सामग्री पर जाएँ

कौषीतकिब्राह्मणम्/अध्यायः २१

विकिस्रोतः तः
← अध्यायः २० कौषीतकिब्राह्मणम्
अध्यायः २१
[[लेखकः :|]]
अध्यायः २२ →
सोमयागः(अभिप्लवषडहः)


२१.१ अभिप्लवषडहप्रशस्तिः- द्वितीयत्र्यहप्रशस्तिः
देवा वै मृत्युम् पाप्मानम् अपजिघांसमाना ब्रह्मणः सलोकताम् सायुज्यम् ईप्सन्त एतम् अभिप्लवम् षडहम् अपश्यन् । त एतेन अभिप्लवेन अभिप्लुत्य मृत्युम् पाप्मानम् अपहत्य ब्रह्मणः सलोकताम् सायुज्यम् आपुः । तथो एव एतद् यजमाना एतेन एव अभिप्लवेन अभिप्लुत्य मृत्युम् पाप्मानम् अपहत्य ब्रह्मणः सलोकताम् सायुज्यम् आप्नुवन्ति । त एतेन पूर्वेण त्र्यहेण अभिप्लुत्य गवा चतुर्थे अहन्न् अयतन्त(अयजन्त) गमनाय एव । आयुः पञ्चमम् अहर् उपायन्त् सर्व आयुत्वाय । ज्योतिः षष्ठम् अहः पुनः परस्तात् पर्यास्यन् मृत्योर् एव पाप्मनो न अन्ववायनाय ।

२१.२ गौश्चतुर्थमहः
गाम् चतुर्थम् अहर् उपयन्ति । तस्य तान्य् एव छन्दो रूपाणि यानि चतुर्थस्य अह्नः । होता अजनिष्ट चेतन इत्य् आज्यम् जातवत् । जातवद् वै चतुर्थस्य अह्नो रूपम् । मैधातिथः प्रउगः । बृहद् वै साम सृज्यमानम् मैधातिथः प्रउगो अन्वसृज्यत । तद् रूपेण कर्म समर्धयति । एतद् वा आर्ध्निकम्(आर्धुकं) कर्म यद् रूप समृद्धम् । जनिष्ठा उग्रः सहसे तुराय इति मरुत्वतीयम् जातवद् । जातवद् वै चतुर्थस्य अह्नो रूपम् । उग्रो जज्ञे वीर्याय स्वधावान् इति निष्केवल्यम् जातवत् । जातवद् वै चतुर्थस्य अह्नो रूपम् । तद् देवस्य सवितुर् वार्यम् महद् इति सावित्रम् । अजीजनत् सविता सुम्नम् उक्थ्यम् इति जातवत् । जातवद् वै चतुर्थस्य अह्नो रूपम् । ते हि द्यावा पृथिवी विश्व शम्भुवा इति द्यावा पृथिवीयम् । सुजन्मनी धिषणे अन्तरीयत इति जातवत् । जातवद् वै चतुर्थस्य अह्नो रूपम् । अनश्वो जातो अनभीशुर् उक्थ्य इत्य् आर्भवम् जातवत् । जातवद् वै चतुर्थस्य अह्नो रूपम् । अग्निर् इन्द्रो वरुणो मित्रो अर्यमा इति वैश्वदेवम् । यज्ञम् जनित्वी तन्वी नि मामृजुर् इति जातवत् । जातवद् वै चतुर्थस्य अह्नो रूपम् । वैश्वानराय पृथु पाजसे विप इति वैश्वानरीयम् । तस्मिन्त् सुम्नानि यजमान आ चक इत्य् आवत् । आवद् वै चतुर्थस्य अह्नः प्रायणीय रूपम् । पुनः प्रायणीयम् हि चतुर्थम् अहः । जात आपृणो भुवनानि रोदसी इति जातवत् । जातवद् वै चतुर्थस्य अह्नो रूपम् । प्र ये शुम्भन्ते जनयो न सप्तय इति मारुतम् जातवत् । जातवद् वै चतुर्थस्य अह्नो रूपम् । जनस्य गोपा अजनिष्ट जागृविर् इति जातवेदसीयम् जातवत् । जातवद् वै चतुर्थस्य अह्नो रूपम् । अन्नम् चतुर्थेन अह्ना आप्नुवन्ति । चन्द्रमसम् देवम् देवतानाम् । दिशो अधिभूतम् श्रोत्रम् आत्मन् दधते ।

