कौषीतकिब्राह्मणम्/अध्यायः २२
← अध्यायः २१ | कौषीतकिब्राह्मणम् अध्यायः २२ [[लेखकः :|]] |
अध्यायः २३ → |
सोमयागः(छन्दोमाः) |
२२.१ पृष्ठ्यषडहः प्रथममहः
प्रथमम् अहर् अयम् एव लोक आयतनेन । अग्निर् गायत्री त्रिवृत् स्तोमो रथन्तरम् साम । तन् न्व् अस्य निदानम् । तस्य एता छन्दो रूपाणि । करिष्यन् प्रथमे पदे सद् एवम् । यद् वै भविष्यत् तत् करिष्यत् । आवत् प्रवद् एषवद् अर्षवद् अक्तवद् युक्तवद् युञ्जानवज् ज्योतिष्मद् इति । उपप्रयन्तो अध्वरम् इत्य् आज्यम् प्रवत् । प्रवद् वै प्रथमस्य अह्नो रूपम् । गायत्रम् गायत्र प्रातः सवनो ह्य् एष त्र्यहः । इति नु व्यूढे । उद्धृत्य एतत् प्र वो देवाय अग्नय इति समूढे तस्य उक्तम् ब्राह्मणम् । माधुच्छन्दसः प्रउगस् तस्य उक्तम् ब्राह्मणम् । आ यात्व् इन्द्रो अवस उप न इति मरुत्वतीयम् आवत् । आवद् वै प्रथमस्य अह्नो रूपम् । स्वर्णराद् अवसे नो मरुत्वान् इति स एव अस्मिन् मरुन् न्यङ्गः । आ न इन्द्रो दूराद् आ न आसाद् इति निष्केवल्यम् आवत् । आवद् वै प्रथमस्य अह्नो रूपम् । सम्पातौ निष्केवल्य मरुत्वतीये भवतः प्रथमे अहन् । सम्पातैर् वै देवाः स्वर्गंल् लोकम् समपतन् । तस्माद् अत्र प्रथमौ शस्येते स्वर्ग्यौ । तद् यत् सम्पातौ निष्केवल्य मरुत्वतीये भवतः प्रथमे अहन् । स्वर्गस्य एव लोकस्य समष्ठ्या इति । युञ्जते मन उत युज्ञते धियः प्र द्यावा यज्ञैः पृथिवी ऋतावृधा इह इह वो मनसा बन्धुता नर इत्य् आर्भवम् । तेन नियच्छति । युक्तवन्ति च वै प्रवन्ति च प्रथमे अहन्त् सूक्तानि शस्यन्ते । तद् यद् इह इह व इत्य् आर्भवम् करोति । तन् नियत्या अप्रच्युत्यै रूपम् । हयो न विद्वान् अयुजि स्वयम् धुरि इति वैश्वदेवम् युक्तवत् । युक्तवद् वै प्रथमस्य अह्नो रूपम् । तस्य द्वे उत्तमे उत्सृजति । कुविद् एते अवधृते आग्निमारुते शस्येते इति । तद् उ ह स्म आह कौषीतकिः । शंसेद् एव सूक्तस्य अव्यवच्छेदाय इति । न ह वा ऋक् शस्त्रेण यातयामा भवति । न अनुवचनेन । वषट्कारेण ह वै सा यातयामा भवति समाने अहन् । वैश्वानराय पृथुपाजसे विप इति वैश्वानरीयम् । तस्मिन्त् सुम्नानि यजमान आ चक इत्य् आवत् । आवद् वै प्रथमस्य अह्नो रूपम् । (प्रवत्प्रवद्वै प्रथमस्याह्नो रूपम् - पाठभेदः)। प्र शर्धाय मारुताय स्व भानव इति मारुतम् प्रवत् । प्रवद् वै प्रथमस्य अह्नो रूपम् । प्र तव्यसीम् नव्यसीम् धीतिम् अग्नय इति जातवेदसीयम् प्रवत् । प्रवद् वै प्रथमस्य अह्नो रूपम् । इमंल् लोकम् प्रथमेन अह्ना आप्नुवन्ति । गायत्रीम् छन्दस् त्रिवृतम् स्तोमम् रथन्तरम् साम । प्राचीम् दिशम् वसन्तम् ऋतूनाम् । वसून् देवान् देव जातम् अग्निम् अधिपतिम् ।
२२.२ पृष्ठ्यषडहः द्वितीयमहः
द्वितीयम् अहर् अन्तरिक्ष लोक आयतनेन । इन्द्रस् त्रिष्टुप् पञ्चदशः स्तोम । तन् न्व् अस्य निदानम् । तस्य एतानि छन्दो रूपाणि । कुर्वन् मध्ये पदे सदेवम् । यद् वै प्रत्यक्षम् आस्प्रक्षंस् तत् कुर्वत् । हतवद् वज्रवद् वृत्रहवद् वृषण्वद् उद्वद् विवत् स्थितम् तन्वाम् इति । अग्निम् दूतम् वृणीमह इत्य् आज्यम् । होतारम् विश्ववेदसम् इति विवत् तस्य उक्तम् ब्राह्मणम् । गायत्रम् गायत्र प्रातः सवनो ह्य् एष त्र्यहः । इति नु व्यूढे । उद्धृत्य एतत् त्वम् हि क्षैतवद् यश इति समूढे तस्य उक्तम् ब्राह्मणम् । गार्त्समदः प्रउगस् तस्य उक्तम् ब्राह्मणम् । तद् एतस्य अह्नो रूपम् । या त ऊतिर् अवमा या परमा इति निष्केवल्यम् । ताभिर् ऊ षु वृत्रहत्ये अवीर् न इति वृत्रहवत् । तद् एतस्य अह्नो रूपम् । विश्वो देवस्य नेतुर् आ विश्व देवम् सत्पतिम् इति