कौषीतकिब्राह्मणम्/अध्यायः १९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १८ कौषीतकिब्राह्मणम्
अध्यायः १९
[[लेखकः :|]]
अध्यायः २० →
सोमयागः (गवामयनम्)


१९.१ दीक्षा
ते वै दीक्षिष्यमाणा अग्नीन्त् सन्निवपन्ते । एकधा एव तद् बलम् वीर्यम् यजमाना आत्मन् दधते । अथ एताम् सन्निवपनीयाम् इष्टिम् तन्वते । ते अग्नये ब्रह्मण्वते अष्टा कपालम् पुरोडाशम् निर्वपन्ति । अग्नये क्षत्रवत एकादश कपालम् । अग्नये क्षत्र भूते द्वादश कपालम् । ब्रह्म क्षत्रे एव तद् यजमानाः समारोहन्ति । ताभ्याम् एव एतत् स्वस्ति संवत्सरम् त(च)रन्ति । बहूनां चेष्यमाणानामेषा संनिवपनीयोषा संभरणी या सैवैकस्य दीक्षिष्यमाणस्य भवति।।

१९.२ प्राजापत्यपशौ देवता
अथैतेन प्राजापत्येन पशुना यजन्ते । प्रजापति प्रसूताः स्वस्ति इमम् संवत्सरम् समश्नवामहा इति । तम् ह एके वायव्यम् कुर्वन्ति । एतद् वै प्रजापतेः प्रत्यक्षम् रूपम् यद् वायुरि इति । अग्नय उ ह एके कामाय कुर्वन्ति । अग्निर् वै कामो देवानाम् ईश्वरः । सर्वेषाम् एव देवानाम् प्रीत्यै । तस्य ह एके वैश्वानरीयम् पशु पुरोडाशम् कुर्वन्ति । सर्वेषाम् एव देवानाम् प्रीत्यै । तस्य ह एके वैश्वानरीयम् पशु पुरोडाशम् कुर्वन्ति । असौ वै वैश्वानरो यो असौ तपति । एतम् एव तत् प्रीणन्ति । अथ या बहूनाम् सन्निवपनीय उखा सम्भरणीया सा एकस्य दीक्षिष्यमाणस्य भवति । ते पुरस्ताद् एव दीक्षा प्रसवान् कल्पयन्ते । तैषस्य अमावास्याया एक अह उपरिष्टाद् दीक्षेरन् । माघस्य वा इत्य् आहुः । तद् उभयम् व्युदिताम् । तैषस्य त्वा इव उदिततरम् इव । त एतम् त्रयोदशम् अधिचरम् मासम् आप्नुवन्ति । एतावान् वै संवत्सरो यद् एष त्रयोदशो मासः । तद् अत्र एव सर्वः संवत्सर आप्तो भवति ।

१९.३ दीक्षाकालः
स वै माघस्य अमावास्यायाम् उपवसत्य् उदन्न् आवर्त्स्यन् । उप इमे वसन्ति । प्रायणीयेन अतिरात्रेण यक्ष्यमाणाः । तद् एनम् प्रथमम् आप्नुवन्ति । तम् चतुर्विंशेन आरभन्ते । तद् आरम्भणीयस्य आरम्भणीयत्वम् । स षण् मासान् उदन्न् एति । तम् ऊर्ध्वैः षडहैर् अनुयन्ति । स षण् मासान् उदन्नित्वा तिष्ठते दक्षिणा आवर्त्स्यन् । उप इमे वसन्ति वैषुवतीयेन अह्ना यक्ष्यमाणाः । तद् एनम् द्वितीयम् आप्नुवन्ति । स षण् मासान् दक्षिणा एति । तम् आवृत्तैः षडहैर् अनुयन्ति । स षण् मासान् दक्षिणेत्वा तिष्ठत उदन्न् आवर्त्स्यन् । उप इमे वसन्ति माहाव्रतीयेन अह्ना यक्ष्यमाणाः । तद् एनम् तृतीयम् आप्नुवन्ति । तम् यत् त्रिर् आप्नुवन्ति । त्रेधा विहितो वै संवत्सरः । संवत्सरस्य एव आप्त्यै । तद् उत एषा अभिगीयते । अहोरात्राणि विदधद् ऊर्णाका इव धीर्यः । षण् मासो दक्षिणा आदित्यः षड् उदन्न् एति सूर्य इति । षड्ड् ह्य् एष मासान् उदन्न् एति । षड् दक्षिणा ।