२१.३ आयुःपञ्चममहः
आयुः पञ्चमम् अहर् उपयन्ति । तस्य तान्य् एव छन्दो रूपाणि यानि पञ्चमस्य अह्नः । अग्न ओजिष्ठम् आ भर इत्य् आज्यम् । प्र नो राया परीणसा इति राया इत् रयिमत् । रयिमद् इति वा अस्य रूपम् । अध्यासवत् तत् पङ्क्ते रूपम् । संहार्यः प्रउगः । रथन्तरम् वै साम सृज्यमानम् संहार्यः प्रउगो अन्वसृज्यत । तद् रूपेण कर्म समर्धयति । एतद् वा आर्ध्नुकम्(आर्धुकम्) कर्म यद् रूप समृद्धम् । क्व स्य वीरः को अपश्यद् इन्द्रम् इति मरुत्वतीयम् । यो राया वज्री सुत सोमम् इच्छन्न् इति रया इति रयिमत् । रयिमद् इति वा अस्य रूपम् । एतायाम् आ उप गव्यन्त इन्द्रम् इति निष्केवल्यम् । (अभिप्लव षडह) गव्यन्त इति पशुमत् । पशुमद् इति वा अस्य रूपम् । उद् उ ष्य देवः सविता हिरण्यया इति सावित्रम् । घृतेन पाणी अभि प्रुष्णुते मख इति घृतेन इति पशुमत् । पशुमद् इति वा अस्य रूपम् । घृतवती भुवनानाम् अभिश्रिया इति द्यावा पृथिवीयम् घृतवत् तस्य उक्तम् ब्राह्मणम् । ततम् मे अपस् तद् उ तायते पुनर् इत्य् आर्भवम् । स्रुचा इव घृतम् जुहवाम विद्मना इति घृतवत् तस्य उक्तम् ब्राह्मणम् । कथा देवानाम् कतमस्य यामनी इति वैश्वदेवम् । सहस्रसा मेधसाताव् इव त्मना इति सहस्रसा इति पशुमत् । पशुमद् इति वा अस्य रूपम् । पृक्षस्य वृष्णो अरुषस्य नू सह इति वैश्वानरीयम् । अपाम् उपस्थे महिषा अगृभ्णत इति महिषा इति पशुमत् । पशुमद् इति वा अस्य रूपम् । प्रवः स्पडक्रन्त् सुविताय दावन इति मारुतम् । () (स्पडक्रन्त्???) गवाम् इव श्रियसे शृङ्गम् उत्तमम् इति गवाम् इव इति पशुमत् । पशुमद् इति वा अस्य रूपम् । चित्र इत् शिशोस् तरुणस्य वक्षथ इति जातवेदसीयम् । वाजिन्तमाय सह्यसे सुपित्र्या इति वाजिन्न् इति पशुमत् । पशुमद् इति वा अस्य रूपम् । अध्यासवत् तत् पङ्क्ते रूपम् । पशून् पञ्चमेन अह्ना आप्नुवन्ति । रुद्रम् देवम् देवतानाम् । यशो अधिभूतम् वीर्यम् आत्मन् दधते ।

