ऋग्वेदः सूक्तं २.१२

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं २.११ ऋग्वेदः - मण्डल २
सूक्तं २.१२
गृत्समद (आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः
सूक्तं २.१३ →
दे. इन्द्रः। त्रिष्टुप्


यो जात एव प्रथमो मनस्वान्देवो देवान्क्रतुना पर्यभूषत् ।
यस्य शुष्माद्रोदसी अभ्यसेतां नृम्णस्य मह्ना स जनास इन्द्रः ॥१॥
यः पृथिवीं व्यथमानामदृंहद्यः पर्वतान्प्रकुपिताँ अरम्णात् ।
यो अन्तरिक्षं विममे वरीयो यो द्यामस्तभ्नात्स जनास इन्द्रः ॥२॥
यो हत्वाहिमरिणात्सप्त सिन्धून्यो गा उदाजदपधा वलस्य ।
यो अश्मनोरन्तरग्निं जजान संवृक्समत्सु स जनास इन्द्रः ॥३॥
येनेमा विश्वा च्यवना कृतानि यो दासं वर्णमधरं गुहाकः ।
श्वघ्नीव यो जिगीवाँल्लक्षमाददर्यः पुष्टानि स जनास इन्द्रः ॥४॥
यं स्मा पृच्छन्ति कुह सेति घोरमुतेमाहुर्नैषो अस्तीत्येनम् ।
सो अर्यः पुष्टीर्विज इवा मिनाति श्रदस्मै धत्त स जनास इन्द्रः ॥५॥
यो रध्रस्य चोदिता यः कृशस्य यो ब्रह्मणो नाधमानस्य कीरेः ।
युक्तग्राव्णो योऽविता सुशिप्रः सुतसोमस्य स जनास इन्द्रः ॥६॥
यस्याश्वासः प्रदिशि यस्य गावो यस्य ग्रामा यस्य विश्वे रथासः ।
यः सूर्यं य उषसं जजान यो अपां नेता स जनास इन्द्रः ॥७॥
यं क्रन्दसी संयती विह्वयेते परेऽवर उभया अमित्राः ।
समानं चिद्रथमातस्थिवांसा नाना हवेते स जनास इन्द्रः ॥८॥
यस्मान्न ऋते विजयन्ते जनासो यं युध्यमाना अवसे हवन्ते ।
यो विश्वस्य प्रतिमानं बभूव यो अच्युतच्युत्स जनास इन्द्रः ॥९॥
यः शश्वतो मह्येनो दधानानमन्यमानाञ्छर्वा जघान ।
यः शर्धते नानुददाति शृध्यां यो दस्योर्हन्ता स जनास इन्द्रः ॥१०॥
यः शम्बरं पर्वतेषु क्षियन्तं चत्वारिंश्यां शरद्यन्वविन्दत् ।
ओजायमानं यो अहिं जघान दानुं शयानं स जनास इन्द्रः ॥११॥
यः सप्तरश्मिर्वृषभस्तुविष्मानवासृजत्सर्तवे सप्त सिन्धून् ।
यो रौहिणमस्फुरद्वज्रबाहुर्द्यामारोहन्तं स जनास इन्द्रः ॥१२॥
द्यावा चिदस्मै पृथिवी नमेते शुष्माच्चिदस्य पर्वता भयन्ते ।
यः सोमपा निचितो वज्रबाहुर्यो वज्रहस्तः स जनास इन्द्रः ॥१३॥
यः सुन्वन्तमवति यः पचन्तं यः शंसन्तं यः शशमानमूती ।
यस्य ब्रह्म वर्धनं यस्य सोमो यस्येदं राधः स जनास इन्द्रः ॥१४॥
यः सुन्वते पचते दुध्र आ चिद्वाजं दर्दर्षि स किलासि सत्यः ।
वयं त इन्द्र विश्वह प्रियासः सुवीरासो विदथमा वदेम ॥१५॥


सायणभाष्यम्

द्वितीयेऽनुवाक एकादश सूक्तानि । तत्र यो जात इति पंचदशर्चं प्रथमं सूतं गार्त्समदं त्रैष्टुभमैन्द्रं ॥ संस्रवे निष्केवल्ये निविद्धानीयस्य पुरस्ताद्यो जात एवेति शंस्येत् । यदि पर्यायानिति खंडे सूत्रितं । यो जात एवेति निष्कवल्ये । आ०६.६.। इति ॥ आभिप्लविक तृतीयेऽहनि निष्कवल्ये यो जात एवेति निविद्धानीयं । सूत्रित च । तृतीयस्य त्र्यर्यमा यो जात एवेति मध्यंदिनः । आश्व ७. ७.। इति ॥ विश्वजिति माध्यंदिनसवने मैत्रावरुणः स्वशस्त्रे प्राकृतात्सूक्तात्पूर्वं यो जात इति सामसूक्तं शंसेत् । विश्वजितोऽग्निं नर इति खंडे सूत्रितं । सत्रा मदासो यो जात एवाभूरेक इति सामसूक्तानि। आश्व. ८.७। इति। अग्निष्टुन्निष्केवल्ये निविद्धानमिदं। श्येनाजिराभ्यामिति खंडे सूत्रितं । तिष्ठा हरी इति यो जात एवेति मध्यंदिनः । आ॰ ९.७.। इति ॥ महाव्रते निष्केवल्ये यो जात एवेति सूक्तं। ऊरू इति खंडे सूत्रितं । वने न वा यो न्यधायि चाकन् यो जात एव प्रथमो मनस्वान् (ऐ.आ. ५.३.१) इति। अत्रेतिहासो बृहद्देवतायामुक्तः। संयुज्य तपसात्मानमिंद्रं बिभ्रन्महद्वपुः।अदृश्यत मुहूर्तेन दिवि च व्योम्नि चेह च । तमिंद्र इति मत्वा तु दैत्यो भीमपराक्रमी । धुनिश्च चुमुरिश्चोभौ सायुधावभिपेततुः ॥ विदित्वा स तयोर्भावमृषिः पापं चिकीर्षतोः । यो जात इति सूक्तेन कर्माण्यैंद्राण्यकीर्तयत् ॥ अन्ये त्वन्यथा वर्णयंति । पुरा किलिंद्रादयो वैन्ययज्ञं समाजग्मुः । गृत्समदोऽपि तत्रागत्य सदस्यासीत् । दैत्याश्चेंद्रजिघांसया तत्र समागमन् । तान् दृष्ट्वा निर्जगामेंद्रो यज्ञाद्गृत्समदाकृतिः । स च गृत्समदो वैन्येन पूजितो यज्ञवाटान्निरगच्छत् । निर्गच्छंतं तमृषिं दृष्ट्वा अयमेवेंद्र इति मन्यमानास्तमसुराः परिवव्रुः । नाहमिंद्रस्तुच्छः किंत्वेवंगुणोपेतः स इत्यनेन सूक्तेन तान्प्रत्युवाच ॥ अपरे त्वेवं कथयंति । गृत्समदस्य यज्ञे प्रविष्टमेकाकिनमिंद्रं ज्ञात्वासुराः परिवव्रुः । स इंद्रो गृत्समदरूपेण यज्ञवाटान्निर्गत्य स्वर्गं जगाम । ततोऽसुराः इंद्रो विलंबित इत्यंतःप्रविश्य गृत्समदं दृष्ट्वा पूर्वमेव गृत्समदो गतः अयं त्विंद्रोऽस्मद्भयाद्गृत्समदरूपेणास्त इति तं जगृहुः । स तान् नाहमिंद्रोऽयमित्यनेन सूक्तेन प्रत्युवाच । अयमेवार्थो महाभारते प्रपंचितः ॥


