कौषीतकिब्राह्मणम्/अध्यायः २३
← अध्यायः २२ | कौषीतकिब्राह्मणम् अध्यायः २३ [[लेखकः :|]] |
अध्यायः २४ → |
सोमयागः(पृष्ठ्यषळहः) |
२३.१ पृष्ठ्यषडहः- पञ्चममहः - आज्यप्रउगमरुत्वतीयशस्त्राणि
पशवः पञ्चमम् अहः पङ्क्तिर् वै । तन् न्व् अस्य निदानम् । पशवः पङ्क्तिर् इति । तस्य एतानि छन्दो रूपाणि । वृषभवद् धेनुमद् दुग्धवद् घृतवन् मद्वद् रयिमद् वाजवद् अध्यासवद् इति । इमम् ऊ षु वो अतिथिम् उषर् बुधम् इत्य् आज्यम् । रायः सूनो सहसो मर्त्येष्व् एति राय इति रयिमत् । रयिमद् इति वा अस्य रूपम् । अध्यासवत् तत् पङ्क्ते रूपम् । जागतम् जगत् प्रातः सवनो ह्य् एष त्र्यहः । इति नु व्यूढे । उद्धृत्य एतद् अग्निम् तम् मन्ये यो वसुर् इति समूढे पाङ्क्तम् । पङ्क्तिर् वै पञ्चमम् अहः । यद् एतद् अहस् तद् एताः । अस्तम् यम् यन्ति धेनव इति । धेनुमद् इति वा अस्य रूपम् । बार्हतः प्रउगः । पशवः पञ्चमम् अहः । बार्हताः पशवः पशूनाम् एव आप्त्यै । यत् पाञ्चजन्यया विश इति मरुत्वतीयस्य प्रतिपत् । पाञ्चजन्यया इत् तत् पञ्चमस्य अह्नो रूपम् । इत्था हि सोम इन् मद इति मद्वत् पाङ्क्तम् तस्य उक्तम् ब्राह्मणम् । अवितासि सुन्वतो वृक्त बर्हिष इति षट् पदाः । षड् वा ऋतवः संवत्सरः । संवत्सरस्य एव आप्त्यै । तासाम् गायत्री शंसम् शस्त्रम् इति ह स्म आह कौषीतकिः । तद् वा अत्र समृद्धम् यद् गायत्री शंसम् । तद् यद् अष्टाभिर् अष्टाभिर् अक्षरैः प्रणौति । तद् गायत्र्यै रूपम् । मरुत्वान् इन्द्र वृषभो रणाय इति विज्ञात त्रैष्टुभम् सवन धरणम् तस्य उक्तम् ब्राह्मणम् । वृषभो रणाय इति वृषभवत् । तद् एतस्य अह्नो रूपम् । अयम् ह येन वा इदम् इति मरुत्वतीयम् गायत्र । गायत्र मध्यंदिनो ह्य् एष त्र्यहः ।
२३.२ पञ्चममहः- मरुत्वतीयशस्त्रम्,निष्केवल्यशस्त्रम्
महानाम्न्यः पृष्ठम् भवन्ति । महानाम्नीभिर् वा इन्द्रो वृत्रम् अहन् । तम् वृत्रम् हत्वा यन्तम् देवताः प्रत्युपातिष्ठन्त । पराच्यो ह अस्माद् अग्रे अपक्रान्ता बिभ्यत्य् अस्तस्थुः । तम् प्रजापतिः पप्रच्छ अशको हन्तुम् इति । एवा ह्य् एव इति प्रत्युवाच अनिरुक्तम् । अनिरुक्त उ वै प्रजापतिः । तत् प्राजापत्यम् रूपम् । तम् अग्निः पप्रच्छ अशको हन्तुम् इति । एवा ह्य् अग्न इति प्रत्युवाच । तम् स्वो महिमा पप्रच्छ अशको हन्तुम् इति । स ह अस्माद् अग्रे अपक्रान्तो बिभ्यत् तस्थौ । एवा हि इन्द्र इति प्रत्युवाच । तम् पूषा पप्रच्छ अशको हन्तुम् इति । एवा हि पूषन्न् इति प्रत्युवाच । तम् देवाः पप्रच्छुर् अशको हन्तुम् इति । एवा हि देवा इति प्रत्युवाच । तानि वा एतानि पञ्च पदानि पुरीषम् इति शस्यन्ते । सो ऋच एव वेला । ता वा एताः शक्वर्यः । एताभिर् वा इन्द्रो वृत्रम् अशकद्द् हन्तुम् । तद् यद् आभिर् वृत्रम् अशकद्द् हन्तुम् । तस्मात् शक्वर्यः शक्तयो हि । प्रत्यस्मै पिपीषते यो रयिवो रयिंतमस् त्यम् उ वो अप्रहणम् इति त्रयस् तृचाः । अस्मा अस्मा इदन्धस इति बृहतीम् दशमीम् करोति । एवा ह्य् असि वीरयुर् इति त्व् एव स्थिता पुरीषस्य समान अभिव्याहारा । तथा स स्तोत्रियेण समो वा अतिशयो वा सम्पद्यते । यद् इन्द्र