१९.४ अग्निचित्यां दीक्षणीयेष्टिः
अथ एताम् अग्नि चित्यायाम् पञ्च हविषम् दीक्षणीयाम् इष्टिम् एके तन्वते । पाङ्क्तो वै यज्ञो यज्ञस्य एव आप्त्यै । अथ एताम् आतिथ्याम् पञ्च हविषम् एव इष्टिम् एके तन्वते । पाङ्क्तो वै यज्ञो यज्ञस्य एव आप्त्यै । अथ एता बह्व् अग्नीर् अन्वाह । बहून् ह्य् अग्नीन् प्रणयन्ति । तस्माद् बह्व् अग्नीर् अन्वाह । ता वै चतस्रो भवन्ति । चतुष्टयम् वा इदम् सर्वम् । अस्य एव सर्वस्य आप्त्यै । त्रिः प्रथमया त्रिर् उत्तमया अष्टौ सम्पद्यन्ते । अष्ट अक्षरा गायत्री । गायत्रो वा अग्निर् गायत्रच् छन्दाः । स्वेन एव तच् छन्दसा अग्नीन् प्रणयन्ति । ता वा उपांशु भवन्ति । रेतः सिक्तिर् वा अग्नि चित्या । उपांशु वै रेतः सिच्यते । अभिरूपा भवन्ति । यद् यज्ञे अभिरूपम् तत् समृद्धम् यज्ञस्य एव समृद्ध्यै । अथ एनम् चिन्वन्ति यावद् अहम् कामयन्ते । अथ एनम् संचितम् सामभिः परिष्टुवन्ति । अथ होतारम् आहुर् अग्न्य् उक्थम् अनुशंस इति । रुद्रो ह वा एष देवानाम् अशान्तः संचितो भवति । तम् एव एतत् शमयन्ति । निरुक्तम् वैश्वानरम् यजति । निरुक्तो ह्य् एष तदा भवति यदा अग्नीन् प्रणयन्ति ।

१९.५ देवसूभ्यो हवींषि
अथ अत ऊर्ध्वम् ऐकाहिकम् कर्म । हविर्धानयोः प्रवर्तनम् अग्नीषोमयोः प्रणयनम् अग्नीषोमीयः पशुस् तस्य उक्तम् ब्राह्मणम् । अथ अग्नीषोमीयस्य पशु पुरोडाशम् अन्वञ्चि देवसूभ्यो हवींषि निर्पवन्ति । एता ह वै देवताः सवानाम् ईशते । ता अत्र प्रीणन्ति । ता एभ्यः प्रीताः सवान् प्रस्वन्ति । तस्माद् देव स्वः । ता वा अष्टौ भवन्ति । एताभिर् वै देवाः सर्वा अष्टीर् आश्नुवत । तथो एव एतद् यजमाना एताभिर् एव सर्वा अष्टीर् अश्नुवते । अत्र ह एके सर्व पृष्ठायै हवींषि निर्वपन्ति । सर्वम् वा अग्नि चित्या । सर्वेण सर्वम् आप्नवाम इति । तानि वै दश हवींषि भवन्ति । दश दशिनी विराट् । श्रीर् विराड् अन्नाद्यम् । श्रियो विराजो अन्न अद्यस्य उपाप्त्यै । अथ सुन्वन्ति यावद् अहम् कामयन्ते ।

१९.६ त्वाष्ट्रः पशुः
अथ अनूबन्ध्यस्य वपायाम् संस्थितायाम् त्वाष्ट्रेण पशुना चरन्ति । रेतः सिक्तिर् वै त्वाष्ट्रः । पत्नी शाले चरन्ति । पत्नीषु वै रेतः सिच्यते । उपांशु चरन्ति । रेतः सिक्तिर् वै त्वाष्ट्रः । उपांशु वै रेतः सिच्यते । पर्यग्निकृतम् उत्सृजन्ति न संस्थापयन्ति । रेतः सिक्तिर् वै त्वाष्ट्रः । न इद् रेतः सिक्तम् पुरा कालात् संस्थापयाम इति । तद् आहुर् यद् एते देवते आवाहयति त्वष्टारम् च वनस्पतिम् च क्व अस्य एते इष्टे भवत इति । प्रयाजेषु वा एते देवते यजति । अत्र एव अस्य एते इष्टे भवत इति ।