प्रतिपद् अनुचरौ तयोर् उक्तम् ब्राह्मणम् । तद् देवस्य सवितुर् वार्यम् महद् इति सावित्रम् । त्रिर् अन्तरिक्षम् सविता महित्वना इति । तत् प्रत्यक्षम् अन्तरिक्षम् अभिवदति । तद् एतस्य अह्नो रूपम् । ते हि द्यावा पृथिवी विश्व शम्भुवा इति द्यावा पृथिवीयम् विवत् तस्य उक्तम् ब्राह्मणम् । तक्षन् रथम् सुवृतम् विद्मना अपस इत्य् आर्भवम् । तक्षन् हरी इन्द्र वाहा वृषण्वसू इति वृषण्वत् तस्य उक्तम् ब्राह्मणम् । यज्ञस्य वो रथ्यम् विश्पतिम् विशाम् इति शार्यातम् वैश्वदेवम् । वृषा केतुर् यजतो द्याम् अशायत इति वृषण्वत् तस्य उक्तम् ब्राह्मणम् । पृक्षस्य वृष्णो वृष्णे शर्धाय इति वृषण्वती तयोर् उक्तम् ब्राह्मणम् । नू चित् सहोता अमृतो नि तुन्दत इति जातवेदसीयम् । होता यद् दूतो अभवद् विवस्वत इति विवत् तस्य उक्तम् ब्राह्मणम् । तस्य प्रातर् मक्षू धियावसुर् जगम्याद् इत्य् उत्तमा । परम् एव एतद् अहर् अभिवदति । परम् एव एतद् अहर् अभ्यारभ्य वसन्ति इति ह स्म आह कौषीतकिः । अन्तरिक्ष लोकम् द्वितीयेन अह्ना आप्नुवन्ति । त्रिष्टुभम् छन्दः पञ्चदशम् स्तोमम् बृहत् साम । दक्षिणाम् दिशम् ग्रीष्मम् ऋतूनाम् । रुद्रान् देवान् देव जातम् इन्द्रम् अधिपतिम् ।
२२.३ तृतीयमहः(आज्यशस्त्रं प्रउगशस्त्रं च ) -
तृतीयम् अहर् असाव् एव लोक आयतनेन । वरुणो जगती सप्तदश स्तोमो वैरूपम् साम । तन् न्व् अस्य निदानम् । तस्य एतानि छन्दो रूपाणि । चकृवद् उत्तमे पदे सद् एवम् । यद् वै भूत अनुवादि तच् चकृवत् । अश्वावद् गोमद् रथवद् गतवत् स्थितवद् अन्तवत् सोदर्कम् अनिरुक्तम् सप्रभृति इति । युक्ष्वा हि देव हूतमान् इत्य् आज्यम् । तद् आहुर् यद् अन्तस् तृतीयम् अहर् अथ कस्माद् युक्तवद् आज्यम् इति । एतेन वा अह्ना देवाः स्वर्गंल् लोकम् आयन् । युक्ता वै तद् आयन् । तस्माद् इति ब्रूयात् । अश्वान् अग्ने रथीरि इव इति रतह्वत् । तद् एतस्य अह्नो रूपम् । गायत्रम् गायत्र प्रातः सवनो ह्य् एष त्र्यहः । इति नु व्यूढे । उद्धृत्य एतत् त्वम् अग्ने वसूंर् इह इति समूढे तस्य उक्तम् ब्राह्मणम् । औष्णिह आत्रेयः प्रउगः । जागतम् वै तृतीयम् अहः । तद् यद् औष्णिह आत्रेयस् तृतीयस्य अह्नः प्रउगः । तत् प्रातःसवनम् जगती भजते ।
२२.४ तृतीयमहः ( मरुत्वतीयशस्त्रं निष्केवल्यशस्त्रं च )
त्र्यर्यमा मनुषी देवताता इति मरुत्वतीयम् । त्रि इति तत् तृतीयस्य अह्नो रूपम् । यद् द्याव इन्द्र ते शतम् इति वैरूपस्य स्तोत्रियः । शतम् भूमीर् उत स्युर् इति निनृत्तिः । अन्तस् तृतीयम् अहः । नीव वा अन्तम् गत्वा नृत्यति । कद्र्यङ् हि तत इयात् । इन्द्र यावतस्त्वमित्यनुरूपः शिक्षेयमिन्महयते दिवे दिव इति निनृत्तिरन्तस्तृतीयमहर्नीव वा अन्तं गत्वा नृत्यति कद्र्यङ्हि तत इयादिन्द्र त्रिधातु शरणम् इति त्रिवान्त्सामप्रगाथः । त्रि धात्व् इति तत् तृतीयस्य अह्नो रूपम् । अहम् भुवम् वसुनः पूर्व्यस् पतिर् इति इन्द्र सूक्तम् । अहम् अहम् इति सप्रभृति । यथा वै सोदर्कम् एवम् सप्रभृत्य् अन्त रूपम् जागतम् । जागतम् वै तृतीयम् अहः । तद् एनत् स्वेन छन्दसा समर्धयति । यो जात एव प्रथमो मनस्वान् इत्य् एतस्मिंस् त्रैष्टुभे निविदम् दधाति । तद् एतद् इन्द्र तनू सूक्तम् । एतस्मिन् ह गृत्समदो बाभ्रवो निविदम् दधद् इन्द्रस्य प्रियम् धाम उपजगाम । उप ह वा इन्द्रस्य प्रियम् धाम गच्छति जयति परम् लोकम् य एतस्मिन्त् सूक्ते निविदम् दधाति । तस्य तद् एव अन्त रूपम् यद् भूत अनुवादि यो दासम् वर्णम् अधरम् गुहाकरि इति । यद् एतद् भूतम् इव अभि । सोदर्कम् भवति तद् द्वितीयम् अन्त रूपम् । (सोम पृष्ठ्य षडह)