यो जा॒त ए॒व प्र॑थ॒मो मन॑स्वान्दे॒वो दे॒वान्क्रतु॑ना प॒र्यभू॑षत् ।

यस्य॒ शुष्मा॒द्रोद॑सी॒ अभ्य॑सेतां नृ॒म्णस्य॑ म॒ह्ना स ज॑नास॒ इन्द्रः॑ ॥१

यः । जा॒तः । ए॒व । प्र॒थ॒मः । मन॑स्वान् । दे॒वः । दे॒वान् । क्रतु॑ना । प॒रि॒ऽअभू॑षत् ।

यस्य॑ । शुष्मा॑त् । रोद॑सी॒ इति॑ । अभ्य॑सेताम् । नृ॒म्णस्य॑ । म॒ह्ना । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥१

यः । जातः । एव। प्रथमः । मनस्वान्। देवः । देवान्। क्रतुना। परिऽअभूषत् ।।

यस्य। शुष्मात्। रोदसी इति। अभ्यसेतां। नृम्णस्य। मह्ना। सः । जनासः। इंद्रः ॥१॥

गृत्समदो ब्रूते । जनासो जना हे असुराः यो जात एव जायमान एव सन् प्रथमो देवानां प्रधानभूतो मनस्वान् मनस्विनामग्रगण्यो देवो द्योतमानः सन् क्रतुना वृत्रवधादिलक्षणेन स्वकीयेन कर्मणा देवान् सर्वान्यागदेवान्पर्यभूषत्। रक्षकत्वेन पर्यग्रहीत् ॥ भूष अलंकार भूवादिः। लङि रूपं ॥ यद्वा सर्वानन्यान्देवान्पर्यभूषत् पर्यभवत् । अत्यक्रामत् ॥ अस्मिन्पक्षे भवतेर्व्यत्ययेन क्तः । श्र्युकः कितीतीट्प्रतिषेधः ॥ यस्येंद्रस्य शुष्मात् शरीरात बलात् रोदसी द्यावा पृथिव्यावभ्यसेतां । अबिभीतां ॥ भ्यस भये । अनुदात्तेत । भ्यस भयवेपनयोरिति नैरुक्ताः। नि. ३.२१। अभ्यसेतामवेपेतां वा। तथा च मंत्रांतरं। इमे चित्तव मन्यवे वेपेते भियसा मही।१.८०.११।। इति । नृम्णस्य सेनालक्षणस्य बलस्य मह्ना महत्त्वेन युक्तः स इंद्रो नाहमिति ॥ अत्र निरुक्तं । यो जायमान एव प्रथमो मन्स्वी देवो देवान्क्रतुना कर्मणा पर्यभवत्पर्यगृह्णात्पर्यरक्षदत्यक्रामदिति वा यस्य बलाद्द्यावापृथिव्यावप्यबिभीतां नृम्णस्य मह्ना बलस्य महत्त्वेन स जनास इंद्र इत्यृषेर्दृष्टार्थस्य प्रीतिर्भवत्याख्यानसंयुक्ता । नि० १०. १०. । इति ॥१


यः पृ॑थि॒वीं व्यथ॑माना॒मदृं॑ह॒द्यः पर्व॑ता॒न्प्रकु॑पिताँ॒ अर॑म्णात् ।

यो अ॒न्तरि॑क्षं विम॒मे वरी॑यो॒ यो द्यामस्त॑भ्ना॒त्स ज॑नास॒ इन्द्रः॑ ॥२

यः । पृ॒थि॒वीम् । व्यथ॑मानाम् । अदृं॑हत् । यः । पर्व॑तान् । प्रऽकु॑पितान् । अर॑म्णात् ।

यः । अ॒न्तरि॑क्षम् । वि॒ऽम॒मे । वरी॑यः । यः । द्याम् । अस्त॑भ्नात् । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥२

यः । पृथिवीम् । व्यथमानाम् । अदृंहत् । यः । पर्वतान् । प्रऽकुपितान् । अरम्णात् ।

यः । अन्तरिक्षम् । विऽममे । वरीयः । यः । द्याम् । अस्तभ्नात् । सः । जनासः । इन्द्रः ॥२

हे जनाः य इंद्रो व्यथमानां चलंतीं पृथिवीमदृंहत । शर्करादिभिर्दृढामकरोत् ॥ दृह दृहि वृद्धौ ॥ यश्च प्रकुपितान् इतस्ततश्चलितान्पक्षयुक्तान्पर्वतानरम्णात्। नियमितवान्। स्वे स्वे स्थाने स्थापितवान्। अरम्णात् रमु क्रीडायां। अंतर्भावितण्यर्थस्य व्यत्ययेन श्नाप्रत्ययः। यश्च वरीय उरुतममंतरिक्षं विममे। निर्ममे। विस्तीर्णं चकारेत्यर्थः । यश्च द्यां दिवमस्तभ्नात् । स्तंभनिरुद्धामकरोत ॥ स्तंभु रोधन इति सौत्रो धातुः ॥ स ऐवेंद्रो नाहमिति ॥ २


यो ह॒त्वाहि॒मरि॑णात्स॒प्त सिन्धू॒न्यो गा उ॒दाज॑दप॒धा व॒लस्य॑ ।

यो अश्म॑नोर॒न्तर॒ग्निं ज॒जान॑ सं॒वृक्स॒मत्सु॒ स ज॑नास॒ इन्द्रः॑ ॥३

यः । ह॒त्वा । अहि॑म् । अरि॑णात् । स॒प्त । सिन्धू॑न् । यः । गाः । उ॒त्ऽआज॑त् । अ॒प॒ऽधा । व॒लस्य॑ ।