नाहुषीष्व् एति साम्नः प्रगाथः । यद् वा पञ्च क्षितीनाम् इति पञ्च इति तत् पञ्चमस्य अह्नो रूपम् । इन्द्रो मदाय वावृध इति मद्वत् पाङ्क्तम् तस्य उक्तम् ब्राह्मणम् । प्र इदम् ब्रह्म वृत्र तूर्येष्व् आविथा इति षट् पदाः । तासाम् उक्तम् ब्राह्मणम् । अभूर् एको रयि पते रयीणाम् इति विज्ञात त्रैष्टुभम् सवन धरणम् तस्य उक्तम् ब्राह्मणम् । रयि पते रयीणाम् इति रयिमत् । रयिमद् इति वा अस्य रूपम् । अध्यासवत् तत् पङ्क्ते रूपम् । तम् इन्द्रम् वाजयामसि इति निष्केवल्यम् । स वृषा वृषभो भुवद् इति वृषभवत् । तद् एतस्य अह्नो रूपम् । गायत्र माध्यन्दिनो ह्य् एष त्र्यहः । (सोम पृष्ठ्य षडह)
२३.३ पञ्चममहः- वैश्वदेवशस्त्रम्, आग्निमारुतशस्त्रम्
तत् सवितुर् वरेण्यम् इति वैश्वामित्रो अनुचरस् तस्य उक्तम् ब्राह्मणम् । वाजयन्तः पुरंध्या इति वाजवत् । तद् एतस्य अह्नो रूपम् । उद् उ ष्य देव सविता दमूना इति सावित्रम् । वामम् अद्य सवितर् वामसु श्व इति वामम् इति पशुमत् । पशुमद् इति वा अस्य रूपम् । मही द्यावा पृथिवी इह ज्येष्ठे इति द्यावा पृथिवीयम् । रुवद्द् ह उक्षा पप्रथानेभिर् एवैर् इत्य् उक्षा इति पशुमत् । पशुमद् इति वा अस्य रूपम् । ऋभुर् विभ्वा वाज इन्द्रो नो अच्छ इत्य् आर्भवम् । ये गोमन्तम् वाजयन्तम् सुवीरम् इति गोमन्तम् इति पशुमत् । पशुमद् इति वा अस्य रूपम् । को नु वाम् मित्रावरुणाव् ऋतायन्न् इति वैश्वदेवम् । यज्ञायते व पशुषो न वाजान् इति पशुष इति पशुमत् । पशुमद् इति वा अस्य रूपम् । अध्यासवत् तत् पङ्क्ते रूपम् । हविष् पान्तम् अजरम् स्वर्विदि इति वैश्वानरीयम् । पान्तम् इति तत् पञ्चमस्य अह्नो रूपम् । वपुर् नु तच् चिकितुषे चिद् अस्त्व् इति मारुतम् । समानम् नाम धेनुपत्यमानम् इति धेन्व् इति पशुमत् । पशुमद् इति वा अस्य रूपम् । अग्निर् होता गृहपतिः स राजा इति जातवेदसीयम् । अवा नो मघवन् वाजसाताव् इति वाजवत् । तद् एतस्य अह्नो रूपम् । अध्यासवत् तत् पङ्क्ते रूपम् । इति नु व्यूढे । अथ समूढे । मूर्धानम् दिवो अरतिम् पृथिव्या इति वैश्वानरीयम् । नाभिम् यज्ञानाम् सदनम् रयीणाम् इति रयिमत् । रयिमद् इति वा अस्य रूपम् । आ रुद्रास इन्द्रवन्तः सजोषस इति मारुतम् । गोमद् अश्वावद् रथवत् सुवीरम् इति गोमद् इति पशुमत् । पशुमद् इति वा अस्य रूपम् । इमम् ऊ षु वो अतिथिम् उषर्बुधम् इति जातवेदसीयम् तस्य उक्तम् ब्राह्मणम् । अध्यासवत् तत् पङ्क्ते रूपम् । पशून् पञ्चमेन अह्ना आप्नुवन्ति । पङ्क्तिम् छन्दस् त्रिणवम् स्तोमम् शाक्वरम् साम । ऊर्ध्वाम् दिशम् हेमन्तम् ऋतूनाम् । मरुतो देवान् देव जातम् रुद्रम् अधिपतिम् ।
२३.४ षष्ठमहः - पारुच्छेपमन्त्राः
