कौषीतकिब्राह्मणम्/अध्यायः २५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २४ कौषीतकिब्राह्मणम्
अध्यायः २५
[[लेखकः :|]]
अध्यायः २६ →
सोमयागः(१-१०विषुवत्, ११-१५ विश्वजित्)


२५.१ विषुवत्कालः - आज्यशस्त्रम्, प्रउगशस्त्रम्
आपस् तपो अतप्यन्त । तास् तपस् तप्त्वा गर्भम् अदधत । तत एष आदित्यो अजायत षष्ठे मासि । तस्मात् सत्रिणः षष्ठे मासिदिवा कीर्त्यम् उपयन्ति । स षण् मासान् उदन्न् एति षड् आवृत्तः । तस्मात् सत्रिणः षड् एव ऊर्ध्वान् मासो यन्ति षड् आवृत्तान् । अन्तरेण उ ह वा एतम् अशनाया च पुनर् मृत्युश् च । अपाशनायाम् च पुनर् मृत्युम् च जयन्ति ये वैषुवतम् अहर् उपयन्ति । तस्य एतानि छन्दो रूपाणि । सूर्यवद् भानुमज् ज्योतिष्मद् रुक्मवद् रुचितवद्द् हर्यतवद् इति । समुद्राद् ऊर्मिर् मधुमान् उदारद् इत्य् आज्यम् । समुद्राद्द् ह्य् एषो अद्भ्य उदैति । इन्द्र एकम् सूर्यम् एकम् जजान इति सूर्यवत् । तद् एतस्य अह्नो रूपम् । ताः संशस्ता एकविंशतिम् अनुष्टुभः सम्पद्यन्ते । एकविंशो वा एष य एष तपति । तद् एनम् स्वेन रूपेण समर्धयन्ति । त्रैष्टुभः प्रउगः । विषुवान् वा एषो अह्नाम् । विषुपान् छन्दसाम् त्रिष्टुप् । तद् एनत् स्वेन छन्दसा समर्धयति ।

२५.२ विषुवत्कालः - प्रउगशस्त्रम्
कुविद् अङ्ग नमसा ये वृधास इति वायव्यम् । अवासयन्न् उषसम् सूर्येण इति सूर्यवत् । तद् एतस्य अह्नो रूपम् । अत एव उत्तरम् तृचम् ऐन्द्रवायवम् यावत् तरस् तन्वो यावद् ओज इति । यावन् नरश् चक्षसा दीध्याना इत्य् एतेन रूपेण । उद् वाम् चक्षुर् वरुण सुप्रतीकम् इति मैत्रावरुणम् । देवयोर् एति सूर्यस् ततन्वान् इति सूर्यवत् । तद् एतस्य अह्नो रूपम् । आ गोमता नासत्या रथेन इत्य् आश्विनम् । तस्य ऊर्ध्वम् भानुम् सविता देवो अश्रेद् इति तृतीया भानुमती । तद् एतस्य अह्नो रूपम् । आ नो देव शवसा याहि शुष्मिन्न् इत्य् ऐन्द्रम् । तनूषु शूराः सूर्यस्य साताव् इति सूर्यवत् । तद् एतस्य अह्नो रूपम् । प्र ब्रह्म एतु सदनाद् ऋतस्य इति वैश्वदेवम् । वि रश्मिभिः ससृजे सूर्यो गा इति सूर्यवत् । तद् एतस्य अह्नो रूपम् । उत स्या नः सरस्वती जुषोणा इति सारस्वतम् । द्वार आवृतस्य सुभगे व्यावर् इत्य् एतेन रूपेण । एष वा उ वासिष्ठस् तृच क्लृप्तस् त्रैष्टुभः प्रउगः । प्रजापतिर् वै वसिष्ठः । स तन्ता यज्ञस्य । स पुनस् तताव् अयात यामा भवति । प्रजापताव् एव तत् सर्वान् कामान् ऋध्नुवन्ति ।

२५.३ विषुवत्कालः - आज्यम्, प्रउगशस्त्रम्
तद् आहुर् न त्रैष्टुभम् प्रातःसवनम् स्यान् मोहयति क्लृप्तच् छन्दसो यज्ञ मुखम् इति । ऐकाहिकम् एव स्यात् । ज्योतिर् वा एकाहः । ज्योतिर् एष य एष तपति । ज्योतिषा एव तज् ज्योतिः समर्धयति । तस्य प्र वो देवाय अग्नये त्वम् हि क्षैतवद् यश इत्य् एते उभे तद् आज्यम् । ता एकविंशतिम् अनुष्टुभस् तासाम् उक्तम् ब्राह्मणम् । माधुच्छन्दसः प्रौगस् तस्य उक्तम् ब्राह्मणम् । कया शुभा सवयसः सनीडा इति मरुत्वतीयम् । शुभा भा इत्य् एतेन रूपेण । त्यम् सु मेषम् महया स्वर्विदम् इति जागतम् अधारयो दिव्या सूर्य दृश इति सूर्यवत् । तद् एतस्य अग्नो रूपम् । जनिष्ठा उग्रः सहसे तुराय इत्य् एतस्मिंस् त्रैष्टुभे निविदम् दधाति । अप ध्वान्तम् ऊर्णुहि पूर्धि चक्षुर् इत्य् एतेन रूपेण । ता वा उभय्यस् त्रिष्टुब् जगत्यः शस्यन्ते । त्रिष्टुब् जगत्योर् ह वा एष आहित आदित्यः प्रतिष्ठितस् तपति । तद् एनम् प्रत्यक्षम् आप्नुवन्ति ।

