सामग्री पर जाएँ

कौषीतकिब्राह्मणम्/अध्यायः २०

विकिस्रोतः तः
← अध्यायः १९ कौषीतकिब्राह्मणम्
अध्यायः २०
[[लेखकः :|]]
अध्यायः २१ →
सोमयागः (अभिप्लव षडह)


२०.१ अभिप्लवषडह फलश्रुतिः
देव चक्रम् वा एतत् परिप्लवम् यत् संवत्सरः । तद् अमृतम् । तस्मिन्न् एतत् षट् तयम् अन्नाद्यम् । ग्राम्याश् च पशव आरण्याश् च ओषधयश् च वनस्पतयश् च अप्सु चरम् च परिप्लवम् च । तद् देवाः समारुह्य सर्वांल् लोकान् अनु परिप्लवन्ते । देव लोकम् पितृ लोकम् जीव लोकम् । इमम् उप उदकम् अग्नि लोकम् । ऋत धामानम् वायु लोकम् । अपराजितम् इन्द्र लोकम् । अधिदिवम् वरुण लोकम् । प्रतिदिवम् मृत्यु लोकम् । रोचनम् ब्रह्मणो लोकम् । नाकम् सत्तमंल् लोकानाम् । तद् यद् अभिप्लवम् उपयन्ति । संवत्सरम् एव त यजमानाः समारोहन्ति । तस्मिन्न् एतत् षट्तयम् अन्नाद्यम् आप्नुवन्ति ग्राम्यांश् च पशून् आरण्यांश् च ओषधीश् च वनस्पतींश् च अप्सु चरम् च परिप्लवम् च । द्विर् ज्योति उ उपयन्ति । तेन द्वयम् अन्नाद्यम् आप्नुवन्ति ग्राम्यांश् च पशून् आरण्यांश् च । द्विर् गाम् उपयन्ति । तेन द्वयम् अन्नाद्यम् आप्नुवन्त्य् ओषधीश् च वनस्पतींश् च । द्विर् आयुर् उपयन्ति । तेन द्वयम् अन्नाद्यम् आप्नुवन्त्य् अप्सु चरम् च परिप्लवम् च ।

२०.२ ज्योतिः प्रथममहः
ज्योतिः प्रथमम् अहरु उपयन्ति । तस्य तान्य् एव छन्दो रूपाणि यानि प्रथमस्य अह्नः । प्र वो देवाय अग्नय इत्य् आज्यम् प्रवत् । प्रवद् वै प्रथमस्य अह्नो रूपम् । माधुच् छन्दसः प्रउगः । रथन्तरम् वै साम सृज्यमानम् माधुच् छन्दस प्रउगो अन्वसृज्यत । तद् रूपेण कर्म समर्धयति । एतद् वा आर्ध्नुकम्(आर्धुकम्) कर्म यद् रूप समृद्धम् । इन्द्रो रथाय प्रवतम् कृणोति इति मरुत्वतीयम् प्रवत् । प्रवद् वै प्रथमस्य अह्नो रूपम् । आ याह्य् अर्वान् उपवन्धुरा इष्टा इति निष्केवल्यम् आवत् । आवद् वै प्रथमस्य अह्नो रूपम् । युञ्जते मन उत युञ्जते धिय इति सावित्रम् युक्तवत् । युक्तवद् वै प्रथमस्य अह्नो रूपम् । प्र द्यावा यज्ञैः पृथिवी ऋतावृधा इति द्यावा पृथिवीयम् प्रवत् । उशिजो जग्मुर् अभि तानि वेदसा इत्य् अभिवत् । तद् राथन्तरम् रूपम् । कथा देवानाम् कतमस्य यामनी इति वैश्वदेवम् । कतम ऊती अभ्या ववर्तति इत्य् अभिवत् । तद् राथन्तरम् रूपम् । वैश्वानराय पृथु पाजसे विप इति वैश्वानरीयम् । तस्मिन्त् सुम्नानि यजमान आ चक इत्य् आवत् । आवद् वै प्रथमस्य अह्नो रूपम् । (प्रवत्प्रवद्वै प्रथमस्याह्नो रूपं - पाठभेदः)। प्रत्वक्षसः प्रतवसो विरप्शिन इति मारुतम् प्रवत् । प्रवद् वै प्रथमस्य अह्नो रूपम् । एहि प्र होता व्रतम् अस्य मायया इति जातवेदसीयम् प्रवत् । प्रवद् वै प्रथमस्य अह्नो रूपम् । इमंल् लोकम् प्रथमेन अह्ना आप्नुवन्ति । अग्निम् देवम् देवतानाम् । नाम अधिभूतम् वाचम् आत्मन् दधते ।