पशवः पञ्चमम् अहर् अथ पुरुष एव षष्ठम् अहः । स वै पुरुषः प्रजापतिः पूर्वो अस्य सर्वस्य । अतिच्छन्दा वै प्रजापतिः । तत् प्राजापत्यम् रूपम् । असुरीन्द्रम् प्रत्युत्क्रमत पर्वन् पर्वन् मुष्कान् कृत्वा । ताम् इन्द्रः प्रतिजिगीषन् पर्वन् पर्वन् शेपांस्य् अकुरुत । इन्द्रो वै परुच्छेपः । सर्वम् वा इन्द्रेण जिगीषितम् । ताम् समभवत् । तम् अगृह्णाद् (अर्हणाद्-पा.भे.) असुरमायया । स एताः पुनः पदा अपश्यत् । ताभिर् अङ्गाद् अङ्गात् पर्वणः पर्वणः सर्वस्मात् पाप्मनः प्रामुच्यते । तद् यत् षष्ठे अहन् परुच्छेपः शस्यते मध्यतश् च होत्रासु च । अङ्गाद् अङ्गाद् एव तद् यजमानाः पर्वणः पर्वणः सर्वस्मात् पाप्मनः सम्प्रमुच्यन्ते । नित्याः पूर्वा याज्याः कृत्वा पारुच्छेपीभिर् यजन्ति । तद् यद् आभिस् तद् अहर् न वषट् कुर्वन्ति । तेन उत्सृष्टाः । यद् व् एव एना न अन्तरयन्ति । न इद् अच्युतम् यज्ञस्य प्रियम् देवानाम् अन्तरयाम इति । नित्यान् पूर्वान् ऋतु याजान् कृत्वा गार्त्समदीभिर् यजन्ति । तद् यद् एभिस् तद् अहर् न वषट् कुर्वन्ति । तेन उत्सृष्टाः । यद् व् एव एनान् न अन्तरयन्ति । न इद् अच्युतम् यज्ञस्य प्रियम् देवानाम् अन्तरयाम इति । तेन ते अतिच्छन्दसो भवति । तथा एषाम् सप्त पदाभिर् वषट् कृतम् भवति । तद् उ ह स्म आह कौषीतकिः । विराड् अष्टमानि ह वा एतम् छन्दांसि गोपायन्ति यो असौ तपति । ताम् ते सम्पदम् मोहयन्ति ये अतिच्छन्दोभिर् यजन्ति ।
२३.५ षष्ठमहः - पारुच्छेपमन्त्राः
तस्माद् व् ऐकाहिकीभिर् एव यजेयुः । देव यानस्य एव पथो असम्मुग्ध्या इति । तद्द् ह अप्य् अणीची मौनो जाबाल गृहपतीन्त् सत्रम् आसीनाम् उपासाद्य पप्रच्छ । अह्नो गात परुच्छेपाद् इति । त उ ह तूष्णीम् आसुः । तत्र उ ह उत्तर अर्धात् सदसश् चित्रो गौश्रायणिर् अभिपरोवाच । गौश्रो वा । न आह एव अह्नो अगाम न परुच्छेपात् । शस्त्रेण आह नः परुच्छेपो अहर् अन्वायतिष्ट । ऐकाहिकीभिर् अयाक्ष्म । तेन उ अह्नो न अगाम इति । यथा यथम् यजेयुः । देव आयतनम् वै षष्ठम् अहः । तद् यत् तद् अहर् होता एव वषट् कुर्यात् । होता एनयोर् देव आयतनम् सम्पृञ्चीत अध्वर्योश् च गृह पतेश् च । आजिम् ह वा एते यन्ति स्वर्गे लोके षष्ठेन अह्ना । स यो अनवानम् समापयति स स्वर्गंल् लोकम् उज्जयति । यद्य् अप्य् अव अन्यत् । पुनः पुनः प्रतिसारम् उपशिक्षेत एव ।
२३.६ षष्ठमहः - आज्यप्रउगमरुत्वतीयशस्त्राणि
अयम् जायत मनुषो धरीमणि इत्य् आज्यम् । अयम् इत्य् अनिरुक्तम् । अनिरुक्त उ वै प्रजापतिः । तत् प्राजापत्यम् रूपम् । अतिच्छन्दस सप्त पदाः पुनः पदाः । यद् एतद् अहस् तद् एताः । न पदम् च पुनः पदम् च अन्तरेण अव अन्यत् । आत्मा वै पदम् प्राणः पुनः पदम् । यस् तम् तत्र ब्रूयात् । प्राणाद् आत्मानम् अन्तरगान् न जीविष्यति इति तथा ह स्यात् । तस्मान् न पदम् च पुनः पदम् च अन्तरेण अव अन्यात् । आतिच्छन्दस प्रउगः । आतिच्छन्दसम् वै षष्ठम् अहः । तद् एनत् स्वेन छन्दसा समर्धयति । स पूर्व्यो महानाम् इति मरुत्वतीयस्य प्रतिपत् । स इत्य् अनिरुक्तम् । अनिरुक्त उ वै प्रजापतिः । तत् प्राजापत्यम् रूपम् । यम् त्वम् रथम् इन्द्र मेधसातय इति पारुच्छेपम् । यः शूरैः स्वः सनिता इति शूरैर् इति स एव अस्मिन् परुन् न्यङ्गः । स यो वृषा वृष्ण्येभिः समोका इति विज्ञात त्रैष्टुभम् सवन धरणम् तस्य उक्तम् ब्राह्मणम् । वृषा वृष्ण्येभिर् इति निनर्तिः । अन्तः षष्ठम् अहः । नीव वा अन्तम् गत्वा नृत्यति । कद्र्यन् हि तत् इयात् । मरुत्वान् इन्द्र मीढ्व इति मरुत्वतीयम् गायत्रम् । गायत्र मध्यंदिनो ह्य् एष त्र्यहः ।