२२.५ तृतीयमहः (वैश्वेदेवशस्त्रमग्निमारुतशस्त्रं च )
अभि त्वा देव सवितर् इत्य् अभिवान् अनुचरः । पृष्ठानाम् एव नानात्वाय । तद् आहुर् यद् अन्तस् तृतीयम् अहर् अथ कस्माद् अभिवान् अनुचर इति । एतेन वा अह्ना देवाः स्वर्गंल् लोकम् आयन् । अभिप्रेप्सन्तो वै तद् आयन् । तस्माद् इति ब्रूयात् । उद् उ ष्य देवः सविता हिरण्यया घृतवती भुवनानाम् अभिश्रिया इति घृतवती तयोर् उक्तम् ब्राह्मणम् । अनश्वो जातो अनभीशुर् उक्थ्य इत्य् आर्भवम् । रथस् तिचक्रः परि वर्तते रज इति । त्रिचक्र इति तत् तृतीयस्य अह्नो रूपम् । परावतो ये दिधिषन्त आप्यम् इति वैश्वदेवम् । अर्ध पद उदर्काण्य् एकानि । अथ एतत् तृतीय पद उदर्कम् । तत् तृतीयस्य अह्नो रूपम् । वैश्वानराय धिषणाम् ऋतावृध इति वैश्वानरीयम् । घृतम् न पूतम् अग्नये जनाम् असि इति घृतवत् तस्य उक्तम् ब्राह्मणम् । धारा वरा मरुतो धृषण्व् ओजस इति मारुतम् । धारावरा इति निनर्तिः । अन्तस् तृतीयम् अहः । नीव वा अन्तम् गत्वा नृत्यति । कद्र्यन् हि तत इयात् । त्वम् अग्ने प्रथमो अङ्गिरा ऋषिर् इति जातवेदसीयम् । त्वम् त्वम् इति सप्रभृति । यथा वै सोदर्कम् एवम् सप्रभृत्य् अन्त रूपम् । अमुंल् लोकम् तृतीयेन अह्ना आप्नुवन्ति । जगतीम् छन्दः सप्तदशम् स्तोमम् वैरूपम् साम । प्रतीचीम् दिशम् वर्षा ऋतूनाम् । आदित्यान् देवान् देव जातम् । वरुणम् अधिपतिम् वरुणम् अधिपतिम् ।
२२.६चतुर्थमहः - सामान्यवर्णनम्
अन्तस् तृतीयम् अहः । ते देवा अन्तम् गत्वा चतुर्थम् अहर् ऐच्छन् । तस्माद् इच्छद्वत् । तद् इष्ट्वा अविन्दन् । तस्माद् वित्तवत् । तद् आहुर् यद् अन्तस् तृतीयम् अहर् अथ कस्माच् चतुर्थे अहन् न्यूङ्खयति इति । वाच एव तद् आयतनम् विराजो यच् चतुर्थम् अहः । अन्नम् विराड् अन्नम् वाक् । ताम् एव एतच् चतुर्थे अहन् विभावयति । यथा अयस् तप्तम् विनयेद् एवम् तत् । वाचो विभूत्यै । तस्य एतानि छन्दो रूपाणि । संराड्वद् विराड्वत् स्वराड्वज् जातवद् ऊतिमद् वीतिमत् परिवद् अभिवद् उपवद् इति । आग्निम् न स्व वृक्तिभिर् इति वैमदम् आज्यम् । विमदेन वै देवा असुरान् व्यमदन् । तद् यच् चतुर्थे अहन् विमदः शस्यते मध्यतश् च होत्रासु च । अङ्गाद् अङ्गाद् एव तद् यजमानाः पाप्मानम् विमदन्ति । अग्निर् जातो अथर्वणा इति जातवत् । आग्निम्(पृष्ठ्य षडह) तद् एतस्य अह्नो रूपम् ।
२२.७ चतुर्थमहः - सामान्यवर्णनम्
ताः संशस्ता दश जगत्यः सम्पद्यन्ते । जगत् प्रातः सवनो ह्य् एष त्र्यहः । विंशतिर् गायत्रीः । गायत्री प्रातःसवनम् वहति । तद् उ ह प्रातःसवन रूपान् न अपैति । इति नु व्यूढे । उद्धृत्य एतद् अग्निम् नरो दीधितिभिर् अरण्योर् इति समूढे वैराजम् आज्यम् । वैराजम् पृष्ठम् तत् सलोम । वासिष्ठम् आज्यम् । वासिष्ठम् पृष्ठम् तत् सलोम । हस्त च्युती जनयन्त प्रशस्तम् इति जातवत् । तद् एतस्य अह्नो रूपम् । आनुष्टुभः प्रउगः । आनुष्टुभम् वै चतुर्थम् अहः । तद् एनत् स्वेन छन्दसा समर्धयति । तम् त्वा यज्ञेभिर् ईमह इति यज्ञवत्या मरुत्वतीयम् प्रतिपद्यते । पुनर् आरम्भ्यो वै चतुर्थे अहन् यज्ञः । यज्ञम् एव तद् आरभते । श्रुधी हवम् इन्द्र मा रिषण्य इति मरुत्वतीयम् । ता वा एतास् त्रिष्टुभो विराड् वर्णाः । ता अत्र क्रियन्ते । एता ह्य् अह्नो रूपेण सम्पन्नाः । इन्द्र मरुत्व इह पाहि सोमम् इति विज्ञात त्रैष्टुभम् सवन धरणम् । त्रैष्टुभो वा इन्द्रः । मध्यंदिन आयतनो वा इन्द्रः । तानि वा एतानि विज्ञात त्रैष्टुभानि सवन धरणान्य् अपि व्यूढच् छन्दसो मध्यंदिनान् न च्यवन्ते । त्रैष्टुभ इन्द्रः । न इद् इन्द्रम् स्वाद् आयतनाच् च्यवयाम इति । जातम् यत् त्वा परि देवा अभूषन्न् इति जातवत् । जातवद् वै चतुर्थस्य अह्नो रूपम् । इमम् नु मायिनम् हुव इति मरुत्वतीयम् गायत्रम् । गायत्र मध्यंदिनो ह्य् एष त्र्यहः ।