२१.४ ज्योतिःषष्ठमहः
ज्योतिः षष्ठम् अहर् उपयन्ति । तस्य तान्य् एव छन्दो रूपाणि यानि षष्ठस्य अह्नः । सखायः सम् वः सम्यञ्चम् इत्य् आज्यम् । सखाय इति सर्व रूपम् । सर्व रूपम् वै षष्ठम् अहः । तस्मात् सखाय इति सर्वान् एव अभिवदति । संहार्यः प्रउगः । बृहद् वै साम सृज्यमानम् संहार्यः प्रउगो अन्वसृज्यत । तद् रूपेण कर्म समर्धयति । एतद् वा आर्ध्नुकम्(आर्धुकम्) कर्म यद् रूप समृद्धम् । महान् इन्द्रो नृवदा चर्षणिप्रा इति मरुत्वतीयम् । उरुः पृथुः सुकृतः कर्तृभिर् भूद् इति निनर्तिः । अन्तः षष्ठम् अहः । नीव वा अन्तम् गत्वा नृत्यति । कद्र्यन् हि तत इयात् । यो जात एव प्रथमो मनस्वान् इति निष्केवल्यम् । तस्य तद् एव अन्त रूपम् यद् भूत अनुवादि यो दासम् वर्णम् अधरम् गुहाकरि इति । यद् एतद् भूतम् इव अभि । सोदर्कम् भवति तद् द्वितीयम् अन्त रूपम् । तद् देवस्य सवितुर् वार्यम् महद् इति सावित्रम् । दिवो धर्ता भुवनस्य प्रजापतिर् इति । दिव इति तद् अमुष्य लोकस्य रूपम् । घृतेन द्यावा पृथिवी अभिवृते इति द्यावा पृथिवीयम् घृतवत् । सर्व देवत्यम् वै घृतम् । सर्व देवत्यम् षष्ठम् अहः । तस्माद् घृतवत् । किम् उ श्रेष्ठः किम् यविष्ठो न आजगन्न् इत्य् आर्भवम् । श्रेष्ठो यविष्ठ इति निनर्तिः । अन्तः षष्ठम् अहः । नीव वा अन्तम् गत्वा नृत्यति । कद्र्यन् हि तत इयात् । अबुध्रम् उ त्य इन्द्रवन्तो अग्नय इति वैश्वदेवम् । तस्य तद् एव अन्त रूपम् यत् सोदर्कम् । वैश्वानराय धिषणाम् ऋता वृध इति वैश्वानरीयम् । घृतम् न पूतम् अग्नये जनाम् असि इति घृतवत् तस्य उक्तम् ब्राह्मणम् । धारावरा मरुतो धृष्ण्व् ओजस इति मारुतम् । धारावरा इति निनर्तिः । अन्तः षष्ठम् अहः । नीव वा अन्तम् गत्वा नृत्यति । कर्द्यन्(कद्र्यङ्) हि तत इयात् । त्वम् अग्ने द्युभिस् त्वम् आशुशुक्षणिर् इति जातवेदसीयम् । त्वम् त्वम् इति सप्रभृति । यथा वै सोदर्कम् एवम् सप्रहृत्य् अन्त रूपम् । अपः षष्ठेन अह्ना आप्नुवन्ति । प्रजापतिम् देवम् देवतानाम् । तेजो अधिभूतम् अमृतम् आत्मन् दधते ।
 
२१.५ सत्रेअभिप्लवषळहःपृष्ठ्यषळहश्च
तद् आहुः कस्माद् वैश्वदेवान्य् एव अन्वायात्यन्ते न एकदेवत्यानि न द्वि देवत्यानि इति । न एक देवत्येन यातयामम् भवति । न द्विदेवत्येन । वैश्वदेवेन एव यातयामम् भवति । तस्माद् वैश्वदेवान्य् एव अन्वायात्य् अन्ते । एतेषाम् एव अह्नाम् सबलतायै । एतेषाम् अभिप्लवानाम् अयातयामतायै । ज्योतिः प्रथमम् अहर् उपयन्ति । तस्य एव एक अहस्य रूपेण । अयम् ह्य् एकाह उत्तरेषाम् अह्नाम् ज्योतिः । गाम् द्वितीयम् । गच्छन्ति ह्य् अनेन । आयुस् तृतीयम् । यन्ति ह्य् अनेन । (अभिप्लव षडह) अग्निष्टोमौ प्रथम उत्तमे अहनी । चत्वार्य् उक्थ्यानि मध्ये । ब्रह्म वा अग्निष्टोमः । पशव उक्थ्यानि । ब्रह्मणा एव तत् पशून् उभयतः परिगृह्य आत्मन् दधते । तेषाम् वा एतेषाम् चतुर्णाम् उक्थ्यानाम् सहस्रम् स्तोत्रियाः । साहस्राः पशवः । प्र साहस्रम् पोषम् आप्नोति य एवम् वेद । पृष्ठ्या अन्तान् वा इतश् चतुरश् चतुरो अभिप्लवान् उपयन्ति । पशवो वा अभिप्लवाः श्रीः पृष्ठ्यानि । पशुभिर् एव तत् श्रियम् उभयतः परिगृह्य आत्मन् दधते । पृष्ठ्या आरम्भणान् वा ऊर्ध्वम् विषुवतश् चतुरश् चतुरो अभिप्लवान् उपयन्ति । पशवो वा अभिप्लवाः श्रीः पृष्ठ्यानि । श्रिया एव तत् पशून् उभयतः परिगृह्य आत्मन् दधते ।

