कौषीतकिब्राह्मणम्/अध्यायः २४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २३ कौषीतकिब्राह्मणम्
अध्यायः २४
[[लेखकः :|]]
अध्यायः २५ →
सोमयागः(अभिजित्)


२४.१ अभिजित् -आज्यशस्त्रं प्रउगशस्त्रं च
अभिजित् । अभिजिता वै देवा अभ्यजयन्न् इमांस् त्रींल् लोकान् । तस्मात् स त्र्यावृच् चतुर् उदयो भवति । (सोम अभिजित्) विश्वजिता अजयन्न् इमाश् चतस्रो दिशः । तस्मात् स चतुर् आवृत् त्र्य् उदयो भवति । (सोम अभिजित्) अभिजिद् अभिजिता वै देवा अभ्यजयन् । तद् उ ह अन्व् इव एव षषञ्ज । यद् अजितम् पर्यशिष्यत तद् विश्वजिता अजयन् । (सोम अभिजित्) विश्वम् अजैष्म इति वा उ विश्वजित् । तौ वा एताव् इन्द्राग्नी एव यद् अभिजिद् विश्वजितौ । अग्निर् एव अभिजित् । अग्निर् हि इदम् सर्वम् अभ्यजयत् । इन्द्रो विश्वजित् । इन्द्रो हि इदम् सर्वम् विश्वम् अजयत् । स वा अभिजिद् उभय सामा सर्व स्तोमो भवति । (सोम अभिजित्) रथन्तरम् एव अस्य प्रत्यक्षम् षष्ठम् भवति । आर्भवे पवमाने बृहत् । तस्माद् उभयानि सूक्तानि शस्यन्ते बार्हत राथन्तराणि । (सोम अभिजित्) तस्य प्र वो देवाय अग्नये यद् वाहिष्ठम् तद् अग्नय इत्य् एते उभे तद् आज्यम् । (सोम अभिजित्) प्र व इति तद् राथन्तरम् रूपम् । बृहद् अर्च विभावसो इति बृहद् बार्हतिम् । उभौ माधुच्छन्दस गार्त्समदौ प्रउगौ सम्प्रवयेत् । (सोम अभिजित्) वायव्याम् पुरोरुचम् शस्त्वा अथ उभे वायव्ये तृचे । ऐन्द्र वायवीम् पुरुरुचम् शस्त्वा अथ उभे ऐन्द्र वायवे तृचे । अथ पुरोरुचम् अथ उभे तृचे । (सोम अभिजित्) अथ पुरोरुचम् अथ उभे तृचे । एवम् एव सम्प्रवयेत् । माधुच्छन्दसान्य् एव पूर्वाणि तृचानि करोति गार्त्समदान्य् उत्तराणि । (सोम अभिजित्) तद् उ वा आहुः किम् तद् उभौ सम्प्रवयेत् । माधुच्छन्दस एव प्रउगे सति गार्त्समदम् वैश्वदेवम् उपरिष्टान् माधुच्छन्दसस्य वैश्वदेवस्य पर्याहरेत् । (सोम अभिजित्) तद् वा अत्र एकम् निरुक्त बार्हतम् ।

२४.२ अभिजित् - अन्यशस्त्राणि
विश्वे देवास आ गत शृणुता म इमम् हवम् । आ इदम् बर्हिर् नि षीदत इति । (सोम अभिजित्) बर्हिर् इति तद् बार्हतम् रूपम् । अथ माधुच्छन्दसम् सारस्वतम् शस्त्वा तस्य एव उत्तमया परिदध्याद् इति । (सोम अभिजित्) ऐकाहिकम् प्रातःसवनम् स्याद् इति सा स्थितिः । एकाहो वा अभिजित् । प्रतिष्ठा वा एकाहह प्रतिष्ठित्या एव । (सोम अभिजित्) जनिष्ठा उग्रः सहसे तुराय इति गौरिवीतम् पूर्वम् शस्त्वा इन्द्र पिब तुभ्यम् सुतो मदाय इत्य् एतस्मिन् बार्हते पञ्चर्चे निविदम् दधाति । इन्द्रस्य नु वीर्याणि प्र वोचम् इति हैरण्य स्तूपम् पूर्वम् शस्त्वा या त ऊतिर् अवमा या परमा इत्य् एतस्मिन् बार्हते नवर्चे निविदम् दधाति । (सोम अभिजित्) एवम् नु यदि रथन्तरम् पृष्ठम् भवति । यद्य् उ बृहत् । बार्हते पूर्वे शस्त्वा राथन्तरयोर् निविदौ दध्याद् इति । (सोम अभिजित्) एक सूक्ते निष्केवल्य मरुत्वतीये स्याताम् इति सा स्थितिः । पिबा सोमम् अभि यम् उग्र तर्दस् तम् उ ष्टुहि यो अभिभूत्य् ओजा इत्य् अभिवती । (सोम अभिजित्) तद् अभिजितो रूपम् । अथ नित्यम् एव ऐकाहिकम् तृतीय सवनम् । एकाहो वा अभिजित् । प्रतिष्ठा वा एकाहः प्रतिष्ठित्या एव । (सोम अभिजित्)