२५.४ विषुवत्कालः - मरुत्वतीयशस्त्रम् पृष्ठं महादिवाकीर्त्यं च
बृहद् एतस्य अह्नः पृष्ठम् स्याद् इति ह एक आहुः । बार्हतो वा एष य एष तपति । तद् एनम् स्वेन रूपेण समर्धयन्ति । बृहद् एतत् तपति इति वदन्तः । अथो अपृष्ठम् वा एतद् यन् महा दिवा कीर्त्यम् । अथ एते एव प्रत्यक्षे पृष्ठे यद् बृहद् रथन्तरे । तस्माद् बृहद् एव एतस्य अह्नः पृष्ठम् स्याद् इति । यद्य् उ सूर्यवति प्रगाथे बृहत् कुर्युः । तस्माद् बृहद् एव एतस्य अह्नः पृष्ठम् स्याद् इति । यद्य् उ सूर्यवति प्रगाथे बृहत् कुर्युः । सूर्यवतश् च प्रगाथान् एतस्य एव अह्नो रूपेण । इन्द्रः किल श्रुत्या अस्य वेद इत्य् उक्थ मुखीया स हि जिष्णुः पथिकृत् सूर्याय इति सूर्यवती । तद् एतस्य अह्नो रूपम् । महा दिवा कीर्त्यम् एव एतस्य अह्नः पृष्ठम् स्याद् इति सा स्थितिः । असौ वा एतत् प्रत्यक्षम् साम यो असौ तपति यन् महा दिवा कीर्त्यम् । तद् एनम् स्वेन साम्ना समर्धयन्ति । तद्द् ह एके त्रिष्टुप्सु कुर्वन्ति । त्रैष्टुभो वा एष य एष तपति । तद् एनम् स्वेन रूपेण समर्धयन्ति । बृहतीषु स्याद् इत्य् उ ह एक आहुः । बार्हतो वा एष य एष तपति । तद् एनम् स्वेन रूपेण समर्धयन्ति । जगतीषु स्याद् इति त्व् एव स्थितम् । जागतो वा एष य एष तपति । तद् एनत् स्वेन छन्दसा समर्धयति ।

२५.५ विषुवत्कालः - मरुत्वतीयशस्त्रम् पृष्ठं महादिवाकीर्त्यं च
विभ्राड् बृहत् पिबतु सोम्यम् मध्व् इति स्तोत्रियस् तृचो विश्व भ्राड् भ्राजो महि सूर्यो दृश इति विवान् भ्राजिष्मान्त् सूर्यवान् । तद् एतस्य अह्नो रूपम् । वि सूर्यो मध्ये अमुचद् रथम् दिव इत्य् अनुरूपो विवान्त् सूर्यवान् । जागतम् उ वै समानम् छन्दः । विश्वहा त्वा सुमनसः सुचक्षस इति त्व् एव स्थितः सरुयः सौर्यस्य । ज्योग् जीवाः प्रति पश्येम सूर्या इत्य् एतेन रूपेण । बण् महान् असि सूर्य इति सूर्यवान्त् साम प्रगाथः । तद् एतस्य अह्नो रूपम् । अथ बृहद् रथन्तरयोर् योनी शंसति । इन्द्रः किल श्रुत्या अस्य वेद इत्य् उक्थ्य मुखीया स हि जिष्णु पथिकृत् सूर्याय इति सूर्यवती । तद् एतस्य अह्नो रूपम् । शम् नो भव चक्षसा शम् नो अह्ना इति त्व् एव स्थिता सौरी सौर्यस्य । तत् सूर्य द्रविणम् धेहि चित्रम् इत्य् एतेन रूपेण । य एक इद्द् हव्यश् चर्षणीनाम् इति त्रैष्टुभम् । दिव्यानि दीपयो अन्तरिक्षा इत्य् एतेन रूपेण । एवम् नु यदि महा दिवा कीर्त्यम् पृष्ठम् भवति । यद्य् उ वै बृहत् स्व योनौ कुर्युः । बृहत आतानम् शस्त्वा रथन्तरस्य योनिम् शंसति । इन्द्रः किल श्रुत्या अस्य वेद इत्य् उक्थ्य मुखीया स हि जिष्णुः पथिकृत् सूर्याय इति सूर्यवती । तद् एतस्य अह्नो रूपम् ।