१९.७ देविकाभ्यो हवींषि
अथ अनूबन्ध्यस्य पशु पुरोडाशम् अन्वञ्चि देविकाभ्यो हवींषि निर्वपन्ति । यात यामानि ह वा एतस्य छन्दांसि भवन्ति यः सोमेन यजते । छन्दांसि वै देविकाः । तद् यद् देविकाभ्यो हवींषि निर्वपन्ति । तेन ह अस्य अयात यामानि पुनर् यामानि भवन्ति । अथो धिर रसानि ह वा एतस्य छन्दांसि भवन्ति यः सोमेन यजन्ते । छन्दांसि वै देविकाः । तद् यद् देविकाभ्यो हवींषि निर्वपन्ति । छन्दसाम् एव सरसतायै । ता वा एता देव्यः । अथ एष कः प्रजापतिः । तस्माद् देविकाः । तानि वै पञ्च हवींषि भवन्ति । पञ्च पदा पङ्क्तिः । (ङवामयन) पाङ्क्तो वै यज्ञो यज्ञस्य एव आप्त्यै । अत्र ह एके देवीभ्यो हवींषि निर्वपन्ति । सर्वम् वा अग्नि चित्या । सर्वेण सर्वम् आप्नवाम इति । तानि वै दश हवींषि भवन्ति । दश दशिनी विराट् । श्रीर् विराड् अन्नाद्यम् । श्रियो विराजो अन्न अद्यस्य उपाप्त्यै । अत्र ह एके दिशाम् अवेष्टीः कुर्वन्ति । सर्वम् वा अग्नि चित्या । सर्वेण सर्वम् आप्नवाम इति । तानि वै षड्ड् हवींषि भवन्ति । षड् वा ऋतवः संवत्सरः । संवत्सरस्य एव आप्त्यै । अथ उदवसानीयायाम् संस्थितायाम् मैत्रावरुण्या पयस्यया यजेत तस्या उक्तम् ब्राह्मणम् । न एतया अनिष्ट्वा अग्निचिन् मैथुनम् चरेद् इति ।

१९.८ चतुर्विंशशस्त्राणि
मुखम् वा एतत् संवत्सरस्य यच् चतुर्विंशः । तस्माद् अग्निष्टोमो भवति । अग्निष्टोमो हि यज्ञानाम् मुखम् । मुखत एव तत् संवत्सरम् प्रीणन्ति । तद्द् ह एक उक्थ्यम् कुर्वन्ति । यज्ञस्य एव सभारतायै । तस्य चतुर्विंशः स्तोमो भवति । चतुर्विंशतिर् वै संवत्सरस्य अर्ध मासाः । संवत्सरस्य एव आप्त्यै । तस्य वै त्रीणि षष्टि शतानि स्तोत्रियाणाम् भवन्ति । त्रीणि वै षष्टि शतानि संवत्सरस्य अह्नाम् । तत् संवत्सरस्य अहान्य् आप्नुवन्ति । तस्य बृहत् पृष्ठम् भवति । द्वितीयम् वा एतद् अह्नाम् द्वितीयम् बृहत् पृष्ठानाम् । तस्माद् अस्य बृहत् पृष्ठम् भवति । अथ यत्र चतुर्विंश स्तोमम् उपयन्ति । अवधृतम् वा उ तत्र महा व्रतम् । बृहद् उ वा आयतनेन महा व्रतस्य पृष्ठम् भवति । तस्माद् बृहद् एव एतस्य अह्नः पृष्ठम् स्याद् इति । तस्य संवत् संवत्सरम् अभि पर्युदितानि छन्दो रूपाणि । होता अजनिष्ट चेतन इत्य् अष्टर्चम् आज्यम् गायत्री मात्रम् । गायत्री मात्रो वै स्तोमः । तद् वै शस्त्रम् समृद्धम् यस् स्तोमेन सम्पद्यते । माधुच् छन्दसः प्रउगः स वै समृद्धः । तस्य रूपेण अन्ये प्रौगाः कल्पन्ते । समृद्धम् मे प्रथमतः कर्म कृतम् असद् इति । आ त्वा रथम् यथा ऊतय इति मरुत्वतीयस्य प्रतिपत् । इदम् वसो सुतम् अन्ध इत्य् अनुचरः । एष एव नित्य एकाह आतानस् तस्य उक्तम् ब्राह्मणम् ।