२४.३ स्वरसामानः
स्वर्भानुर् ह वा आसुर आदित्यम् तमसा अविध्यत् । तस्य अत्रयस् तमो अपजिघांसन्त एतम् सप्तदश स्तोमम् त्र्यहम् पुरस्ताद् विषुवत उपायन् । (सोम स्वरसामन्) तस्य पुरस्तात् तमो अपजघ्नुः । तत् पुरस्ताद् असीदत् । त एतम् एव त्र्यहम् उपरिष्टाद् विषुवत उपायन् । तस्य उपरिष्टात् तमो अपजघ्नुः । (सोम स्वरसामन्) तत् परस्ताद् असीदत् । तद् य एवम् विद्वांस एतम् त्र्यहम् उभयतो विषुवन्तम् उपयन्ति । उभाभ्याम् एव ते लोकाभ्याम् यजमानाः पाप्मानम् अपघ्नते । (सोम स्वरसामन्) तान् वै स्वर सामान इत्य् आचक्षते । एतैर् ह वा अत्रय आदित्यम् तमसो अस्पृण्वत । (सोम स्वरसामन्) तद् यद् अस्पृण्वत । तस्मात् स्वर सामानः । तद् एतद् ऋचा अभ्युदितम् ।

२४.४ स्वरसामानः
यम् वै सूर्यम् स्वर् भानुस् तमसा अविध्यद् आसुरः । अत्रयस् तम् अन्वविन्दन् न अह्य् अन्ये अशक्नुवन्न् इति । (सोम स्वरसामन्) स्वर सामानो ह वा एतेन अभ्युक्ताः । कद्वन्ति मरुत्वतीयानि भवन्ति । कद्वन्तो निष्केवल्येषु प्रगाथाः । (सोम स्वरसामन्) को वै प्रजापतिः । प्रजापतिः स्वर सामानः । आनुष्टुभानि निविद्धानानि भवन्ति । (सोम स्वरसामन्) आपो वा अनुष्टुप् । आपः स्वर सामानः । अद्भिर् हि इदम् सर्वम् अनुष्तब्धम् । (सोम स्वरसामन्) उभयतो ह्य् अमुम् आदित्यम् आपो अवस्ताच् च उपरिष्टाच् च । तद् एतद् ऋचा अभ्युदितम् ।

२४.५ आज्यप्रउगमरुत्वतीयशस्त्राणि
या रोचने परस्तात् सूर्यस्य याश् च अवस्ताद् उपतिष्ठन्त आप इति । (सोम स्वरसामन्) आ यज्ञैर् देव मर्त्य इति प्रथमस्य स्वर साम्न आज्यम् आवद् राथन्तरम् । बृहद् वयो हि भानव इति द्वितीयस्य बृहद् बार्हतम् । (सोम स्वरसामन्) अग्न ओजिष्ठम् आ भर इति तृतीयस्य आवद् राथन्तरम् । माधुच्छन्दसः प्रथमस्य स्वर साम्नः प्रउगः । गार्त्समदो द्वितीयस्य । (सोम स्वरसामन्) औष्णिह आत्रेयस् तृतीयस्य । तेषाम् उक्तम् ब्राह्मणम् । अन्वायत्ता मरुत्वतीयानाम् प्रतिपद् अनुचरा अन्वायत्ता ब्राह्मणस्पत्यास् त्र्यह रूपेण । (सोम स्वरसामन्) तेषाम् उक्तम् ब्राह्मणम् । क्व स्य वीरः को अपश्यद् इन्द्रम् इति प्रथमस्य स्वर साम्नो मरुत्वतीयम् क्व इति कद्वत् । (सोम स्वरसामन्) कया शुभा सवयसः सनीडा इति द्वितीयस्य कया इति कद्वत् । को वै प्रजापतिः । प्रजापतिः स्वर सामानः । (सोम स्वरसामन्) यज् जायथा अपूर्व्या इत्य् एतस्मिन्न् उ ह एके बृहती तृतीये स्तोत्रिये अन्वहम् स्वराण्य् अन्वायातयन्ति । (सोम स्वरसामन्) ते यदि तथा कुर्युः । एताव् एव स्तोत्रिया अनुरूपाव् एषा धाय्या । (सोम स्वरसामन्) कन् नव्यो अतसीनाम् इति कद्वान् प्रगाथस् तस्य उक्तम् ब्राह्मणम् ।