२२.८ चतुर्थमहः ( मरुत्वतीयशस्त्रं न्यूङ्खश्च )
अथात इह न्यूङ्खयेद् इह इति । स्तोत्रिय अनुरूपयोश् च एव उक्थ मुखीययोश् च न्यूङ्खः । अथ न आद्रियेत । आत्मा वै स्तोत्रियः प्रजा अनुरूपः । अन्नम् न्यूङ्खः । अन्नम् एव तद् आत्मनि च प्रजानाम् च दधाति । आनुष्टुभम् न्यूङ्खम् न्यूङ्खयेद् इति ह एक आहुः । आनुष्टुभम् वै चतुर्थम् अहः । तद् एतत् स्वेन छन्दसा समर्धयति । वैराजम् न्यूङ्खम् न्यूङ्खयेद् इति सा स्थितिः । अन्नम् विराड् अन्नम् न्यूङ्खः । अन्नम् एव तद् यज्ञे च यजमानेषु च दधाति । मध्यमे पदे न्यूङ्खयेत् । आत्मा वै पूर्वम् पदम् प्रजा उत्तमम् । मध्यम् मध्यम् पदम् । मध्ये वा इदम् आत्मनो अन्नम् धीयते । तद् यथा अभिग्रासम् अन्नम् अद्याद् एवम् तत् । इन्द्रम् इद् देवतातय इत्य् अष्ट इन्द्रः प्रगाथः । एतेन वै देवाः सर्वा अष्टीर् आश्नुवत । तथो एव एतद् यजमाना एतेन एव सर्वा अष्टीर् अश्नुवते । कुह श्रुत इति कुह श्रुतीयाः । ता वै विराजो अनुष्टुभो वा भवन्ति । ता अत्र क्रियन्ते । एता ह्य् अह्नो रूपेण सम्पन्नाः । युध्मस्य ते वृषभस्य स्व राज इति विज्ञात त्रैष्टुभम् सवन धरणम् तस्य उक्तम् ब्राह्मणम् । स्व राज इति स्व राड्वत् । स्व राड्वद् इति वा अस्य रूपम् । त्यम् उ वः सत्रासाहम् इति निष्केवल्यम् । आ च्यावयस्य् ऊतय इत्य् ऊतिमत् । ऊतिमद् इति वा अस्य रूपम् । गायत्रम् गायत्र मध्यंदिनो ह्य् एष त्र्यहः ।
२२.९ वैश्वदेवशस्त्रमाग्निमारुतशस्त्रं च
हिरण्यपाणिम् ऊतय इत्य् ऊतिमान् अनुचरस् तस्य उक्तम् ब्राह्मणम् । ऊतय इत्य् ऊतिमत् । ऊतिमद् इति वा अस्य रूपम् । आ देवो यातु सविता सुरत्नः प्र द्यावा यज्ञैः पृथिवी नमोभिः प्र ऋभुभ्यो दूतम् इव वाचम् इष्ये प्र शुक्र एतु देवी मनीषा इति । आ इति वा वै प्र इति वा प्रायणीय रूपम् । तस्माद् आवन्ति च प्रवन्ति च चतुर्थे अहन्त् सूक्तानि शस्यन्ते प्रायणीय रूपेण । पुनः प्रायणीयम् हि चतुर्थम् अहः । द्विपदाः शस्यन्ते । द्विपाद् वा अभिक्रमितुम् अर्हति । अभिक्रान्त्यै तद् रूपम् । तद् यथा उपरयाय स्वर्गस्य लोकस्य नेदीयस्तायाम् वसेद् एवम् तत् । प्र सम्रााजो असुरस्य प्रशस्तिम् इति वैश्वानरीयम् । सम्राज इति सम्राड्वत् । सम्राड्वद् इति वा अस्य रूपम् । क ईम् व्यक्ता नरः सनीडा इति मारुतम् । तस्य तद् ब्राह्मणम् यत् प्रशुक्रीयस्य । प्र यन्तु वाजास् तविषीभिर् अग्नय इति तिस्रो अधिकाः समूढे । आ त्व् एषम् उग्रम् अव ईमहे वयम् इति । आ इति वा वै प्र इति वा प्रायणीय रूपम् । तस्माद् आवन्ति च प्रवन्ति च चतुर्थे अहन्त् सूक्तानि शस्यन्ते प्रायणीय रूपेण । पुनः प्रायणीयम् हि चतुर्थम् अहः । हुवे वः सुद्योत्मानम् सुवृक्तिम् इति जातवेदसीयम् । तस्य तद् ब्राह्मणम् यन् मरुत्वतीयस्य । वसुम् न चित्र महसम् गृणीष इति समूढे । घृत निर्णिग् ब्रह्मणे गातुम् एरय इति । आ इति वा वै प्र इति वा प्रायणीय रूपम् । तस्माद् आवन्ति च प्रवन्ति च चतुर्थे अहन्त् सूक्तानि शस्यन्ते प्रायणीय रूपेण । पुनः प्रायणीयम् हि चतुर्थम् अहः । अथ उक्थ्यान्य् उपेत्य सृप्त्वा षोडशिनम् उपयन्ति । षोडश कलम् वा इदम् सर्वम् । अस्य एव सर्वस्य आप्त्यै । अन्नम् चतुर्थेन अह्ना आप्नुवन्ति । अनुष्टुभम् छन्द एकविंशम् स्तोमम् वैराजम् साम । उदीचीम् दिशम् शरदम् ऋतूनाम् । साध्यांश् च आप्त्यांश् च देवान् देव जाते । बृहस्पतिम् च चन्द्रमसम् च अधिपती ।