१९.९ चतुर्विंशशस्त्राणि
कया शुभा सवयसः सनीडा इति मरुत्वतीयम् । तस्य अनुत्तमा ते मघवन् नकिर्न्व् इति नवमी । तया परिदधात्य् उत्तराः पूर्वाः शस्त्वा । मारुत्यो हि ता भवन्ति । अथ एषा निष्केवल्या । तस्माद् एतया परिदधाति । तस्मिन् वा अस्ति समान्या मरुतः सम् मिमिक्षुर् इति । संवत् तत् संवत्सरम् अभिवदति । तद् एतस्य अह्नो रूपम् । तद् इद् आस भुवनेषु ज्येष्ठम् इति बृहद्दिवो निष्केवल्यम् । बृहद् दिवेन अत्र होता रेतः सिञ्चति । तद् अदो महा व्रतीयेन अह्ना प्रजनयति संवत्सरे । संवत्सरे वै रेतः सिक्तम् जायते । तस्मिन् वा अस्ति सम् ते नवन्त प्रभृता मदेष्व् इति । संवत् तत् संवत्सरम् अभिवदति । तद् एतस्य अह्नो रूपम् । तत् सवितुर् वृणीमहे अद्या नो देव सवितर् इति नित्या एव वैश्वदेवस्य प्रतिपच् च अनुचरश् च तयोर् उक्तम् ब्राह्मणम् । तद् देवस्य सवितुर् वार्यम् महद् इति सावित्रम् । तस्मिन् वा अस्ति प्रजावन्तम् रयिम् अस्मे समिन्वत्व् इति । संवत् तत् संवत्सरम् अभिवदति । तद् एतस्य अह्नो रूपम् । ते हि द्यावा पृथिवी विश्व शम्भुवा इति द्यावा पृथिवीयम् । तस्मिन् वा अस्ति पनाय्यम् ओजो अस्मे समिन्वतम् इति । संवत् तत् संवत्सरम् अभिवदति । तद् एतस्य अह्ने रूपम् । किम् उ श्रेष्ठः किम् यविष्ठो न आजगन्न् इत्य् आर्भम् । तस्मिन् वा अस्ति संवत्सर इदम् अद्या व्याख्यत इति । तत् प्रत्यक्षम् संवत्सरम् अभिवदति । तद् एतस्य अह्नो रुपम् । यज्ञस्य वो रथ्यम् विश्पतिम् विशाम् इति शार्यातम् वैश्वदेवम् । तस्मिन् वा अस्ति इन्द्रो मित्रो वरुणः सम् चिकित्रिर इति । संवत् तत् संवत्सरम् अभिवदति । तद् एतस्य अह्नो रूपम् । वैश्वानराय धिषणाम् ऋतावृध इति वैश्वानरीयम् । तस्मिन् वा अस्ति धिया रथम् न कुलिशः समृण्वति इति । संवत् तत् संवत्सरम् अभिवदति । तद् एतस्य अह्नो रूपम् । वृष्णे शर्धाय सुमखाय वेधस इति मारुतम् । तस्मिन् वा अस्ति गिरः समञ्जे विदथेष्व् आभुव इति । संवत् तत् संवत्सरम् अभिवदति । तद् एतस्य अह्नो रूपम् । यज्ञेन वर्धत जात वेदसम् इति जात वेदसीयम् । तस्मिन् वा अस्ति संददस्वान् रयिम् अस्मासु दीदिहि इति । संवत् तत् संवत्सरम् अभिवदति । तद् एतस्य अह्नो रूपम् ।

१९.१० सर्वस्तोमसमाप्तौ कृत्यम्
तद्द् ह एतद् अहर् एके छन्दोगाः सर्व स्तोमम् कुर्वन्ति । अनेन अह्ना षड् अहम् आप्नुमः । षड् अहेन संवत्सरम् । ये च संवत्सरे कामाः । षड् अहो वा उ सर्वः संवत्सर इति वदन्तः । ते यदि तथा कुर्युः । षड् अह क्लृप्तम् शस्त्रम् कल्पयीत । यत् प्रथमस्य अह्न आज्यम् तद् आज्यम् । यच् चतुर्थस्य अह्नो निष्केवल्यम् तन् निष्केवल्यम् । यत् पञ्चमस्य अह्नो वैश्वदेवम् तद् वैश्वदेवम् । यत् षष्ठस्य अह्न आग्निमारुतम् तद् आग्निमारुतम् । तत्र पृष्ठ्य स्तोत्रियान्त् सर्वान्त् समाहृत्य उपरिष्टात् प्रगाथस्य प्रगाथी कृत्य शंसेत् षड् अहस्य आप्त्यै । तद् यथा एव एतेन अह्ना छन्दोगाः षड् अहम् आप्नुवन्ति षड् अहेन संवत्सरम् । ये च संवत्सरे कामाः । एवम् एव एतेन अह्ना होता षड् अहम् आप्नोति षड् अहेन संवत्सरम् । ये च संवत्सरे कामाः । तद्द् ह स्म एतत् प्रदिश्य आह सा एषा मुग्धिर् एव इति । यम् कम् च छन्दोगाः स्तोमम् उपापद्येर । न तद् आद्रियेत । यद् एव इदम् शस्त्रम् प्र्रवोचाम । तत एव नेयात् । एते वा उ स्तोम साहे सूक्ते यत् कयाशुभीय तदिदासीये । ताभ्याम् एव न निश्च्यवेत इति न निश्च्यवेत इति ।