२५.६ विषुवत्कालः - दुरोहणम्, एकशतमृचः
द्यौर् न य इन्द्र अभि भूम अर्य ( भूमार्य ) इति त्रैष्टुभम् इन्द्रः कुत्साय सूर्यस्य साताव् इति सूर्यवत् । तद् एतस्य अह्नो रूपम् । न चेत् स्व योनौ । श्रायन्त इव सूर्यम् इति सूर्यवान्त् स्तोत्रियः । तद् एतस्य अह्नो रूपम् । यद् द्याव इन्द्र ते शतम् इत्य् अनुरूपः सहस्रम् सूर्या इति सूर्यवान् । तद् एतस्य अह्नो रूपम् । यः सत्राहा विचर्षणिर् इति साम प्रगाथस् तनूष्व् अप्सु सूर्य इति सूर्यवान् । तद् एतस्य अह्नो रूपम् । अथ बृहद् रथन्तरयोर् योनी शंसति । इन्द्रः किल श्रुत्या अस्य वेद इत्य् उक्थ मुखीया तस्या उक्तम् ब्राह्मणम् । य एक इद्द् हव्यश् चर्षणीनाम् इति त्रैष्टुभम् तस्य उक्तम् ब्राह्मणम् । एवम् नु यदि बृहत् स्व योनौ वा अस्व योनौ वा कुर्युः । अनुभय सामानम् चेत् कुर्युः । समानम् ओक्थ्य मुखीयायै ( उक्थ्य मुखीय )। उद्धरेद् बृहद् रथन्तरयोर् योनी । तम् उ ष्टुहि यो अभिभूत्य् ओजा इति त्रैष्टुभम् । गीर्भिर् वर्ध वृषभम् चर्षणीनाम् इत्य् एतेन रूपेण । समानम् उत्तरम् । अभि त्यम् मेषम् पुरु हूतम् ऋब्मियम् इति जागतम् आद् इत् सूर्यम् दिव्य आरोहयो दृश इति सूर्यवत् । तद् एतस्य अह्नो रूपम् । ता वा उभय्यस् त्रिष्टुप् जगत्यः शस्यन्ते । त्रिष्टुब् जगत्योर् ह वा एष आहित आदित्यः प्रतिष्ठितस् तपति । तद् एनम् प्रत्यक्षम् स्पृशन्ति ।

२५.७ विषुवत्कालः - दुरोहणम्, एकशतमृचः
प्र ते महे विदथे शंसिषम् हरी इति (ऋ. १०.९६.१ )। तस्य नव शस्त्वा आहूय निविदम् दधाति । आविष् कृधि हरये सूर्याय इति सूर्यवत् । तद् एतस्य अह्नो रूपम् । सर्व हरेश् चतस्रो अभ्युदैति । आ सत्यो यातु मघवान् ऋजीषी इत्य् (ऋ. ४.१६.१ ) एकविंशतिः । महि ज्योती रुरुचुर् यद्द् ह वस्तोर् इत्य् एतेन रूपेण । ताः पञ्चविंशतिः । विश्वजिते धनजिते स्वर् जित इति षड् जगत्यः । इन्द्राय सोमम् यजताय हर्यतम् इत्य्(ऋ. २.२१.१ ) एतेन रूपेण । ता एकत्रिंशत् । तासु जगतीषु दूरोहणम् रोहति । जागतो वा एष य एष तपति । यजमाना दूरोहणः । एतम् एव तद् यजमाना रोहन्ति । तद् अन्तरिक्ष लोकम् आप्नुवन्ति । त्रि पच्छस् तृतीयम् । तद् अमुंल् लोकम् आप्नुवन्ति । केवलीम् स आवेशः । त्रिपच्छो अर्धर्चशः पच्छः । तद् अस्मिंल् लोके प्रतितिष्ठन्ति । प्रतिष्ठायाम् अप्रच्युत्याम् । सा एषा दूरोहणीया संशस्ता सप्त जगत्यः सम्पद्यन्ते । ता अष्ट त्रिंशत् । एष प्र पूर्वीर् अव तस्य चंरिष इति जागतम् षडृचम् इन्द्रम् सिषक्त्य् उषसम् न सूर्य इति सूर्यवत् । तद् एतस्य अह्नो रूपम् । ताश् चतुश् चत्वारिंशत् । पतङ्गम् अक्तम् असुरस्य मायया इति तिस्रः । ताम् द्योतमानाम् स्वर्यम् मनोषाम् इत्य् एतेन रूपेण । ताः सप्त चत्वारिंशत् । उरुम् नो लोकम् अनु नेषि विद्वान् इति त्रिः शस्तया परिधानीयया । स्वर्वज् ज्योतिर् अभयम् स्वस्ति इत्य् एतेन रूपेण । ताः पञ्चाशत् । पूर्वा एक पञ्चाशत् । ता एक शतम् ऋचो भवन्ति । शत आयुर् वै पुरुषः शत पर्वा शत वीर्यः शत इन्द्रियः । उप या एक शततमी स यजमान लोकः । तद् अत्र एव यजमानान्त् संस्कुर्वन्ति । तद् अत्र यजमानान्त् संस्कृत्य आदौ महा व्रतीयेन अह्ना प्रजनयन्ति इति पङ्गी सम्पत् ।

२५.८ विषुवत्कालः - कौषीतकिमतम्
अथ कौषीतकेः । समानम् ओक्थ्य मुखीयायै ( उक्थ्य मुखीय )। ऋतुर् जनित्रीयम् त्रयोदशर्चम् उद्धृत बृहद् रथन्तरे । तस्य एव एकादश स्व योनौ । नव अन्यत्र । तद् रूपा मिनन् तद् अपा एक ईयत इत्य् एतेन रूपेण । आ इन्द्र याहि हरिभिर् इति पञ्चदश । सरूपैर् आ सु नो गहि इत्य् एतेन रूपेण । बरोर् एकादश शस्त्वा निविदम् दधाति । मध्य एकशतस्य एक पञ्चाशतम् शस्त्वा द्वे बरोर् अभ्युदैति । आ सत्यो यातु मघवान् ऋजीषी इत्य् एकविंशतिस् तास् त्रयोविशंतिः । विश्वजित इति षट् ता एकयान त्रिंशत् (?)। दूरोहणीयाः सप्त ता षट्त्रिंशत् । अभूर् एको रयि पते रयीणाम् इति त्रैष्टुभम् पञ्चर्चम् दश प्रपित्वे अध सूर्यस्य इति सूर्यवत् । तद् एतस्य अह्नो रूपम् । ता एक चत्वारिंशत् । त्यम् ऊ षु वाजिनम् देव जूतम् इति तार्क्ष्यस् तिस्रः । सूर्य इव ज्योतिषा अपस् ततान इत्य् एतेन रूपेण । ताश् चतुश् चत्वारिंशत् । पतङ्गस् तिस्रस् ताः सप्त चत्वारिंशत् । उरुम् नो लोकम् अनु नेषि विद्वान् इति त्रिः शस्तया परिधानीयया ताः पञ्चाशत् । पूर्वा एक पञ्चाशत् । ता एकशतम् ऋचो भवन्ति तासाम् उक्तम् ब्राह्मणम् ।