२१.६ अभिप्लवशब्दविचारः
क्लृप्तो वा अभिप्लवः क्लृप्तच् छन्दाः । यो वै यज्ञ क्रतुः क्लृप्तच् छन्दा भवति ।

21.7 सर्व जागतानि ह वै तस्य निविद्धानानि भवन्ति तृतीय सवने । तथा यथा यथम् निविदो धीयन्ते । ता एनान् यथा यथम् धीयमानाः सर्वेषु च लोकेषु सर्वेषु च कामेषु यथा यथम् दधति । तद् यत् सर्व जागतानि तस्य निविद्धानानि भवन्ति तृतीय सवने । तेनो यः सर्व जागते तृतीय सवने कामः स उपाप्तः । यद् व् एव एतास् तन्त्र्यास् त्रिष्टुभ उक्थ प्रतिपदो अहर् अहः शस्यन्ते । तेनो यः सर्व त्रैष्टुभे तृतीय सवने कामः स उपाप्तः । यद् व् एव एषा तन्त्र्या गायत्र्य् अहर् अहः सुरूप कृत्नुः शस्यते । तेनो यः सर्व गायत्रे तृतीय सवने कामः स उपाप्तः । यद् व् एव एष षड् अहः पुनः पुनः अभिप्लवते । तस्माद् अभिप्लवो नाम । अभिप्लवन्ते ह्य् अनेन स्वर्गाय लोकाय यजमानाः स्वर्गाय लोकाय यजमानाः ।

२१.१ अभिप्लवषडहप्रशस्तिः- द्वितीयत्र्यहप्रशस्तिः
देवा वै मृत्युम् पाप्मानम् अपजिघांसमाना ब्रह्मणः सलोकताम् सायुज्यम् ईप्सन्त एतम् अभिप्लवम् षडहम् अपश्यन् ।
त एतेन अभिप्लवेन अभिप्लुत्य मृत्युम् पाप्मानम् अपहत्य ब्रह्मणः सलोकताम् सायुज्यम् आपुः ।
तथो एव एतद् यजमाना एतेन एव अभिप्लवेन अभिप्लुत्य मृत्युम् पाप्मानम् अपहत्य ब्रह्मणः सलोकताम् सायुज्यम् आप्नुवन्ति ।
त एतेन पूर्वेण त्र्यहेण अभिप्लुत्य गवा चतुर्थे अहन्न् अयतन्त(अयजन्त) गमनाय एव ।
आयुः पञ्चमम् अहर् उपायन्त् सर्व आयुत्वाय ।
ज्योतिः षष्ठम् अहः पुनः परस्तात् पर्यास्यन् मृत्योर् एव पाप्मनो न अन्ववायनाय ।