१९.१ दीक्षा
ते वै दीक्षिष्यमाणा अग्नीन्त् सन्निवपन्ते ।
एकधा एव तद् बलम् वीर्यम् यजमाना आत्मन् दधते ।
अथ एताम् सन्निवपनीयाम् इष्टिम् तन्वते ।
ते अग्नये ब्रह्मण्वते अष्टा कपालम् पुरोडाशम् निर्वपन्ति ।
अग्नये क्षत्रवत एकादश कपालम् ।
अग्नये क्षत्र भूते द्वादश कपालम् ।
ब्रह्म क्षत्रे एव तद् यजमानाः समारोहन्ति ।
ताभ्याम् एव एतत् स्वस्ति संवत्सरम् त(च)रन्ति ।
बहूनां चेष्यमाणानामेषा संनिवपनीयोषा संभरणी या सैवैकस्य दीक्षिष्यमाणस्य भवति।।

१९.२ प्राजापत्यपशौ देवता
अथैतेन प्राजापत्येन पशुना यजन्ते ।
प्रजापति प्रसूताः स्वस्ति इमम् संवत्सरम् समश्नवामहा इति ।
तम् ह एके वायव्यम् कुर्वन्ति ।
एतद् वै प्रजापतेः प्रत्यक्षम् रूपम् यद् वायुरि इति ।
अग्नय उ ह एके कामाय कुर्वन्ति ।
अग्निर् वै कामो देवानाम् ईश्वरः ।
सर्वेषाम् एव देवानाम् प्रीत्यै ।
तस्य ह एके वैश्वानरीयम् पशु पुरोडाशम् कुर्वन्ति ।
सर्वेषाम् एव देवानाम् प्रीत्यै ।
तस्य ह एके वैश्वानरीयम् पशु पुरोडाशम् कुर्वन्ति ।
असौ वै वैश्वानरो यो असौ तपति ।
एतम् एव तत् प्रीणन्ति ।
अथ या बहूनाम् सन्निवपनीय उखा सम्भरणीया सा एकस्य दीक्षिष्यमाणस्य भवति ।
ते पुरस्ताद् एव दीक्षा प्रसवान् कल्पयन्ते ।
तैषस्य अमावास्याया एक अह उपरिष्टाद् दीक्षेरन् ।
माघस्य वा इत्य् आहुः ।
तद् उभयम् व्युदिताम् ।
तैषस्य त्वा इव उदिततरम् इव ।
त एतम् त्रयोदशम् अधिचरम् मासम् आप्नुवन्ति ।
एतावान् वै संवत्सरो यद् एष त्रयोदशो मासः ।
तद् अत्र एव सर्वः संवत्सर आप्तो भवति ।

१९.३ दीक्षाकालः
स वै माघस्य अमावास्यायाम् उपवसत्य् उदन्न् आवर्त्स्यन् ।
उप इमे वसन्ति ।
प्रायणीयेन अतिरात्रेण यक्ष्यमाणाः ।
तद् एनम् प्रथमम् आप्नुवन्ति ।
तम् चतुर्विंशेन आरभन्ते ।
तद् आरम्भणीयस्य आरम्भणीयत्वम् ।
स षण् मासान् उदन्न् एति ।
तम् ऊर्ध्वैः षडहैर् अनुयन्ति ।
स षण् मासान् उदन्नित्वा तिष्ठते दक्षिणा आवर्त्स्यन् ।
उप इमे वसन्ति वैषुवतीयेन अह्ना यक्ष्यमाणाः ।
तद् एनम् द्वितीयम् आप्नुवन्ति ।
स षण् मासान् दक्षिणा एति ।
तम् आवृत्तैः षडहैर् अनुयन्ति ।
स षण् मासान् दक्षिणेत्वा तिष्ठत उदन्न् आवर्त्स्यन् ।
उप इमे वसन्ति माहाव्रतीयेन अह्ना यक्ष्यमाणाः ।
तद् एनम् तृतीयम् आप्नुवन्ति ।
तम् यत् त्रिर् आप्नुवन्ति ।
त्रेधा विहितो वै संवत्सरः ।
संवत्सरस्य एव आप्त्यै ।
तद् उत एषा अभिगीयते ।
अहोरात्राणि विदधद् ऊर्णाका इव धीर्यः ।
षण् मासो दक्षिणा आदित्यः षड् उदन्न् एति सूर्य इति ।
षड्ड् ह्य् एष मासान् उदन्न् एति ।
षड् दक्षिणा ।