२३.७ षष्ठमहः मरुत्वतीयशस्त्रम्, निष्केवल्यशस्त्रम्
रेवतीर् नः सधमादे रेवान् इद् रेवतः स्तोता इति रैवतस्य योनौ वारवन्तीयम् ऊढम् भवत्य् आग्नेयम् साम ऐन्द्रीषु । तन् मिथुनम् प्रजात्यै रूपम् । मा चिद् अन्यद् वि शंसत इति साम्नः प्रगाथः । सखायो मा रिषण्यत इति । सखाय इति सर्व रूपम् । सर्व रूपम् वै षष्ठम् अहः । तस्मात् सखाय इति सर्वान् एव अभिवदति । ऐन्द्र याह्य् उप नः परावत इति पारुच्छेपम् । परावत इति । अन्तो वै परावतः । अन्तः षष्ठम् अहः । अन्ते अन्तम् दधाति । प्र घा न्व् अस्य महतो महानि इति विज्ञात त्रैष्टुभम् सवन धरणम् तस्य उक्तम् ब्राह्मणम् । महतो महानि इति निनर्तिः । अन्तः षष्ठम् अहः । नीव वा अन्तम् गत्वा नृत्यति । कद्र्यन् हि तत इयात् । उप नो हरिभिः सुतम् इति निष्केवल्यम् । याहि मदानाम् पत उप नो हरिभिर् इति निनर्तिः । अन्तः षष्ठम् अहः । नीव वा अन्तम् गत्वा नृत्यति । कद्र्यन् हि तत इयात् । गायत्रम् गायत्र मध्यंदिनो ह्य् एष त्र्यहः ।
२३.८ षष्ठमहः - वैश्वदेवशस्त्रम्, आग्निमारुतशस्त्रम्
अभि त्यम् देवम् सवितारम् ओण्योः कवि क्रतुम् इत्य् अतिच्छन्दसा वैश्वदेवम् प्रतिपद्यते । आतिच्छन्दसम् वै षष्ठम् अहः । तत् तृतीय सवनम् अतिच्छन्दा अभ्यश्नुते । अथो प्राजापत्यम् वै षष्ठम् अहः । अतिच्छन्दा वै प्रजापतिः । तत् प्राजापत्यम् रूपम् । अभिवान् अनुवरस् तस्य उक्तम् ब्राह्मणम् । उद् उ ष्य देवः सविता सवाय इति सावित्रम् । सविता सवाय इति निनर्तिः । अन्तः षष्ठम् अहः । नीव वा अन्तम् गत्वा नृत्यति । कद्र्यन् हि तत् इयात् । कतरा पूर्वा कतरा अपरायोर् इति द्यावा पृथिवीयम् । पूर्व अपरा इति निनर्तिः । अन्तः षष्ठम् अहः । नीव वा अन्तम् गत्वा नृत्यति । कद्र्यन् हि तत इयात् । किम् उ श्रेष्ठः किम् यविष्ठो न आजगन्न् इत्य् आर्भवम् । श्रेष्ठो यविष्ठ इति निनर्तिः । अन्तः षष्ठम् अहः । नीव वा अन्तम् गत्वा नृत्यति । कद्र्यन् हि तत इयात् । इदम् इत्था रौद्रम् गूर्त वचा इति वैश्वदेवम् । क्राणा यद् अस्य पितरा मंहनेष्ठा इति स्थितवत् । तद् अन्त रूपम् । अन्तः षष्ठम् अहः । तिष्ठति इव वा अन्तम् गत्वा । कद्र्यन् हि तत इयात् । अन्तः षष्ठम् अहः । तिष्ठति इव वा अन्तम् गत्वा । कद्र्यन् हि तत इयात् । तस्य द्वे परिशिष्य ये यज्ञेन दक्षिणया समक्ता इत्य् एतम् नाराशंसम् आवपति । आत्मा वै सूक्तम् प्रजा पशवो नाराशंसम् । मध्य एव तद् आत्मन् प्रजाम् पशून् उभये दधाति । अहश् च कृष्णम् अहर् अर्जुनम् च इति वैश्वानरीयम् । अहर् अर्जुनम् च इति निनर्तिः । अन्तः षष्ठम् अहः । नीव वा अन्तम् गत्वा नृत्यति । कद्र्यन् हि तत् इयात् । प्रयज्यवो मरुतो भ्राज दृष्टय इति मारुतम् । तस्य तद् एव अन्त रूपम् यत् सोदर्कम् । इमम् स्तोमम् अर्हते जात वेदस इति जातवेदसीयम् । तस्य तद् एव अन्त रूपम् यत् सोदर्कम् । मा रिषाम मा रिषाम इति । तद् अन्ततो अरिष्ट्यै रूपम् । अपः षष्ठेन अह्ना आप्नुवन्ति । अतिच्छन्दसम् छन्दस् त्रयस् त्रिंशम् स्तोमम् रैवतम् साम । अर्वाचीम् दिशम् शिशिरम् ऋतूनाम् । विश्वान् देवान् देव जातम् । प्रजापतिम् अधिपतिम् प्रजापतिम् अधिपतिम् ।