२४.६ प्रथमदिनस्य मरुत्वतीयनिष्केवल्यशस्त्रे द्वितीयदिवस्य प्रगाथश्च
अथ रथन्तरस्य योनिस् तस्या उक्तम् ब्राह्मणम् । (सोम स्वरसामन्) यम् इन्द्र दधिषे त्वम् इति द्वृचो अनेक पातितायै । न इद् असौ बृहत्य् एकाकिनी इव शस्ता असद् इति । इन्द्र तुभ्यम् इन् मघवन्न् अभूम इति विज्ञात त्रैष्टुभम् सवन धरणम् तस्य उक्तम् ब्राह्मणम् । (सोम स्वरसामन्) यस् ते साधिष्ठो अवस इत्य् आनुष्टुभम् निष्केवल्यम् तस्य उक्तम् ब्राह्मणम् । (सोम स्वरसामन्) इन्द्र क्रतुष् टम् आ भर इत्य् आवद् राथन्तरम् । (सोम स्वरसामन्) इत्य् उ वा उ प्रथमस्य । कद् ऊ न्व् अस्य अकृतम् इति कद्वान् प्रगाथस् तस्य उक्तम् ब्राह्मणम् ।

२४.७ द्वितीयदिवसस्य मरुत्वतीयनिष्केवल्यशस्त्रे तृतीयदिवसस्य प्रगाथश्च
अथ बृहतो योनिस् तस्या उक्तम् ब्राह्मणम् । (सोम स्वरसामन्) स्वरन्ति त्वा सुते नर इति द्वृचो अनेक पातितायै । न इद् असौ बृहत्य् एकाकिनी इव शस्ता असद् इति । (सोम स्वरसामन्) अध्वर्यो वीर प्र महे सुतानाम् इति विज्ञात त्रैष्टुभम् सनव धरणम् तस्य उक्तम् ब्राह्मणम् । गायन्ति त्वा गायत्रिण इत्य् आनुष्टुभम् निष्केवल्यम् तस्य उक्तम् ब्राह्मणम् । उद् वंशम् इव येमिर इत्य् उद्वद् बार्हतम् । (सोम स्वरसामन्) इत्य् उ वा उ द्वितीयस्य । इमा उ त्वा प्रूरवसो इति प्रगाथः पावक वर्णाः कवर्णा इति कद्वांस् तस्य उक्तम् ब्राह्मणम् । (सोम स्वरसामन्)

२४.८ मरुत्वतीयशस्त्रं निष्केवल्यशस्त्रं च
अथ रथन्तरस्य योनिर् अथ बृहतस् तयोर् उक्तम् ब्राह्मणम् । दाना मृगो न वारण इति द्वृचो अनेक पातितायै । (सोम स्वरसामन्) न इद् असौ बृहत्य् एकाकिनी इव शस्ता असद् इति । इदम् त्यत् पात्रम् इन्द्र पानम् इति विज्ञात त्रैष्टुभम् सवन धरणम् तस्य उक्तम् ब्रह्मणम् । (सोम स्वरसामन्) इन्द्रम् विश्वा अवीवृधन्न् इत्य् आनुष्टुभम् निष्केवल्यम् तस्य उक्तम् ब्राह्मणम् । त्वाम् अभि प्र णोनुम इत्य् अभिवत् । तद् राथन्तरम् रूपम् । (सोम स्वरसामन्) इत्य् उ वा उ तृतीयस्य । एवम् नु यदि स्वर पृष्ठा भवन्ति । यदि वा स्वर योनिषु बृहद् रथन्तरे ऊढे स्याताम् । (सोम स्वरसामन्) एतद् एव शस्त्रम् अविकृतम् । यद्य् उ बृहद् रथन्तरे पृष्ठे कुर्युः । प्रजाता स्तोत्रिया अनुरूपा बार्हत राथन्तराः प्रज्ञाता धाय्या । (सोम स्वरसामन्) साम्नोः प्रगाथौ पूर्वौ शस्त्वा कद्वतः प्रगाथान् शंसन्ति । उद्धरति द्वेचांश् च सवन धरणानि च । (सोम स्वरसामन्) तद् आहुर् न अनुष्टुप्सु निविदम् दध्यान् मोहयति क्लृप्तच् छन्दसो मध्यंदिनम् इति । (सोम स्वरसामन्) आनुष्टुभानि पूर्वाणि शस्त्वा कामस्य उपाप्त्यै त्रैष्टुभेषु निविदम् दधाति । (सोम स्वरसामन्) अर्वाग् रथम् विश्व वारम् त उग्र इति प्रथमे अहन्य् आवति राथन्तरे । (सोम स्वरसामन्) अपादित उद् उ नश् चित्रतम इति द्वितीय उद्वति बार्हते । (सोम स्वरसामन्) सम् च त्वे जग्मुर् गिर इन्द्र पूर्वीर् इति तृतीये गतवय् अन्त रूपे । तथा यथा यथम् निविद् धीयते । (सोम स्वरसामन्) सा एनान् यथा यथम् धीयमाना सर्वेषु च लोकेषु सर्वेषु च कामेषु यथा यथम् दधाति । (सोम स्वरसामन्) यदि स्वराणि पृष्ठानि भवन्ति । बृहद् रथन्तरे एव तर्हि सामगाह पवमानेषु कुर्वन्ति । (सोम स्वरसामन्) यदि बृहद् रथन्तरे पृष्ठे स्याताम् । स्वराणि तर्हि सामगाः पवमानेषु कुर्वन्ति । (सोम स्वरसामन्) स्वराणि त्व् एव पृष्ठानि स्युर् इति ह स्म आह कौषीतकिः । स्वर सामानो ह्य् एते । (सोम स्वरसामन्) पृष्ठैर् वै देवाः स्वर्गम् लोकम् अस्प्रक्षन् । तद् यत् स्वराणि पृष्ठानि भवन्ति । स्वर्गस्य एव लोकस्य स्पृष्ट्या इति । (सोम स्वरसामन्)

