कौषीतकिब्राह्मणम्/अध्यायः १७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १६ कौषीतकिब्राह्मणम्
अध्यायः १७
[[लेखकः :|]]
अध्यायः १८ →
सोमयागः (सोम षोडशिन् । अतिरात्र)


१७.१ षोडशी
आनुष्टुभो वा एष वज्रो यत् षोडशी । तद् यत् षोडशिनम् उपयन्ति । आनुष्टुभेन एव तद् वज्रेण यजमानस्य पाप्मानम् अपघ्नन्ति । स वै हरिवान् भवति । प्राणो वै हरिः । स हि हरति । तस्माद्द् हरिवान् भवति । तद् असौ वै षोडशी यो असौ तपति । एतम् एव तत् प्रीणाति । अथो षोडशम् वा एतत् स्तोत्रम् षोडशम् शस्त्रम् । तस्मात् षोडशी इत्य् आख्यायते । तद् यत् षोडशिनम् उपयन्ति । षोडश कलम् वा इदम् सर्वम् । अस्य एव सर्वस्य आप्त्यै । अथो इन्द्रो वै षोडशी । तस्माद्द् हरिवान् भवति । हरि स्तवो हि इन्द्रः । इन्द्र जुषस्व प्र वहा याहि शूर हरी इह इति । ताः पञ्चविंशत्य् अक्षराः । एक एका नवभिर् नवभिर् अक्षरैर् उपसृष्टाः । आत्मा वै पञ्चविंशः । प्रजा पशव उपसर्गः । प्रजया एव तत् पशुभिः प्रेष्यैर् अन्न अद्येन इत्य् आत्मानम् उपसृजते । ताश् चतुस्त्रिंशद् अक्षराः सम्पद्यन्ते । स्वराड् वै तच् छन्दः । यत् किंच चतुस्त्रिंशद् अक्षरम् स्वाराज्यम् अनेन आप्नोति । ताः संशस्ताः पञ्च अन्बुष्टुभः सम्पद्यन्ते । दश अक्षरम् च पदम् उदैति । एक एकस्यै द्वे द्वे । त्वावतः पुरूवसो इति गायत्रीम् उपसंशंसति । एतेषाम् एव अक्षराणाम् सम्पदे । अथो एतया सह स्तोत्रियः षड् अनुष्टुभः सम्पद्यन्ते । तस्माद् एताम् शंसति सम्पदे । एतत् प्रतिरूपम् उ ह एके अनुरूपम् कुर्वन्ति । तद् उ वा आहुर् असौ वै षोडशी यो असौ तपति । न वा एतस्य अन्यो अनुरूपो अस्ति । स यो अत्र अनुरूपम् कुर्वन्तम् ब्रूयात् ।

१७.२ षोडशीशस्त्रशंसनविधिः
अथातः ऊर्ध्वानि छन्दांसि विहरति । प्राणा वै छन्दांसि । प्राणान् एव तद् आत्मन् व्यतिषजत्य् अविवर्हाय । तस्माद्द् हि इमे प्राणा विष्वञ्चो वा अन्तो न निर्वान्ति । अथो आनुष्टुभो वै षोडशी । सर्वाण्य् एव एतत् छन्दांस्य् अनुष्टुभम् अभिषम्पादयति । गायत्रीश् च पङ्क्तीश् च विहरति । यजमानच् छन्दसम् पङ्क्तिः । तेजो ब्रह्म वर्चसम् गायत्री । तेज एव तद् ब्रह्म वर्चसम् यजमाने दधाति । उष्णिहश् च बृहतीश् च विहरति । यजमानच् छन्दसम् एव उष्णिक् । पशवो बृहती । बार्हतान् एव तत् पशून् यजमाने दधाति । द्विपदाम् च विंशत्य् अक्षराम् त्रिष्टुभम् च विहरति । यजमानच् छन्दसम् एव द्विपदा । बलम् वै वीर्यम् त्रिष्टुप् । बलम् एव तद् वीर्यम् यजमाने दधाति । द्विपदाश् च षोडश अक्षरा जगतीश् च विहरति । यजमानच् छन्दसम् एव द्विपताः । पशवो जगती । जागतान् एव तत् पशून् यजमाने दधाति । गायत्रीः शंसति । प्राणो वै गायत्र्यः । प्राणम् एव तद् आत्मन् धत्ते । सप्त पदाम् शंसति । सप्त वै छन्दांसि । सर्वेषाम् एव छन्दसाम् आप्त्यै । अथो एतया सह गायत्र्यश् चतस्रो अनुष्टुभः सम्पद्यन्ते । तस्माद् एताम् शंसति सम्पदे ।

