कौषीतकिब्राह्मणम्/अध्यायः १८
← अध्यायः १७ | कौषीतकिब्राह्मणम् अध्यायः १८ [[लेखकः :|]] |
अध्यायः १९ → |
सोमयागः |
१८.१ आश्विनशस्त्रम्
अतिरिक्त सोमो वा एष यद् आश्विनम् । यद् वै यज्ञस्य अतिरिच्यते । भ्रातृव्यस् तेन यजमानस्य प्रत्युद्यमी भवति । अथ यत् परस्ताद् आश्विनौ यजति । अश्विनौ वै देवानाम् भिषजौ । भैषज्यम् एव तत् कुरुते । अथ यत्र ह तत् सविता सूर्याम् प्रायच्छत् सोमाय राज्ञे । यदि वा प्रजापतेः । तत् सहस्रम् अन्वाकरोद् दुहित्र ऊह्यमानायै । तद् आसाम् देवतानाम् आसीत् । ता अब्रुवन्न् आजिम् आयाम अस्मिन्त् सहस्र इति । ता आजिम् आयन् । तद् अश्विना उदजयताम् रासभेन । तस्माद् बह्व्यो देवताः शस्यन्ते । अथ आश्विनम् इत्य् आख्यायते । तत उ ह एतद् उत रासभो न सर्वम् इव जवम् धावति । सुतम् मया इति हतम् मन्यमानः सहस्रम् शंसेत् । सहस्रम् ह्य् उदजयताम् ।
१८.२ आश्विनशस्त्रम्
तद् आहुर् यद् बृहत्या आयतनानि पृष्ठानि भवन्त्य् अथ कस्मात् त्रिष्टुभा प्रतिपद्यत इति । त्रिः शस्ता एषा तिस्रश् च बृहत्यः सम्पद्यन्त एका च गायत्री । इदम् उ ह संधे रूपम् यत् तिस्रो बृहत्यः । पथम रूपम् गायत्री । अथ यद् बृहतीम् अभिसम्पादयति । बृहती ह्य् अभिवृतम् सम्पद्यते । अथ यद् बार्हतीनाम् प्रतिपदाम् प्रथमम् प्रथमम् प्रगाथम् पुनर् आदायम् ककुप् कारम् शंसति । पुनर् आदायम् वै सामगाः स्तुवते । तस्य एव एतद् रूपम् क्रियते । आग्नेयम् क्रतुम् शंसति । तद् इमंल् लोकम् आप्नोति । उषस्यम् शंसति । तद् अन्तरिक्ष लोकम् आप्नोति । आश्विनम् शंसति । तद् अमुंल् लोकम् आप्नोति । सौर्यम् क्रतुम् शंसति । अस्ति वै चतुर्थो देव लोक आपः । तम् एव अस्य तेन आप्नोति । प्रगाथम् शंसति । पशवो वै प्रगाथ । पशूनाम् एव आप्त्यै । अथो प्राण अपानौ वै बार्हतः प्रगाथः । द्यावा पृथिवीयम् शंसति । प्रतिष्ठे वै द्यावा पृथिवी प्रतिष्ठित्या एव । द्विपदाम् शंसति । प्रतिष्ठानीयम् वै छन्दो द्विपदा प्रतिष्हित्या एव । बार्हस्पत्यया परिदधाति । ब्रह्म वै बृहस्पतिः । ब्रह्मण्य् एव तद् अन्ततः प्रतितिष्ठति । अथ एषा सम्पद् भवति ।
१८.३ आश्विनशस्त्रम्
त्रीणि गायत्री शतानि ते द्वे बृहती शते । सप्ततिम् अनुष्टुभः सप्ततिम् पङ्क्तयश् चत्वारिंशत् शतम् बृहतीनाम् । त्रयाणाम् त्रिष्टुप् शतानाम् गायत्री शतम् उद्धृत्य तानि त्रीणि बृहती शतानि । तच् च गायत्री शतम् जगती शतम् च ते द्वे बृहती शते । पञ्चाशत् त्रिष्टुभः पञ्चाशद् उष्णिहः शतम् बृहत्यः सम्पद्यन्ते । अथ याः सप्त पञ्चाशतम् बृहत्यो अत्र एव ताः सम्पन्नात्ः । अथ ये द्वापञ्चाश्यौ त्रिष्टुभौ द्विपदा च तास् तिरो बृहत्यः सम्पद्यन्ते । तन् नानाच् छन्दस्यानाम् सहस्रम् सत् सहस्रम् बृहत्यः सम्पद्यन्ते । न सहस्रम् अतिशंसेन् न अर्वाक् सहस्राद् इत्य् एषा ह एव स्थितिः । प्रो त्व् एव आश्विनस्य विभूतिर् इति दिश्यते । एष आग्नेयः क्रतुः । आग्नेयाद् एव ऋतोर् न