२४.९
वैश्वदेवाग्निमारुतशस्त्रे पृष्ठ्यस्य षडहस्य समूढस्य याः पूर्वस्य त्र्यहस्य वैश्वदेवानाम् प्रतिपदस् ताः प्रतिपदः । यान्य् उत्तरस्य त्र्यहस्य तृतीय सवनानि तानि तृतीय सवनानि सानुचराणि । (सोम स्वरसामन्) तद् यानि तत्र वैश्वदेवानि तान्य् उद्धृत्य अन्यान्य् अन्यान्य् अनिरुक्तानि प्राजापत्यानि परोक्ष वैश्वदेवान्य् अवधीयन्ते । (सोम स्वरसामन्) प्र वः पान्तम् रघु मन्यवो अन्धस् तम् प्रत्नथा पूर्वथा विश्वथा ईमथा कद् इत्था नॄन्ः पात्रम् देवयताम् इति । (सोम स्वरसामन्) (विश्वथेमथा?) प्रति नाभानेदिष्ठः । तद् वै खलु प्रत्यक्ष वैश्वदेवान्य् एव अवधीयेरन् । अग्निर् इन्द्रो वरुणो मित्रो अर्यमा इति प्रथमे अहनि द्याम् स्कभित्वी इति कद्वत् । (सोम स्वरसामन्) देवान् हुवे बृहत् श्रवसः स्वस्तय इति द्वितीये ज्योतिष् कृत इति कद्वत् । (सोम स्वरसामन्) उषासा नक्ता बृहती सुपेशसा इति तृतीये नक्ता इति कद्वत् । को वै प्रजापतिः । (सोम स्वरसामन्) प्रजापतिः स्वर सामानः । ते अग्निष्टोमा वा उक्थ्या वा संतिष्ठन्ते । अग्निष्टोमा इति पैङ्ग्यम् । (सोम स्वरसामन्) ब्रह्म वर्चसिनो भवन्ति ये अग्निष्टोमान् उपयन्ति । उक्थ्याः स्युर् इति ह स्म आह कौषीतकिः । (सोम स्वरसामन्) स वै यज्ञ क्रतुः समृद्धो य उक्थ्यः । पञ्चदश ह्य् अस्य स्तोत्राणि भवन्ति । (सोम स्वरसामन्) पञ्चदश शस्त्राणि । तानि त्रिंशत् स्तुत शस्त्राणि । स विराजम् अभिसम्पद्यते । (सोम स्वरसामन्) श्रीर् विराड् अन्नाद्यम् । श्रियो विराजो अन्न अद्यस्य उपाप्त्यै श्रियो विराजो अन्न अद्यस्य उपाप्त्यै । (सोम स्वरसामन्)