२२.१ पृष्ठ्यषडहः प्रथममहः
प्रथमम् अहर् अयम् एव लोक आयतनेन ।
अग्निर् गायत्री त्रिवृत् स्तोमो रथन्तरम् साम ।
तन् न्व् अस्य निदानम् ।
तस्य एता छन्दो रूपाणि ।
करिष्यन् प्रथमे पदे सद् एवम् ।
यद् वै भविष्यत् तत् करिष्यत् ।
यद् वै भविष्यत् तत् करिष्यत् ।
आवत् प्रवद् एषवद् अर्षवद् अद्यवद् युक्तवद् युञ्जानवज् ज्योतिष्मद् इति ।
उपप्रयन्तो अध्वरम् इत्य् आज्यम् प्रवत् ।
प्रवद् वै प्रथमस्य अह्ने रूपम् ।
गायत्रम् गायत्र प्रातः सवनो ह्य् एष त्र्यहः ।
इति नु व्यूढे ।
उद्धृत्य एतत् प्र वो देवाय अग्नय इति समूढे तस्य उक्तम् ब्राह्मणम् ।
माधुच्छन्दस प्रौगस् तस्य उक्तम् ब्राह्मणम् ।
आ यात्व् इन्द्रो अवस उप न इति मरुत्वतीयम् आवत् ।
आवद् वै प्रथमस्य अह्नो रूपम् ।
स्वर्णराद् अवसे नो मरुत्वान् इति स एव अस्मिन् मरुन् न्यङ्गः ।
आ न इन्द्रो दूराद् आ न आसाद् इति निष्केवल्यम् आवत् ।
आवद् वै प्रथमस्य अह्नो रूपम् । (पृष्ठ्य षडह)
सम्पातौ निष्केवल्य मरुत्वतीये भवतः प्रथमे अहन् ।
सम्पातैर् वै देवाः स्वर्गंल् लोकम् समपतन् ।
तस्माद् अत्र प्रथमौ शस्येते स्वर्ग्यौ ।
तद् यत् सम्पातौ निष्केवल्य मरुत्वतीये भवतः प्रथमे अहन् ।
स्वर्गस्य एव लोकस्य समष्ठ्या इति ।
युञ्जते मन उत युज्ञते धियः प्र द्यावा यज्ञैः पृथिवी ऋतावृधा इह इह वो मनसा बन्धुता नर इत्य् आर्भवम् ।
तेन नियच्छति ।
युक्तवन्ति च वै प्रवन्ति च प्रथमे अहन्त् सूक्तानि शस्यन्ते ।
तद् यद् इह इह व इत्य् आर्भवम् करोति ।
तन् नियत्या अप्रच्युत्यै रूपम् ।
हयो न विद्वान् अयुजि स्वयम् धुरि इति वैश्वदेवम् युक्तवत् ।
युक्तवद् वै प्रथमस्य अह्नो रूपम् ।
तस्य द्वे उत्तमे उत्सृजति ।
कुविद् एते अवधृते आग्निमारुते शस्येते इति ।
तद् उ ह स्म आह कौषीतकिः ।
शंसेद् एव सूक्तस्य अव्यवच्छेदाय इति ।
न ह वा ऋक् शस्त्रेण यात यामा भवति ।
न अनुवचनेन ।
वषट् कारेण ह वै सा यात यामा भवति समाने अहन् ।
वैश्वानराय पृथु पाजसे विप इति वैश्वानरीयम् । (पृष्ठ्य षडह)
तस्मिन्त् सुम्नानि यजमान आ चक इत्य् आवत् ।
आवद् वै प्रथमस्य अह्नो रूपम् ।
प्र शर्धाय मारुताय स्व भानव इति मारुतम् प्रवत् ।
प्रवद् वै प्रथमस्य अह्नो रूपम् ।
प्र तव्यसीम् नव्यसीम् धीतिम् अग्नय इति जातवेदसीयम् प्रवत् ।
प्रवद् वै प्रथमस्य अह्नो रूपम् ।
इमंल् लोकम् प्रथमेन अह्ना आप्नुवन्ति ।
गायत्रीम् छन्दस् त्रिवृतम् स्तोमम् रथन्तरम् साम ।
प्राचीम् दिशम् वसन्तम् ऋतूनाम् ।
वसून् देवान् देव जातम् अग्निम् अधिपतिम् । (सोम पृष्ठ्य षडह)
२२.२ पृष्ठ्यषडहः द्वितीयमहः
द्वितीयम् अहर् अन्तरिक्ष लोक आयतनेन ।
इन्द्रस् त्रिष्टुप् पञ्चदशः स्तोम ।
तन् न्व् अस्य निदानम् ।
तस्य एतानि छन्दो रूपाणि ।
कुर्वन् मध्ये पदे सदेवम् ।
यद् वै प्रत्यक्षम् आस्प्रक्षंस् तत् कुर्वत् ।
हतवद् वज्रवद् वृत्रहवद् वृषण्वद् उद्वद् विवत् स्थितम् तन्वाम् इति ।
अग्निम् दूतम् वृणीमह इत्य् आज्यम् ।
होतारम् विश्ववेदसम् इति विवत् तस्य उक्तम् ब्राह्मणम् ।
गायत्रम् गायत्र प्रातः सवनो ह्य् एष त्र्यहः ।
इति नु व्यूढे ।
उद्धृत्य एतत् त्वम् हि क्षैतवद् यश इति समूढे तस्य उक्तम् ब्राह्मणम् ।
गार्त्समदः प्रउगस् तस्य उक्तम् ब्राह्मणम् ।
तद् एतस्य अह्नो रूपम् ।
या त ऊतिर् अवमा या परमा इति निष्केवल्यम् ।
ताभिर् ऊ षु वृत्रहत्ये अवीर् न इति वृत्रहवत् ।
तद् एतस्य अह्नो रूपम् ।
विश्वो देवस्य नेतुर् आ विश्व देवम् सत्पतिम् इति प्रतिपद् अनुचरौ तयोर् उक्तम् ब्राह्मणम् ।