२३.१ पृष्ठ्यषडहः- पञ्चममहः - आज्यप्रउगमरुत्वतीयशस्त्राणि
पशवः पञ्चमम् अहः पङ्क्तिर् वै ।
तन् न्व् अस्य निदानम् ।
पशवः पङ्क्तिर् इति ।
तस्य एतानि छन्दो रूपाणि ।
वृषभवद् धेनुमद् दुग्धवद् घृतवन् मद्वद् रयिमद् वाजवद् अध्यासवद् इति ।
इमम् ऊ षु वो अतिथिम् उषर् बुधम् इत्य् आज्यम् ।
रायः सूनो सहसो मर्त्येष्व् एति राय इति रयिमत् ।
रयिमद् इति वा अस्य रूपम् ।
अध्यासवत् तत् पङ्क्ते रूपम् ।
जागतम् जगत् प्रातः सवनो ह्य् एष त्र्यहः ।
इति नु व्यूढे ।
उद्धृत्य एतद् अग्निम् तम् मन्ये यो वसुर् इति समूढे पाङ्क्तम् ।
पङ्क्तिर् वै पञ्चमम् अहः ।
यद् एतद् अहस् तद् एताः ।
अस्तम् यम् यन्ति धेनव इति ।
धेनुमद् इति वा अस्य रूपम् ।
बार्हतः प्रउगः ।
पशवः पञ्चमम् अहः ।
बार्हताः पशवः पशूनाम् एव आप्त्यै ।
यत् पाञ्चजन्यया विश इति मरुत्वतीयस्य प्रतिपत् ।
पाञ्चजन्यया इत् तत् पञ्चमस्य अह्नो रूपम् ।
इत्था हि सोम इन् मद इति मद्वत् पाङ्क्तम् तस्य उक्तम् ब्राह्मणम् ।
अवितासि सुन्वतो वृक्त बर्हिष इति षट् पदाः ।
षड् वा ऋतवः संवत्सरः ।
संवत्सरस्य एव आप्त्यै ।
तासाम् गायत्री शंसम् शस्त्रम् इति ह स्म आह कौषीतकिः ।
तद् वा अत्र समृद्धम् यद् गायत्री शंसम् ।
तद् यद् अष्टाभिर् अष्टाभिर् अक्षरैः प्रणौति ।
तद् गायत्र्यै रूपम् ।
मरुत्वान् इन्द्र वृषभो रणाय इति विज्ञात त्रैष्टुभम् सवन धरणम् तस्य उक्तम् ब्राह्मणम् ।
वृषभो रणाय इति वृषभवत् ।
तद् एतस्य अह्नो रूपम् ।
अयम् ह येन वा इदम् इति मरुत्वतीयम् गायत्र ।
गायत्र मध्यंदिनो ह्य् एष त्र्यहः ।
२३.२ पञ्चममहः- मरुत्वतीयशस्त्रम्,निष्केवल्यशस्त्रम्
महानाम्न्यः पृष्ठम् भवन्ति ।
महानाम्नीभिर् वा इन्द्रो वृत्रम् अहन् ।
तम् वृत्रम् हत्वा यन्तम् देवताः प्रत्युपातिष्ठन्त ।
पराच्यो ह अस्माद् अग्रे अपक्रान्ता बिभ्यत्य् अस्तस्थुः ।
तम् प्रजापतिः पप्रच्छ अशको हन्तुम् इति ।
एवा ह्य् एव इति प्रत्युवाच अनिरुक्तम् ।
अनिरुक्त उ वै प्रजापतिः ।
तत् प्राजापत्यम् रूपम् ।
तम् अग्निः पप्रच्छ अशको हन्तुम् इति ।
एवा ह्य् अग्न इति प्र्त्युवाच ।
तम् स्वो महिमा पप्रच्छ अशको हन्तुम् इति ।
स ह अस्माद् अग्रे अपक्रान्तो बिभ्यत् तस्थौ ।
एवा हि इन्द्र इति प्रत्युवाच ।
तम् पूषा पप्रच्छ अशको हन्तुम् इति ।
एवा हि पूषन्न् इति प्रत्युवाच ।
तम् देवाः पप्रच्छुर् अशको हन्तुम् इति ।
एवा हि देवा इति प्रत्युवाच ।
तानि वा एतानि पञ्च पदानि पुरीषम् इति शस्यन्ते ।
सो ऋच एव वेला ।
ता वा एताः शक्वर्यः ।
एताभिर् वा इन्द्रो वृत्रम् अशकद्द् हन्तुम् ।
तद् यद् आभिर् वृत्रम् अशकद्द् हन्तुम् ।
तस्मात् शक्वर्यः शक्तयो हि ।
प्रत्यस्मै पिपीषते यो रयिवो रयिंतमस् त्यम् उ वो अप्रहणम् इति त्रयस् तृचाः ।
अस्मा अस्मा इदन्धस इति बृहतीम् दशमीम् करोति ।
एवा ह्य् असि वीरयुर् इति त्व् एव स्थिता पुरीषस्य समान अभिव्याहारा ।
तथा स स्तोत्रियेण समो वा अतिशयो वा सम्पद्यते ।
यद् इन्द्र नाहुषीष्व् एति साम्नः प्रगाथः ।