१९.४ अग्निचित्यां दीक्षणीयेष्टिः
अथ एताम् अग्नि चित्यायाम् पञ्च हविषम् दीक्षणीयाम् इष्टिम् एके तन्वते ।
पाङ्क्तो वै यज्ञो यज्ञस्य एव आप्त्यै ।
अथ एताम् आतिथ्याम् पञ्च हविषम् एव इष्टिम् एके तन्वते ।
पाङ्क्तो वै यज्ञो यज्ञस्य एव आप्त्यै ।
अथ एता बह्व् अग्नीर् अन्वाह ।
बहून् ह्य् अग्नीन् प्रणयन्ति ।
तस्माद् बह्व् अग्नीर् अन्वाह ।
ता वै चतस्रो भवन्ति ।
चतुष्टयम् वा इदम् सर्वम् ।
अस्य एव सर्वस्य आप्त्यै ।
त्रिः प्रथमया त्रिर् उत्तमया अष्टौ सम्पद्यन्ते ।
अष्ट अक्षरा गायत्री ।
गायत्रो वा अग्निर् गायत्रच् छन्दाः ।
स्वेन एव तच् छन्दसा अग्नीन् प्रणयन्ति ।
ता वा उपांशु भवन्ति ।
रेतः सिक्तिर् वा अग्नि चित्या ।
उपांशु वै रेतः सिच्यते ।
अभिरूपा भवन्ति ।
यद् यज्ञे अभिरूपम् तत् समृद्धम् यज्ञस्य एव समृद्ध्यै ।
अथ एनम् चिन्वन्ति यावद् अहम् कामयन्ते ।
अथ एनम् संचितम् सामभिः परिष्टुवन्ति ।
अथ होतारम् आहुर् अग्न्य् उक्थम् अनुशंस इति ।
रुद्रो ह वा एष देवानाम् अशान्तः संचितो भवति ।
तम् एव एतत् शमयन्ति ।
निरुक्तम् वैश्वानरम् यजति ।
निरुक्तो ह्य् एष तदा भवति यदा अग्नीन् प्रणयन्ति ।

१९.५ देवसूभ्यो हवींषि
अथ अत ऊर्ध्वम् ऐकाहिकम् कर्म ।
हविर्धानयोः प्रवर्तनम् अग्नीषोमयोः प्रणयनम् अग्नीषोमीयः पशुस् तस्य उक्तम् ब्राह्मणम् ।
अथ अग्नीषोमीयस्य पशु पुरोडाशम् अन्वञ्चि देवसूभ्यो हवींषि निर्पवन्ति ।
एता ह वै देवताः सवानाम् ईशते ।
ता अत्र प्रीणन्ति ।
ता एभ्यः प्रीताः सवान् प्रस्वन्ति ।
तस्माद् देव स्वः ।
ता वा अष्टौ भवन्ति ।
एताभिर् वै देवाः सर्वा अष्टीर् आश्नुवत ।
तथो एव एतद् यजमाना एताभिर् एव सर्वा अष्टीर् अश्नुवते ।
अत्र ह एके सर्व पृष्ठायै हवींषि निर्वपन्ति ।
सर्वम् वा अग्नि चित्या ।
सर्वेण सर्वम् आप्नवाम इति ।
तानि वै दश हवींषि भवन्ति ।
दश दशिनी विराट् ।
श्रीर् विराड् अन्नाद्यम् ।
श्रियो विराजो अन्न अद्यस्य उपाप्त्यै ।
अथ सुन्वन्ति यावद् अहम् कामयन्ते ।

१९.६ त्वाष्ट्रः पशुः
अथ अनूबन्ध्यस्य वपायाम् संस्थितायाम् त्वाष्ट्रेण पशुना चरन्ति ।
रेतः सिक्तिर् वै त्वाष्ट्रः ।
पत्नी शाले चरन्ति ।
पत्नीषु वै रेतः सिच्यते ।
उपांशु चरन्ति ।
रेतः सिक्तिर् वै त्वाष्ट्रः ।
उपांशु वै रेतः सिच्यते ।
पर्यग्निकृतम् उत्सृजन्ति न संस्थापयन्ति ।
रेतः सिक्तिर् वै त्वाष्ट्रः ।
न इद् रेतः सिक्तम् पुरा कालात् संस्थापयाम इति ।
तद् आहुर् यद् एते देवते आवाहयति त्वष्टारम् च वनस्पतिम् च क्व अस्य एते इष्टे भवत इति ।
प्रयाजेषु वा एते देवते यजति ।
अत्र एव अस्य एते इष्टे भवत इति ।