२५.९ विषुवत्कालः - वैश्वदेवाग्निमारुतशस्त्रे
तत्सवितुर्वृणीमहेऽद्या नो देव सवितरिति नित्यैव वैश्वदेवस्य प्रतिपदनुचरश्च तयोरुक्तं ब्राह्मणं युञ्जते मन उत युञ्जते धिय इति सावित्रम् उत सूर्यस्य रश्मिभिः समुच्यसि इति सूर्यवत् । तद् एतस्य अह्नो रूपम् । ते हि द्यावा पृथिवी विश्व शम्भुवा इति द्यावा पृथिवीयम् देवो देवी धर्मणा सूर्यः शुचित् इति सूर्यवत् । तद् एतस्य अह्नो रूपम् । किम् उ श्रेष्ठः किम् यविष्ठो न आजगन्न् इत्य् आर्भवम् । यद् आवाख्यच् चमसान् चतुरः कृतान् इत्य् अवाख्यद् इत्य् एतेन रूपेण । देवान् हुवे बृहत् श्रवसः स्वस्तय इति वैश्वदेवम् ये सूर्यस्य ज्योतिषो भागम् आनशुर् इति सूर्यवज् ज्योतिष्मत् । तद् एतस्य अह्नो रूपम् । वैश्वानराय धिषणाम् ऋता वृध इति वैश्वानरीयम् रुरुचानम् भानुना ज्योतिषा महाम् इति रुचितवद् भानुमज् ज्योतिष्मत् । तद् एतस्य अह्नो रूपम् । प्रयज्यवो मरुतो भ्राजद् ऋष्टय इति मारुतम् विरोकिणः सूर्यस्य इव रश्मय इति सूर्यवत् । तद् एतस्य अह्नो रूपम् । वेदिषदे प्रिय धामाय सुद्युत इति जात वेदसीयम् । ज्योती रथम् शुक्र वर्णम् तम् ओहनम् इत्य् एतेन रूपेण । इत्य् आग्निमारुत सूक्तानि । इत्य् एतस्य अह्नः सूक्तानि । तद् अग्निष्टोमः संतिष्ठते । ज्योतिर् वा अग्निष्टोमः । ज्योतिर् एष य एष तपति । ज्योतिष्य् एव तज् ज्योतिः प्रतिष्ठापयन्ति । ते अमृतत्वम् आप्नुवन्ति ये वैषुवतम् अहर् उपयन्ति ।

२५.१० विषुवत्कालः - प्रातरनुवाकः
पुरादित्यस्यास्तमयादेतदहः संस्थापयिषेयुः । सप्रातरनुवाकम् एतद् अहर् दिवा कीर्त्यम् भवति । सप्रातर् अनुवाकेन सपत्नी सम्याजेन एतेन अह्ना पुराद् इत्य् अस्यास् तम् अयात् समीप्सेयुः । अग्निम् मन्ये पितरम् अग्निम् आपिम् इत्य् एतया होता तद् अहः प्रातरनुवाकम् प्रतिपद्यते । आपिम् इत्य् आपो रेवत्यै रूपेण । दिवि शुक्रम् यजतम् सूर्यस्य इति सूर्यवती । तद् एतस्य अह्नो रूपम् । तद् उ ह स्म आह कौषीतकिः । प्रजापतिर् वै प्रातर् अनुवाकः । न तमस एतम् यथा यथम् एव तम् उपाकुर्युः । तत् तस्य समृद्धम् । तथा यथा यथम् उपांश्व् अन्तर्यामौ हूयेते । तद् उ तयोः समृद्धम् इति । वसिष्ठम् आप्री सूक्तम् सम् रश्मिभिस् ततनः सूर्यस्य इति सूर्यवत् । तद् एतस्य अह्नो रूपम् । शुक्र एतस्य अह्नः पिङ्ग अक्षो होता स्याद् इति ह एक आहुः । अमुम् वा एतेन अह्ना ईप्सन्ति यो असौ तपति । तद् यथा श्रेयांसम् आहरन्न् उपेयाद् एवम् तत् । यथा उपपादम् इति त्व् एव स्थितम् । शस्त्रेण एव एतस्य अह्नो रूपम् सम्पाद्यिषेयुः । सौर्यः पशुर् उपालम्भ्यः सवनीयस्य । स उपांशु भवति । स यस् तम् निर्ब्रूयात् । यस् तम् तत्र ब्रूयात् । दुश्चर्मा किलासी भविष्यति इति तथा ह स्यात् । ते वा एते चत्वार एव पशव उपांशु भवन्ति । सौर्यः सावित्रः प्राजापत्यो वाग् देवत्य इति । अथ अन्ये निरुक्ताः । अथ त्रीन्त् स्वर साम्न आवृत्तान् उपयन्ति तेषाम् उक्तम् ब्राह्मणम् ।

