आगच्छतं ॥ हि कमिति पूरणे ॥ अथानंतरं हे वाजिनीवसू । वाज एव वाजिनी । अनेन वासयितारौ बलवर्धनौ वा सोमं पिबतं ॥


जोष्य॑ग्ने स॒मिधं॒ जोष्याहु॑तिं॒ जोषि॒ ब्रह्म॒ जन्यं॒ जोषि॑ सुष्टु॒तिम् ।

विश्वे॑भि॒र्विश्वाँ॑ ऋ॒तुना॑ वसो म॒ह उ॒शन्दे॒वाँ उ॑श॒तः पा॑यया ह॒विः ॥६

जोषि॑ । अ॒ग्ने॒ । स॒म्ऽइध॑म् । जोषि॑ । आऽहु॑तिम् । जोषि॑ । ब्रह्म॑ । जन्य॑म् । जोषि॑ । सु॒ऽस्तु॒तिम् ।

विश्वे॑भिः । विश्वा॑न् । ऋ॒तुना॑ । व॒सो॒ इति॑ । म॒हः । उ॒शन् । दे॒वान् । उ॒श॒तः । पा॒य॒य॒ । ह॒विः ॥६

जोषि। अग्ने। संऽइधं। जोषि। आऽहुतिं । जोषि। ब्रह्म। जन्यं । जोषि। सुऽस्तुतिं ।

विश्वेभिः । विश्वान । ऋतुना । वसो इति । महः । उशन् । देवान् । उशतः । पायय । हविः ॥६॥

हे अग्ने समिधं जोषि । जुषस्व । आहुतिं जोषि । जुषस्व । ब्रह्म शस्त्रं जन्यं जनेभ्यो हितं जोषि । जुषस्व । सुष्टुतिं शोभनस्तोत्रं जोषि । जुषस्व । किंच वसो सर्वेषामावासभूत हे अग्ने उशतः कामयमानान् महो महतो विश्वान् सर्वान्देवान् उशन् कामयमानस्त्वमृतुना तपस्यसंज्ञकेन सह तथा विश्वेभिः सर्वैर्देवैः सह हविर्हवीरूपं सोमं पायय ॥ ॥१॥


मण्डल २

सूक्तं २.१

सूक्तं २.२

सूक्तं २.३

सूक्तं २.४

सूक्तं २.५

सूक्तं २.६

सूक्तं २.७

सूक्तं २.८

सूक्तं २.९

सूक्तं २.१०

सूक्तं २.११

सूक्तं २.१२

सूक्तं २.१३

सूक्तं २.१४

सूक्तं २.१५

सूक्तं २.१६

सूक्तं २.१७

सूक्तं २.१८

सूक्तं २.१९

सूक्तं २.२०

सूक्तं २.२१

सूक्तं २.२२

सूक्तं २.२३

सूक्तं २.२४

सूक्तं २.२५

सूक्तं २.२६

सूक्तं २.२७

सूक्तं २.२८

सूक्तं २.२९

सूक्तं २.३०

सूक्तं २.३१

सूक्तं २.३२

सूक्तं २.३३

सूक्तं २.३४

सूक्तं २.३५

सूक्तं २.३६

सूक्तं २.३७

सूक्तं २.३८

सूक्तं २.३९

सूक्तं २.४०

सूक्तं २.४१

सूक्तं २.४२

सूक्तं २.४३


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_२.३७&oldid=208877" इत्यस्माद् प्रतिप्राप्तम्