निश्च्यवेत । अथ यद्य् आग्नेयम् क्रतुम् पुरा कालात् समतीयात् । आश्विनम् अनु यत् किंच द्विदेवत्यम् ऋक्षु तद् अनुवर्तयेत् । सौर्ये क्रतौ पावमानीर् यथाच् छन्दसम् । गायत्रीर् गायत्रे त्रिष्टुभस् त्रैष्टुभे जगतीर् जागते । सर्वम् सूर्य न्यङ्गम् सौर्यस्य आयतने । सर्वान् ऐन्द्रान् प्रगाथान् प्रगाथस्य आयतने । सर्वम् द्यावा पृथिवीयम् द्यावा पृथिवीयस्य आयतने । सर्वा द्विपदा द्विपदाया आयतने । सर्वम् बार्हस्पत्यम् पुरस्तात् परिधानीयायै । एतद् वै किंचिद् इव ऋचाम् न प्रदिश्यते ।
१८.४ आश्विनशस्त्रम्
अथ वै चक्रीवद् आश्विनम् । आलम्बधे चक्रे अकूध्रीच्यो अक्षः । आ वाम् रथो अश्विना श्येनपत्वा इति स उद्धिः । अथ चत्वार्य् आगस्त्यानि युक्तानि । स एष देव रथः । स एतेन देव रथेन स्वस्ति स्वर्गंल् लोकम् समश्नुते । ससुपर्णम् स्यात् । वयो वै सुपर्णः । तद् यथा पक्षि वयो भूत्वा एवम् तत् स्वस्ति स्वर्गंल् लोकम् समश्नुते । द्विर् एव आश्विनाय आह्वयेते प्रतिपदे च एव परिधानीयायै च । तद् यथा प्रतिघातेन अनिवेष्ट्यमानो धावयेद् एवम् तत् । अथ अतः परिधानस्य एव मीमांसा । यद् आदित्यो रराट्याम् अतिसर्पेत् । यदा एनम् स्वयम् होता निर्जानीयात् । यद् आस्य लोहितम् आवीयात् । यद् एव एनम् सर्वे रश्मयः प्रत्युप्येरन् । स कालः परिधानस्य । एतस्मिन् ह वा एष काले अपहत पाप्मा विविक्त पाप्मा भवति । अपहते पाप्मानम् विविच्यते पाप्मना य एतस्मिन् काले परिदधाति । अथ यद्य् अभ्रम् स्यात् । एतद् वा अस्य तद् रूपम् येन प्रजा बिभर्ति । इदम् एकम् यद् अयम् प्राणो अध्यात्मम् । अतिरोहितो मद् इत्य् एव
१८.५ आश्विनशस्त्रम्
तम् मन्यमानः परिदध्यात् । विभ्राज आहुतिम् जुहुयाद् अनिर्ज्ञायमान आदित्ये । यो अनुपयुक्तः स्यात् । आविर् एभ्यो भवति । द्वाभ्याम् यजेत् । द्वाभ्याम् ह्य् आश्विनम् इत्य् आख्यायते । अनवानम् गायत्रीम् उक्त्वा विराजो अर्धर्चे अवान् इति । श्रीर् विराड् अन्नाद्यम् । श्रियाम् तद् विराज्य् अन्न अद्ये प्रतितिष्ठति । उत्तरेण विराजो अर्धर्चेन वषट् करोति । स्वर्ग एव तल् लोके यजमानम् दधाति । विराजा एव यजेद् इति ह स्म आह कौषीतकिः । त्रयस् त्रिंशद् अक्षरा वै विराट् । त्रयस् त्रिंशद् देवताः । अक्षर भाजो देवताः करोति । अश्विना वायुना युवम् सुदक्ष इति त्व् एव स्थिता आश्विनी त्रिष्टुप् तिरो अह्न्यवती । तिरो अह्न्या हि सोमा भवन्ति । अथो बलम् वै वीर्यम् त्रिष्टुप् । बलम् एव तद् वीर्यम् यजमाने दधाति । अनुवषट् करोत्य् आहुतीनाम् एव शान्त्यै । आहुतीनाम् प्रतिष्ठित्यै । संसन्नेषु छन्दोगेषु प्रवृत होमीये आहुती जुहोति । महत् शस्त्रम् वाक् च मनश् च प्रीते उद्यच्छातम् इति ।
१८.६ हारियोजनम्