यद् वा पञ्च क्षितीनाम् इति पञ्च इति तत् पञ्चमस्य अह्नो रूपम् ।
इन्द्रो मदाय वावृध इति मद्वत् पाङ्क्तम् तस्य उक्तम् ब्राह्मणम् ।
प्र इदम् ब्रह्म वृत्र तूर्येष्व् आविथा इति षट् पदाः ।
तासाम् उक्तम् ब्राह्मणम् ।
अभूर् एको रयि पते रयीणाम् इति विज्ञात त्रैष्टुभम् सवन धरणम् तस्य उक्तम् ब्राह्मणम् ।
रयि पते रयीणाम् इति रयिमत् ।
रयिमद् इति वा अस्य रूपम् ।
अध्यासवत् तत् पङ्क्ते रूपम् ।
तम् इन्द्रम् वाजयामसि इति निष्केवल्यम् ।
स वृषा वृषभो भुवद् इति वृषभवत् ।
तद् एतस्य अह्नो रूपम् ।
गायत्र माध्यन्दिनो ह्य् एष त्र्यहः । (सोम पृष्ठ्य षडह)
२३.३ पञ्चममहः- वैश्वदेवशस्त्रम्, आग्निमारुतशस्त्रम्
तत् सवितुर् वरेण्यम् इति वैश्वामित्रो अनुचरस् तस्य उक्तम् ब्राह्मणम् ।
वाजयन्तः पुरंध्या इति वाजवत् ।
तद् एतस्य अह्नो रूपम् ।
उद् उ ष्य देव सविता दमूना इति सावित्रम् ।
वामम् अद्य सवितर् वामसु श्व इति वामम् इति पशुमत् ।
पशुमद् इति वा अस्य रूपम् ।
मही द्यावा पृथिवी इह ज्येष्ठे इति द्यावा पृथिवीयम् ।
रुवद्द् ह उक्षा पप्रथानेभिर् एवैर् इत्य् उक्षा इति पशुमत् ।
पशुमद् इति वा अस्य रूपम् ।
ऋभुर् विभ्वा वाज इन्द्रो नो अच्छ इत्य् आर्भवम् ।
ये गोमन्तम् वाजयन्तम् सुवीरम् इति गोमन्तम् इति पशुमत् ।
पशुमद् इति वा अस्य रूपम् ।
को नु वाम् मित्रावरुणाव् ऋतायन्न् इति वैश्वदेवम् ।
यज्ञायते व पशुषो न वाजान् इति पशुष इति पशुमत् ।
पशुमद् इति वा अस्य रूपम् ।
अध्यासवत् तत् पङ्क्ते रूपम् ।
हविष् पान्तम् अजरम् स्वर्विदि इति वैश्वानरीयम् ।
पान्तम् इति तत् पञ्चमस्य अह्नो रूपम् ।
वपुर् नु तच् चिकितुषे चिद् अस्त्व् इति मारुतम् ।
समानम् नाम धेनुपत्यमानम् इति धेन्व् इति पशुमत् ।
पशुमद् इति वा अस्य रूपम् ।
अग्निर् होता गृहपतिः स राजा इति जातवेदसीयम् ।
अवा नो मघवन् वाजसाताव् इति वाजवत् ।
तद् एतस्य अह्नो रूपम् ।
अध्यासवत् तत् पङ्क्ते रूपम् ।
इति नु व्यूढे ।
अथ समूढे ।
मूर्धानम् दिवो अरतिम् पृथिव्या इति वैश्वानरीयम् ।
नाभिम् यज्ञानाम् सदनम् रयीणाम् इति रयिमत् ।
रयिमद् इति वा अस्य रूपम् ।
आ रुद्रास इन्द्रवन्तः सजोषस इति मारुतम् ।
गोमद् अश्वावद् रथवत् सुवीरम् इति गोमद् इति पशुमत् ।
पशुमद् इति वा अस्य रूपम् ।
इमम् ऊ षु वो अतिथिम् उषर्बुधम् इति जातवेदसीयम् तस्य उक्तम् ब्राह्मणम् ।
अध्यासवत् तत् पङ्क्ते रूपम् ।
पशून् पञ्चमेन अह्ना आप्नुवन्ति ।
पङ्क्तिम् छन्दस् त्रिणवम् स्तोमम् शाक्वरम् साम ।
ऊर्ध्वाम् दिशम् हेमन्तम् ऋतूनाम् ।
मरुतो देवान् देव जातम् रुद्रम् अधिपतिम् ।
२३.४ षष्ठमहः - पारुच्छेपमन्त्राः
पशवः पञ्चमम् अहर् अथ पुरुष एव षष्ठम् अहः ।
स वै पुरुषः प्रजापतिः पूर्वो अस्य सर्वस्य ।
अतिच्छन्दा वै प्रजापतिः ।
तत् प्राजापत्यम् रूपम् ।
असुरि इन्द्रम् प्रत्यक्रमत पर्वन् पर्वन् मुष्कान् कृत्वा ।
ताम् इन्द्रः प्रतिजिगीषन् पर्वन् पर्वन् शेपांस्य् अकुरुत ।
इन्द्रो वै परुच्छेपः ।
सर्वम् वा इन्द्रेण जिगीषितम् ।
ताम् समभवत् ।
तम् अगृह्णाद् असुर मायया ।
स एताः पुनः पदा अपश्यत् ।