यः । अश्म॑नोः । अ॒न्तः । अ॒ग्निम् । ज॒जान॑ । स॒म्ऽवृक् । स॒मत्ऽसु॑ । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥३

यः । हत्वा । अहिम् । अरिणात् । सप्त । सिन्धून् । यः । गाः । उत्ऽआजत् । अपऽधा । वलस्य ।

यः । अश्मनोः । अन्तः । अग्निम् । जजान । सम्ऽवृक् । समत्ऽसु । सः । जनासः । इन्द्रः ॥३

योऽहिं मेघं हत्वा मेघहननं कृत्वा सप्त सर्पणशीलाः सिन्धून् स्यंदनशीला अपोऽरिणात् प्रेरयत्। यद्वा सप्त गंगायमुनाद्या मुख्या नदीररिणात्। रीङ् स्रवणे क्र्यादिः। यश्च वलस्य वलनामकस्यासुरस्यापधा तत्कर्तृकान्निरोधान्निरुद्धा गा उदाजत्। निरगमयत्। अपधा। अपपूर्वाद्दधतिरातश्चोपसर्गे। पा. ३.३.१०६ इति भावेऽङ्प्रत्ययः। सुपां सुलुगिति पंचम्या आकारः। यश्चाश्मनोः अश्नुते व्याप्नोत्यंतरिक्षमित्यश्मा मेघः। अत्यंतमृदुरूपयोर्मेघयोरंतर्मध्ये वैद्युतमग्निं जजान। उत्पादयामास।यश्च समत्सु। संभक्षयंति योद्धॄणामायूंषीति समदः संग्रामाः । तेषु संवृक् भवति ॥ वृणक्तेर्हिंसार्थस्य क्विपि रूपं ॥ स इंद्रो नाहमिति ॥३


येने॒मा विश्वा॒ च्यव॑ना कृ॒तानि॒ यो दासं॒ वर्ण॒मध॑रं॒ गुहाकः॑ ।

श्व॒घ्नीव॒ यो जि॑गी॒वाँल्ल॒क्षमाद॑द॒र्यः पु॒ष्टानि॒ स ज॑नास॒ इन्द्रः॑ ॥४

येन॑ । इ॒मा । विश्वा॑ । च्यव॑ना । कृ॒तानि॑ । यः । दास॑म् । वर्ण॑म् । अध॑रम् । गुहा॑ । अक॒रित्यकः॑ ।

श्व॒घ्नीऽइ॑व । यः । जि॒गी॒वान् । ल॒क्षम् । आद॑त् । अ॒र्यः । पु॒ष्टानि॑ । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥४

येन । इमा । विश्वा । च्यवना । कृतानि । यः । दासम् । वर्णम् । अधरम् । गुहा । अकरित्यकः ।

श्वघ्नीऽइव । यः । जिगीवान् । लक्षम् । आदत् । अर्यः । पुष्टानि । सः । जनासः । इन्द्रः ॥४

येनेंद्रेणेमेमानि विश्वा च्यवना नश्वराणि भुवनानि कृतानि। स्थिरीकृतानि। यश्च दासं वर्णं शूद्रादिकं। यद्वा दासमुपक्षपयितारमधरं निकृष्टमसुरं गुहा गुहायां गूढ़स्थाने नरके वाकः। अकार्षीत् ॥ करोतेर्लुङि मंत्रे घसेत्यादिन च्लेर्लुकि रूपं। लक्षं लक्ष्यं जिगीवान्। जि जये। क्वसौ सन्लिटोर्जेरित्यभ्यासादुत्तरस्य कुत्वं। दीर्घश्छांदसः। जितवान् ऽर्योऽरेः। षष्ठ्येकवचने छांदसो यणादेशः।शत्रोःसंबंधीनि पुष्टानि समृद्धान्यादत् आदत्ते।तत्र दृष्टांतः। श्वघ्नीव। श्वभिर्मृगान् हंतीति श्वघ्नी व्याधः। यथा व्याधो जिघृक्षंस्तं मृगं परिगृह्णाति तद्वत् ॥ ४


यं स्मा॑ पृ॒च्छन्ति॒ कुह॒ सेति॑ घो॒रमु॒तेमा॑हु॒र्नैषो अ॒स्तीत्ये॑नम् ।

सो अ॒र्यः पु॒ष्टीर्विज॑ इ॒वा मि॑नाति॒ श्रद॑स्मै धत्त॒ स ज॑नास॒ इन्द्रः॑ ॥५

यम् । स्म॒ । पृ॒च्छन्ति॑ । कुह॑ । सः । इति॑ । घो॒रम् । उ॒त । ई॒म् । आ॒हुः॒ । न । ए॒षः । अ॒स्ति॒ । इति॑ । ए॒न॒म् ।

सः । अ॒र्यः । पु॒ष्टीः । विजः॑ऽइव । आ । मि॒ना॒ति॒ । श्रत् । अ॒स्मै॒ । ध॒त्त॒ । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥५

यम् । स्म । पृच्छन्ति । कुह । सः । इति । घोरम् । उत । ईम् । आहुः । न । एषः । अस्ति । इति । एनम् ।

सः । अर्यः । पुष्टीः । विजःऽइव । आ । मिनाति । श्रत् । अस्मै । धत्त । सः । जनासः । इन्द्रः ॥५

अपश्यंतो जना घोरं शत्रूणां घातकं यं पृच्छंति स्म कुह सेति । स इंद्रः कुत्र वर्तत इति ॥ सेति । सो ऽचि लोपे चेत्पादपूरणमिति सोर्लेपि गुणः ॥ न क्वचिदसौ तिष्ठतीति मन्यमाना जना एनमिंद्रमाहुः एष इंद्रो नास्तीति। तथा च मंत्रैर्नेंद्रो अस्तीति नेम उ त्व आह। ८.१००.३। इति। ईमिति पूरणः। स इंद्रो विज इव। इवशब्द एवार्थे। उद्वेजक एव सन् अर्योऽरेः संबंधीनि पुष्टीः पोषकाणि गवाश्वादीनि धनान्यामिनाति। सर्वतो हिनस्ति। मीङ् हिंसायां। मीनातेर्निगम इति ह्रस्वः। तस्माद् श्रदस्मा इंद्राय धत्त। स इंद्रोऽस्तीति विश्वासमत्र कुरुत । यद्यप्यसौ विशेषतोऽस्माभिर्न दृश्यते तथापि अस्तीति विश्वासं कुरुत । एवं निर्धारणमहिमोपेतः स इंद्रो नाहमिति ॥ ॥५॥