अथ हारियोजनेन चरन्ति । हरी एव तत् प्रीणन्ति । अत्र देवाः स अश्वाः प्रीता भवन्ति । त्रिष्टुभम् हारि योजनस्य पुरोनुवाक्याम् अनूच्य जगत्या यजति । बलम् वै वीर्यम् त्रिष्टुप् । पशवो जगती । बल एव तद् वीर्ये अन्ततः पशुषु च प्रतितिष्ठति । मद्वती याज्या मद्वद्द् हि तृतीय सवनम् । अनुवषट् करोत्य् आहुतीनाम् एव शान्त्यै । आहुतीनाम् प्रतिष्ठित्यै । तासाम् भूयिष्ठा धानानाम् आददीत । पशवो वै धानाः । भूमानम् एव तत् पशूनाम् आत्मन् धत्ते । अथ यद् ऋचम् जपन्ति स्वस्त्ययनम् एव तत् कुर्वते । ता आहवनीयस्य भस्म अन्ते निवपन्ति । योनिर् वै पशूनाम् आहवनीयः । स्व एव एनांस् तद् गोष्ठे अनपक्रमे दधति ।
१८.७ शाकलहोमः
अथ शाकलान् जुह्वति । तद् यथा अहिर् जीर्णायै त्वचो निर्मुच्येत । इषीका वा मुञ्जात् । एवम् एव एते सर्वस्मात् पाप्मनः सम्प्रमुच्यन्ते ।
१८.८ ज्योतिष्टोमसमापनम्
अथ सव्यावृतो अप्सु सोमान् उपपरायन्ति । तान् इह अन्तर् वेद्य् आसादयन्ति । तद्द् हि सोमस्य आयतनम् । व्यपदधति दर्भ प्ञ्जूलानि । यदा वा आपश् च औषधयश् च संगच्छन्ते । अथ कृत्स्नः सोमः । ता वैष्णव्या ऋचा निनयन्ति । यज्ञो वै विष्णुः । यज्ञ एव एनांस् तद् अन्ततः प्रतिष्ठापयन्ति । अथ प्राणान्त् सम्मृशन्ते । तद् यद् एव अत्र प्राणानाम् क्रूरी कृतम् यद् विलिष्टम् तद् एव एतद् आप्याययन्ति तद् भिषज्यन्ति । भक्ष परिधीन् कुर्वते । मानुषेण एव तद् भक्षेण दैवम् भक्षम् अन्तर् दधते ।
१८.९ अवभृथः
अवभृथः । अमुम् एव एतत् सवनैर् ईप्सन्ति यो असौ तपति । उद्यन्तम् प्रातः सवनेन । मध्ये सन्तम् माध्यंदिनेन सवनेन । अस्तम् यन्तम् तृतीय सवनेन । स वा एषो अपः प्रविश्य वरुणो भवति । तस्माद् वारुणम् एक कपालम् पुरोडाशम् निर्वपन्ति । एकस्था वै श्रीः । श्रीर् वै वरुणः । श्रियाम् एव तद् अन्ततः प्रतितिष्ठन्ति । ते अन्तरेण चात्वाल उत्करा उपनिष्क्रामन्ति । तद्द् हि यज्ञस्य तीर्थम् आप्नानम् नाम । तद् एतद् ऋचा अभ्युदितम् । आप्नानम् तीर्थम् किम् इह प्र वोचद् इति । एतेन वै देवास् तीर्थेन यज्ञम् प्रपद्य सर्वान् कामान् आपुः । तथो एव एतद् यजमान एतेन एव तीर्थेन यज्ञम् प्रपद्यते । सर्वान् कामान् आप्नोति ।
१८.१० अवभृथः
ते यस्याम् दिश्य् आपो भवन्ति ताम् दिशम् अभ्यावृत्य चरन्ति । सा वै प्राची दिग् यस्याम् देवताः । चतुरः प्रयाजान् यजत्य् ऋते बर्हिष्कम् । बर्हिष्मन्तम् उत्सृजति । न ह्य् अत्र बर्हिः स्तीर्यते । वार्त्रघ्नाव् आज्य भागौ भवतः पाप्मन एव वधाय । अथो ह अस्य पौर्णमासात् तन्त्राद् अनितम् भवति । अप्सुमन्तौ ह एके कुर्वन्ति । वार्त्रघ्नौ त्व् एव स्थितौ । अथ यद् अप्सु वरुणम् यजति । स्व एव एनम् तद् आयतने प्रीणाति । अथ यद् अग्नीवरुणौ यजति । अत्र अग्निः सर्वेषु हविह्षु भागी भवति । द्वाव् अनुयाजौ यजत्य् ऋते बर्हिष्कम् । बर्हिष्मन्तम् उत्सृजति । प्रजा वै बर्हिः । न इत् प्रजाम् अप्सु प्रवृणजानि इति । त एक शतम् प्रयाज अनुयाजा भवन्ति । शत आयुर् वै पुरुषः शत वीर्यः शत इन्द्रियः । उप य एक शततमः स आत्मा । तद् एतद् अङ्गिरसाम् अयनम् । स एतेन अयनेन प्रतिपद्य अङ्गिरसाम् सलोकताम् सायुज्यम् आप्नोति । अथ याः षड् वा अष्टौ वा वषट् कृतयः । तद् आदित्यानाम् अयनम् । स एतेन अयनेन प्रतिपद्य आदित्यानाम् सलोकताम् सायुज्यम् आप्नोति ।