२०.३ गौर्द्वितीयमहः
गाम् द्वितीयम् अहर् उपयन्ति । तस्य तान्य् एव छन्दो रूपाणि यानि द्वितीयस्य अह्नः । त्वम् हि क्षैतवद् यश इत्य् आज्यम् । त्वम् विचक्षणे श्रव इति विवत् । तद् अस्य अन्तरिक्षस्य रूपम् । विवृतम् इव हि इदम् अन्तरिक्षम् । गार्त्समदः प्रउगः । बृहद् वै साम सृज्यमानम् गार्त्समदः प्रउगो अन्वसृज्यत । तद् रूपेण कर्म समर्धयति । एतद् वा आर्ध्नुकम्(आर्धुकम्) कर्म यद् रूप समृद्धम् । विश्वानरस्य वस्पतिम् इति मरुत्वतीयस्य प्रतिपद् विवती तस्या उक्तम् ब्राह्मणम् । इन्द्र इत् सोमपा एक इत्य् अनुचरः । इन्द्रः सुतपा विश्व आयुर् इति विवांस् तस्य उक्तम् ब्राह्मणम् । उत्तिष्ठ ब्रह्मणस्पत इत्य् उद्वान् ब्राह्मणस्पत्यः । उत्तिष्ठ इत्य् उद्वत् । उद्वद् वै द्वितीयम् अहः । इमा उ त्वा पुरुतमस्य कारोर् इति उद्वत् तस्य उक्तम् ब्राह्मणम् । सुत इत् त्वम् निमिश्ल इन्द्र सोम इति निष्केवल्यम् । स्तोमे ब्रह्मणि शस्यमान उक्थ इत्य् उद्वत् तस्य उक्तम् ब्राह्मणम् । विश्वो देवस्य नेतुर् इति वैश्वदेवस्य प्रतिपद् विवती तस्या उक्तम् ब्राह्मणम् । आ विश्वदेवम् सत्पतिम् इत्य् अनुचरो विवांस् तस्य उक्तम् ब्राह्मणम् । द्वे वैश्वदेवानाम् प्रतिपदौ । द्वाव् अनुचरौ । द्वे अहोरात्रे । षड् ऋतुः संवत्सरः षड्विधः । अनु द्वे द्यावा पृथिवी द्वे इमे प्रतिष्ठे । षड् अङ्गो अयम् आत्मा षड्विधः । अनु द्वाव् इमौ प्राण अपानौ । षड् इमे प्राणाः । अनु तन् न संवत्सर सम्पदो यन्ति । न आत्म संस्कृतेर् न प्राण संस्कृतेः । अभूद् देवः सविता वन्द्यो नु न इति सावित्रम् उद्वत् तस्य उक्तम् ब्राह्मणम् । ते हि द्यावा पृथिवी विश्व शम्भुवा इति द्यावा पृथिवीयम् विवत् तस्य उक्तम् ब्राह्मणम् । ततम् मे अपस् तद् उ तायते पुनर् इत्य् आर्भवम् उद्वत् तस्य उक्तम् ब्राह्मणम् । देवान् हुवे बृहत् श्रवसः स्वस्तय इति वैश्वदेवम् उद्वत् तस्य उक्तम् ब्राह्मणम् । पृक्षस्य वृष्णो अरुषस्य नू सह इति वैश्वानरीयम् वृषण्वत् । वृषा वा इन्द्रः । वृषा त्रिष्टुप् । तस्माद् वृषण्वत् । वृष्णे शर्धाय सुमखाय वेधस इति मारुतम् वृषण्वत् तस्य उक्तम् ब्राह्मणम् । यज्ञेन वर्धत जातवेदसम् इति जातवेदसीयम् । समिधानम् सुप्रयसम् स्वर्णरम् इत्य् उद्वत् तस्य उक्तम् ब्राह्मणम् । अन्तरिक्ष लोकम् द्वितीयेन आह्ना आप्नुवन्ति । वायुम् देवम् देवतानाम् । आयुर् अधिभूतम् प्राणम् आत्मन् दधते ।

२०.४ आयुस्तृतीयमहः