२५.११ विश्वजित्
त्रयोदशम् अधिचरम् मासम् आप्नुवन्ति यद् विश्वजितम् उपयन्ति । एतावान् वै संवत्सरो यद् एष त्रयोदशो मासः । तद् अत्र एव सर्वः संवत्सर आप्तो भवति । तम् आहुर् एकाहः षडह इति । यद्य् अन्वहम् षडहे क्रियते । एकाहे तद् विश्वजिति क्रियते । तद् वा इदम् बहु विश्व रूपम् विश्वजिति क्रियते । यत् सर्वाणि पृष्ठानि सर्वे स्तोमा उच्च अवचाः समवधीयन्ते । वैराजम् एव अस्य प्रत्यक्षम् पृष्ठम् भवति । माध्यंदिने पवमाने रथन्तरम् । बृहत् तृतीये पवमाने क्रियते । शाक्वरम् मैत्रावरुणस्य । वैरूपम् ब्राह्मणाच्छंसिनः । रैवतम् अच्छावाकस्य । त एतम् त्रयोदशम् अधिचरम् मासम् आप्नुवन्ति । एतद्धि त्रयोदशम् । पृष्ठ्यान्य् उपयन्ति । तस्य अग्निम् नरो दीधितिभिर् अरण्योर् इति वैराजम् आज्यम् । वैराजम् पृष्ठम् तस्य उक्तम् ब्राह्मणम् । वासिष्ठम् आज्यम् । वासिष्ठम् पृष्ठम् तस्य उक्तम् ब्राह्मणम् । माधुच्छन्दसः प्रउगस् तस्य उक्तम् ब्राह्मणम् । कया शुभा सवयसः सनीडा इति मरुत्वतीयम् । कद्वत् कया शुभीयम् । को वै प्रजापतिर् विश्वजित् । याव् एव अमू वैराजस्य स्तोत्रिय अनुरूपौ त स्तोत्रिय अनुरूपौ । तयोस् तथा एव न्यूङ्खयति यथा अदश् चतुर्थे अहन् (यथादश् चतुर्थे ) । न हि वैराजम् तत् स्थानम् अन्यूङ्खनाय । तद् इद् आस भुवनेषु ज्येष्ठम् इति निष्केवल्यम् । यज्ञो वै भुवनेषु ज्येष्ठः । यज्ञ उ वै प्रजापतिर् विश्वजित् । अथ यत् षष्ठस्य अह्नस् तृतीय सवनम् तत् तृतीय सवनम् । प्राजापत्यम् वै षष्ठम् अहः । प्रजापतिर् विश्वजित् । ऐकाहिकी प्रतिपद् । एकाहो वै विश्वजित् । प्रतिष्ठा वा एकाहः प्रतिष्ठित्या एवाभिवाननुचरस्तस्योक्तं ब्राह्मणम् ।

२५.१२ विश्वजित्
तद् आहुर् अथ कस्माद् विश्वजिति सर्व पृष्ठ एकाहे तृतीय सवने शिल्पानि शस्यन्ते कस्माद् अग्निष्टोमे मध्यंदिन इति । ये वा इमे अवाञ्चः प्राणास् तानि शिल्पानि । पुरुषो वै यज्ञः । तस्य य ऊर्ध्वा प्राणास् तत् प्रातःसवनम् । आत्मा मध्यंदिनः । ये अवाञ्चस् तत् तृतीय सवनम् ताइ शिल्पानि । तस्मात् तृतीय सवने शिल्पानि शस्यन्ते । एतद्द् ह्य् एषाम् आयतनम् । अथ यद् अग्निष्टोमे सत्रिये सांवत्सरिके विश्वजिति सर्व पृष्ठे मध्यंदिने शिल्पानि शस्यन्ते । आत्मा वै पृष्ठानि । प्राणाः शिल्पानि । न वा अन्तरेण आत्मानम् प्राणाः ख्यायन्ते । न प्राणान् अन्तरेण आत्मा । नो एतन् नाना । तस्माद् अग्निष्टोम एव अपि मध्यंदिने शिल्पानि शस्यन्ते । न इत् प्राणेभ्य आत्मानम् अपादधानि इति । अथो प्रजापतिर् वै विश्वजित् । सर्वम् वै प्रजापतिर् विश्वजित् । तत् सर्वेण सर्वम् आप्नोति य एवम् वेद ।

२५.१३ विश्वजित्
तत्र अग्नि मारुते रौद्रीम् शस्त्वा होता एवया मरुतम् पङ्क्ति शंसम् शंसति (एवयामरुतम्?) । पाङ्क्तो वै यज्ञो यज्ञस्य एव अवाप्त्यै । न इद् अच्छावाकस्य शिल्पम् अन्तरयाम इति । अथो रुद्रो वै ज्येष्ठश् च श्रेष्ठश् च देवानाम् । अतिच्छन्दाश् छन्दसाम् । विश्वजिद् एकाहानाम् । तद् एनत् स्वेन छन्दसा समर्धयति । तस्य तिसृषु न्यूङ्खयति । न्यूङ्खयितुम् चेद् द्रियेत । सर्वास्व् एव न्यूङ्खयेत् । अन्नम् वै न्यूङ्खः । अन्नम् प्राणः । प्राणाः शिल्पानि । प्राण एव तत् प्राणान् दधाति । अथो विश्वजिता वै प्रजापतिः सर्वाः प्रजा अजनयत् सर्व उदजयत् । एतद् वा एष जायते विश्वजिता यो यजते । तस्मान् न्यूङ्खयति । न्यूङ्खमानक इव वै प्रथमम् चिचर्षंश् चरति । तद् एनम् अमृतात् छन्दसो अमृतत्वाय प्रजनयन्ति । ते अमृतत्वम् आप्नुवन्ति ये विश्वजितम् उपयन्ति ।