१७.३ षोडशीशस्त्रशंसनविधिः
अथ नित्या अनुष्टुभः शंसति । आनुष्टुभो वै षोडशी । तद् एनत् स्वेन छन्दसा समर्धयति । ता वा अष्टौ भवन्ति । एताभिर् वै देवाः सर्वा अष्टीर् आश्नुवत । तथो एव एतद् यजमान एताभिर् एव सर्वा अष्टीर् अश्नुते । त्रिः शस्तया परिधानीयया दश सम्पद्यन्ते । दश दशिनी विराट् । श्रीर् विराड् अन्नाद्यम् । श्रियो विराजो अन्न अद्यस्य उपाप्त्यै । उद्यद् ब्रध्नस्य विष्टपम् इति परिदधाति । अदो वै ब्रध्नस्य विष्टपम् यत्र असौ तपति । तद् एव तद् यजमानम् दधाति । त्रिवृता एव तद् वज्रेण यजमानस्य पाप्मानम् हन्ति । त एते श्लोका घोषा वीर्याणि इत्य् उक्थानाम् । श्लोकी घोषी वीर्यवान् कीर्तिमान् भवति य एवम् वेद उक्थानाम् वीर्याणि । ताः संशस्ताश् चत्वारिंशद् अनुष्टुभः सम्पद्यन्ते । चत्वारिंशद् अक्षरा पङ्क्तिः । प्रतिष्ठा वै पङ्क्तिः । सर्वेष्व् एव तद् भूतेषु यजमानम् प्रतिष्ठापयति ।

१७.४ महानाम्नीनामप्रयोगः
विहृतया त्रिष्टुभा यजेद् इति ह एक आहुः । एवा हि वाज्यपाः पूर्वेषाम् हरिवः सुतानाम् वाजो हि वाज्य् अथो इदम् सवनम् केवलम् ते । वोढा हि वाजी ममद्द् हि सोमम् मधुमन्तम् इन्द्र जिष्णुर् हि वाजी सत्रा वृषन् जठर आवृषस्व इति । अविहृतया इत् त्व् एव स्थितम् । संसिद्धानि वा एतानि देव पात्राणि यद् याज्याः । संसिद्धेन एव तद् देव पात्रेण देवेभ्यो हविः प्रयच्छति । तन् न रात्र्याम् उपेयात् । इन्द्रो वै षोडशी । न वा इन्द्राद् अन्यद् उत्तरम् अस्ति । बहु रात्र्याम् उपाह्वयते । पर्याया इव त्वद् आश्विनम् । तत एव एनम् चतुर्थे अहन्य् उपेयात् । तद् वै षोडशिन आयतनम् । तद् वै तद् अहः षोडश्य् अन्तम् संतिष्ठते । तद् उ वा आहुर् उपेयाद् एव एतत् । कृत्स्नो वा अहोरात्रे यत् षोडशी । तद् यद् षोडशिनम् उपयन्ति । अहोरात्रयोर् एव कृत्स्नतायै ।

१७.५ अतिरात्रफलम्
अथ यद् अतिरात्रम् उपयान्ति । एतावान् वै संवत्सरो यद् अहोरात्रे । तद् यद् अतिरात्रम् उपयन्ति । संवत्सरस्य एव आप्त्यै । अथो द्वयम् वा इदम् सर्वम् स्नेहश् चैव तेजश् च । तद् उभयम् अहोरात्राभ्याम् आप्तम् । तद् यद् अतिरात्रम् उपयन्ति । स्नेह तेजसोर् एव आप्त्यै ।