१९.७ देविकाभ्यो हवींषि
अथ अनूबन्ध्यस्य पशु पुरोडाशम् अन्वञ्चि देविकाभ्यो हवींषि निर्वपन्ति ।
यात यामानि ह वा एतस्य छन्दांसि भवन्ति यः सोमेन यजते ।
छन्दांसि वै देविकाः ।
तद् यद् देविकाभ्यो हवींषि निर्वपन्ति ।
तेन ह अस्य अयात यामानि पुनर् यामानि भवन्ति ।
अथो धिर रसानि ह वा एतस्य छन्दांसि भवन्ति यः सोमेन यजन्ते ।
छन्दांसि वै देविकाः ।
तद् यद् देविकाभ्यो हवींषि निर्वपन्ति ।
छन्दसाम् एव सरसतायै ।
ता वा एता देव्यः ।
अथ एष कः प्रजापतिः ।
तस्माद् देविकाः ।
तानि वै पञ्च हवींषि भवन्ति ।
पञ्च पदा पङ्क्तिः । (ङवामयन)
पाङ्क्तो वै यज्ञो यज्ञस्य एव आप्त्यै ।
अत्र ह एके देवीभ्यो हवींषि निर्वपन्ति ।
सर्वम् वा अग्नि चित्या ।
सर्वेण सर्वम् आप्नवाम इति ।
तानि वै दश हवींषि भवन्ति ।
दश दशिनी विराट् ।
श्रीर् विराड् अन्नाद्यम् ।
श्रियो विराजो अन्न अद्यस्य उपाप्त्यै ।
अत्र ह एके दिशाम् अवेष्टीः कुर्वन्ति ।
सर्वम् वा अग्नि चित्या ।
सर्वेण सर्वम् आप्नवाम इति ।
तानि वै षड्ड् हवींषि भवन्ति ।
षड् वा ऋतवः संवत्सरः ।
संवत्सरस्य एव आप्त्यै ।
अथ उदवसानीयायाम् संस्थितायाम् मैत्रावरुण्या पयस्यया यजेत तस्या उक्तम् ब्राह्मणम् ।
न एतया अनिष्ट्वा अग्निचिन् मैथुनम् चरेद् इति ।

१९.८ चतुर्विंशशस्त्राणि
मुखम् वा एतत् संवत्सरस्य यच् चतुर्विंशः ।
तस्माद् अग्निष्टोमो भवति ।
अग्निष्टोमो हि यज्ञानाम् मुखम् ।
मुखत एव तत् संवत्सरम् प्रीणन्ति ।
तद्द् ह एक उक्थ्यम् कुर्वन्ति ।
यज्ञस्य एव सभारतायै ।
तस्य चतुर्विंशः स्तोमो भवति ।
चतुर्विंशतिर् वै संवत्सरस्य अर्ध मासाः ।
संवत्सरस्य एव आप्त्यै ।
तस्य वै त्रीणि षष्टि शतानि स्तोत्रियाणाम् भवन्ति ।
त्रीणि वै षष्टि शतानि संवत्सरस्य अह्नाम् ।
तत् संवत्सरस्य अहान्य् आप्नुवन्ति ।
तस्य बृहत् पृष्ठम् भवति ।
द्वितीयम् वा एतद् अह्नाम् द्वितीयम् बृहत् पृष्ठानाम् ।
तस्माद् अस्य बृहत् पृष्ठम् भवति ।
अथ यत्र चतुर्विंश स्तोमम् उपयन्ति ।
अवधृतम् वा उ तत्र महा व्रतम् ।
बृहद् उ वा आयतनेन महा व्रतस्य पृष्ठम् भवति ।
तस्माद् बृहद् एव एतस्य अह्नः पृष्ठम् स्याद् इति ।
तस्य संवत् संवत्सरम् अभि पर्युदितानि छन्दो रूपाणि ।
होता अजनिष्ट चेतन इत्य् अष्टर्चम् आज्यम् गायत्री मात्रम् ।
गायत्री मात्रो वै स्तोमः ।
तद् वै शस्त्रम् समृद्धम् यस् स्तोमेन सम्पद्यते ।
माधुच् छन्दसः प्रउगः स वै समृद्धः ।
तस्य रूपेण अन्ये प्रौगाः कल्पन्ते ।
समृद्धम् मे प्रथमतः कर्म कृतम् असद् इति ।
आ त्वा रथम् यथा ऊतय इति मरुत्वतीयस्य प्रतिपत् ।
इदम् वसो सुतम् अन्ध इत्य् अनुचरः ।
एष एव नित्य एकाह आतानस् तस्य उक्तम् ब्राह्मणम् ।