तद् देवस्य सवितुर् वार्यम् महद् इति सावित्रम् ।
त्रिर् अन्तरिक्षम् सविता महित्वना इति ।
तत् प्रत्यक्षम् अन्तरिक्षम् अभिवदति ।
तद् एतस्य अह्नो रूपम् ।
ते हि द्यावा पृथिवी विश्व शम्भुवा इति द्यावा पृथिवीयम् विवत् तस्य उक्तम् ब्राह्मणम् ।
तक्षन् रथम् सुवृतम् विद्मना अपस इत्य् आर्भवम् ।
तक्षन् हरी इन्द्र वाहा वृषण्वसू इति वृषण्वत् तस्य उक्तम् ब्राह्मणम् ।
यज्ञस्य वो रथ्यम् विश्पतिम् विशाम् इति शार्यातम् वैश्वदेवम् ।
वृषा केतुर् यजतो द्याम् अशायत इति वृषण्वत् तस्य उक्तम् ब्राह्मणम् ।
पृक्षस्य वृष्णो वृष्णे शर्धाय इति वृषण्वती तयोर् उक्तम् ब्राह्मणम् ।
नू चित् सहोता अमृतो नि तुन्दत इति जातवेदसीयम् । (सोम पृष्ठ्य षडह)
होता यद् दूतो अभवद् विवस्वत इति विवत् तस्य उक्तम् ब्राह्मणम् ।
तस्य प्रातर् मक्षू धियावसुर् जगम्याद् इत्य् उत्तमा ।
परम् एव एतद् अहर् अभिवदति ।
परम् एव एतद् अहर् अभ्यारभ्य वसन्ति इति ह स्म आह कौषीतकिः ।
अन्तरिक्ष लोकम् द्वितीयेन अह्ना आप्नुवन्ति ।
त्रिष्टुभम् छन्दः पञ्चदशम् स्तोमम् बृहत् साम ।
दक्षिणाम् दिशम् ग्रीष्मम् ऋतूनाम् ।
रुद्रान् देवान् देव जातम् इन्द्रम् अधिपतिम् ।
२२.३ तृतीयमहः- आज्यशस्त्रं प्रउगशस्त्रं च
तृतीयम् अहर् असाव् एव लोक आयतनेन ।
वरुणो जगती सप्तदश स्तोमो वैरूपम् साम ।
तन् न्व् अस्य निदानम् ।
तस्य एतानि छन्दो रूपाणि ।
चकृवद् उत्तमे पदे सद् एवम् ।
यद् वै भूत अनुवादि तच् चकृवत् ।
अश्वावद् गोमद् रथवद् गतवत् स्थितवद् अन्तवत् सोदर्कम् अनिरुक्तम् सप्रभृति इति ।
युक्ष्वा हि देव हूतमान् इत्य् आज्यम् ।
तद् आहुर् यद् अन्तस् तृतीयम् अहर् अथ कस्माद् युक्तवद् आज्यम् इति ।
एतेन वा अह्ना देवाः स्वर्गंल् लोकम् आयन् ।
युक्ता वै तद् आयन् ।
तस्माद् इति ब्रूयात् ।
अश्वान् अग्ने रथीरि इव इति रतह्वत् ।
तद् एतस्य अह्नो रूपम् ।
गायत्रम् गायत्र प्रातः सवनो ह्य् एष त्र्यहः ।
इति नु व्यूढे ।
उद्धृत्य एतत् त्वम् अग्ने वसूंर् इह इति समूढे तस्य उक्तम् ब्राह्मणम् ।
औष्णिह आत्रेयः प्रउगः ।
जागतम् वै तृतीयम् अहः ।
तद् यद् औष्णिह आत्रेयस् तृतीयस्य अह्नः प्रउगः ।
तत् प्रातःसवनम् जगती भजते ।
२२.४ तृतीयमहः - मरुत्वतीयशस्त्रं निष्केवल्यशस्त्रं च
त्र्यर्यमा मनुषी देवताता इति मरुत्वतीयम् ।
त्रि इति तत् तृतीयस्य अह्नो रूपम् ।
यद् द्वाय इन्द्र ते शतम् इति वैरूपस्य स्तोत्रियः ।
शतम् भूमीर् उत स्युर् इति निनर्तिः ।
अन्तस् तृतीयम् अहः ।
नीव वा अन्तम् गत्वा नृत्यति ।
कद्र्यन् हि तत इयात् ।
इन्द्र त्रि धातु शरणम् इति त्रिवान् प्रगाथः ।
त्रि धात्व् इति तत् तृतीयस्य अह्नो रूपम् ।
अहम् भुवम् वसुनः पूर्व्यस् पतिर् इति इन्द्र सूक्तम् । (सोम पृष्ठ्य षडह)
अहम् अहम् इति सप्रभृति ।
यथा वै सोदर्कम् एवम् सप्रभृत्य् अन्त रूपम् जागतम् । (सोम पृष्ठ्य षडह)
जागतम् वै तृतीयम् अहः ।
तद् एनत् स्वेन छन्दसा समर्धयति ।
यो जात एव प्रथमो मनस्वान् इत्य् एतस्मिंस् त्रैष्टुभे निविदम् दधाति ।
तद् एतद् इन्द्र तनू सूक्तम् ।
एतस्मिन् ह गृत्समदो बाभ्रवो निविदम् दधद् इन्द्रस्य प्रियम् धाम उपजगाम ।
उप ह वा इन्द्रस्य प्रियम् धाम गच्छति जयति परम् लोकम् य एतस्मिन्त् सूक्ते निविदम् दधाति ।
तस्य तद् एव अन्त रूपम् यद् भूत अनुवादि यो दासम् वर्णम् अधरम् गुहाकरि इति ।
यद् एतद् भूतम् इव अभि ।
सोदर्कम् भवति तद् द्वितीयम् अन्त रूपम् । (सोम पृष्ठ्य षडह)
२२.५ तृतीयमहः - वैश्वेदेवशस्त्रमग्निमारुतशस्त्रं च
अभि त्वा देव सवितर् इत्य् अभिवान् अनुचरः ।