१८.११ अनूबन्ध्या
अनूबन्ध्या । चतुर्थम् एव एतत् सवनम् यद् अनूबन्ध्या । तस्माद् अच्युता भवति । चतुर्थम् ह्य् एव एतत् सवनानाम् । सा वै मैत्रावरुणी भवति । अग्नीषोमीयो हि पुरस्तात् कृतो भवति । तस्मान् मैत्रावरुणी भवति । यज्ञस्य एव सभारतायै । अथ यद् अप्सु वरुणम् यजति । अत्र मित्रो हीनो भवति । तस्मान् मैत्रावरुणी भवति । मित्रस्य एव अनुलब्ध्यै ।
१८.१२ अनूबन्ध्या
अथ यदि पशुर् आनीतो अनुपाकृतो म्रियेत । ऋत्विग्भ्यस् तम् कारयेत् । अथ अन्यम् तद् रूपम् तद् वर्णम् आलभेरन् । तम् आप्रीतम् पर्यग्नि कृतम् उदञ्चम् नयेयुः । तस्य अनु न्यायम् इतरम् कर्षयेयुः । तयोर् नाना वपे उत्खिद्य नाना श्रपयित्वा नाना वदाय समाने वषट् कारे जुहुयुः । तयोर् नाना एव पशु पुरोडाशौ श्रपयित्वा नाना वदाय समाने वषट् कारे जुहुयुः । तयोर् नाना एव हविषी श्रपयित्वा नाना वदाय समाने वषट् कारे जुयुहुः । एवम् तृतीय गुदाव् एवम् जाघन्यौ । यदि त्व् अप्य् एकया एव आप्रिय आप्रीतः स्यात् । तेन एव प्रचुरेयुर् इति सा स्थितिः । प्राणा वै आप्रियः । प्राणान् एव अस्मिंस् तद् दधाति । अथ यद्य् अष्टापदी स्यात् कथम् स्याद् इति । गर्भस्य त्वचो वपा रूपम् फाली करणान् गर्भम् इति शामित्रे श्रपयित्वा इतरस्य वषट् कारेषु शामित्र एव जुहुयुः । रक्षांसि ह वा एतद् यज्ञम् गच्छन्ति यद् अत्र एतादृग् भवति । तानि तेन अपहन्ति । तद् अरक्षो हतम् । एवम् नु यदि पशुर् अनूबन्ध्या भवति । यद्य् उ वै पयस्या ।
१८.१३ अनूबन्ध्या
अथ यदि गो पशुर् भवति । गो संस्तवौ वै मित्रावरुणौ । तस्माद् गो पशुर् भवति । अथ यत् त्रिष्टुभो याज्या भवन्ति । बलम् वै वीर्यम् त्रिष्टुप् । बलम् एव तद् वीर्यम् यजमाने दधाति । युवम् वस्त्राणि पीवसा वसाथे इति वपायै याज्या । पीवसा इत् तद् वपायै मेदसो रूपम् । यद् बंहिष्ठम् ( बन्हिष्ठम् ) न अतिविधे सुदानू इति पुरोडाशस्य । बंहिष्ठम् इति बहुल इव हि पुरोडाशः । प्र बाहवा सिसृतम् जीवसे न इति हविषः । बाहव इति तद्द् हविषो अङ्गानाम् रूपम् ।
१८.१४ उदवसानीयेष्टिः
उदन्न् उदवसति । उदन् हि जीव लोकः । उदन्न् उदवसाय वैष्णव्या ऋचा पूर्ण आहुतिम् जुहोति । यज्ञो वै विष्णुः । यज्ञम् एव तद् आरभते । पञ्च कपालः पुरोडाशो भवति । पञ्च पदा पङ्क्तिः । पाङ्क्तो वै यज्ञो यज्ञस्य एव आप्त्यै । यद्य् उ वा अष्टा कपालः पौर्णमासम् एव तन्त्रम् भवति । प्रतिष्ठा वै पौर्णमासम् प्रतिष्ठित्या एव । इदम् त्व् एव प्रत्यक्षम् पुनर् आधेयस्य रूपम् यत् पद पङ्क्तयो याज्या पुरोनुवाक्याः । तथा एव व्यतिषक्ताः । तस्याम् संस्थितायाम् यजमानो अग्निहोत्रम् जुहोति । संस्थिते ह्य् अग्न्य् आधेये अग्निहोत्रम् हूयते । तस्मात् तस्याम् संस्थितायाम् यजमानो अग्निहोत्रम् जुहुयाद् इति यजमानो अग्निहोत्रम् जुहुयाद् इति ।