आयुस् तृतीयम् अहर् उपयन्ति । तस्य तान्य् एव छन्दो रूपाणि यानि तृतीयस्य अह्नः । त्वम् अग्ने वसूंर् इह इत्य् आज्यम् । स्वयम् सम्भृतम् वा एतच् छन्दो यद् अह्नो रूपेण सम्पद्यते । तान् रोहिद् अश्व गिर्वणस् त्रयस् त्रिंशतम् आ वह इति । तत् तृतीयस्य अह्नो रूपम् । औष्णिहो वैश्वमनस प्रउगः । रथन्तरम् वै साम सृज्यमानम् औष्णिहो वैश्वमनसः प्रउगो अन्वसृज्यत । तद् रूपेण कर्म समर्धयति । एतद् वा आर्ध्नुकम्(आर्धुकम्) कर्म यद् रूप समृद्धम् । तंतम् इद् राधसे मह इति मरुत्वतीयस्य प्रतिपत् । तंतम् इति निनर्तिः । अन्तस् तृतीयम् अहः । नीव वा अन्तम् गत्वा नृत्यति । कद्र्यन् हि तत इयात् । प्रैतु ब्रह्मणस्पतिर् इति प्रवान् ब्राह्मणस्पत्यः । त्रय इति तत् तृतीयस्य अह्नो रूपम् । प्रैतु ब्रह्मणस्पतिर् इति प्रवान् ब्राह्मणस्पत्यः । प्र देव्य् एतु सूनृता इति निनर्तिः । अन्तस् तृतीयम् अहः । नीव वा अन्तम् गत्वा नृत्यति । कद्र्यन् हि तत इयात् । तिस्रो मरुत्वतीयानाम् प्रतिपदस् त्रयो अनुचरास् त्रयो ब्राह्मणस्पत्याः । त्रयो वा इमे लोकाः । इमान् एव तल् लोकान् आप्नुवन्ति । तिष्ठा हरी रथ आ युज्यमाना इति मरुत्वतीयम् । तिष्ठ इति स्थितवत् । तद् अन्त रूपम् । अन्तस् तृतीयम् अहः । तिष्ठति इव वा अन्तम् गत्वा । कद्र्यन् हि तत इयात् । इन्द्रस्य नु वीर्याणि प्र वोचम् इति निष्केवल्यम् । तस्य तद् एव अन्त रूपम् यद् भूत अनुवाद्य् अहन्न् अहिम् अन्वपस् ततर्द इति । यद् एतद् भूतम् इव अभि । उद् उ ष्य देवः सविता हिरण्यया इति सावित्रम् । घृतेन पाणी अभि प्रुष्णुते मख इति घृतवत् । बहु देवत्यम् वै घृतम् । बहुदेवत्यम् तृतीयम् अहः । तस्माद् घृतवत् । घृतेन द्यावा पृथिवी अभीवृते इति द्यावा पृथिवीयम् घृतवत् तस्य उक्तम् ब्राह्मणम् । तक्षन् रथम् सुवृतम् विद्मना अपस इत्य् आर्भवम् । तक्षन् हरी इन्द्र वाहा वृषण् वसू इति निनर्तिः । अन्तस् तृतीयम् अहः । नीव वा अन्तम् गत्वा नृत्यति । कद्र्यन् हि तत इयात् । आ नो भद्राः क्रतवो यन्तु विश्वत इति वैश्वदेवम् । अप्रायुवो रक्षितारो दिवे दिव इति निनृत्तिः । अन्तस् तृतीयम् अहः । नीव वा अन्तम् गत्वा नृत्यति । कद्र्यन् हि तत इयात् । वैश्वानराय धिषणाम् ऋता वृध इति वैश्वानरीयम् । घृतम् न पूतम् अग्नये जनाम् असि इति घृतवत् तस्य उक्तम् ब्राह्मणम् । आ रुद्रास इन्द्रवन्तः सजोषस इति मारुतम् । तृष्णजे न दिव उत्सा उदन्यव इति । दिव इति तद् अमुष्य लोकस्य रूपम् । त्वाम् अग्न ऋतायवः समीधिर इति जातवेदसीयम् । त्वाम् त्वाम् इति सप्रभृति । यथा वै सोदर्कम् एवम् सप्रभृत्य् अन्त रूपम् । अमुंल् लोकम् तृतीयेन अह्ना आप्नुवन्ति । आदित्यम् देवम् देवतानाम् । रूपम् अधिभूतम् चक्षुर् आत्मन् दधते चक्षुर् आत्मन् दधते ।