यो र॒ध्रस्य॑ चोदि॒ता यः कृ॒शस्य॒ यो ब्र॒ह्मणो॒ नाध॑मानस्य की॒रेः ।

यु॒क्तग्रा॑व्णो॒ योऽवि॒ता सु॑शि॒प्रः सु॒तसो॑मस्य॒ स ज॑नास॒ इन्द्रः॑ ॥६

यः । र॒ध्रस्य॑ । चो॒दि॒ता । यः । कृ॒शस्य॑ । यः । ब्र॒ह्मणः॑ । नाध॑मानस्य । की॒रेः ।

यु॒क्तऽग्रा॑व्णः । यः । अ॒वि॒ता । सु॒ऽशि॒प्रः । सु॒तऽसो॑मस्य । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥६

यः । रध्रस्य । चोदिता । यः । कृशस्य । यः । ब्रह्मणः । नाधमानस्य । कीरेः ।

युक्तऽग्राव्णः । यः । अविता । सुऽशिप्रः । सुतऽसोमस्य । सः । जनासः । इन्द्रः ॥६

यो रध्रस्य। रध हिंसासंराद्ध्योः। समृद्धस्य चोदिता धनानां प्रेरयिता भवति। यश्च कृशस्य च दरिद्रस्य च यश्च नाधमानस्य। नाधृ णाधृ याञ्चोपतपिश्चर्याशीःषु। याचमानस्य कीरेः। करोतेः कीर्तयतेर्वा। स्तोतुर्ब्रह्मणो ब्राह्मणस्य च धनानां प्रेरयिता। यश्च सुशिप्रः शोभनहनुः सुशीर्षको वा सन् युक्तग्राव्णोऽभिषवार्थमुद्यतग्राव्णः सुतसोमस्याभिषुतसोमस्य यजमानस्याविता रक्षिता भवति स एवेंद्रो नाहमिति। ब्रह्मशब्दस्य त्वन्नपरत्वे ह्याद्युदात्तता स्यात् यथा ब्रह्म वन्वानो अजरं सुवीरं। ३.८.२। इति । अयं त्वंतोदात्तः पद्यत इति नान्नपरः।।६


यस्याश्वा॑सः प्र॒दिशि॒ यस्य॒ गावो॒ यस्य॒ ग्रामा॒ यस्य॒ विश्वे॒ रथा॑सः ।

यः सूर्यं॒ य उ॒षसं॑ ज॒जान॒ यो अ॒पां ने॒ता स ज॑नास॒ इन्द्रः॑ ॥७

यस्य॑ । अश्वा॑सः । प्र॒ऽदिशि॑ । यस्य॑ । गावः॑ । यस्य॑ । ग्रामाः॑ । यस्य॑ । विश्वे॑ । रथा॑सः ।

यः । सूर्य॑म् । यः । उ॒षस॑म् । ज॒जान॑ । यः । अ॒पाम् । ने॒ता । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥७

यस्य । अश्वासः । प्रऽदिशि । यस्य । गावः । यस्य । ग्रामाः । यस्य । विश्वे । रथासः ।

यः । सूर्यम् । यः । उषसम् । जजान । यः । अपाम् । नेता । सः । जनासः । इन्द्रः ॥७

यस्य सर्वांतर्यामितया वर्तमानस्य प्रदिशि प्रदेशनेऽनुशासनेऽश्वासोऽश्वा वर्तंते। यस्यानुशासने भावः। यस्यानुशासने ग्रामाः। ग्रसतेऽत्रेति ग्रामा जनपदाः। यस्याज्ञायां विश्वे सर्वे रथासो रथा वर्तंते। यश्च वृत्रं हत्वा सूर्यं जजान। यश्चोषसं। तथा मंत्रः जजान सूर्यमुषसं सुदंसाः। ३.३२.८। इति। यश्च मेघभेदनद्वारापां नेता प्रेरकः स इंद्र इत्यादि प्रसिद्धं ॥ ७


यं क्रन्द॑सी संय॒ती वि॒ह्वये॑ते॒ परेऽव॑र उ॒भया॑ अ॒मित्राः॑ ।

स॒मा॒नं चि॒द्रथ॑मातस्थि॒वांसा॒ नाना॑ हवेते॒ स ज॑नास॒ इन्द्रः॑ ॥८

यम् । क्रन्द॑सी॒ इति॑ । सं॒य॒ती इति॑ स॒म्ऽय॒ती । वि॒ह्वये॑ते॒ इति॑ वि॒ऽह्वये॑ते । परे॑ । अव॑रे । उ॒भयाः॑ । अ॒मित्राः॑ ।

स॒मा॒नम् । चि॒त् । रथ॑म् । आ॒त॒स्थि॒ऽवांसा॑ । नाना॑ । ह॒वे॒ते॒ इति॑ । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥८

यम् । क्रन्दसी इति । संयती इति सम्ऽयती । विह्वयेते इति विऽह्वयेते । परे । अवरे । उभयाः । अमित्राः ।

समानम् । चित् । रथम् । आतस्थिऽवांसा । नाना । हवेते इति । सः । जनासः । इन्द्रः ॥८

यं क्रंदसी रोदसी शब्दं कुर्वाणे मानुषी देवी च द्वे सेने वा संयती परस्परं संगच्छंत्यौ यमिंद्रं विह्वयेते। स्वरक्षार्थं विविधमाह्वयतः। पर उत्कृष्टा अवरेऽधमश्चोभया उभयविधा उभयमाह्वयंति। समानमिंद्ररथसदृशं रथमातस्थिवांसा आस्थितौ द्वौ रथिनौ तमेवेंद्रं नाना पृथक् पृथक् हवेते । आह्वयेते । यद्वा समानमेकरथमारूढाविंद्राग्नी हवेते। यज्ञार्थं यजमानै: पृथगाह्वयेते। तयोरन्यतर: स इंद्रो नाहमिति ॥८


यस्मा॒न्न ऋ॒ते वि॒जय॑न्ते॒ जना॑सो॒ यं युध्य॑माना॒ अव॑से॒ हव॑न्ते ।

यो विश्व॑स्य प्रति॒मानं॑ ब॒भूव॒ यो अ॑च्युत॒च्युत्स ज॑नास॒ इन्द्रः॑ ॥९

यस्मा॑त् । न । ऋ॒ते । वि॒ऽजय॑न्ते । जना॑सः । यम् । युध्य॑मानाः । अव॑से । हव॑न्ते ।