२४.१ अभिजित् -आज्यशस्त्रं प्रउगशस्त्रं च
अभिजित् ।
अभिजिता वै देवा अभ्यजयन्न् इमांस् त्रींल् लोकान् ।
तस्मात् स त्र्यावृच् चतुर् उदयो भवति । (सोम अभिजित्)
विश्वजिता अजयन्न् इमाश् चतस्रो दिशः ।
तस्मात् स चतुर् आवृत् त्र्य् उदयो भवति । (सोम अभिजित्)
अभिजिद् अभिजिता वै देवा अभ्यजयन् ।
तद् उ ह अन्व् इव एव षषञ्ज ।
यद् अजितम् पर्यशिष्यत तद् विश्वजिता अजयन् । (सोम अभिजित्)
विश्वम् अजैष्म इति वा उ विश्वजित् ।
तौ वा एताव् इन्द्राग्नी एव यद् अभिजिद् विश्वजितौ ।
अग्निर् एव अभिजित् ।
अग्निर् हि इदम् सर्वम् अभ्यजयत् ।
इन्द्रो विश्वजित् ।
इन्द्रो हि इदम् सर्वम् विश्वम् अजयत् ।
स वा अभिजिद् उभय सामा सर्व स्तोमो भवति । (सोम अभिजित्)
रथन्तरम् एव अस्य प्रत्यक्षम् षष्ठम् भवति ।
आर्भवे पवमाने बृहत् ।
तस्माद् उभयानि सूक्तानि शस्यन्ते बार्हत राथन्तराणि । (सोम अभिजित्)
तस्य प्र वो देवाय अग्नये यद् वाहिष्ठम् तद् अग्नय इत्य् एते उभे तद् आज्यम् । (सोम अभिजित्)
प्र व इति तद् राथन्तरम् रूपम् ।
बृहद् अर्च विभावसो इति बृहद् बार्हतिम् ।
उभौ माधुच्छन्दस गार्त्समदौ प्रउगौ सम्प्रवयेत् । (सोम अभिजित्)
वायव्याम् पुरोरुचम् शस्त्वा अथ उभे वायव्ये तृचे ।
ऐन्द्र वायवीम् पुरुरुचम् शस्त्वा अथ उभे ऐन्द्र वायवे तृचे ।
अथ पुरोरुचम् अथ उभे तृचे । (सोम अभिजित्)
अथ पुरोरुचम् अथ उभे तृचे ।
एवम् एव सम्प्रवयेत् ।
माधुच्छन्दसान्य् एव पूर्वाणि तृचानि करोति गार्त्समदान्य् उत्तराणि । (सोम अभिजित्)
तद् उ वा आहुः किम् तद् उभौ सम्प्रवयेत् ।
माधुच्छन्दस एव प्रउगे सति गार्त्समदम् वैश्वदेवम् उपरिष्टान् माधुच्छन्दसस्य वैश्वदेवस्य पर्याहरेत् । (सोम अभिजित्)
तद् वा अत्र एकम् निरुक्त बार्हतम् ।

२४.२ अभिजित् - अन्यशस्त्राणि
विश्वे देवास आ गत शृणुता म इमम् हवम् ।
आ इदम् बर्हिर् नि षीदत इति । (सोम अभिजित्)
बर्हिर् इति तद् बार्हतम् रूपम् ।
अथ माधुच्छन्दसम् सारस्वतम् शस्त्वा तस्य एव उत्तमया परिदध्याद् इति । (सोम अभिजित्)
ऐकाहिकम् प्रातःसवनम् स्याद् इति सा स्थितिः ।
एकाहो वा अभिजित् ।
प्रतिष्ठा वा एकाहह प्रतिष्ठित्या एव । (सोम अभिजित्)
जनिष्ठा उग्रः सहसे तुराय इति गौरिवीतम् पूर्वम् शस्त्वा इन्द्र पिब तुभ्यम् सुतो मदाय इत्य् एतस्मिन् बार्हते पञ्चर्चे निविदम् दधाति ।
इन्द्रस्य नु वीर्याणि प्र वोचम् इति हैरण्य स्तूपम् पूर्वम् शस्त्वा या त ऊतिर् अवमा या परमा इत्य् एतस्मिन् बार्हते नवर्चे निविदम् दधाति । (सोम अभिजित्)
एवम् नु यदि रथन्तरम् पृष्ठम् भवति ।
यद्य् उ बृहत् ।
बार्हते पूर्वे शस्त्वा राथन्तरयोर् निविदौ दध्याद् इति । (सोम अभिजित्)
एक सूक्ते निष्केवल्य मरुत्वतीये स्याताम् इति सा स्थितिः ।
पिबा सोमम् अभि यम् उग्र तर्दस् तम् उ ष्टुहि यो अभिभूत्य् ओजा इत्य् अभिवती । (सोम अभिजित्)
तद् अभिजितो रूपम् ।
अथ नित्यम् एव ऐकाहिकम् तृतीय सवनम् ।
एकाहो वा अभिजित् ।
प्रतिष्ठा वा एकाहः प्रतिष्ठित्या एव । (सोम अभिजित्)