२०.१ अभिप्लवषडह फलश्रुतिः
देव चक्रम् वा एतत् परिप्लवम् यत् संवत्सरः ।
तद् अमृतम् ।
तस्मिन्न् एतत् षट् तयम् अन्नाद्यम् ।
ग्राम्याश् च पशव आरण्याश् च ओषधयश् च वनस्पतयश् च अप्सु चरम् च परिप्लवम् च ।
तद् देवाः समारुह्य सर्वांल् लोकान् अनु परिप्लवन्ते ।
देव लोकम् पितृ लोकम् जीव लोकम् ।
इमम् उप उदकम् अग्नि लोकम् ।
ऋत धामानम् वायु लोकम् ।
अपराजितम् इन्द्र लोकम् ।
अधिदिवम् वरुण लोकम् ।
प्रतिदिवम् मृत्यु लोकम् ।
रोचनम् ब्रह्मणो लोकम् ।
नाकम् सत्तमंल् लोकानाम् ।
तद् यद् अभिप्लवम् उपयन्ति ।
संवत्सरम् एव त यजमानाः समारोहन्ति ।
तस्मिन्न् एतत् षट्तयम् अन्नाद्यम् आप्नुवन्ति ग्राम्यांश् च पशून् आरण्यांश् च ओषधीश् च वनस्पतींश् च अप्सु चरम् च परिप्लवम् च ।
द्विर् ज्योति उ उपयन्ति ।
तेन द्वयम् अन्नाद्यम् आप्नुवन्ति ग्राम्यांश् च पशून् आरण्यांश् च ।
द्विर् गाम् उपयन्ति ।
तेन द्वयम् अन्नाद्यम् आप्नुवन्त्य् ओषधीश् च वनस्पतींश् च ।
द्विर् आयुर् उपयन्ति ।
तेन द्वयम् अन्नाद्यम् आप्नुवन्त्य् अप्सु चरम् च परिप्लवम् च ।

२०.२ ज्योतिः प्रथममहः
ज्योतिः प्रथमम् अहरु उपयन्ति ।
तस्य तान्य् एव छन्दो रूपाणि यानि प्रथमस्य अह्नः ।
प्र वो देवाय अग्नय इत्य् आज्यम् प्रवत् ।
प्रवद् वै प्रथमस्य अह्नो रूपम् ।
माधुच् छन्दसः प्रउगः ।
रथन्तरम् वै साम सृज्यमानम् माधुच् छन्दस प्रउगो अन्वसृज्यत ।
तद् रूपेण कर्म समर्धयति ।
एतद् वा आर्ध्नुकम्(आर्धुकम्) कर्म यद् रूप समृद्धम् ।
इन्द्रो रथाय प्रवतम् कृणोति इति मरुत्वतीयम् प्रवत् ।
प्रवद् वै प्रथमस्य अह्नो रूपम् ।
आ याह्य् अर्वान् उपवन्धुरा इष्टा इति निष्केवल्यम् आवत् ।
आवद् वै प्रथमस्य अह्नो रूपम् ।
युञ्जते मन उत युञ्जते धिय इति सावित्रम् युक्तवत् ।
युक्तवद् वै प्रथमस्य अह्नो रूपम् ।
प्र द्यावा यज्ञैः पृथिवी ऋतावृधा इति द्यावा पृथिवीयम् प्रवत् ।
उशिजो जग्मुर् अभि तानि वेदसा इत्य् अभिवत् ।
तद् राथन्तरम् रूपम् ।
कथा देवानाम् कतमस्य यामनी इति वैश्वदेवम् ।
कतम ऊती अभ्या ववर्तति इत्य् अभिवत् ।
तद् राथन्तरम् रूपम् ।
वैश्वानराय पृथु पाजसे विप इति वैश्वानरीयम् ।
तस्मिन्त् सुम्नानि यजमान आ चक इत्य् आवत् ।
आवद् वै प्रथमस्य अह्नो रूपम् ।
प्रत्यक्षसः प्रतवसो विरप्शिन इति मारुतम् प्रवत् ।
प्रवद् वै प्रथमस्य अह्नो रूपम् ।
एहि प्र होता व्रतम् अस्य मायया इति जातवेदसीयम् प्रवत् ।
प्रवद् वै प्रथमस्य अह्नो रूपम् ।
इमंल् लोकम् प्रथमेन अह्ना आप्नुवन्ति ।