यः । विश्व॑स्य । प्र॒ति॒ऽमान॑म् । ब॒भूव॑ । यः । अ॒च्यु॒त॒ऽच्युत् । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥९

यस्मात् । न । ऋते । विऽजयन्ते । जनासः । यम् । युध्यमानाः । अवसे । हवन्ते ।

यः । विश्वस्य । प्रतिऽमानम् । बभूव । यः । अच्युतऽच्युत् । सः । जनासः । इन्द्रः ॥९

यस्मादृते जनासो जना न विजयंते । विजयं न प्राप्नुवंति । अतो युध्यमाना युद्धं कुर्वाणा जना अवसे स्वरक्षणाय यमिंद्रं हवंते । आहूयंति । यश्च विश्वस्य सर्वस्य जगतः प्रतिमानं प्रतिनिधिर्बभूव । यश्चाच्युतच्युत् अच्युतानां क्षयरहितानां पर्वतादीनां च्यावयिता स इंद्र इत्यादि प्रसिद्धं ॥ ९


यः शश्व॑तो॒ मह्येनो॒ दधा॑ना॒नम॑न्यमाना॒ञ्छर्वा॑ ज॒घान॑ ।

यः शर्ध॑ते॒ नानु॒ददा॑ति शृ॒ध्यां यो दस्यो॑र्ह॒न्ता स ज॑नास॒ इन्द्रः॑ ॥१०

यः । शश्व॑तः । महि॑ । एनः॑ । दधा॑नान् । अम॑न्यमानान् । शर्वा॑ । ज॒घान॑ ।

यः । शर्ध॑ते । न । अ॒नु॒ऽददा॑ति । शृ॒ध्याम् । यः । दस्योः॑ । ह॒न्ता । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥१०

यः । शश्वतः । महि । एनः । दधानान् । अमन्यमानान् । शर्वा । जघान ।

यः । शर्धते । न । अनुऽददाति । शृध्याम् । यः । दस्योः । हन्ता । सः । जनासः । इन्द्रः ॥१०

यो महि महदेनः पापं दधानान् शश्वतो बह्वनमन्यमानान् आत्मानमजानत इंद्रमपूजयतो वा जजान् शर्वा। शृणाति शत्रूननेनेति शरुर्वज्रः। तेनायुधेन जघान। हंतेर्लिटि रूपं।। यश्च शर्धत उत्साहं कुर्वतेऽनात्मज्ञाय जनाय शृध्यामुत्साहनीयं कर्म नानुददाति । न प्रयच्छति ॥ अनुपूर्वात् डुदाञ् दाने जौहोत्यादिकः । अभ्यस्तानामादिरिति तिङि चोदात्तवतीति गतेर्निघातः ॥ यश्च दस्योरुपक्षपयितुः शत्रोर्हंता घातकः स इंद्र इत्यादि पूर्ववत् ॥ ॥ १० ॥


यः शम्ब॑रं॒ पर्व॑तेषु क्षि॒यन्तं॑ चत्वारिं॒श्यां श॒रद्य॒न्ववि॑न्दत् ।

ओ॒जा॒यमा॑नं॒ यो अहिं॑ ज॒घान॒ दानुं॒ शया॑नं॒ स ज॑नास॒ इन्द्रः॑ ॥११

यः । शम्ब॑रम् । पर्व॑तेषु । क्षि॒यन्त॑म् । च॒त्वा॒रिं॒श्याम् । श॒रदि॑ । अ॒नु॒ऽअवि॑न्दत् ।

ओ॒जा॒यमा॑नम् । यः । अहि॑म् । ज॒घान॑ । दानु॑म् । शया॑नम् । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥११

यः । शम्बरम् । पर्वतेषु । क्षियन्तम् । चत्वारिंश्याम् । शरदि । अनुऽअविन्दत् ।

ओजायमानम् । यः । अहिम् । जघान । दानुम् । शयानम् । सः । जनासः । इन्द्रः ॥११

यः पर्वतेषु क्षियंतमिंद्रभिया बहून् संवत्सरान्प्रच्छन्नो भूत्वा पर्वतगुहासु निवसंतं शंबरमेतन्नामकं मायाविनमसुरं चत्वारिंश्यां शरदि चत्वारिंशे संवत्सरेऽन्वविंदत्। अन्विष्यालभत। लब्ध्वा च य ओजायमानं। कर्तुः क्यङ् सलोपश्च ओजसोऽप्सरसो नित्यं । पा. ३. १. ११. २..। इति सकारलोपः॥ बलमाचरंतमहिमाहंतारं दानुं दानवं शयानं शंबरमसुरं जघान हतवान् स इंद्रो नाहमिति ॥ ११


यः स॒प्तर॑श्मिर्वृष॒भस्तुवि॑ष्मान॒वासृ॑ज॒त्सर्त॑वे स॒प्त सिन्धू॑न् ।

यो रौ॑हि॒णमस्फु॑र॒द्वज्र॑बाहु॒र्द्यामा॒रोह॑न्तं॒ स ज॑नास॒ इन्द्रः॑ ॥ १२

यः । स॒प्तऽर॑श्मिः । वृ॒ष॒भः । तुवि॑ष्मान् । अ॒व॒ऽअसृ॑जत् । सर्त॑वे । स॒प्त । सिन्धू॑न् ।

यः । रौ॒हि॒णम् । अस्फु॑रत् । वज्र॑ऽबाहुः । द्याम् । आ॒ऽरोह॑न्तम् । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥१२

यः । सप्तऽरश्मिः । वृषभः । तुविष्मान् । अवऽअसृजत् । सर्तवे । सप्त । सिन्धून् ।

यः । रौहिणम् । अस्फुरत् । वज्रऽबाहुः । द्याम् । आऽरोहन्तम् । सः । जनासः । इन्द्रः ॥१२

यः सप्तरश्मिः सप्तसंख्याकाः पर्जन्या रश्मयो यस्य। ते च रश्मयो वराहवः स्वतपसो विद्युन्महसो धूपयः श्वापयो गृहमेधाश्चेतीति ये चेमेऽशिमिविद्विषः पर्जन्याः सप्त पृथिवीमभिवर्षंति वृष्टिभिः । तै० आ० १. ९.. ४-५ इति तैत्तिरीयारण्यके ह्याम्नाताः। वृषभो वर्षकस्तुविष्मान् वृद्धिमान्बलवान्वा सप्त सर्पणस्वभावान्सिंधूनपः सर्तवे सरणायावासृजत्। अवसृष्टवान्। यद्वा गंगाद्याः सप्त मुख्या नदीरसृजत्। यश्च वज्रबाहुः सन् द्यां दिवमारोहंतं रौहिणमसुरमस्फुरत् । जघान ॥ स्फुर स्फुरणे तुदादिः ॥१२