ताभिर् अङ्गाद् अङ्गात् पर्वणः पर्वणः सर्वस्मात् पाप्मनः प्रामुच्यते ।
तद् यत् षष्ठे अहन् परुच्छेपः शस्यते मध्यतश् च होत्रासु च ।
अङ्गाद् अङ्गाद् एव तद् यजमानाः पर्वणः पर्वणः सर्वस्मात् पाप्मनः सम्प्रमुच्यन्ते ।
नित्याः पूर्वा याज्याः कृत्वा पारुच्छेपीभिर् यजन्ति ।
तद् यद् आभिस् तद् अहर् न वषट् कुर्वन्ति ।
तेन उत्सृष्टाः ।
यद् व् एव एना न अन्तरयन्ति ।
न इद् अच्युतम् यज्ञस्य प्रियम् देवानाम् अन्तरयाम इति ।
नित्यान् पूर्वान् ऋतु याजान् कृत्वा गार्त्समदीभिर् यजन्ति ।
तद् यद् एभिस् तद् अहर् न वषट् कुर्वन्ति ।
तेन उत्सृष्टाः ।
यद् व् एव एनान् न अन्तरयन्ति ।
न इद् अच्युतम् यज्ञस्य प्रियम् देवानाम् अन्तरयाम इति ।
तेन ते अतिच्छन्दसो भवति ।
तथा एषाम् सप्त पदाभिर् वषट् कृतम् भवति ।
तद् उ ह स्म आह कौषीतकिः ।
विराड् अष्टमानि ह वा एतम् छन्दांसि गोपायन्ति यो असौ तपति ।
ताम् ते सम्पदम् मोहयन्ति ये अतिच्छन्दोभिर् यजन्ति ।
२३.५ षष्ठमहः - पारुच्छेपमन्त्राः
तस्माद् व् ऐकाहिकीभिर् एव यजेयुः ।
देव यानस्य एव पथो असम्मुग्ध्या इति ।
तद्द् ह अप्य् अणीची मौनो जाबाल गृहपतीन्त् सत्रम् आसीनाम् उपासाद्य पप्रच्छ ।
अह्नो गात परुच्छेपाद् इति ।
त उ ह तूष्णीम् आसुः ।
तत्र उ ह उत्तर अर्धात् सदसश् चित्रो गौश्रायणिर् अभिपरोवाच ।
गौश्रो वा ।
न आह एव अह्नो अगाम न परुच्छेपात् ।
शस्त्रेण आह नः परुच्छेपो अहर् अन्वायतिष्ट ।
ऐकाहिकीभिर् अयाक्ष्म ।
तेन उ अह्नो न अगाम इति ।
यथा यथम् यजेयुः ।
देव आयतनम् वै षष्ठम् अहः ।
तद् यत् तद् अहर् होता एव वषट् कुर्यात् ।
होता एनयोर् देव आयतनम् सम्पृञ्चीत अध्वर्योश् च गृह पतेश् च ।
आजिम् ह वा एते यन्ति स्वर्गे लोके षष्ठेन अह्ना ।
स यो अनवानम् समापयति स स्वर्गंल् लोकम् उज्जयति ।
यद्य् अप्य् अव अन्यत् ।
पुनः पुनः प्रतिसारम् उपशिक्षेत एव ।
२३.६ षष्ठमहः - आज्यप्रउगमरुत्वतीयशस्त्राणि
अयम् जायत मनुषो धरीमणि इत्य् आज्यम् ।
अयम् इत्य् अनिरुक्तम् ।
अनिरुक्त उ वै प्रजापतिः ।
तत् प्राजापत्यम् रूपम् ।
अतिच्छन्दस सप्त पदाः पुनः पदाः ।
यद् एतद् अहस् तद् एताः ।
न पदम् च पुनः पदम् च अन्तरेण अव अन्यत् ।
आत्मा वै पदम् प्राणः पुनः पदम् ।
यस् तम् तत्र ब्रूयात् ।
प्राणाद् आत्मानम् अन्तरगान् न जीविष्यति इति तथा ह स्यात् ।
तस्मान् न पदम् च पुनः पदम् च अन्तरेण अव अन्यात् ।
आतिच्छन्दस प्रउगः ।
आतिच्छन्दसम् वै षष्ठम् अहः ।
तद् एनत् स्वेन छन्दसा समर्धयति ।
स पूर्व्यो महानाम् इति मरुत्वतीयस्य प्रतिपत् ।
स इत्य् अनिरुक्तम् ।
अनिरुक्त उ वै प्रजापतिः ।
तत् प्राजापत्यम् रूपम् ।
यम् त्वम् रथम् इन्द्र मेधसातय इति पारुच्छेपम् ।
यः शूरैः स्वः सनिता इति शूरैर् इति स एव अस्मिन् परुन् न्यङ्गः ।
स यो वृषा वृष्ण्येभिः समोका इति विज्ञात त्रैष्टुभम् सवन धरणम् तस्य उक्तम् ब्राह्मणम् ।
वृषा वृष्ण्येभिर् इति निनर्तिः ।
अन्तः षष्ठम् अहः ।
नीव वा अन्तम् गत्वा नृत्यति ।
कद्र्यन् हि तत् इयात् ।
मरुत्वान् इन्द्र मीढ्व इति मरुत्वतीयम् गायत्रम् ।
गायत्र मध्यंदिनो ह्य् एष त्र्यहः ।
२३.७ षष्ठमहः मरुत्वतीयशस्त्रम्, निष्केवल्यशस्त्रम्