२५.१४ विश्वजित्
स सर्वस्तोमः सर्वपृष्ठोऽग्निष्टोमः संतिष्ठते । यः सत्रियः सांवत्सरिको विश्वजित् । प्रतिष्ठा वा अग्निष्टोमः प्रतिष्ठित्या एव । एकाह उ चेद् विश्वजिद् रात्रि सत्रस्य वा विषुवान् अतिरात्र एव स्यात् । स कृत्स्नो विश्वजिद् यो अतिरात्रः । अर्धम् वै विश्वजितो अह्ना क्रियते । अर्धम् रात्र्या । सर्व पराजिद् उ ह एव स यो अन्यत्र सर्व वेदसाद् वा सत्राद् वा क्रियते । सर्व ज्यानिर् ह एव सा । यो अन्यत्र विश्वजितः सर्वम् ददाति । विश्वजिच् चेत् सर्वम् एव । सर्वम् उ चेद् विश्वजिद् एव । यो ह वै न सर्वम् ददामि इति ब्रुवन् । कर्तपत्यम् एव तज् जीयते प्र वा मीयते इति ह स्म आह । सहस्रम् वा एनम् अवरुन्ध इति ह स्म आह कौषीतकिः । सर्वम् वै तद् यत् सहस्रम् । सर्वम् विश्वजित् । तत् सर्वेण सर्वम् आप्नोति य एवम् वेद ।

२५.१५ विश्वजित् - होत्रकमन्त्राः
वत्सछवीं परिदधीत । रिरिचान इव वा एतस्य आत्मा भवति यः सर्वम् ददाति । वत्सम् वै पशवो वाञ्छन्ति । पुनर् मा पशवो वाञ्छन्त्व् इति । उदुम्बरे वसेत् । ऊर्ग् वा अन्नाद्यम् उदुम्बरः । ऊर्जो अन्न अद्यस्य उपाप्त्यै । नैषादे वसेत् । एतद् वा अवर अर्ध्यम् अन्नाद्यम् नन् नैषादः । अवर अर्ध्यस्य अन्न अद्यस्य उपाप्त्यै । वैश्ये वसेत् । वैश्यो वै पुष्यति इव । यद् वैश्ये अन्नाद्यम् तस्य उपाप्त्यै । क्षत्रिये वसेत् । एतद् वै पर अर्ध्यम् अन्नाद्यम् यत् क्षत्रियः । पर अर्ध्यस्य अन्न अद्यस्य उपाप्त्यै । ब्राह्मणे समान् गोत्रे वसेत् । यत् समाने गोत्रे अन्नाद्यम् तस्य उपाप्त्यै । संवत्सरम् चरेद् अधः संवेश्य फाल कृष्टाश्य प्रतिगृह्णन् न अन्नम् याचन्न् इदम् तत् तद् अनुवसानः ( फाल कृष्टाश्यप्रति?) । तत् तेन अनुवस्ते । द्वादश रात्रम् चरित्वा अथ (?) अन्यस्यै बुभूषायै स्याद् इति ह स्म आह कौषीतकिः । द्वादश वै मासाः संवत्सरः । सा संवत्सरस्य प्रतिमा इति । प्राजापत्यान्य् अनिरुक्तानि होत्राणाम् आज्यानि भवन्ति । तस्य ता नः शक्तम् पार्थिवस्य युञ्जन्ति ब्रध्नम् अरुषम् ता हि शश्वन्त ईडते तम् ईडिष्व यो अर्चिषा इति वा स्तोत्रियाः । ये षष्ठस्य अह्नः स्तोत्रियास् ते विश्वजितो अनुरूपाः । प्राजापत्यम् वै षष्ठम् अहः । प्रजापतिर् विश्वजित् । इतरे पञ्च तद् उक्थम् । पर्यासैः परिदधति । प्रतिष्ठा वै पर्यासाः । प्रतिष्ठित्या एव प्रतिष्ठ्त्या एव ।

२५.१ विषुवत्कालः - आज्यशस्त्रम्, प्रउगशस्त्रम्
आपस् तपो अतप्यन्त ।
तास् तपस् तप्त्वा गर्भम् अदधत ।
तत एष आदित्यो अजायत षष्ठे मासि ।
तस्मात् सत्रिणः षष्ठे मासिदिवा कीर्त्यम् उपयन्ति ।
स षण् मासान् उदन्न् एति षड् आवृत्तः ।
तस्मात् सत्रिणः षड् एव ऊर्ध्वान् मासो यन्ति षड् आवृत्तान् ।
अन्तरेण उ ह वा एतम् अशनाया च पुनर् मृत्युश् च ।
अपाशनायाम् च पुनर् मृत्युम् च जयन्ति ये वैषुवतम् अहर् उपयन्ति ।
तस्य एतानि छन्दो रूपाणि ।
सूर्यवद् भानुमज् ज्योतिष्मद् रुक्मवद् रुचितवद्द् हर्यतवद् इति ।
समुद्राद् ऊर्मिर् मधुमान् उदारद् इत्य् आज्यम् ।
समुद्राद्द् ह्य् एषो अद्भ्य उदैति ।
इन्द्र एकम् सूर्यम् एकम् जजान इति सूर्यवत् ।
तद् एतस्य अह्नो रूपम् ।
ताः संशस्ता एकविंशतिम् अनुष्टुभः सम्पद्यन्ते ।
एकविंशो वा एष य एष तपति ।
तद् एनम् स्वेन रूपेण समर्धयन्ति ।
त्रैष्टुभः प्रउगः ।
विषुवान् वा एषो अह्नाम् ।
विषुपान् छन्दसाम् त्रिष्टुप् ।
तद् एनत् स्वेन छन्दसा समर्धयति ।