१७.६ सामशस्त्रयोः सम्बन्धः
गायत्रान्त् स्तोत्रिय अनुरूपान् शंसन्ति । ज्योतिर् वै गायत्री । तमः पाप्मा रात्रिः । तेन तज् ज्योतिषा तमः पाप्मानम् तरन्ति । पुनर् आदायम् शंसन्ति । एवम् हि सामगाः स्तुवते । यथा स्तुतम् व् अनुशस्तम् भवति इति । तद् आहुर् अतः कस्माद् उत्तमात् प्रतीहाराद् ऊर्ध्वम् आहूय साम्ना शस्त्रम् उपसंतन्वन्ति इति ।

१७.७ सामशस्त्रयोः सम्बन्धः
पुरुषो वै यज्ञः । तस्य शिर एव हविर् धाने मुखम् आहवनीय उदरम् सदो अन्नम् उक्थानि । बाहू मार्जालीयश् च अग्नीध्रियश् च । या इमा अन्तर् देवतास् ते अन्तः सदनम् धिष्ण्याः । प्रतिष्ठा गार्हपत्य व्रत श्रपणाव् इति । अथ अपरम् । तस्य मन एव ब्रह्मा प्राण उद्गाता अपानः प्रस्तोता व्यानः प्रतिहर्ता वाग् घोता ( होता ) चक्षुर् अध्वर्युः प्रजातिः सदस्य आत्मा यजमानः । अङ्गानि होत्राशंसिनः । तद् यद् अध्वर्युः स्तोत्रम् उपाकरोति । चक्षुर् एव तत् प्राणैः संदधाति । अथ यत् प्रस्तोता ब्राह्मणम् आमन्त्रयते ब्रह्मन्त् स्तोष्याम इति । मनो वा अग्रणीर् भवत्य् एषाम् प्राणानाम् । मनसा एव प्रसूताः स्तोमेन स्तुयाम इति । अथो अपानम् एव तन् मनसा संतनोति । ण्ण्ण् अथ यद् ब्रह्मा स्तोत्रम् अनुमन्यते । मन एव तत् प्राणैः संदधाति । अथ यत् प्रस्तोता प्रस्तौति । अपानम् एव तत् प्राणैः संदधाति । अथ यत् प्रतिहर्ता प्रतिहरति । व्यानम् एव तत् प्राणैः संदधाति । अथ यद् उद्गाता उद्गायति । प्राणम् एव तद् व्याने दधाति । ता वा एताः सर्वा देवताः प्राण एव प्रतिष्ठिताः । अथ यद्द् होता साम्ना शस्त्रम् उपसंतनोति । वाग् वै होता । वाचम् एव तत् प्रणैः संदधाति । अथ यद्द् होत्राशंसिनः साम संततिम् कुर्वन्ति । अङ्गान्य् एव तत् प्राणैः संदधाति । अथ यद् यजमानः स्त्रोत्रम् उपगाति । प्राणा वा उद्गातारः । प्राणान् एव तद् आत्मन् धत्ते । तस्मान् न एनम् बहिर् वेद्यभ्यस् तम् इयात् । न अभ्युदियान् न अभ्याश्रावयेत् । न स्तोत्रम् उपाकुर्वन्ति । न अधिष्ण्ये प्रतपेत् । न इत् प्राणेभ्य आत्मानम् अपादधानि इति ।

१७.८ शंसनविधिः
अथ यत् प्रथमेषु पर्यायेषु प्रथमेषु पदेषु निनर्तयन्ति । प्रथम रात्राद् एव तद् असुरान् निर्घ्नन्ति । अथ यन् मध्यमेषु पर्यायेषु मध्यमेषु पदेषु निनर्तयन्ति । (षोडशिन् । अतिरात्र) मध्य रात्राद् एव तद् असुरान् निर्घ्नन्ति । अथ यद् उत्तमेषु पर्यायेषु उत्तमेषु पदेषु निनर्तयन्ति । उत्तम रात्राद् एव तद् असुरान् निर्घ्नन्ति । तद् यथा अभ्यागारम् अभिनिनर्तम् पुनः पुनः पाप्मनम् निर्हण्यात् । एवम् एव एतत् स्तोत्रिय अनुरूपैर् अहोरात्राभ्याम् असुरान् निर्घ्नन्ति । यथा अस्तुतंव् अनुशस्तम् भवति इति ।