२४.३ स्वरसामानः
स्वर्भानुर् ह वा आसुर आदित्यम् तमसा अविध्यत् ।
तस्य अत्रयस् तमो अपजिघांसन्त एतम् सप्तदश स्तोमम् त्र्यहम् पुरस्ताद् विषुवत उपायन् । (सोम स्वरसामन्)
तस्य पुरस्तात् तमो अपजघ्नुः ।
तत् पुरस्ताद् असीदत् ।
त एतम् एव त्र्यहम् उपरिष्टाद् विषुवत उपायन् ।
तस्य उपरिष्टात् तमो अपजघ्नुः । (सोम स्वरसामन्)
तत् परस्ताद् असीदत् ।
तद् य एवम् विद्वांस एतम् त्र्यहम् उभयतो विषुवन्तम् उपयन्ति ।
उभाभ्याम् एव ते लोकाभ्याम् यजमानाः पाप्मानम् अपघ्नते । (सोम स्वरसामन्)
तान् वै स्वर सामान इत्य् आचक्षते ।
एतैर् ह वा अत्रय आदित्यम् तमसो अस्पृण्वत । (सोम स्वरसामन्)
तद् यद् अस्पृण्वत ।
तस्मात् स्वर सामानः ।
तद् एतद् ऋचा अभ्युदितम् ।

२४.४ स्वरसामानः
यम् वै सूर्यम् स्वर् भानुस् तमसा अविध्यद् आसुरः ।
अत्रयस् तम् अन्वविन्दन् न अह्य् अन्ये अशक्नुवन्न् इति । (सोम स्वरसामन्)
स्वर सामानो ह वा एतेन अभ्युक्ताः ।
कद्वन्ति मरुत्वतीयानि भवन्ति ।
कद्वन्तो निष्केवल्येषु प्रगाथाः । (सोम स्वरसामन्)
को वै प्रजापतिः ।
प्रजापतिः स्वर सामानः ।
आनुष्टुभानि निविद्धानानि भवन्ति । (सोम स्वरसामन्)
आपो वा अनुष्टुप् ।
आपः स्वर सामानः ।
अद्भिर् हि इदम् सर्वम् अनुष्तब्धम् । (सोम स्वरसामन्)
उभयतो ह्य् अमुम् आदित्यम् आपो अवस्ताच् च उपरिष्टाच् च ।
तद् एतद् ऋचा अभ्युदितम् ।

२४.५ आज्यप्रउगमरुत्वतीयशस्त्राणि
या रोचने परस्तात् सूर्यस्य याश् च अवस्ताद् उपतिष्ठन्त आप इति । (सोम स्वरसामन्)
आ यज्ञैर् देव मर्त्य इति प्रथमस्य स्वर साम्न आज्यम् आवद् राथन्तरम् ।
बृहद् वयो हि भानव इति द्वितीयस्य बृहद् बार्हतम् । (सोम स्वरसामन्)
अग्न ओजिष्ठम् आ भर इति तृतीयस्य आवद् राथन्तरम् ।
माधुच्छन्दसः प्रथमस्य स्वर साम्नः प्रउगः ।
गार्त्समदो द्वितीयस्य । (सोम स्वरसामन्)
औष्णिह आत्रेयस् तृतीयस्य ।
तेषाम् उक्तम् ब्राह्मणम् ।
अन्वायत्ता मरुत्वतीयानाम् प्रतिपद् अनुचरा अन्वायत्ता ब्राह्मणस्पत्यास् त्र्यह रूपेण । (सोम स्वरसामन्)
तेषाम् उक्तम् ब्राह्मणम् ।
क्व स्य वीरः को अपश्यद् इन्द्रम् इति प्रथमस्य स्वर साम्नो मरुत्वतीयम् क्व इति कद्वत् । (सोम स्वरसामन्)
कया शुभा सवयसः सनीडा इति द्वितीयस्य कया इति कद्वत् ।
को वै प्रजापतिः ।
प्रजापतिः स्वर सामानः । (सोम स्वरसामन्)
यज् जायथा अपूर्व्या इत्य् एतस्मिन्न् उ ह एके बृहती तृतीये स्तोत्रिये अन्वहम् स्वराण्य् अन्वायातयन्ति । (सोम स्वरसामन्)
ते यदि तथा कुर्युः ।
एताव् एव स्तोत्रिया अनुरूपाव् एषा धाय्या । (सोम स्वरसामन्)
कन् नव्यो अतसीनाम् इति कद्वान् प्रगाथस् तस्य उक्तम् ब्राह्मणम् ।