द्यावा॑ चिदस्मै पृथि॒वी न॑मेते॒ शुष्मा॑च्चिदस्य॒ पर्व॑ता भयन्ते ।

यः सो॑म॒पा नि॑चि॒तो वज्र॑बाहु॒र्यो वज्र॑हस्त॒ः स ज॑नास॒ इन्द्रः॑ ॥ १३

द्यावा॑ । चि॒त् । अ॒स्मै॒ । पृ॒थि॒वी इति॑ । न॒मे॒ते॒ इति॑ । शुष्मा॑त् । चि॒त् । अ॒स्य॒ । पर्व॑ताः । भ॒य॒न्ते॒ ।

यः । सो॒म॒ऽपाः । नि॒ऽचि॒तः । वज्र॑ऽबाहुः । यः । वज्र॑ऽहस्तः । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥१३

द्यावा । चित् । अस्मै । पृथिवी इति । नमेते इति । शुष्मात् । चित् । अस्य । पर्वताः । भयन्ते ।

यः । सोमऽपाः । निऽचितः । वज्रऽबाहुः । यः । वज्रऽहस्तः । सः । जनासः । इन्द्रः ॥१३

अस्मा इंद्राय द्यावा पृथिवी ॥ इतरेतरापेक्षया द्विवचनं प्र मित्रयोर्वरुणयोः ।। ७.६६.१.। इतिवत् ॥ नमेते । स्वयमेव प्रह्वीभवतः। णमु प्रह्वत्वे। कर्मकर्तरि न दुहस्नुनमां यक्चिणाविति यकः प्रतिषेधः।। चिदपि च अस्येंद्रस्य शुष्माद्बलात्पर्वता भयंते । बिभ्यति । यः सोमपाः सोमस्य पाता निचितः सर्वैः । यद्वा अन्येभ्योऽपि देवेभ्यो दृढांगः । वज्रबाहुर्वज्रसदृशबाहुः । यश्च वज्रहस्तो वज्रयुक्तः स इंद्र इत्यादि प्रसिद्धं १३


यः सु॒न्वन्त॒मव॑ति॒ यः पच॑न्तं॒ यः शंस॑न्तं॒ यः श॑शमा॒नमू॒ती ।

यस्य॒ ब्रह्म॒ वर्ध॑नं॒ यस्य॒ सोमो॒ यस्ये॒दं राध॒ः स ज॑नास॒ इन्द्रः॑ ॥१४

यः । सु॒न्वन्त॑म् । अव॑ति । यः । पच॑न्तम् । यः । शंस॑न्तम् । यः । श॒श॒मा॒नम् । ऊ॒ती ।

यस्य॑ । ब्रह्म॑ । वर्ध॑नम् । यस्य॑ । सोमः॑ । यस्य॑ । इ॒दम् । राधः॑ । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥१४

यः । सुन्वन्तम् । अवति । यः । पचन्तम् । यः । शंसन्तम् । यः । शशमानम् । ऊती ।

यस्य । ब्रह्म । वर्धनम् । यस्य । सोमः । यस्य । इदम् । राधः । सः । जनासः । इन्द्रः ॥१४

यः सुन्वंतं सोमाभिषवं कुर्वंतं यजमानमवति । रक्षति । यश्च पुरोडाशादीनि हवींषि पचंतं । यश्चोती ऊतये ॥ सुपां सुलुगिति चतुर्थ्याः पूर्वसवर्णदीर्घः ॥ स्वरक्षायै शस्त्राणि शंसंतं यश्च शशमानमवति । स्तोत्रं कुर्वाणं रक्षति । ब्रह्म परिवृढं स्तोत्रं यस्य वर्धनं वृद्धिकरं भवति । तथा यस्य सोमो वृद्धिहेतुर्भवति । यस्य चेदमस्मदीयं राधः पुरोडाशादिलक्षणमन्नं वृद्धिकरं भवति । स इंद्र इत्यादि प्रसिद्धं ॥ १४


यः सु॑न्व॒ते पच॑ते दु॒ध्र आ चि॒द्वाजं॒ दर्द॑र्षि॒ स किला॑सि स॒त्यः ।

व॒यं त॑ इन्द्र वि॒श्वह॑ प्रि॒यासः॑ सु॒वीरा॑सो वि॒दथ॒मा व॑देम ॥ १५

यः । सु॒न्व॒ते । पच॑ते । दु॒ध्रः । आ । चि॒त् । वाज॑म् । दर्द॑र्षि । सः । किल॑ । अ॒सि॒ । स॒त्यः ।

व॒यम् । ते॒ । इ॒न्द्र॒ । वि॒श्वह॑ । प्रि॒यासः॑ । सु॒ऽवीरा॑सः । वि॒दथ॑म् । आ । व॒दे॒म॒ ॥१५

यः । सुन्वते । पचते । दुध्रः । आ । चित् । वाजम् । दर्दर्षि । सः । किल । असि । सत्यः ।

वयम् । ते । इन्द्र । विश्वह । प्रियासः । सुऽवीरासः । विदथम् । आ । वदेम ॥१५

इदानीमृषिः साक्षात्कृतमिंद्रं प्रति प्रब्रूते । हे इंद्र यो दुध्रो दुर्धरः सन् सुन्वते सोमाभिषवं कुर्वते पुरोडाशादिहवींषि पचते यजमानाय वाजमन्नं बलं वा दर्दर्षि। भृशं प्रापयसि स तादृशस्त्वं सत्यो यथार्थभूतोऽसि । न पुनर्नास्तीति बुद्धियोग्योऽसि । किलेति प्रसिद्धौ । ते तव प्रियासः सुवीरासः कल्याणपुत्रपौत्राः संतो वयं विश्वह सर्वेष्वहःसु विदथं स्तोत्रमावदेम । ब्रूयाम ॥ ॥ ९॥


[सम्पाद्यताम्]

टिप्पणी

पुराणेषु सूक्तस्य विनियोगं -

ब्रह्मपुराणम् २.७०.२२

अस्य सूक्तस्य विनियोगं सार्वत्रिकरूपेण निष्केवल्य शस्त्रे अस्ति। सोमयागे माध्यन्दिनसवने इन्द्रस्य द्वयौ रूपौ सन्ति - मरुत्वतीयम् एवं निष्केवल्यं। मरुत्वतीयम् - यदा इन्द्रः मरुद्गणानां साहाय्येन महान् भवति। निष्केवल्यं - यदा इन्द्रः मरुद्गणानां साहाय्यं नेच्छति, सः एकलमेव दैत्यानां हनने समर्थः अस्ति। योगदृष्ट्या, निष्केवल्या स्थितिः निर्विकल्पसमाधेः स्थितिः प्रतीयते।