१८.१ आश्विनशस्त्रम्
अतिरिक्त सोमो वा एष यद् आश्विनम् ।
यद् वै यज्ञस्य अतिरिच्यते ।
भ्रातृव्यस् तेन यजमानस्य प्रत्युद्यमी भवति ।
अथ यत् परस्ताद् आश्विनौ यजति ।
अश्विनौ वै देवानाम् भिषजौ ।
भैषज्यम् एव तत् कुरुते ।
अथ यत्र ह तत् सविता सूर्याम् प्रायच्छत् सोमाय राज्ञे ।
यदि वा प्रजापतेः ।
तत् सहस्रम् अन्वाकरोद् दुहित्र ऊह्यमानायै ।
तद् आसाम् देवतानाम् आसीत् ।
ता अब्रुवन्न् आजिम् आयाम अस्मिन्त् सहस्र इति ।
ता आजिम् आयन् ।
तद् अश्विना उदजयताम् रासभेन ।
तस्माद् बह्व्यो देवताः शस्यन्ते ।
अथ आश्विनम् इत्य् आख्यायते ।
तत उ ह एतद् उत रासभो न सर्वम् इव जवम् धावति ।
सुतम् मया इति हतम् मन्यमानः सहस्रम् शंसेत् ।
सहस्रम् ह्य् उदजयताम् ।
१८.२ आश्विनशस्त्रम्
तद् आहुर् यद् बृहत्या आयतनानि पृष्ठानि भवन्त्य् अथ कस्मात् त्रिष्टुभा प्रतिपद्यत इति ।
त्रिः शस्ता एषा तिस्रश् च बृहत्यः सम्पद्यन्त एका च गायत्री ।
इदम् उ ह संधे रूपम् यत् तिस्रो बृहत्यः ।
पथम रूपम् गायत्री ।
अथ यद् बृहतीम् अभिसम्पादयति ।
बृहती ह्य् अभिवृतम् सम्पद्यते ।
अथ यद् बार्हतीनाम् प्रतिपदाम् प्रथमम् प्रथमम् प्रगाथम् पुनर् आदायम् ककुप् कारम् शंसति ।
पुनर् आदायम् वै सामगाः स्तुवते ।
तस्य एव एतद् रूपम् क्रियते ।
आग्नेयम् क्रतुम् शंसति ।
तद् इमंल् लोकम् आप्नोति ।
उषस्यम् शंसति ।
तद् अन्तरिक्ष लोकम् आप्नोति ।
आश्विनम् शंसति ।
तद् अमुंल् लोकम् आप्नोति ।
सौर्यम् क्रतुम् शंसति ।
अस्ति वै चतुर्थो देव लोक आपः ।
तम् एव अस्य तेन आप्नोति ।
प्रगाथम् शंसति ।
पशवो वै प्रगाथ ।
पशूनाम् एव आप्त्यै ।
अथो प्राण अपानौ वै बार्हतः प्रगाथः ।
द्यावा पृथिवीयम् शंसति ।
प्रतिष्ठे वै द्यावा पृथिवी प्रतिष्ठित्या एव ।
द्विपदाम् शंसति ।
प्रतिष्ठानीयम् वै छन्दो द्विपदा प्रतिष्हित्या एव ।
बार्हस्पत्यया परिदधाति ।
ब्रह्म वै बृहस्पतिः ।
ब्रह्मण्य् एव तद् अन्ततः प्रतितिष्ठति ।
अथ एषा सम्पद् भवति ।
१८.३ आश्विनशस्त्रम्
त्रीणि गायत्री शतानि ते द्वे बृहती शते ।
सप्ततिम् अनुष्टुभः सप्ततिम् पङ्क्तयश् चत्वारिंशत् शतम् बृहतीनाम् ।
त्रयाणाम् त्रिष्टुप् शतानाम् गायत्री शतम् उद्धृत्य तानि त्रीणि बृहती शतानि ।
तच् च गायत्री शतम् जगती शतम् च ते द्वे बृहती शते ।
पञ्चाशत् त्रिष्टुभः पञ्चाशद् उष्णिहः शतम् बृहत्यः सम्पद्यन्ते ।
अथ याः सप्त पञ्चाशतम् बृहत्यो अत्र एव ताः सम्पन्नात्ः ।
अथ ये द्वापञ्चाश्यौ त्रिष्टुभौ द्विपदा च तास् तिरो बृहत्यः सम्पद्यन्ते ।
तन् नानाच् छन्दस्यानाम् सहस्रम् सत् सहस्रम् बृहत्यः सम्पद्यन्ते ।
न सहस्रम् अतिशंसेन् न अर्वाक् सहस्राद् इत्य् एषा ह एव स्थितिः ।
प्रो त्व् एव आश्विनस्य विभूतिर् इति दिश्यते ।
एष आग्नेयः क्रतुः ।
आग्नेयाद् एव ऋतोर् न निश्च्यवेत ।
अथ यद्य् आग्नेयम् क्रतुम् पुरा कालात् समतीयात् ।