२४.६ प्रथमदिनस्य मरुत्वतीयनिष्केवल्यशस्त्रे द्वितीयदिवस्य प्रगाथश्च
अथ रथन्तरस्य योनिस् तस्या उक्तम् ब्राह्मणम् । (सोम स्वरसामन्)
यम् इन्द्र दधिषे त्वम् इति द्वृचो अनेक पातितायै ।
न इद् असौ बृहत्य् एकाकिनी इव शस्ता असद् इति ।
इन्द्र तुभ्यम् इन् मघवन्न् अभूम इति विज्ञात त्रैष्टुभम् सवन धरणम् तस्य उक्तम् ब्राह्मणम् । (सोम स्वरसामन्)
यस् ते साधिष्ठो अवस इत्य् आनुष्टुभम् निष्केवल्यम् तस्य उक्तम् ब्राह्मणम् । (सोम स्वरसामन्)
इन्द्र क्रतुष् टम् आ भर इत्य् आवद् राथन्तरम् । (सोम स्वरसामन्)
इत्य् उ वा उ प्रथमस्य ।
कद् ऊ न्व् अस्य अकृतम् इति कद्वान् प्रगाथस् तस्य उक्तम् ब्राह्मणम् ।

२४.७ द्वितीयदिवसस्य मरुत्वतीयनिष्केवल्यशस्त्रे तृतीयदिवसस्य प्रगाथश्च
अथ बृहतो योनिस् तस्या उक्तम् ब्राह्मणम् । (सोम स्वरसामन्)
स्वरन्ति त्वा सुते नर इति द्वृचो अनेक पातितायै ।
न इद् असौ बृहत्य् एकाकिनी इव शस्ता असद् इति । (सोम स्वरसामन्)
अध्वर्यो वीर प्र महे सुतानाम् इति विज्ञात त्रैष्टुभम् सनव धरणम् तस्य उक्तम् ब्राह्मणम् ।
गायन्ति त्वा गायत्रिण इत्य् आनुष्टुभम् निष्केवल्यम् तस्य उक्तम् ब्राह्मणम् ।
उद् वंशम् इव येमिर इत्य् उद्वद् बार्हतम् । (सोम स्वरसामन्)
इत्य् उ वा उ द्वितीयस्य ।
इमा उ त्वा प्रूरवसो इति प्रगाथः पावक वर्णाः कवर्णा इति कद्वांस् तस्य उक्तम् ब्राह्मणम् । (सोम स्वरसामन्)

२४.८ मरुत्वतीयशस्त्रं निष्केवल्यशस्त्रं च
अथ रथन्तरस्य योनिर् अथ बृहतस् तयोर् उक्तम् ब्राह्मणम् ।
दाना मृगो न वारण इति द्वृचो अनेक पातितायै । (सोम स्वरसामन्)
न इद् असौ बृहत्य् एकाकिनी इव शस्ता असद् इति ।
इदम् त्यत् पात्रम् इन्द्र पानम् इति विज्ञात त्रैष्टुभम् सवन धरणम् तस्य उक्तम् ब्रह्मणम् । (सोम स्वरसामन्)
इन्द्रम् विश्वा अवीवृधन्न् इत्य् आनुष्टुभम् निष्केवल्यम् तस्य उक्तम् ब्राह्मणम् ।
त्वाम् अभि प्र णोनुम इत्य् अभिवत् ।
तद् राथन्तरम् रूपम् । (सोम स्वरसामन्)
इत्य् उ वा उ तृतीयस्य ।
एवम् नु यदि स्वर पृष्ठा भवन्ति ।
यदि वा स्वर योनिषु बृहद् रथन्तरे ऊढे स्याताम् । (सोम स्वरसामन्)
एतद् एव शस्त्रम् अविकृतम् ।
यद्य् उ बृहद् रथन्तरे पृष्ठे कुर्युः ।
प्रजाता स्तोत्रिया अनुरूपा बार्हत राथन्तराः प्रज्ञाता धाय्या । (सोम स्वरसामन्)
साम्नोः प्रगाथौ पूर्वौ शस्त्वा कद्वतः प्रगाथान् शंसन्ति ।
उद्धरति द्वेचांश् च सवन धरणानि च । (सोम स्वरसामन्)
तद् आहुर् न अनुष्टुप्सु निविदम् दध्यान् मोहयति क्लृप्तच् छन्दसो मध्यंदिनम् इति । (सोम स्वरसामन्)
आनुष्टुभानि पूर्वाणि शस्त्वा कामस्य उपाप्त्यै त्रैष्टुभेषु निविदम् दधाति । (सोम स्वरसामन्)
अर्वाग् रथम् विश्व वारम् त उग्र इति प्रथमे अहन्य् आवति राथन्तरे । (सोम स्वरसामन्)
अपादित उद् उ नश् चित्रतम इति द्वितीय उद्वति बार्हते । (सोम स्वरसामन्)
सम् च त्वे जग्मुर् गिर इन्द्र पूर्वीर् इति तृतीये गतवय् अन्त रूपे ।
तथा यथा यथम् निविद् धीयते । (सोम स्वरसामन्)
सा एनान् यथा यथम् धीयमाना सर्वेषु च लोकेषु सर्वेषु च कामेषु यथा यथम् दधाति । (सोम स्वरसामन्)
यदि स्वराणि पृष्ठानि भवन्ति ।
बृहद् रथन्तरे एव तर्हि सामगाह पवमानेषु कुर्वन्ति । (सोम स्वरसामन्)
यदि बृहद् रथन्तरे पृष्ठे स्याताम् ।
स्वराणि तर्हि सामगाः पवमानेषु कुर्वन्ति । (सोम स्वरसामन्)
स्वराणि त्व् एव पृष्ठानि स्युर् इति ह स्म आह कौषीतकिः ।
स्वर सामानो ह्य् एते । (सोम स्वरसामन्)
पृष्ठैर् वै देवाः स्वर्गम् लोकम् अस्प्रक्षन् ।
तद् यत् स्वराणि पृष्ठानि भवन्ति ।
स्वर्गस्य एव लोकस्य स्पृष्ट्या इति । (सोम स्वरसामन्)