२.१२.९ यो विश्वस्य प्रतिमानं बभूव - ब्रह्माण्डपुराणादिषु (१.५.६१) कथनमस्ति यत् ब्रह्मा पञ्चप्रकारेण सृष्ट्यां प्रवेशमकरोत्। स्थावरेषु विपर्ययरूपेण, तिर्यक्सु शक्तिरूपेण, मनुष्येषु सिद्धिरूपेण एवं देवेषु पुष्टिरूपेण। विपर्ययस्य किमर्थमस्ति। साधारणरूपेण, स्थावरेषु दर्पण - सममिति विद्यमाना अस्ति। वृक्षेषु, देहस्य चक्षु, हस्तादिषु सर्वत्र दर्पणसममिति अस्ति। अयं प्रतीयते यत् पुराणस्य विपर्ययस्य इतिश्री अत्रैव न भवति। देहस्य ये उच्चतर कोशाः सन्ति, तेभ्यः निम्नतरकोशाः विपर्ययाः भवितुमर्हन्ति। अपि च, अयं सार्वत्रिक रूपेण लौकिका धारणा अस्ति - यथा पिण्डे तथा ब्रह्माण्डे।

२.१२.१२

स एष सप्तरश्मिर्वृषभस्तुविष्मान्तदेतदृचाभ्यनूच्यते यस्सप्तरश्मिर्वृषभस्तुविष्मानवासृजत्सर्तवे सप्त सिन्धून्यो रौहिणमस्फुरद्वज्रबाहुर्द्यामारोहन्तं स जनास इन्द्र इति ७ यस्सप्तरश्मिरिति सप्त ह्येत आदित्यस्य रश्मयः वृषभ इति एष ह्येवासाम्प्रजानामृषभः तुविष्मानिति महीयैवास्यैषा ८ अवासृजत्सर्तवे सप्त सिन्धूनिति सप्त ह्येते सिन्धवः तैरिदं सर्वं सितं तद्यदेतैरिदं सर्वं सितं तस्मात्सिन्धवः ९ यो रौहिणमस्फुरद्वज्रबाहुरिति एष हि रौहिणमस्फुरद्वज्रबाहुः १० द्यामारोहन्तं स जनास इन्द्र इति एष हीन्द्रः - जैमिनीयोपनिषद्ब्राह्मणम् १.९.२

रौहिणकपाल-द्वय

रौहिण शब्दः ऋग्वेदे १.१०३.२ मध्ये अपि प्रकटयति। तत्र इन्द्रः रौहिणं भेदयति। वर्तमानप्रसंगे इन्द्रः रौहिणमस्फुरति। रौहिणः किमस्ति, अस्मिन् प्रसंगे सोमयागे रोहिणकपाल-द्वयस्य उपयोगं द्रष्टव्यमस्ति। अयं युगलं द्यावापृथिव्योः, अथवा ऊर्जायाः आरोहण - अवरोहणस्य प्रतीकमस्ति। सामान्यपरिस्थितिषु ऊर्जायाः आरोहण-अवरोहणम् सर्वदैव भवति। तर्हि इन्द्रेण अस्य स्फुरणस्य किं अर्थं भवितुं शक्यते। सामान्यरूपेण अयं प्रक्रिया मन्दगत्या घटति। स्फुरणं तदैव भवति यदा प्रक्रिया वैद्युद्गत्या घटति। रौहिण शब्दः वैदिके साहित्ये दुर्लभं शब्दमस्ति। अतएव, पुराणेषु रौहिणस्य विषये यः सूचना उपलब्धा भवति, तत् दुर्लभमस्ति। कथनमस्ति यत् यदा गरुडस्य अत्यधिक भारेण रौहिण वृक्षस्य शाखायाः भङ्गमभवत्, तदा वालखिल्या ऋषयः अपि वृक्षोपरि लम्बयित्वा तपोरताः अभूवन्। तदा गरुडस्य पितुः कश्यपस्य प्रार्थनया वालखिल्याः रौहिणं त्यक्त्वा अन्यत्र गता अभूवन्। वालखिल्य शब्दे वालः प्रकीर्णायाः ऊर्जायाः, ऊर्जा यस्य एण्ट्रांपी अधिकमस्ति, अव्यवस्थितायाः ऊर्जायाः प्रतीकमस्ति। अस्याः ऊर्जायाः व्यवस्थानं अपेक्षितमस्ति।

संयुज्य तपसात्मानम् ऐन्द्रं बिभ्रन्महद्वपुः । अदृश्यत मुहूर्तेन दिवि च व्योम्नि चेह च ।। ६६। ।

तमिन्द्रमिति मत्वा तु दैत्यौ भीमपराक्रमौ । धुनिश्च चुमुरिश्चोभौ सायुधावभिपेततुः ।। ६७ ।।

विदित्वा स तयोर्भावम् ऋषिः पापं चिकीर्षतोः । यो जात इति सूक्तेन कर्माण्यैन्द्राण्यकीर्तयत् ।। ६८ ।।

उक्तेषु कर्मस्वैन्द्रेषु भीस्तावाशु विवेश ह । इदमन्तरमित्युक्त्वा ताविन्द्रस्तु निबर्हयत् ।। बृहद्देवता ४.६९ ।।


यो जात एव प्रथमो मनस्वानिति सूक्तं समानोदर्कं तृतीयेऽहनि तृतीयस्याह्नो रूपां तदु सजनीयमेतद्वा इन्द्रस्येन्द्रियं यत्सजनीयमेतस्मिन्वै शस्यमान इन्द्रमिन्द्रियमाविशति तद्धाप्याहुश्छन्दोगास्तृतीयेऽहनि बह्वृचा इन्द्रस्येन्द्रियं शंसन्तीति तदु गार्त्समदमेतेन वै गृत्समद इन्द्रस्य प्रियं धामोपागच्छत्स परमं लोकमजयदुपेन्द्रस्य प्रियं धाम गच्छति जयति परमं लोकं य एवं वेद - ऐतरेय ब्राह्मणम् ५.२