१९.९ चतुर्विंशशस्त्राणि
कया शुभा सवयसः सनीडा इति मरुत्वतीयम् ।
तस्य अनुत्तमा ते मघवन् नकिर्न्व् इति नवमी ।
तया परिदधात्य् उत्तराः पूर्वाः शस्त्वा ।
मारुत्यो हि ता भवन्ति ।
अथ एषा निष्केवल्या ।
तस्माद् एतया परिदधाति ।
तस्मिन् वा अस्ति समान्या मरुतः सम् मिमिक्षुर् इति ।
संवत् तत् संवत्सरम् अभिवदति ।
तद् एतस्य अह्नो रूपम् ।
तद् इद् आस भुवनेषु ज्येष्ठम् इति बृहद्दिवो निष्केवल्यम् ।
बृहद् दिवेन अत्र होता रेतः सिञ्चति ।
तद् अदो महा व्रतीयेन अह्ना प्रजनयति संवत्सरे ।
संवत्सरे वै रेतः सिक्तम् जायते ।
तस्मिन् वा अस्ति सम् ते नवन्त प्रभृता मदेष्व् इति ।
संवत् तत् संवत्सरम् अभिवदति ।
तद् एतस्य अह्नो रूपम् ।
तत् सवितुर् वृणीमहे अद्या नो देव सवितर् इति नित्या एव वैश्वदेवस्य प्रतिपच् च अनुचरश् च तयोर् उक्तम् ब्राह्मणम् ।
तद् देवस्य सवितुर् वार्यम् महद् इति सावित्रम् ।
तस्मिन् वा अस्ति प्रजावन्तम् रयिम् अस्मे समिन्वत्व् इति ।
संवत् तत् संवत्सरम् अभिवदति ।
तद् एतस्य अह्नो रूपम् ।
ते हि द्यावा पृथिवी विश्व शम्भुवा इति द्यावा पृथिवीयम् ।
तस्मिन् वा अस्ति पनाय्यम् ओजो अस्मे समिन्वतम् इति ।
संवत् तत् संवत्सरम् अभिवदति ।
तद् एतस्य अह्ने रूपम् ।
किम् उ श्रेष्ठः किम् यविष्ठो न आजगन्न् इत्य् आर्भम् ।
तस्मिन् वा अस्ति संवत्सर इदम् अद्या व्याख्यत इति ।
तत् प्रत्यक्षम् संवत्सरम् अभिवदति ।
तद् एतस्य अह्नो रुपम् ।
यज्ञस्य वो रथ्यम् विश्पतिम् विशाम् इति शार्यातम् वैश्वदेवम् ।
तस्मिन् वा अस्ति इन्द्रो मित्रो वरुणः सम् चिकित्रिर इति ।
संवत् तत् संवत्सरम् अभिवदति ।
तद् एतस्य अह्नो रूपम् ।
वैश्वानराय धिषणाम् ऋतावृध इति वैश्वानरीयम् ।
तस्मिन् वा अस्ति धिया रथम् न कुलिशः समृण्वति इति ।
संवत् तत् संवत्सरम् अभिवदति ।
तद् एतस्य अह्नो रूपम् ।
वृष्णे शर्धाय सुमखाय वेधस इति मारुतम् ।
तस्मिन् वा अस्ति गिरः समञ्जे विदथेष्व् आभुव इति ।
संवत् तत् संवत्सरम् अभिवदति ।
तद् एतस्य अह्नो रूपम् ।
यज्ञेन वर्धत जात वेदसम् इति जात वेदसीयम् ।
तस्मिन् वा अस्ति संददस्वान् रयिम् अस्मासु दीदिहि इति ।
संवत् तत् संवत्सरम् अभिवदति ।
तद् एतस्य अह्नो रूपम् ।

१९.१० सर्वस्तोमसमाप्तौ कृत्यम्
तद्द् ह एतद् अहर् एके छन्दोगाः सर्व स्तोमम् कुर्वन्ति ।
अनेन अह्ना षड् अहम् आप्नुमः ।
षड् अहेन संवत्सरम् ।
ये च संवत्सरे कामाः ।
षड् अहो वा उ सर्वः संवत्सर इति वदन्तः ।
ते यदि तथा कुर्युः ।
षड् अह क्लृप्तम् शस्त्रम् कल्पयीत ।
यत् प्रथमस्य अह्न आज्यम् तद् आज्यम् ।
यच् चतुर्थस्य अह्नो निष्केवल्यम् तन् निष्केवल्यम् ।
यत् पञ्चमस्य अह्नो वैश्वदेवम् तद् वैश्वदेवम् ।
यत् षष्ठस्य अह्न आग्निमारुतम् तद् आग्निमारुतम् ।
तत्र पृष्ठ्य स्तोत्रियान्त् सर्वान्त् समाहृत्य उपरिष्टात् प्रगाथस्य प्रगाथी कृत्य शंसेत् षड् अहस्य आप्त्यै ।
तद् यथा एव एतेन अह्ना छन्दोगाः षड् अहम् आप्नुवन्ति षड् अहेन संवत्सरम् ।
ये च संवत्सरे कामाः ।
एवम् एव एतेन अह्ना होता षड् अहम् आप्नोति षड् अहेन संवत्सरम् ।
ये च संवत्सरे कामाः ।
तद्द् ह स्म एतत् प्रदिश्य आह सा एषा मुग्धिर् एव इति ।
यम् कम् च छन्दोगाः स्तोमम् उपापद्येर ।
न तद् आद्रियेत ।
यद् एव इदम् शस्त्रम् प्र्रवोचाम ।
तत एव नेयात् ।
एते वा उ स्तोम साहे सूक्ते यत् कयाशुभीय तदिदासीये ।
ताभ्याम् एव न निश्च्यवेत इति न निश्च्यवेत इति ।