२५.२ विषुवत्कालः - प्रउगशस्त्रम्
कुविद् अङ्ग नमसा ये वृधास इति वायव्यम् ।
अवासयन्न् उषसम् सूर्येण इति सूर्यवत् ।
तद् एतस्य अह्नो रूपम् ।
अत एव उत्तरम् तृचम् ऐन्द्रवायवम् यावत् तरस् तन्वो यावद् ओज इति ।
यावन् नरश् चक्षसा दीध्याना इत्य् एतेन रूपेण ।
उद् वाम् चक्षुर् वरुण सुप्रतीकम् इति मैत्रावरुणम् ।
देवयोर् एति सूर्यस् ततन्वान् इति सूर्यवत् ।
तद् एतस्य अह्नो रूपम् ।
आ गोमता नासत्या रथेन इत्य् आश्विनम् ।
तस्य ऊर्ध्वम् भानुम् सविता देवो अश्रेद् इति तृतीया भानुमती ।
तद् एतस्य अह्नो रूपम् ।
आ नो देव शवसा याहि शुष्मिन्न् इत्य् ऐन्द्रम् ।
तनूषु शूराः सूर्यस्य साताव् इति सूर्यवत् ।
तद् एतस्य अह्नो रूपम् ।
प्र ब्रह्म एतु सदनाद् ऋतस्य इति वैश्वदेवम् ।
वि रश्मिभिः ससृजे सूर्यो गा इति सूर्यवत् ।
तद् एतस्य अह्नो रूपम् ।
उत स्या नः सरस्वती जुषोणा इति सारस्वतम् ।
द्वार आवृतस्य सुभगे व्यावर् इत्य् एतेन रूपेण ।
एष वा उ वासिष्ठस् तृच क्लृप्तस् त्रैष्टुभः प्रउगः ।
प्रजापतिर् वै वसिष्ठः ।
स तन्ता यज्ञस्य ।
स पुनस् तताव् अयात यामा भवति ।
प्रजापताव् एव तत् सर्वान् कामान् ऋध्नुवन्ति ।

२५.३ विषुवत्कालः - आज्यम्, प्रउगशस्त्रम्
तद् आहुर् न त्रैष्टुभम् प्रातःसवनम् स्यान् मोहयति क्लृप्तच् छन्दसो यज्ञ मुखम् इति ।
ऐकाहिकम् एव स्यात् ।
ज्योतिर् वा एकाहः ।
ज्योतिर् एष य एष तपति ।
ज्योतिषा एव तज् ज्योतिः समर्धयति ।
तस्य प्र वो देवाय अग्नये त्वम् हि क्षैतवद् यश इत्य् एते उभे तद् आज्यम् ।
ता एकविंशतिम् अनुष्टुभस् तासाम् उक्तम् ब्राह्मणम् ।
माधुच्छन्दसः प्रौगस् तस्य उक्तम् ब्राह्मणम् ।
कया शुभा सवयसः सनीडा इति मरुत्वतीयम् ।
शुभा भा इत्य् एतेन रूपेण ।
त्यम् सु मेषम् महया स्वर्विदम् इति जागतम् अधारयो दिव्या सूर्य दृश इति सूर्यवत् ।
तद् एतस्य अग्नो रूपम् ।
जनिष्ठा उग्रः सहसे तुराय इत्य् एतस्मिंस् त्रैष्टुभे निविदम् दधाति ।
अप ध्वान्तम् ऊर्णुहि पूर्धि चक्षुर् इत्य् एतेन रूपेण ।
ता वा उभय्यस् त्रिष्टुब् जगत्यः शस्यन्ते ।
त्रिष्टुब् जगत्योर् ह वा एष आहित आदित्यः प्रतिष्ठितस् तपति ।
तद् एनम् प्रत्यक्षम् आप्नुवन्ति ।

२५.४ विषुवत्कालः - मरुत्वतीयशस्त्रम् पृष्ठं महादिवाकीर्त्यं च
बृहद् एतस्य अह्नः पृष्ठम् स्याद् इति ह एक आहुः ।
बार्हतो वा एष य एष तपति ।
तद् एनम् स्वेन रूपेण समर्धयन्ति ।
बृहद् एतत् तपति इति वदन्तः ।
अथो अपृष्ठम् वा एतद् यन् महा दिवा कीर्त्यम् ।
अथ एते एव प्रत्यक्षे पृष्ठे यद् बृहद् रथन्तरे ।
तस्माद् बृहद् एव एतस्य अह्नः पृष्ठम् स्याद् इति ।
यद्य् उ सूर्यवति प्रगाथे बृहत् कुर्युः ।
तस्माद् बृहद् एव एतस्य अह्नः पृष्ठम् स्याद् इति ।
यद्य् उ सूर्यवति प्रगाथे बृहत् कुर्युः ।
सूर्यवतश् च प्रगाथान् एतस्य एव अह्नो रूपेण ।
इन्द्रः किल श्रुत्या अस्य वेद इत्य् उक्थ मुखीया स हि जिष्णुः पथिकृत् सूर्याय इति सूर्यवती ।
तद् एतस्य अह्नो रूपम् ।
महा दिवा कीर्त्यम् एव एतस्य अह्नः पृष्ठम् स्याद् इति सा स्थितिः ।
असौ वा एतत् प्रत्यक्षम् साम यो असौ तपति यन् महा दिवा कीर्त्यम् ।
तद् एनम् स्वेन साम्ना समर्धयन्ति ।
तद्द् ह एके त्रिष्टुप्सु कुर्वन्ति ।
त्रैष्टुभो वा एष य एष तपति ।
तद् एनम् स्वेन रूपेण समर्धयन्ति ।
बृहतीषु स्याद् इत्य् उ ह एक आहुः ।
बार्हतो वा एष य एष तपति ।
तद् एनम् स्वेन रूपेण समर्धयन्ति ।
जगतीषु स्याद् इति त्व् एव स्थितम् ।
जागतो वा एष य एष तपति ।
तद् एनत् स्वेन छन्दसा समर्धयति ।