रेवतीर् नः सधमादे रेवान् इद् रेवतः स्तोता इति रैवतस्य योनौ वारवन्तीयम् ऊढम् भवत्य् आग्नेयम् साम ऐन्द्रीषु ।
तन् मिथुनम् प्रजात्यै रूपम् ।
मा चिद् अन्यद् वि शंसत इति साम्नः प्रगाथः ।
सखायो मा रिषण्यत इति ।
सखाय इति सर्व रूपम् ।
सर्व रूपम् वै षष्ठम् अहः ।
तस्मात् सखाय इति सर्वान् एव अभिवदति ।
ऐन्द्र याह्य् उप नः परावत इति पारुच्छेपम् ।
परावत इति ।
अन्तो वै परावतः ।
अन्तः षष्ठम् अहः ।
अन्ते अन्तम् दधाति ।
प्र घा न्व् अस्य महतो महानि इति विज्ञात त्रैष्टुभम् सवन धरणम् तस्य उक्तम् ब्राह्मणम् ।
महतो महानि इति निनर्तिः ।
अन्तः षष्ठम् अहः ।
नीव वा अन्तम् गत्वा नृत्यति ।
कद्र्यन् हि तत इयात् ।
उप नो हरिभिः सुतम् इति निष्केवल्यम् ।
याहि मदानाम् पत उप नो हरिभिर् इति निनर्तिः ।
अन्तः षष्ठम् अहः ।
नीव वा अन्तम् गत्वा नृत्यति ।
कद्र्यन् हि तत इयात् ।
गायत्रम् गायत्र मध्यंदिनो ह्य् एष त्र्यहः ।
२३.८ षष्ठमहः - वैश्वदेवशस्त्रम्, आग्निमारुतशस्त्रम्
अभि त्यम् देवम् सवितारम् ओण्योः कवि क्रतुम् इत्य् अतिच्छन्दसा वैश्वदेवम् प्रतिपद्यते ।
आतिच्छन्दसम् वै षष्ठम् अहः ।
तत् तृतीय सवनम् अतिच्छन्दा अभ्यश्नुते ।
अथो प्राजापत्यम् वै षष्ठम् अहः ।
अतिच्छन्दा वै प्रजापतिः ।
तत् प्राजापत्यम् रूपम् ।
अभिवान् अनुवरस् तस्य उक्तम् ब्राह्मणम् ।
उद् उ ष्य देवः सविता सवाय इति सावित्रम् ।
सविता सवाय इति निनर्तिः ।
अन्तः षष्ठम् अहः ।
नीव वा अन्तम् गत्वा नृत्यति ।
कद्र्यन् हि तत् इयात् ।
कतरा पूर्वा कतरा अपरायोर् इति द्यावा पृथिवीयम् ।
पूर्व अपरा इति निनर्तिः ।
अन्तः षष्ठम् अहः ।
नीव वा अन्तम् गत्वा नृत्यति ।
कद्र्यन् हि तत इयात् ।
किम् उ श्रेष्ठः किम् यविष्ठो न आजगन्न् इत्य् आर्भवम् ।
श्रेष्ठो यविष्ठ इति निनर्तिः ।
अन्तः षष्ठम् अहः ।
नीव वा अन्तम् गत्वा नृत्यति ।
कद्र्यन् हि तत इयात् ।
इदम् इत्था रौद्रम् गूर्त वचा इति वैश्वदेवम् ।
क्राणा यद् अस्य पितरा मंहनेष्ठा इति स्थितवत् ।
तद् अन्त रूपम् ।
अन्तः षष्ठम् अहः ।
तिष्ठति इव वा अन्तम् गत्वा ।
कद्र्यन् हि तत इयात् ।
अन्तः षष्ठम् अहः ।
तिष्ठति इव वा अन्तम् गत्वा ।
कद्र्यन् हि तत इयात् ।
तस्य द्वे परिशिष्य ये यज्ञेन दक्षिणया समक्ता इत्य् एतम् नाराशंसम् आवपति ।
आत्मा वै सूक्तम् प्रजा पशवो नाराशंसम् ।
मध्य एव तद् आत्मन् प्रजाम् पशून् उभये दधाति ।
अहश् च कृष्णम् अहर् अर्जुनम् च इति वैश्वानरीयम् ।
अहर् अर्जुनम् च इति निनर्तिः ।
अन्तः षष्ठम् अहः ।
नीव वा अन्तम् गत्वा नृत्यति ।
कद्र्यन् हि तत् इयात् ।
प्रयज्यवो मरुतो भ्राज दृष्टय इति मारुतम् ।
तस्य तद् एव अन्त रूपम् यत् सोदर्कम् ।
इमम् स्तोमम् अर्हते जात वेदस इति जातवेदसीयम् ।
तस्य तद् एव अन्त रूपम् यत् सोदर्कम् ।
मा रिषाम मा रिषाम इति ।
तद् अन्ततो अरिष्ट्यै रूपम् ।
अपः षष्ठेन अह्ना आप्नुवन्ति ।
अतिच्छन्दसम् छन्दस् त्रयस् त्रिंशम् स्तोमम् रैवतम् साम ।
अर्वाचीम् दिशम् शिशिरम् ऋतूनाम् ।
विश्वान् देवान् देव जातम् ।
प्रजापतिम् अधिपतिम् प्रजापतिम् अधिपतिम् ।