२१.२ गौश्चतुर्थमहः
गाम् चतुर्थम् अहर् उपयन्ति ।
तस्य तान्य् एव छन्दो रूपाणि यानि चतुर्थस्य अह्नः ।
होता अजनिष्ट चेतन इत्य् आज्यम् जातवत् ।
जातवद् वै चतुर्थस्य अह्नो रूपम् ।
मैधातिथः प्रउगः ।
बृहद् वै साम सृज्यमानम् मैधातिथः प्रउगो अन्वसृज्यत ।
तद् रूपेण कर्म समर्धयति ।
एतद् वा आर्ध्निकम्(आर्धुकं) कर्म यद् रूप समृद्धम् ।
जनिष्ठा उग्रः सहसे तुराय इति मरुत्वतीयम् जातवद् ।
जातवद् वै चतुर्थस्य अह्नो रूपम् ।
उग्रो जज्ञे वीर्याय स्वधावान् इति निष्केवल्यम् जातवत् ।
जातवद् वै चतुर्थस्य अह्नो रूपम् ।
तद् देवस्य सवितुर् वार्यम् महद् इति सावित्रम् ।
अजीजनत् सविता सुम्नम् उक्थ्यम् इति जातवत् ।
जातवद् वै चतुर्थस्य अह्नो रूपम् ।
ते हि द्यावा पृथिवी विश्व शम्भुवा इति द्यावा पृथिवीयम् ।
सुजन्मनी धिषणे अन्तरीयत इति जातवत् ।
जातवद् वै चतुर्थस्य अह्नो रूपम् ।
अनश्वो जातो अनभीशुर् उक्थ्य इत्य् आर्भवम् जातवत् ।
जातवद् वै चतुर्थस्य अह्नो रूपम् ।
अग्निर् इन्द्रो वरुणो मित्रो अर्यमा इति वैश्वदेवम् ।
यज्ञम् जनित्वी तन्वी नि मामृजुर् इति जातवत् ।
जातवद् वै चतुर्थस्य अह्नो रूपम् ।
वैश्वानराय पृथु पाजसे विप इति वैश्वानरीयम् ।
तस्मिन्त् सुम्नानि यजमान आ चक इत्य् आवत् ।
आवद् वै चतुर्थस्य अह्नः प्रायणीय रूपम् ।
पुनः प्रायणीयम् हि चतुर्थम् अहः ।
जात आपृणो भुवनानि रोदसी इति जातवत् ।
जातवद् वै चतुर्थस्य अह्नो रूपम् ।
प्र ये शुम्भन्ते जनयो न सप्तय इति मारुतम् जातवत् ।
जातवद् वै चतुर्थस्य अह्नो रूपम् ।
जनस्य गोपा अजनिष्ट जागृविर् इति जातवेदसीयम् जातवत् ।
जातवद् वै चतुर्थस्य अह्नो रूपम् ।
अन्नम् चतुर्थेन अह्ना आप्नुवन्ति ।
चन्द्रमसम् देवम् देवतानाम् ।
दिशो अधिभूतम् श्रोत्रम् आत्मन् दधते ।

२१.३ आयुःपञ्चममहः
आयुः पञ्चमम् अहर् उपयन्ति ।
तस्य तान्य् एव छन्दो रूपाणि यानि पञ्चमस्य अह्नः ।
अग्न ओजिष्ठम् आ भर इत्य् आज्यम् ।
प्र नो राया परीणसा इति राया इत् रयिमत् ।
रयिमद् इति वा अस्य रूपम् ।
अध्यासवत् तत् पङ्क्ते रूपम् ।
संहार्यः प्रउगः ।
रथन्तरम् वै साम सृज्यमानम् संहार्यः प्रउगो अन्वसृज्यत ।
तद् रूपेण कर्म समर्धयति ।
एतद् वा आर्ध्नुकम्(आर्धुकम्) कर्म यद् रूप समृद्धम् ।
क्व स्य वीरः को अपश्यद् इन्द्रम् इति मरुत्वतीयम् ।
यो राया वज्री सुत सोमम् इच्छन्न् इति रया इति रयिमत् ।
रयिमद् इति वा अस्य रूपम् ।
एतायाम् आ उप गव्यन्त इन्द्रम् इति निष्केवल्यम् । (अभिप्लव षडह)
गव्यन्त इति पशुमत् ।
पशुमद् इति वा अस्य रूपम् ।
उद् उ ष्य देवः सविता हिरण्यया इति सावित्रम् ।
घृतेन पाणी अभि प्रुष्णुते मख इति घृतेन इति पशुमत् ।
पशुमद् इति वा अस्य रूपम् ।
घृतवती भुवनानाम् अभिश्रिया इति द्यावा पृथिवीयम् घृतवत् तस्य उक्तम् ब्राह्मणम् ।
ततम् मे अपस् तद् उ तायते पुनर् इत्य् आर्भवम् ।
स्रुचा इव घृतम् जुहवाम विद्मना इति घृतवत् तस्य उक्तम् ब्राह्मणम् ।
कथा देवानाम् कतमस्य यामनी इति वैश्वदेवम् ।
सहस्रसा मेधसाताव् इव त्मना इति सहस्रसा इति पशुमत् ।
पशुमद् इति वा अस्य रूपम् ।
पृक्षस्य वृष्णो अरुषस्य नू सह इति वैश्वानरीयम् ।
अपाम् उपस्थे महिषा अगृभ्णत इति महिषा इति पशुमत् ।
पशुमद् इति वा अस्य रूपम् ।
प्रवः स्पडक्रन्त् सुविताय दावन इति मारुतम् । () (स्पडक्रन्त्???)
गवाम् इव श्रियसे शृङ्गम् उत्तमम् इति गवाम् इव इति पशुमत् ।
पशुमद् इति वा अस्य रूपम् ।
चित्र इत् शिशोस् तरुणस्य वक्षथ इति जातवेदसीयम् ।
वाजिन्तमाय सह्यसे सुपित्र्या इति वाजिन्न् इति पशुमत् ।
पशुमद् इति वा अस्य रूपम् ।
अध्यासवत् तत् पङ्क्ते रूपम् ।
पशून् पञ्चमेन अह्ना आप्नुवन्ति ।
रुद्रम् देवम् देवतानाम् ।
यशो अधिभूतम् वीर्यम् आत्मन् दधते ।