अग्निम् देवम् देवतानाम् ।
नाम अधिभूतम् वाचम् आत्मन् दधते ।

२०.३ गौर्द्वितीयमहः
गाम् द्वितीयम् अहर् उपयन्ति ।
तस्य तान्य् एव छन्दो रूपाणि यानि द्वितीयस्य अह्नः ।
त्वम् हि क्षैतवद् यश इत्य् आज्यम् ।
त्वम् विचक्षणे श्रव इति विवत् ।
तद् अस्य अन्तरिक्षस्य रूपम् ।
विवृतम् इव हि इदम् अन्तरिक्षम् ।
गार्त्समदः प्रउगः ।
बृहद् वै साम सृज्यमानम् गार्त्समदः प्रउगो अन्वसृज्यत ।
तद् रूपेण कर्म समर्धयति ।
एतद् वा आर्ध्नुकम्(आर्धुकम्) कर्म यद् रूप समृद्धम् ।
विश्वानरस्य वस्पतिम् इति मरुत्वतीयस्य प्रतिपद् विवती तस्या उक्तम् ब्राह्मणम् ।
इन्द्र इत् सोमपा एक इत्य् अनुचरः ।
इन्द्रः सुतपा विश्व आयुर् इति विवांस् तस्य उक्तम् ब्राह्मणम् ।
उत्तिष्ठ ब्रह्मणस्पत इत्य् उद्वान् ब्राह्मणस्पत्यः ।
उत्तिष्ठ इत्य् उद्वत् ।
उद्वद् वै द्वितीयम् अहः ।
इमा उ त्वा पुरुतमस्य कारोर् इति उद्वत् तस्य उक्तम् ब्राह्मणम् ।
सुत इत् त्वम् निमिश्ल इन्द्र सोम इति निष्केवल्यम् ।
स्तोमे ब्रह्मणि शस्यमान उक्थ इत्य् उद्वत् तस्य उक्तम् ब्राह्मणम् ।
विश्वो देवस्य नेतुर् इति वैश्वदेवस्य प्रतिपद् विवती तस्या उक्तम् ब्राह्मणम् ।
आ विश्वदेवम् सत्पतिम् इत्य् अनुचरो विवांस् तस्य उक्तम् ब्राह्मणम् ।
द्वे वैश्वदेवानाम् प्रतिपदौ ।
द्वाव् अनुचरौ ।
द्वे अहोरात्रे ।
षड् ऋतुः संवत्सरः षड्विधः ।
अनु द्वे द्यावा पृथिवी द्वे इमे प्रतिष्ठे ।
षड् अङ्गो अयम् आत्मा षड्विधः ।
अनु द्वाव् इमौ प्राण अपानौ ।
षड् इमे प्राणाः ।
अनु तन् न संवत्सर सम्पदो यन्ति ।
न आत्म संस्कृतेर् न प्राण संस्कृतेः ।
अभूद् देवः सविता वन्द्यो नु न इति सावित्रम् उद्वत् तस्य उक्तम् ब्राह्मणम् ।
ते हि द्यावा पृथिवी विश्व शम्भुवा इति द्यावा पृथिवीयम् विवत् तस्य उक्तम् ब्राह्मणम् ।
ततम् मे अपस् तद् उ तायते पुनर् इत्य् आर्भवम् उद्वत् तस्य उक्तम् ब्राह्मणम् ।
देवान् हुवे बृहत् श्रवसः स्वस्तय इति वैश्वदेवम् उद्वत् तस्य उक्तम् ब्राह्मणम् ।
पृक्षस्य वृष्णो अरुषस्य नू सह इति वैश्वानरीयम् वृषण्वत् ।
वृषा वा इन्द्रः ।
वृषा त्रिष्टुप् ।
तस्माद् वृषण्वत् ।
वृष्णे शर्धाय सुमखाय वेधस इति मारुतम् वृषण्वत् तस्य उक्तम् ब्राह्मणम् ।
यज्ञेन वर्धत जातवेदसम् इति जातवेदसीयम् ।
समिधानम् सुप्रयसम् स्वर्णरम् इत्य् उद्वत् तस्य उक्तम् ब्राह्मणम् ।
अन्तरिक्ष लोकम् द्वितीयेन आह्ना आप्नुवन्ति ।
वायुम् देवम् देवतानाम् ।
आयुर् अधिभूतम् प्राणम् आत्मन् दधते ।

२०.४ आयुस्तृतीयमहः
आयुस् तृतीयम् अहर् उपयन्ति ।
तस्य तान्य् एव छन्दो रूपाणि यानि तृतीयस्य अह्नः ।
त्वम् अग्ने वसूंर् इह इत्य् आज्यम् ।