यो जात एव प्रथमो मनस्वान् इत्य् एतस्मिंस् त्रैष्टुभे निविदम् दधाति । तद् एतद् इन्द्रतनू सूक्तम् । एतस्मिन् ह गृत्समदो बाभ्रवो निविदम् दधद् इन्द्रस्य प्रियम् धाम उपजगाम । उप ह वा इन्द्रस्य प्रियम् धाम गच्छति जयति परम् लोकम् य एतस्मिन्त् सूक्ते निविदम् दधाति । - कौशीतकि ब्राह्मणम् २२.२

अभूरेक इति सामसूक्तं मैत्रावरुणस्य १५ यो जात इति ब्राह्मणाच्छंसिनः १६ प्र घा न्वस्येत्यच्छावाकस्य शां.श्रौ.सू. १२.६.१७

सोमयागे शस्त्ररूपाणां मन्त्राणां शंसनं होता, मैत्रावरुण, ब्राह्मणाच्छंसी एवं अच्छावाक ऋत्विजचतुष्टयेन सम्पन्नं भवति। तेषां रहस्यं किं भवितुं शक्यते। भागवतपुराणे ११.२.४६ कथनमस्ति - ईश्वरे तदधीनेषु बालिशेषु द्विषत्सु च। प्रेम मैत्री कृपोपेक्षा यः करोति स मध्यमः। अतः होता ऋत्विजस्य कृत्यं प्रेमभावनया व्यवहारं भवितुं शक्यते, मैत्रावरुणस्य मैत्रीभावनया, ब्राह्मणाच्छंस्यः कृपया। या ऊर्जा बाला - विकीर्णा अस्ति, तस्याः उद्धारणाय कृपा अपेक्षितमस्ति। यदा ईश्वरः कृपां करोति, तदा भक्तः ईश्वरस्य विषये किं चिन्तयति, अयं महत्त्वपूर्णं न भवति। भक्तोपरि कृपाकरणे भक्तस्य धनं नष्टं भवितुं शक्यते, भक्तः व्याधिग्रस्तं भवितुं शक्यते इत्यादि। प्रस्तुत प्रसंगस्य सूक्ते अयं कार्यं ब्राह्मणाच्छंसी ऋत्विजस्य माध्यमे दर्शितमस्ति। ब्राह्मणाच्छंसी ब्रह्मविषये गृणाति।

सजनीयं निष्केवल्यम् १६.२३.१७

अभिप्लवषडहस्य षष्ठमहः - महाँ इन्द्रो नृवदिति मरुत्वतीयम् ४ यो जात इति निष्केवल्यम् ५ - शां.श्रौ.सू. ११.९.५

निष्केवल्यशस्त्रस्वरूप- (हौ ०) सोमयज्ञेषु प्रकृतिभूतअग्निष्टोमे तद्विकृतिषु चैकाहाहीन- सत्रेष माध्यन्दिनसवने प्रयुज्यमानस्य निष्केवल्यशस्त्रस्य पञ्चावयवाः ( भागाः) स्वरूपं भवति । तत्र १. स्तोत्रियः प्रगाथतृचः २. अनुरूपः प्रगाथतृचः, ३. धाय्या, ४. प्रगाथः ५. निविद्धानीयं सूक्तं चेति । तदुक्तम्- ' स्तोत्रियो योऽनुरूपञ्च धाय्या प्रागाथिकं तथा । निविद्धानीयसूक्तं च निष्केवल्ये परिकीर्तितम् । (ऐ० ब्रा- सा० ३ । २१) । अतः निष्केवल्यं च शस्त्रं तदवयवकृताः स्तोत्रियाद्याश्च पञ्चेति ज्ञेयम् । (ऐ० ब्रा० सा० ३ । २५) - पण्डित पीताम्बरदत्त शास्त्री - कृत श्रौतयज्ञप्रक्रिया - पदार्थानुक्रमकोषः(राष्ट्रियसंस्कृतसंस्थानम्, नई दिल्ली, २००५)

निष्केवल्य ( शस्त्र-)-

१ आत्मा यजमानस्य निष्केवल्यम् । ऐ ८,२ ।

२. निष्केवल्यं बह्व्यो देवताः प्राच्यः शस्यन्ते बह्व्य ऊर्ध्वाः, अथैतदिन्द्रस्यैव निष्केवल्यं तन्निष्केवल्यस्य निष्केवल्यत्वम् । कौ.ब्रा. १५,४ ।

३. यन्निष्केवल्यं तेन शुक्रमन्थिना उक्थवन्तौ । काठ २८,१० ।

यो जात एव - अथर्ववेद २०.३४.१, तै.सं. १.७.१३.२, मै.सं. ४.१२.३, ४.१८६.४, काठक सं. ८.१६, कौ.ब्रा. २१.४, २२.४, वैतानश्रौ. ३३.१२, कात्या.श्रौ. २५.१४.१९, निरुक्त १०.१०, तै.ब्रा. २.८.३.३, आश्व.श्रौ. ६.६.१५, ७.७.१, ८.७.११, ९.७.२३, मानव श्रौ. ५.१.१०.३९.५३, शां.श्रौ.१०.४.११, १०.११.१३, ११.९.५, १२.६.१६, १३.५.१६, १६.२३.१७, १८.१९.४, ऋग्विधा. १.२९.१, तै.सं. ७.५.५.२, काठ.सं. ३४.४, ऐ.ब्रा. ५.२.२, पञ्चविं.ब्रा. ९.४.१७, ऐ.आ. १.५.२.७, आप.श्रौ.सू. १४.१९.१०-११

मण्डल २

सूक्तं २.१

सूक्तं २.२

सूक्तं २.३

सूक्तं २.४

सूक्तं २.५

सूक्तं २.६

सूक्तं २.७

सूक्तं २.८

सूक्तं २.९

सूक्तं २.१०

सूक्तं २.११

सूक्तं २.१२

सूक्तं २.१३

सूक्तं २.१४

सूक्तं २.१५

सूक्तं २.१६

सूक्तं २.१७

सूक्तं २.१८

सूक्तं २.१९

सूक्तं २.२०

सूक्तं २.२१

सूक्तं २.२२

सूक्तं २.२३

सूक्तं २.२४

सूक्तं २.२५

सूक्तं २.२६

सूक्तं २.२७

सूक्तं २.२८

सूक्तं २.२९

सूक्तं २.३०

सूक्तं २.३१

सूक्तं २.३२

सूक्तं २.३३

सूक्तं २.३४

सूक्तं २.३५

सूक्तं २.३६

सूक्तं २.३७

सूक्तं २.३८

सूक्तं २.३९

सूक्तं २.४०

सूक्तं २.४१

सूक्तं २.४२

सूक्तं २.४३


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_२.१२&oldid=208740" इत्यस्माद् पुनः प्राप्तिः