१७.९ शंसनविधिः
गायत्राण्य् उक्थमुखानि शंसन्ति । तेजो ब्रह्म वर्चसम् गायत्री । तेज एव तद् ब्रह्म वर्चसम् यजमाने दधति । गायत्रीः शस्त्वा जगतीः शंसन्ति । व्याह्वयन्ते गायत्रीश् च जगतीश् च अन्तरे छन्दांस्य् एव एतन् नाना वीर्याणि कुर्वन्ति । जगतीः शस्त्वा त्रिष्टुब्भिः परिदधति । बलम् वै वीर्यम् त्रिष्टुप् । पशवो जगती । बल एव तद् वीर्ये अन्ततः पशुषु च प्रतितिष्ठन्ति । अन्धस्वत्यो मद्वत्यः पीतवत्यस् त्रिष्टुभो याज्याः समृद्धस् त्रिलक्षणाः । एतद् वै रात्रे रूपम् । जागृयू रात्रिम् । ज्योतिर् वै जागरितम् । तमः पाप्मा रात्रिः । तेन तज् ज्योतिषा तमः पाप्मानम् तरन्ति । यावद् उ ह वै न वा स्तूयते न वा शस्यते । तावद् ईश्वरा यदि न असुर रक्षसान्य् अन्ववपातोः । तस्माद् आहवनीयम् समीद्ध्वम् आग्नीध्रियम् गार्हपत्यम् धिष्ण्यान्त् समुज्ज्वलयत इति भाषेरन् । ज्वलयेयुः प्रकाशम् इव एव स्यात् । आलेभन्तः शयीरन् । तान् ह तच् चेष्टन्ति न्व् आ इति । पाप्मा न अपधृष्णोति । ते पाप्मानम् अपघ्नते ते पाप्मानम् अपघ्नते ।
 

१७.१ षोडशी
आनुष्टुभो वा एष वज्रो यत् षोडशी ।
तद् यत् षोडशिनम् उपयन्ति ।
आनुष्टुभेन एव तद् वज्रेण यजमानस्य पाप्मानम् अपघ्नन्ति ।
स वै हरिवान् भवति ।
प्राणो वै हरिः ।
स हि हरति ।
तस्माद्द् हरिवान् भवति ।
तद् असौ वै षोडशी यो असौ तपति ।
एतम् एव तत् प्रीणाति ।
अथो षोडशम् वा एतत् स्तोत्रम् षोडशम् शस्त्रम् ।
तस्मात् षोडशी इत्य् आख्यायते ।
तद् यत् षोडशिनम् उपयन्ति ।
षोडश कलम् वा इदम् सर्वम् ।
अस्य एव सर्वस्य आप्त्यै ।
अथो इन्द्रो वै षोडशी ।
तस्माद्द् हरिवान् भवति ।
हरि स्तवो हि इन्द्रः ।
इन्द्र जुषस्व प्र वहा याहि शूर हरी इह इति ।
ताः पञ्चविंशत्य् अक्षराः ।
एक एका नवभिर् नवभिर् अक्षरैर् उपसृष्टाः ।
आत्मा वै पञ्चविंशः ।
प्रजा पशव उपसर्गः ।
प्रजया एव तत् पशुभिः प्रेष्यैर् अन्न अद्येन इत्य् आत्मानम् उपसृजते ।
ताश् चतुस्त्रिंशद् अक्षराः सम्पद्यन्ते ।
स्वराड् वै तच् छन्दः ।
यत् किंच चतुस्त्रिंशद् अक्षरम् स्वाराज्यम् अनेन आप्नोति ।
ताः संशस्ताः पञ्च अन्बुष्टुभः सम्पद्यन्ते ।
दश अक्षरम् च पदम् उदैति ।
एक एकस्यै द्वे द्वे ।
त्वावतः पुरूवसो इति गायत्रीम् उपसंशंसति ।
एतेषाम् एव अक्षराणाम् सम्पदे ।
अथो एतया सह स्तोत्रियः षड् अनुष्टुभः सम्पद्यन्ते ।
तस्माद् एताम् शंसति सम्पदे ।
एतत् प्रतिरूपम् उ ह एके अनुरूपम् कुर्वन्ति ।
तद् उ वा आहुर् असौ वै षोडशी यो असौ तपति ।
न वा एतस्य अन्यो अनुरूपो अस्ति ।
स यो अत्र अनुरूपम् कुर्वन्तम् ब्रूयात् ।