स्वयम् सम्भृतम् वा एतच् छन्दो यद् अह्नो रूपेण सम्पद्यते ।
तान् रोहिद् अश्व गिर्वणस् त्रयस् त्रिंशतम् आ वह इति ।
तत् तृतीयस्य अह्नो रूपम् ।
औष्णिहो वैश्वमनस प्रउगः ।
रथन्तरम् वै साम सृज्यमानम् औष्णिहो वैश्वमनसः प्रउगो अन्वसृज्यत ।
तद् रूपेण कर्म समर्धयति ।
एतद् वा आर्ध्नुकम्(आर्धुकम्) कर्म यद् रूप समृद्धम् ।
तंतम् इद् राधसे मह इति मरुत्वतीयस्य प्रतिपत् ।
तंतम् इति निनर्तिः ।
अन्तस् तृतीयम् अहः ।
नीव वा अन्तम् गत्वा नृत्यति ।
कद्र्यन् हि तत इयात् ।
प्रैतु ब्रह्मणस्पतिर् इति प्रवान् ब्राह्मणस्पत्यः ।
त्रय इति तत् तृतीयस्य अह्नो रूपम् ।
प्रैतु ब्रह्मणस्पतिर् इति प्रवान् ब्राह्मणस्पत्यः ।
प्र देव्य् एतु सूनृता इति निनर्तिः ।
अन्तस् तृतीयम् अहः ।
नीव वा अन्तम् गत्वा नृत्यति ।
कद्र्यन् हि तत इयात् ।
तिस्रो मरुत्वतीयानाम् प्रतिपदस् त्रयो अनुचरास् त्रयो ब्राह्मणस्पत्याः ।
त्रयो वा इमे लोकाः ।
इमान् एव तल् लोकान् आप्नुवन्ति ।
तिष्ठा हरी रथ आ युज्यमाना इति मरुत्वतीयम् ।
तिष्ठ इति स्थितवत् ।
तद् अन्त रूपम् ।
अन्तस् तृतीयम् अहः ।
तिष्ठति इव वा अन्तम् गत्वा ।
कद्र्यन् हि तत इयात् ।
इन्द्रस्य नु वीर्याणि प्र वोचम् इति निष्केवल्यम् ।
तस्य तद् एव अन्त रूपम् यद् भूत अनुवाद्य् अहन्न् अहिम् अन्वपस् ततर्द इति ।
यद् एतद् भूतम् इव अभि ।
उद् उ ष्य देवः सविता हिरण्यया इति सावित्रम् ।
घृतेन पाणी अभि प्रुष्णुते मख इति घृतवत् ।
बहु देवत्यम् वै घृतम् ।
बहुदेवत्यम् तृतीयम् अहः ।
तस्माद् घृतवत् ।
घृतेन द्यावा पृथिवी अभीवृते इति द्यावा पृथिवीयम् घृतवत् तस्य उक्तम् ब्राह्मणम् ।
तक्षन् रथम् सुवृतम् विद्मना अपस इत्य् आर्भवम् ।
तक्षन् हरी इन्द्र वाहा वृषण् वसू इति निनर्तिः ।
अन्तस् तृतीयम् अहः ।
नीव वा अन्तम् गत्वा नृत्यति ।
कद्र्यन् हि तत इयात् ।
आ नो भद्राः क्रतवो यन्तु विश्वत इति वैश्वदेवम् ।
अप्रायुवो रक्षितारो दिवेद् इव इति निनर्तिः ।
अन्तस् तृतीयम् अहः ।
नीव वा अन्तम् गत्वा नृत्यति ।
कद्र्यन् हि तत इयात् ।
वैश्वानराय धिषणाम् ऋता वृध इति वैश्वानरीयम् ।
घृतम् न पूतम् अग्नये जनाम् असि इति घृतवत् तस्य उक्तम् ब्राह्मणम् ।
आ रुद्रास इन्द्रवन्तः सजोषस इति मारुतम् ।
तृष्णजे न दिव उत्सा उदन्यव इति ।
दिव इति तद् अमुष्य लोकस्य रूपम् ।
त्वाम् अग्न ऋतायवः समीधिर इति जातवेदसीयम् ।
त्वाम् त्वाम् इति सप्रभृति ।
यथा वै सोदर्कम् एवम् सप्रभृत्य् अन्त रूपम् ।
अमुंल् लोकम् तृतीयेन अह्ना आप्नुवन्ति ।
आदित्यम् देवम् देवतानाम् ।
रूपम् अधिभूतम् चक्षुर् आत्मन् दधते चक्षुर् आत्मन् दधते ।