पृष्ठानाम् एव नानात्वाय ।
तद् आहुर् यद् अन्तस् तृतीयम् अहर् अथ कस्माद् अभिवान् अनुचर इति ।
एतेन वा अह्ना देवाः स्वर्गंल् लोकम् आयन् ।
अभिप्रेप्सन्तो वै तद् आयन् ।
तस्माद् इति ब्रूयात् ।
उद् उ ष्य देवः सविता हिरण्यया घृतवती भुवनानाम् अभिश्रिया इति घृतवती तयोर् उक्तम् ब्राह्मणम् ।
अनश्वो जातो अनभीशुर् उक्थ्य इत्य् आर्भवम् ।
रथस् तिचक्रः परि वर्तते रज इति ।
त्रिचक्र इति तत् तृतीयस्य अह्नो रूपम् ।
परावतो ये दिधिषन्त आप्यम् इति वैश्वदेवम् ।
अर्ध पद उदर्काण्य् एकानि ।
अथ एतत् तृतीय पद उदर्कम् ।
तत् तृतीयस्य अह्नो रूपम् ।
वैश्वानराय धिषणाम् ऋता वृध इति वैश्वानरीयम् ।
घृतम् न पूतम् अग्रन्ये जनाम् असि इति घृतवत् तस्य उक्तम् ब्राह्मणम् ।
धारा वरा मरुतो धृषण्व् ओजस इति मारुतम् ।
धारावरा इति निनर्तिः ।
अन्तस् तृतीयम् अहः ।
नीव वा अन्तम् गत्वा नृत्यति ।
कद्र्यन् हि तत इयात् ।
त्वम् अग्ने प्रथमो अङ्गिरा ऋषिर् इति जातवेदसीयम् ।
त्वम् त्वम् इति सप्रभृति ।
यथा वै सोदर्कम् एवम् सप्रभृत्य् अन्त रूपम् ।
अमुंल् लोकम् तृतीयेन अह्ना आप्नुवन्ति ।
जगतीम् छन्दः सप्तदशम् स्तोमम् वैरूपम् साम ।
प्रतीचीम् दिशम् वर्षा ऋतूनाम् ।
आदित्यान् देवान् देव जातम् ।
वरुणम् अधिपतिम् वरुणम् अधिपतिम् । (सोम पृष्ठ्य षडह)
२२.६चतुर्थमहः - सामान्यवर्णनम्
अन्तस् तृतीयम् अहः ।
ते देवा अन्तम् गत्वा चतुर्थम् अहर् ऐच्छन् ।
तस्माद् इच्छद्वत् ।
तद् इष्ट्वा अविन्दन् ।
तस्माद् वित्तवत् ।
तद् आहुर् यद् अन्तस् तृतीयम् अहर् अथ कस्माच् चतुर्थे अहन् न्यूङ्खयति इति ।
वाच एव तद् आयतनम् विराजो यच् चतुर्थम् अहः ।
अन्नम् विराड् अन्नम् वाक् ।
ताम् एव एतच् चतुर्थे अहन् विभावयति ।
यथा अयस् तप्तम् विनयेद् एवम् तत् ।
वाचो विभूत्यै ।
तस्य एतानि छन्दो रूपाणि ।
संराड्वद् विराड्वत् स्वराड्वज् जातवद् ऊतिमद् वीतिमत् परिवद् अभिवद् उपवद् इति ।
आग्निम् न स्व वृक्तिभिर् इति वैमदम् आज्यम् ।
विमदेन वै देवा असुरान् व्यमदन् ।
तद् यच् चतुर्थे अहन् विमदः शस्यते मध्यतश् च होत्रासु च ।
अङ्गाद् अङ्गाद् एव तद् यजमानाः पाप्मानम् विमदन्ति ।
अग्निर् जातो अथर्वणा इति जातवत् । (सोम पृष्ठ्य षडह) आग्निम्(पृष्ठ्य षडह)
तद् एतस्य अह्नो रूपम् ।
२२.७ चतुर्थमहः - सामान्यवर्णनम्
ताः संशस्ता दश जगत्यः सम्पद्यन्ते ।
जगत् प्रातः सवनो ह्य् एष त्र्यहः ।
विंशतिर् गायत्रीः ।
गायत्री प्रातःसवनम् वहति ।
तद् उ ह प्रातःसवन रूपान् न अपैति ।
इति नु व्यूढे ।
उद्धृत्य एतद् अग्निम् नरो दीधितिभिर् अरण्योर् इति समूढे वैराजम् आज्यम् ।
वैराजम् पृष्ठम् तत् सलोम ।
वासिष्ठम् आज्यम् ।
वासिष्ठम् पृष्ठम् तत् सलोम ।
हस्त च्युती जनयन्त प्रशस्तम् इति जातवत् ।
तद् एतस्य अह्नो रूपम् ।
आनुष्टुभः प्रउगः ।
आनुष्टुभम् वै चतुर्थम् अहः ।
तद् एनत् स्वेन छन्दसा समर्धयति ।
तम् त्वा यज्ञेभिर् ईमह इति यज्ञवत्या मरुत्वतीयम् प्रतिपद्यते ।
पुनर् आरम्भ्यो वै चतुर्थे अहन् यज्ञः ।
यज्ञम् एव तद् आरभते ।
श्रुधी हवम् इन्द्र मा रिषण्य इति मरुत्वतीयम् ।
ता वा एतास् त्रिष्टुभो विराड् वर्णाः ।
ता अत्र क्रियन्ते ।
एता ह्य् अह्नो रूपेण सम्पन्नाः ।
इन्द्र मरुत्व इह पाहि सोमम् इति विज्ञात त्रैष्टुभम् सवन धरणम् ।
त्रैष्टुभो वा इन्द्रः ।
मध्यंदिन आयतनो वा इन्द्रः ।
तानि वा एतानि विज्ञात त्रैष्टुभानि सवन धरणान्य् अपि व्यूढच् छन्दसो मध्यंदिनान् न च्यवन्ते ।
त्रैष्टुभ इन्द्रः ।
न इद् इन्द्रम् स्वाद् आयतनाच् च्यवयाम इति ।
जातम् यत् त्वा परि देवा अभूषन्न् इति जातवत् ।