१७.२ षोडशीशस्त्रशंसनविधिः
अथातः ऊर्ध्वानि छन्दांसि विहरति ।
प्राणा वै छन्दांसि ।
प्राणान् एव तद् आत्मन् व्यतिषजत्य् अविवर्हाय ।
तस्माद्द् हि इमे प्राणा विष्वञ्चो वा अन्तो न निर्वान्ति ।
अथो आनुष्टुभो वै षोडशी ।
सर्वाण्य् एव एतत् छन्दांस्य् अनुष्टुभम् अभिषम्पादयति ।
गायत्रीश् च पङ्क्तीश् च विहरति ।
यजमानच् छन्दसम् पङ्क्तिः ।
तेजो ब्रह्म वर्चसम् गायत्री ।
तेज एव तद् ब्रह्म वर्चसम् यजमाने दधाति ।
उष्णिहश् च बृहतीश् च विहरति ।
यजमानच् छन्दसम् एव उष्णिक् ।
पशवो बृहती ।
बार्हतान् एव तत् पशून् यजमाने दधाति ।
द्विपदाम् च विंशत्य् अक्षराम् त्रिष्टुभम् च विहरति ।
यजमानच् छन्दसम् एव द्विपदा ।
बलम् वै वीर्यम् त्रिष्टुप् ।
बलम् एव तद् वीर्यम् यजमाने दधाति ।
द्विपदाश् च षोडश अक्षरा जगतीश् च विहरति ।
यजमानच् छन्दसम् एव द्विपताः ।
पशवो जगती ।
जागतान् एव तत् पशून् यजमाने दधाति ।
गायत्रीः शंसति ।
प्राणो वै गायत्र्यः ।
प्राणम् एव तद् आत्मन् धत्ते ।
सप्त पदाम् शंसति ।
सप्त वै छन्दांसि ।
सर्वेषाम् एव छन्दसाम् आप्त्यै ।
अथो एतया सह गायत्र्यश् चतस्रो अनुष्टुभः सम्पद्यन्ते ।
तस्माद् एताम् शंसति सम्पदे ।

१७.३ षोडशीशस्त्रशंसनविधिः
अथ नित्या अनुष्टुभः शंसति ।
आनुष्टुभो वै षोडशी ।
तद् एनत् स्वेन छन्दसा समर्धयति ।
ता वा अष्टौ भवन्ति ।
एताभिर् वै देवाः सर्वा अष्टीर् आश्नुवत ।
तथो एव एतद् यजमान एताभिर् एव सर्वा अष्टीर् अश्नुते ।
त्रिः शस्तया परिधानीयया दश सम्पद्यन्ते ।
दश दशिनी विराट् ।
श्रीर् विराड् अन्नाद्यम् ।
श्रियो विराजो अन्न अद्यस्य उपाप्त्यै ।
उद्यद् ब्रध्नस्य विष्टपम् इति परिदधाति ।
अदो वै ब्रध्नस्य विष्टपम् यत्र असौ तपति ।
तद् एव तद् यजमानम् दधाति ।
त्रिवृता एव तद् वज्रेण यजमानस्य पाप्मानम् हन्ति ।
त एते श्लोका घोषा वीर्याणि इत्य् उक्थानाम् ।
श्लोकी घोषी वीर्यवान् कीर्तिमान् भवति य एवम् वेद उक्थानाम् वीर्याणि ।
ताः संशस्ताश् चत्वारिंशद् अनुष्टुभः सम्पद्यन्ते ।
चत्वारिंशद् अक्षरा पङ्क्तिः ।
प्रतिष्ठा वै पङ्क्तिः ।
सर्वेष्व् एव तद् भूतेषु यजमानम् प्रतिष्ठापयति ।