२१.४ ज्योतिःषष्ठमहः
ज्योतिः षष्ठम् अहर् उपयन्ति ।
तस्य तान्य् एव छन्दो रूपाणि यानि षष्ठस्य अह्नः ।
सखायः सम् वः सम्यञ्चम् इत्य् आज्यम् ।
सखाय इति सर्व रूपम् ।
सर्व रूपम् वै षष्ठम् अहः ।
तस्मात् सखाय इति सर्वान् एव अभिवदति ।
संहार्यः प्रउगः ।
बृहद् वै साम सृज्यमानम् संहार्यः प्रउगो अन्वसृज्यत ।
तद् रूपेण कर्म समर्धयति ।
एतद् वा आर्ध्नुकम्(आर्धुकम्) कर्म यद् रूप समृद्धम् ।
महान् इन्द्रो नृवदा चर्षणिप्रा इति मरुत्वतीयम् ।
उरुः पृथुः सुकृतः कर्तृभिर् भूद् इति निनर्तिः ।
अन्तः षष्ठम् अहः ।
नीव वा अन्तम् गत्वा नृत्यति ।
कद्र्यन् हि तत इयात् ।
यो जात एव प्रथमो मनस्वान् इति निष्केवल्यम् ।
तस्य तद् एव अन्त रूपम् यद् भूत अनुवादि यो दासम् वर्णम् अधरम् गुहाकरि इति ।
यद् एतद् भूतम् इव अभि ।
सोदर्कम् भवति तद् द्वितीयम् अन्त रूपम् ।
तद् देवस्य सवितुर् वार्यम् महद् इति सावित्रम् ।
दिवो धर्ता भुवनस्य प्रजापतिर् इति ।
दिव इति तद् अमुष्य लोकस्य रूपम् ।
घृतेन द्यावा पृथिवी अभिवृते इति द्यावा पृथिवीयम् घृतवत् ।
सर्व देवत्यम् वै घृतम् ।
सर्व देवत्यम् षष्ठम् अहः ।
तस्माद् घृतवत् ।
किम् उ श्रेष्ठः किम् यविष्ठो न आजगन्न् इत्य् आर्भवम् ।
श्रेष्ठो यविष्ठ इति निनर्तिः ।
अन्तः षष्ठम् अहः ।
नीव वा अन्तम् गत्वा नृत्यति ।
कद्र्यन् हि तत इयात् ।
अबुध्रम् उ त्य इन्द्रवन्तो अग्नय इति वैश्वदेवम् ।
तस्य तद् एव अन्त रूपम् यत् सोदर्कम् ।
वैश्वानराय धिषणाम् ऋता वृध इति वैश्वानरीयम् ।
घृतम् न पूतम् अग्नये जनाम् असि इति घृतवत् तस्य उक्तम् ब्राह्मणम् ।
धारावरा मरुतो धृष्ण्व् ओजस इति मारुतम् ।
धारावरा इति निनर्तिः ।
अन्तः षष्ठम् अहः ।
नीव वा अन्तम् गत्वा नृत्यति ।
कर्द्यन् हि तत इयात् ।
त्वम् अग्ने द्युभिस् त्वम् आशुशुक्षणिर् इति जातवेदसीयम् ।
त्वम् त्वम् इति सप्रभृति ।
यथा वै सोदर्कम् एवम् सप्रहृत्य् अन्त रूपम् ।
अपः षष्ठेन अह्ना आप्नुवन्ति ।
प्रजापतिम् देवम् देवतानाम् ।
तेजो अधिभूतम् अमृतम् आत्मन् दधते ।