जातवद् वै चतुर्थस्य अह्नो रूपम् ।
इमम् नु मायिनम् हुव इति मरुत्वतीयम् गायत्रम् ।
गायत्र मध्यंदिनो ह्य् एष त्र्यहः ।
२२.८ चतुर्थमहः - मरुत्वतीयशस्त्रं न्यूङ्खश्च
अथ अत इह न्यूङ्खयेद् इह इति ।
स्तोत्रिय अनुरूपयोश् च एव उक्थ मुखीययोश् च न्यूङ्खः ।
अथ न आद्रियेत ।
आत्मा वै स्तोत्रियः प्रजा अनुरूपः ।
अन्नम् न्यूङ्खः ।
अन्नम् एव तद् आत्मनि च प्रजानाम् च दधाति ।
आनुष्टुभम् न्यूङ्खम् न्यूङ्खयेद् इति ह एक आहुः ।
आनुष्टुभम् वै चतुर्थम् अहः ।
तद् एतत् स्वेन छन्दसा समर्धयति ।
वैराजम् न्यूङ्खम् न्यूङ्खयेद् इति सा स्थितिः ।
अन्नम् विराड् अन्नम् न्यूङ्खः ।
अन्नम् एव तद् यज्ञे च यजमानेषु च दधाति ।
मध्यमे पदे न्यूङ्खयेत् ।
आत्मा वै पूर्वम् पदम् प्रजा उत्तमम् ।
मध्यम् मध्यम् पदम् ।
मध्ये वा इदम् आत्मनो अन्नम् धीयते ।
तद् यथा अभिग्रासम् अन्नम् अद्याद् एवम् तत् ।
इन्द्रम् इद् देवतातय इत्य् अष्ट इन्द्रः प्रगाथः ।
एतेन वै देवाः सर्वा अष्टीर् आश्नुवत ।
तथो एव एतद् यजमाना एतेन एव सर्वा अष्टीर् अश्नुवते ।
कुह श्रुत इति कुह श्रुतीयाः ।
ता वै विराजो अनुष्टुभो वा भवन्ति ।
ता अत्र क्रियन्ते ।
एता ह्य् अह्नो रूपेण सम्पन्नाः ।
युध्मस्य ते वृषभस्य स्व राज इति विज्ञात त्रैष्टुभम् सवन धरणम् तस्य उक्तम् ब्राह्मणम् ।
स्व राज इति स्व राड्वत् ।
स्व राड्वद् इति वा अस्य रूपम् ।
त्यम् उ वः सत्रासाहम् इति निष्केवल्यम् ।
आ च्यावयस्य् ऊतय इत्य् ऊतिमत् ।
ऊतिमद् इति वा अस्य रूपम् ।
गायत्रम् गायत्र मध्यंदिनो ह्य् एष त्र्यहः । (सोम पृष्ठ्य षडह)
२२.९ वैश्वदेवशस्त्रमाग्निमारुतशस्त्रं च
हिरण्यपाणिम् ऊतय इत्य् ऊतिमान् अनुचरस् तस्य उक्तम् ब्राह्मणम् ।
ऊतय इत्य् ऊतिमत् ।
ऊतिमद् इति वा अस्य रूपम् ।
आ देवो यातु सविता सुरत्नः प्र द्यावा यज्ञैः पृथिवी नमोभिः प्र ऋभुभ्यो दूतम् इव वाचम् इष्ये प्र शुक्र एतु देवी मनीषा इति ।
आ इति वा वै प्र इति वा प्रायणीय रूपम् ।
तस्माद् आवन्ति च प्रवन्ति च चतुर्थे अहन्त् सूक्तानि शस्यन्ते प्रायणीय रूपेण ।
पुनः प्रायणीयम् हि चतुर्थम् अहः ।
द्विपदाः शस्यन्ते ।
द्विपाद् वा अभिक्रमितुम् अर्हति ।
अभिक्रान्त्यै तद् रूपम् ।
तद् यथा उपरयाय स्वर्गस्य लोकस्य नेदीयस्तायाम् वसेद् एवम् तत् ।
प्र संराजो असुरस्य प्रशस्तिम् इति वैश्वानरीयम् ।
संराज इति संराड्वत् ।
संराड्वद् इति वा अस्य रूपम् ।
क ईम् व्यक्ता नरः सनीडा इति मारुतम् ।
तस्य तद् ब्राह्मणम् यत् प्रशुक्रीयस्य ।
प्र यन्तु वाजास् तविषीभिर् अग्नय इति तिस्रो अधिकाः समूढे ।
आ त्व् एषम् उग्रम् अव ईमहे वयम् इति ।
आ इति वा वै प्र इति वा प्रायणीय रूपम् ।
तस्माद् आवन्ति च प्रवन्ति च चतुर्थे अहन्त् सूक्तानि शस्यन्ते प्रायणीय रूपेण ।
पुनः प्रायणीयम् हि चतुर्थम् अहः ।
हुवे वः सुद्योत्मानम् सुवृक्तिम् इति जातवेदसीयम् ।
तस्य तद् ब्राह्मणम् यन् मरुत्वतीयस्य ।
वसुम् न चित्र महसम् गृणीष इति समूढे ।
घृत निर्णिग् ब्रह्मणे गातुम् एरय इति ।
आ इति वा वै प्र इति वा प्रायणीय रूपम् ।
तस्माद् आवन्ति च प्रवन्ति च चतुर्थे अहन्त् सूक्तानि शस्यन्ते प्रायणीय रूपेण ।
पुनः प्रायणीयम् हि चतुर्थम् अहः ।
अथ उक्थ्यान्य् उपेत्य सृप्त्वा षोडशिनम् उपयन्ति ।
षोडश कलम् वा इदम् सर्वम् ।
अस्य एव सर्वस्य आप्त्यै ।
अन्नम् चतुर्थेन अह्ना आप्नुवन्ति ।
अनुष्टुभम् छन्द एकविंशम् स्तोमम् वैराजम् साम ।
उदीचीम् दिशम् शरदम् ऋतूनाम् ।
साध्यांश् च आप्त्यांश् च देवान् देव जाते ।
बृहस्पतिम् च चन्द्रमसम् च अधिपती ।