२४.९ वैश्वदेवाग्निमारुतशस्त्रे
पृष्ठ्यस्य षडहस्य समूढस्य याः पूर्वस्य त्र्यहस्य वैश्वदेवानाम् प्रतिपदस् ताः प्रतिपदः ।
यान्य् उत्तरस्य त्र्यहस्य तृतीय सवनानि तानि तृतीय सवनानि सानुचराणि । (सोम स्वरसामन्)
तद् यानि तत्र वैश्वदेवानि तान्य् उद्धृत्य अन्यान्य् अन्यान्य् अनिरुक्तानि प्राजापत्यानि परोक्ष वैश्वदेवान्य् अवधीयन्ते । (सोम स्वरसामन्)
प्र वः पान्तम् रघु मन्यवो अन्धस् तम् प्रत्नथा पूर्वथा विश्वथा ईमथा कद् इत्था नॄन्ः पात्रम् देवयताम् इति । (सोम स्वरसामन्) (विश्वथेमथा?)
प्रति नाभानेदिष्ठः ।
तद् वै खलु प्रत्यक्ष वैश्वदेवान्य् एव अवधीयेरन् ।
अग्निर् इन्द्रो वरुणो मित्रो अर्यमा इति प्रथमे अहनि द्याम् स्कभित्वी इति कद्वत् । (सोम स्वरसामन्)
देवान् हुवे बृहत् श्रवसः स्वस्तय इति द्वितीये ज्योतिष् कृत इति कद्वत् । (सोम स्वरसामन्)
उषासा नक्ता बृहती सुपेशसा इति तृतीये नक्ता इति कद्वत् ।
को वै प्रजापतिः । (सोम स्वरसामन्)
प्रजापतिः स्वर सामानः ।
ते अग्निष्टोमा वा उक्थ्या वा संतिष्ठन्ते ।
अग्निष्टोमा इति पैङ्ग्यम् । (सोम स्वरसामन्)
ब्रह्म वर्चसिनो भवन्ति ये अग्निष्टोमान् उपयन्ति ।
उक्थ्याः स्युर् इति ह स्म आह कौषीतकिः । (सोम स्वरसामन्)
स वै यज्ञ क्रतुः समृद्धो य उक्थ्यः ।
पञ्चदश ह्य् अस्य स्तोत्राणि भवन्ति । (सोम स्वरसामन्)
पञ्चदश शस्त्राणि ।
तानि त्रिंशत् स्तुत शस्त्राणि ।
स विराजम् अभिसम्पद्यते । (सोम स्वरसामन्)
श्रीर् विराड् अन्नाद्यम् ।
श्रियो विराजो अन्न अद्यस्य उपाप्त्यै श्रियो विराजो अन्न अद्यस्य उपाप्त्यै । (सोम स्वरसामन्)