आश्विनम् अनु यत् किंच द्विदेवत्यम् ऋक्षु तद् अनुवर्तयेत् ।
सौर्ये क्रतौ पावमानीर् यथाच् छन्दसम् ।
गायत्रीर् गायत्रे त्रिष्टुभस् त्रैष्टुभे जगतीर् जागते ।
सर्वम् सूर्य न्यङ्गम् सौर्यस्य आयतने ।
सर्वान् ऐन्द्रान् प्रगाथान् प्रगाथस्य आयतने ।
सर्वम् द्यावा पृथिवीयम् द्यावा पृथिवीयस्य आयतने ।
सर्वा द्विपदा द्विपदाया आयतने ।
सर्वम् बार्हस्पत्यम् पुरस्तात् परिधानीयायै ।
एतद् वै किंचिद् इव ऋचाम् न प्रदिश्यते ।
१८.४ आश्विनशस्त्रम्
अथ वै चक्रीवद् आश्विनम् ।
आलम्बधे चक्रे अकूध्रीच्यो अक्षः ।
आ वाम् रथो अश्विना श्येनपत्वा इति स उद्धिः ।
अथ चत्वार्य् आगस्त्यानि युक्तानि ।
स एष देव रथः ।
स एतेन देव रथेन स्वस्ति स्वर्गंल् लोकम् समश्नुते ।
ससुपर्णम् स्यात् ।
वयो वै सुपर्णः ।
तद् यथा पक्षि वयो भूत्वा एवम् तत् स्वस्ति स्वर्गंल् लोकम् समश्नुते ।
द्विर् एव आश्विनाय आह्वयेते प्रतिपदे च एव परिधानीयायै च ।
तद् यथा प्रतिघातेन अनिवेष्ट्यमानो धावयेद् एवम् तत् ।
अथ अतः परिधानस्य एव मीमांसा ।
यद् आदित्यो रराट्याम् अतिसर्पेत् ।
यदा एनम् स्वयम् होता निर्जानीयात् ।
यद् आस्य लोहितम् आवीयात् ।
यद् एव एनम् सर्वे रश्मयः प्रत्युप्येरन् ।
स कालः परिधानस्य ।
एतस्मिन् ह वा एष काले अपहत पाप्मा विविक्त पाप्मा भवति ।
अपहते पाप्मानम् विविच्यते पाप्मना य एतस्मिन् काले परिदधाति ।
अथ यद्य् अभ्रम् स्यात् ।
एतद् वा अस्य तद् रूपम् येन प्रजा बिभर्ति ।
इदम् एकम् यद् अयम् प्राणो अध्यात्मम् ।
अतिरोहितो मद् इत्य् एव
१८.५ आश्विनशस्त्रम्
तम् मन्यमानः परिदध्यात् ।
विभ्राज आहुतिम् जुहुयाद् अनिर्ज्ञायमान आदित्ये ।
यो अनुपयुक्तः स्यात् ।
आविर् एभ्यो भवति ।
द्वाभ्याम् यजेत् ।
द्वाभ्याम् ह्य् आश्विनम् इत्य् आख्यायते ।
अनवानम् गायत्रीम् उक्त्वा विराजो अर्धर्चे अवान् इति ।
श्रीर् विराड् अन्नाद्यम् ।
श्रियाम् तद् विराज्य् अन्न अद्ये प्रतितिष्ठति ।
उत्तरेण विराजो अर्धर्चेन वषट् करोति ।
स्वर्ग एव तल् लोके यजमानम् दधाति ।
विराजा एव यजेद् इति ह स्म आह कौषीतकिः ।
त्रयस् त्रिंशद् अक्षरा वै विराट् ।
त्रयस् त्रिंशद् देवताः ।
अक्षर भाजो देवताः करोति ।
अश्विना वायुना युवम् सुदक्ष इति त्व् एव स्थिता आश्विनी त्रिष्टुप् तिरो अह्न्यवती ।
तिरो अह्न्या हि सोमा भवन्ति ।
अथो बलम् वै वीर्यम् त्रिष्टुप् ।
बलम् एव तद् वीर्यम् यजमाने दधाति ।
अनुवषट् करोत्य् आहुतीनाम् एव शान्त्यै ।
आहुतीनाम् प्रतिष्ठित्यै ।
संसन्नेषु छन्दोगेषु प्रवृत होमीये आहुती जुहोति ।
महत् शस्त्रम् वाक् च मनश् च प्रीते उद्यच्छातम् इति ।
१८.६ हारियोजनम्
अथ हारियोजनेन चरन्ति ।
हरी एव तत् प्रीणन्ति ।
अत्र देवाः स अश्वाः प्रीता भवन्ति ।
त्रिष्टुभम् हारि योजनस्य पुरोनुवाक्याम् अनूच्य जगत्या यजति ।
बलम् वै वीर्यम् त्रिष्टुप् ।
पशवो जगती ।
बल एव तद् वीर्ये अन्ततः पशुषु च प्रतितिष्ठति ।