१७.४ महानाम्नीनामप्रयोगः
विहृतया त्रिष्टुभा यजेद् इति ह एक आहुः ।
एवा हि वाज्यपाः पूर्वेषाम् हरिवः सुतानाम् वाजो हि वाज्य् अथो इदम् सवनम् केवलम् ते ।
वोढा हि वाजी ममद्द् हि सोमम् मधुमन्तम् इन्द्र जिष्णुर् हि वाजी सत्रा वृषन् जठर आवृषस्व इति ।
अविहृतया इत् त्व् एव स्थितम् ।
संसिद्धानि वा एतानि देव पात्राणि यद् याज्याः ।
संसिद्धेन एव तद् देव पात्रेण देवेभ्यो हविः प्रयच्छति ।
तन् न रात्र्याम् उपेयात् ।
इन्द्रो वै षोडशी ।
न वा इन्द्राद् अन्यद् उत्तरम् अस्ति ।
बहु रात्र्याम् उपाह्वयते ।
पर्याया इव त्वद् आश्विनम् ।
तत एव एनम् चतुर्थे अहन्य् उपेयात् ।
तद् वै षोडशिन आयतनम् ।
तद् वै तद् अहः षोडश्य् अन्तम् संतिष्ठते ।
तद् उ वा आहुर् उपेयाद् एव एतत् ।
कृत्स्नो वा अहोरात्रे यत् षोडशी ।
तद् यद् षोडशिनम् उपयन्ति ।
अहोरात्रयोर् एव कृत्स्नतायै ।

१७.५ अतिरात्रफलम्
अथ यद् अतिरात्रम् उपयान्ति ।
एतावान् वै संवत्सरो यद् अहोरात्रे ।
तद् यद् अतिरात्रम् उपयन्ति ।
संवत्सरस्य एव आप्त्यै ।
अथो द्वयम् वा इदम् सर्वम् स्नेहश् चैव तेजश् च ।
तद् उभयम् अहोरात्राभ्याम् आप्तम् ।
तद् यद् अतिरात्रम् उपयन्ति ।
स्नेह तेजसोर् एव आप्त्यै ।

१७.६ सामशस्त्रयोः सम्बन्धः
गायत्रान्त् स्तोत्रिय अनुरूपान् शंसन्ति ।
ज्योतिर् वै गायत्री ।
तमः पाप्मा रात्रिः ।
तेन तज् ज्योतिषा तमः पाप्मानम् तरन्ति ।
पुनर् आदायम् शंसन्ति ।
एवम् हि सामगाः स्तुवते ।
यथा स्तुतम् व् अनुशस्तम् भवति इति ।
तद् आहुर् अतः कस्माद् उत्तमात् प्रतीहाराद् ऊर्ध्वम् आहूय साम्ना शस्त्रम् उपसंतन्वन्ति इति ।

१७.७ सामशस्त्रयोः सम्बन्धः
पुरुषो वै यज्ञः ।
तस्य शिर एव हविर् धाने मुखम् आहवनीय उदरम् सदो अन्नम् उक्थानि ।
बाहू मार्जालीयश् च अग्नीध्रियश् च ।
या इमा अन्तर् देवतास् ते अन्तः सदनम् धिष्ण्याः ।
प्रतिष्ठा गार्हपत्य व्रत श्रपणाव् इति ।
अथ अपरम् ।
तस्य मन एव ब्रह्मा प्राण उद्गाता अपानः प्रस्तोता व्यानः प्रतिहर्ता वाग् घोता ( होता ) चक्षुर् अध्वर्युः प्रजातिः सदस्य आत्मा यजमानः ।
अङ्गानि होत्राशंसिनः ।
तद् यद् अध्वर्युः स्तोत्रम् उपाकरोति ।
चक्षुर् एव तत् प्राणैः संदधाति ।
अथ यत् प्रस्तोता ब्राह्मणम् आमन्त्रयते ब्रह्मन्त् स्तोष्याम इति ।
मनो वा अग्रणीर् भवत्य् एषाम् प्राणानाम् ।
मनसा एव प्रसूताः स्तोमेन स्तुयाम इति ।
अथो अपानम् एव तन् मनसा संतनोति । ण्ण्ण्
अथ यद् ब्रह्मा स्तोत्रम् अनुमन्यते ।
मन एव तत् प्राणैः संदधाति ।
अथ यत् प्रस्तोता प्रस्तौति ।
अपानम् एव तत् प्राणैः संदधाति ।
अथ यत् प्रतिहर्ता प्रतिहरति ।
व्यानम् एव तत् प्राणैः संदधाति ।
अथ यद् उद्गाता उद्गायति ।
प्राणम् एव तद् व्याने दधाति ।
ता वा एताः सर्वा देवताः प्राण एव प्रतिष्ठिताः ।
अथ यद्द् होता साम्ना शस्त्रम् उपसंतनोति ।
वाग् वै होता ।
वाचम् एव तत् प्रणैः संदधाति ।
अथ यद्द् होत्राशंसिनः साम संततिम् कुर्वन्ति ।
अङ्गान्य् एव तत् प्राणैः संदधाति ।
अथ यद् यजमानः स्त्रोत्रम् उपगाति ।
प्राणा वा उद्गातारः ।
प्राणान् एव तद् आत्मन् धत्ते ।
तस्मान् न एनम् बहिर् वेद्यभ्यस् तम् इयात् ।
न अभ्युदियान् न अभ्याश्रावयेत् ।
न स्तोत्रम् उपाकुर्वन्ति ।
न अधिष्ण्ये प्रतपेत् ।
न इत् प्राणेभ्य आत्मानम् अपादधानि इति ।