२१.५ सत्रेअभिप्लवषळहःपृष्ठ्यषळहश्च
तद् आहुः कस्माद् वैश्वदेवान्य् एव अन्वायात्य् अन्ते न एक देवत्याइ न द्वि देवत्यानि इति ।
न एक देवत्येन यात यामम् भवति ।
न द्वि देवत्येन ।
वैश्व देवेन एव यात यामम् भवति ।
तस्माद् वैश्वदेवान्य् एव अन्वायात्य् अन्ते ।
एतेषाम् एव अह्नाम् सबलतायै ।
एतेषाम् अभिप्लवानाम् असम वीर्यताया इति ।
ज्योतिः प्रथमम् अहर् उपयन्ति ।
तस्य एव एक अहस्य रूपेण ।
अयम् ह्य् एकाह उत्तरेषाम् अह्नाम् ज्योतिः ।
गाम् द्वितीयम् ।
गच्छन्ति ह्य् अनेन ।
आयुस् तृतीयम् ।
यन्ति ह्य् अनेन । (अभिप्लव षडह)
अग्निष्टोमौ प्रथम उत्तमे अहनी ।
चत्वार्य् उक्थ्यानि मध्ये ।
ब्रह्म वा अग्निष्टोमः ।
पशव उक्थ्यानि ।
ब्रह्मणा एव तत् पशून् उभयतः परिगृह्य आत्मन् दधते ।
तेषाम् वा एतेषाम् चतुर्णाम् उक्थ्यानाम् सहस्रम् स्तोत्रियाः ।
साहस्राः पशवः ।
प्र साहस्रम् पोषम् आप्नोति य एवम् वेद ।
पृष्ठ्या अन्तान् वा इतश् चतुरश् चतुरो अभिप्लवान् उपयन्ति ।
पशवो वा अभिप्लवाः श्रीः पृष्ठ्यानि ।
पशुभिर् एव तत् श्रियम् उभयतः परिगृह्य आत्मन् दधते ।
पृष्ठ्या आरम्भणान् वा ऊर्ध्वम् विषुवतश् चतुरश् चतुरो अभिप्लवान् उपयन्ति ।
पशवो वा अभिप्लवाः श्रीः पृष्ठ्यानि ।
श्रिया एव तत् पशून् उभयतः परिगृह्य आत्मन् दधते ।

२१.६ अभिप्लवशब्दविचारः
क्लृप्तो वा अभिप्लवः क्लृप्तच् छन्दाः ।
यो वै यज्ञ क्रतुः क्लृप्तच् छन्दा भवति ।
21.7
सर्व जागतानि ह वै तस्य निविद्धानानि भवन्ति तृतीय सवने ।
तथा यथा यथम् निविदो धीयन्ते ।
ता एनान् यथा यथम् धीयमानाः सर्वेषु च लोकेषु सर्वेषु च कामेषु यथा यथम् दधति ।
तद् यत् सर्व जागतानि तस्य निविद्धानानि भवन्ति तृतीय सवने ।
तेनो यः सर्व जागते तृतीय सवने कामः स उपाप्तः ।
यद् व् एव एतास् तन्त्र्यास् त्रिष्टुभ उक्थ प्रतिपदो अहर् अहः शस्यन्ते ।
तेनो यः सर्व त्रैष्टुभे तृतीय सवने कामः स उपाप्तः ।
यद् व् एव एषा तन्त्र्या गायत्र्य् अहर् अहः सुरूप कृत्नुः शस्यते ।
तेनो यः सर्व गायत्रे तृतीय सवने कामः स उपाप्तः ।
यद् व् एव एष षड् अहः पुनः पुनः अभिप्लवते ।
तस्माद् अभिप्लवो नाम ।
अभिप्लवन्ते ह्य् अनेन स्वर्गाय लोकाय यजमानाः स्वर्गाय लोकाय यजमानाः ।