मद्वती याज्या मद्वद्द् हि तृतीय सवनम् ।
अनुवषट् करोत्य् आहुतीनाम् एव शान्त्यै ।
आहुतीनाम् प्रतिष्ठित्यै ।
तासाम् भूयिष्ठा धानानाम् आददीत ।
पशवो वै धानाः ।
भूमानम् एव तत् पशूनाम् आत्मन् धत्ते ।
अथ यद् ऋचम् जपन्ति स्वस्त्ययनम् एव तत् कुर्वते ।
ता आहवनीयस्य भस्म अन्ते निवपन्ति ।
योनिर् वै पशूनाम् आहवनीयः ।
स्व एव एनांस् तद् गोष्ठे अनपक्रमे दधति ।
१८.७ शाकलहोमः
अथ शाकलान् जुह्वति ।
तद् यथा अहिर् जीर्णायै त्वचो निर्मुच्येत ।
इषीका वा मुञ्जात् ।
एवम् एव एते सर्वस्मात् पाप्मनः सम्प्रमुच्यन्ते ।
१८.८ ज्योतिष्टोमसमापनम्
अथ सव्यावृतो अप्सु सोमान् उपपरायन्ति ।
तान् इह अन्तर् वेद्य् आसादयन्ति ।
तद्द् हि सोमस्य आयतनम् ।
व्यपदधति दर्भ प्ञ्जूलानि ।
यदा वा आपश् च औषधयश् च संगच्छन्ते ।
अथ कृत्स्नः सोमः ।
ता वैष्णव्या ऋचा निनयन्ति ।
यज्ञो वै विष्णुः ।
यज्ञ एव एनांस् तद् अन्ततः प्रतिष्ठापयन्ति ।
अथ प्राणान्त् सम्मृशन्ते ।
तद् यद् एव अत्र प्राणानाम् क्रूरी कृतम् यद् विलिष्टम् तद् एव एतद् आप्याययन्ति तद् भिषज्यन्ति ।
भक्ष परिधीन् कुर्वते ।
मानुषेण एव तद् भक्षेण दैवम् भक्षम् अन्तर् दधते ।
१८.९ अवभृथः
अवभृथः ।
अमुम् एव एतत् सवनैर् ईप्सन्ति यो असौ तपति ।
उद्यन्तम् प्रातः सवनेन ।
मध्ये सन्तम् माध्यंदिनेन सवनेन ।
अस्तम् यन्तम् तृतीय सवनेन ।
स वा एषो अपः प्रविश्य वरुणो भवति ।
तस्माद् वारुणम् एक कपालम् पुरोडाशम् निर्वपन्ति ।
एकस्था वै श्रीः ।
श्रीर् वै वरुणः ।
श्रियाम् एव तद् अन्ततः प्रतितिष्ठन्ति ।
ते अन्तरेण चात्वाल उत्करा उपनिष्क्रामन्ति ।
तद्द् हि यज्ञस्य तीर्थम् आप्नानम् नाम ।
तद् एतद् ऋचा अभ्युदितम् ।
आप्नानम् तीर्थम् किम् इह प्र वोचद् इति ।
एतेन वै देवास् तीर्थेन यज्ञम् प्रपद्य सर्वान् कामान् आपुः ।
तथो एव एतद् यजमान एतेन एव तीर्थेन यज्ञम् प्रपद्यते ।
सर्वान् कामान् आप्नोति ।
१८.१० अवभृथः
ते यस्याम् दिश्य् आपो भवन्ति ताम् दिशम् अभ्यावृत्य चरन्ति ।
सा वै प्राची दिग् यस्याम् देवताः ।
चतुरः प्रयाजान् यजत्य् ऋते बर्हिष्कम् ।
बर्हिष्मन्तम् उत्सृजति ।
न ह्य् अत्र बर्हिः स्तीर्यते ।
वार्त्रघ्नाव् आज्य भागौ भवतः पाप्मन एव वधाय ।
अथो ह अस्य पौर्णमासात् तन्त्राद् अनितम् भवति ।
अप्सुमन्तौ ह एके कुर्वन्ति ।
वार्त्रघ्नौ त्व् एव स्थितौ ।
अथ यद् अप्सु वरुणम् यजति ।
स्व एव एनम् तद् आयतने प्रीणाति ।
अथ यद् अग्नीवरुणौ यजति ।
अत्र अग्निः सर्वेषु हविह्षु भागी भवति ।
द्वाव् अनुयाजौ यजत्य् ऋते बर्हिष्कम् ।
बर्हिष्मन्तम् उत्सृजति ।
प्रजा वै बर्हिः ।
न इत् प्रजाम् अप्सु प्रवृणजानि इति ।
त एक शतम् प्रयाज अनुयाजा भवन्ति ।
शत आयुर् वै पुरुषः शत वीर्यः शत इन्द्रियः ।
उप य एक शततमः स आत्मा ।
तद् एतद् अङ्गिरसाम् अयनम् ।
स एतेन अयनेन प्रतिपद्य अङ्गिरसाम् सलोकताम् सायुज्यम् आप्नोति ।
अथ याः षड् वा अष्टौ वा वषट् कृतयः ।