१७.८ शंसनविधिः
अथ यत् प्रथमेषु पर्यायेषु प्रथमेषु पदेषु निनर्तयन्ति ।
प्रथम रात्राद् एव तद् असुरान् निर्घ्नन्ति ।
अथ यन् मध्यमेषु पर्यायेषु मध्यमेषु पदेषु निनर्तयन्ति । (षोडशिन् । अतिरात्र)
मध्य रात्राद् एव तद् असुरान् निर्घ्नन्ति ।
अथ यद् उत्तमेषु पर्यायेषु उत्तमेषु पदेषु निनर्तयन्ति ।
उत्तम रात्राद् एव तद् असुरान् निर्घ्नन्ति ।
तद् यथा अभ्यागारम् अभिनिनर्तम् पुनः पुनः पाप्मनम् निर्हण्यात् ।
एवम् एव एतत् स्तोत्रिय अनुरूपैर् अहोरात्राभ्याम् असुरान् निर्घ्नन्ति ।
यथा अस्तुतंव् अनुशस्तम् भवति इति ।

१७.९ शंसनविधिः
गायत्राण्य् उक्थमुखानि शंसन्ति ।
तेजो ब्रह्म वर्चसम् गायत्री ।
तेज एव तद् ब्रह्म वर्चसम् यजमाने दधति ।
गायत्रीः शस्त्वा जगतीः शंसन्ति ।
व्याह्वयन्ते गायत्रीश् च जगतीश् च अन्तरे
छन्दांस्य् एव एतन् नाना वीर्याणि कुर्वन्ति ।
जगतीः शस्त्वा त्रिष्टुब्भिः परिदधति ।
बलम् वै वीर्यम् त्रिष्टुप् ।
पशवो जगती ।
बल एव तद् वीर्ये अन्ततः पशुषु च प्रतितिष्ठन्ति ।
अन्धस्वत्यो मद्वत्यः पीतवत्यस् त्रिष्टुभो याज्याः समृद्धस् त्रिलक्षणाः ।
एतद् वै रात्रे रूपम् ।
जागृयू रात्रिम् ।
ज्योतिर् वै जागरितम् ।
तमः पाप्मा रात्रिः ।
तेन तज् ज्योतिषा तमः पाप्मानम् तरन्ति ।
यावद् उ ह वै न वा स्तूयते न वा शस्यते ।
तावद् ईश्वरा यदि न असुर रक्षसान्य् अन्ववपातोः ।
तस्माद् आहवनीयम् समीद्ध्वम् आग्नीध्रियम् गार्हपत्यम् धिष्ण्यान्त् समुज्ज्वलयत इति भाषेरन् ।
ज्वलयेयुः प्रकाशम् इव एव स्यात् ।
आलेभन्तः शयीरन् ।
तान् ह तच् चेष्टन्ति न्व् आ इति ।
पाप्मा न अपधृष्णोति ।
ते पाप्मानम् अपघ्नते ते पाप्मानम् अपघ्नते ।