तद् आदित्यानाम् अयनम् ।
स एतेन अयनेन प्रतिपद्य आदित्यानाम् सलोकताम् सायुज्यम् आप्नोति ।
१८.११ अनूबन्ध्या
अनूबन्ध्या ।
चतुर्थम् एव एतत् सवनम् यद् अनूबन्ध्या ।
तस्माद् अच्युता भवति ।
चतुर्थम् ह्य् एव एतत् सवनानाम् ।
सा वै मैत्रावरुणी भवति ।
अग्नीषोमीयो हि पुरस्तात् कृतो भवति ।
तस्मान् मैत्रावरुणी भवति ।
यज्ञस्य एव सभारतायै ।
अथ यद् अप्सु वरुणम् यजति ।
अत्र मित्रो हीनो भवति ।
तस्मान् मैत्रावरुणी भवति ।
मित्रस्य एव अनुलब्ध्यै ।
१८.१२ अनूबन्ध्या
अथ यदि पशुर् आनीतो अनुपाकृतो म्रियेत ।
ऋत्विग्भ्यस् तम् कारयेत् ।
अथ अन्यम् तद् रूपम् तद् वर्णम् आलभेरन् ।
तम् आप्रीतम् पर्यग्नि कृतम् उदञ्चम् नयेयुः ।
तस्य अनु न्यायम् इतरम् कर्षयेयुः ।
तयोर् नाना वपे उत्खिद्य नाना श्रपयित्वा नाना वदाय समाने वषट् कारे जुहुयुः ।
तयोर् नाना एव पशु पुरोडाशौ श्रपयित्वा नाना वदाय समाने वषट् कारे जुहुयुः ।
तयोर् नाना एव हविषी श्रपयित्वा नाना वदाय समाने वषट् कारे जुयुहुः ।
एवम् तृतीय गुदाव् एवम् जाघन्यौ ।
यदि त्व् अप्य् एकया एव आप्रिय आप्रीतः स्यात् ।
तेन एव प्रचुरेयुर् इति सा स्थितिः ।
प्राणा वै आप्रियः ।
प्राणान् एव अस्मिंस् तद् दधाति ।
अथ यद्य् अष्टापदी स्यात् कथम् स्याद् इति ।
गर्भस्य त्वचो वपा रूपम् फाली करणान् गर्भम् इति शामित्रे श्रपयित्वा इतरस्य वषट् कारेषु शामित्र एव जुहुयुः ।
रक्षांसि ह वा एतद् यज्ञम् गच्छन्ति यद् अत्र एतादृग् भवति ।
तानि तेन अपहन्ति ।
तद् अरक्षो हतम् ।
एवम् नु यदि पशुर् अनूबन्ध्या भवति ।
यद्य् उ वै पयस्या ।
१८.१३ अनूबन्ध्या
अथ यदि गो पशुर् भवति ।
गो संस्तवौ वै मित्रावरुणौ ।
तस्माद् गो पशुर् भवति ।
अथ यत् त्रिष्टुभो याज्या भवन्ति ।
बलम् वै वीर्यम् त्रिष्टुप् ।
बलम् एव तद् वीर्यम् यजमाने दधाति ।
युवम् वस्त्राणि पीवसा वसाथे इति वपायै याज्या ।
पीवसा इत् तद् वपायै मेदसो रूपम् ।
यद् बंहिष्ठम् ( बन्हिष्ठम् ) न अतिविधे सुदानू इति पुरोडाशस्य ।
बंहिष्ठम् इति बहुल इव हि पुरोडाशः ।
प्र बाहवा सिसृतम् जीवसे न इति हविषः ।
बाहव इति तद्द् हविषो अङ्गानाम् रूपम् ।
१८.१४ उदवसानीयेष्टिः
उदन्न् उदवसति ।
उदन् हि जीव लोकः ।
उदन्न् उदवसाय वैष्णव्या ऋचा पूर्ण आहुतिम् जुहोति ।
यज्ञो वै विष्णुः ।
यज्ञम् एव तद् आरभते ।
पञ्च कपालः पुरोडाशो भवति ।
पञ्च पदा पङ्क्तिः ।
पाङ्क्तो वै यज्ञो यज्ञस्य एव आप्त्यै ।
यद्य् उ वा अष्टा कपालः पौर्णमासम् एव तन्त्रम् भवति ।
प्रतिष्ठा वै पौर्णमासम् प्रतिष्ठित्या एव ।
इदम् त्व् एव प्रत्यक्षम् पुनर् आधेयस्य रूपम् यत् पद पङ्क्तयो याज्या पुरोनुवाक्याः ।
तथा एव व्यतिषक्ताः ।
तस्याम् संस्थितायाम् यजमानो अग्निहोत्रम् जुहोति ।
संस्थिते ह्य् अग्न्य् आधेये अग्निहोत्रम् हूयते ।
तस्मात् तस्याम् संस्थितायाम् यजमानो अग्निहोत्रम् जुहुयाद् इति यजमानो अग्निहोत्रम् जुहुयाद् इति ।