२५.५ विषुवत्कालः - मरुत्वतीयशस्त्रम् पृष्ठं महादिवाकीर्त्यं च
विभ्राड् बृहत् पिबतु सोम्यम् मध्व् इति स्तोत्रियस् तृचो विश्व भ्राड् भ्राजो महि सूर्यो दृश इति विवान् भ्राजिष्मान्त् सूर्यवान् ।
तद् एतस्य अह्नो रूपम् ।
वि सूर्यो मध्ये अमुचद् रथम् दिव इत्य् अनुरूपो विवान्त् सूर्यवान् ।
जागतम् उ वै समानम् छन्दः ।
विश्वहा त्वा सुमनसः सुचक्षस इति त्व् एव स्थितः सरुयः सौर्यस्य ।
ज्योग् जीवाः प्रति पश्येम सूर्या इत्य् एतेन रूपेण ।
बण् महान् असि सूर्य इति सूर्यवान्त् साम प्रगाथः ।
तद् एतस्य अह्नो रूपम् ।
अथ बृहद् रथन्तरयोर् योनी शंसति ।
इन्द्रः किल श्रुत्या अस्य वेद इत्य् उक्थ्य मुखीया स हि जिष्णु पथिकृत् सूर्याय इति सूर्यवती ।
तद् एतस्य अह्नो रूपम् ।
शम् नो भव चक्षसा शम् नो अह्ना इति त्व् एव स्थिता सौरी सौर्यस्य ।
तत् सूर्य द्रविणम् धेहि चित्रम् इत्य् एतेन रूपेण ।
य एक इद्द् हव्यश् चर्षणीनाम् इति त्रैष्टुभम् ।
दिव्यानि दीपयो अन्तरिक्षा इत्य् एतेन रूपेण ।
एवम् नु यदि महा दिवा कीर्त्यम् पृष्ठम् भवति ।
यद्य् उ वै बृहत् स्व योनौ कुर्युः ।
बृहत आतानम् शस्त्वा रथन्तरस्य योनिम् शंसति ।
इन्द्रः किल श्रुत्या अस्य वेद इत्य् उक्थ्य मुखीया स हि जिष्णुः पथिकृत् सूर्याय इति सूर्यवती ।
तद् एतस्य अह्नो रूपम् ।

२५.६ विषुवत्कालः - दुरोहणम्, एकशतमृचः
द्यौर् न य इन्द्र अभि भूम अर्य ( भूमार्य ) इति त्रैष्टुभम् इन्द्रः कुत्साय सूर्यस्य साताव् इति सूर्यवत् ।
तद् एतस्य अह्नो रूपम् ।
न चेत् स्व योनौ ।
श्रायन्त इव सूर्यम् इति सूर्यवान्त् स्तोत्रियः ।
तद् एतस्य अह्नो रूपम् ।
यद् द्याव इन्द्र ते शतम् इत्य् अनुरूपः सहस्रम् सूर्या इति सूर्यवान् ।
तद् एतस्य अह्नो रूपम् ।
यः सत्राहा विचर्षणिर् इति साम प्रगाथस् तनूष्व् अप्सु सूर्य इति सूर्यवान् ।
तद् एतस्य अह्नो रूपम् ।
अथ बृहद् रथन्तरयोर् योनी शंसति ।
इन्द्रः किल श्रुत्या अस्य वेद इत्य् उक्थ मुखीया तस्या उक्तम् ब्राह्मणम् ।
य एक इद्द् हव्यश् चर्षणीनाम् इति त्रैष्टुभम् तस्य उक्तम् ब्राह्मणम् ।
एवम् नु यदि बृहत् स्व योनौ वा अस्व योनौ वा कुर्युः ।
अनुभय सामानम् चेत् कुर्युः ।
समानम् ओक्थ्य मुखीयायै ( उक्थ्य मुखीय )।
उद्धरेद् बृहद् रथन्तरयोर् योनी ।
तम् उ ष्टुहि यो अभिभूत्य् ओजा इति त्रैष्टुभम् ।
गीर्भिर् वर्ध वृषभम् चर्षणीनाम् इत्य् एतेन रूपेण ।
समानम् उत्तरम् ।
अभि त्यम् मेषम् पुरु हूतम् ऋब्मियम् इति जागतम् आद् इत् सूर्यम् दिव्य आरोहयो दृश इति सूर्यवत् ।
तद् एतस्य अह्नो रूपम् ।
ता वा उभय्यस् त्रिष्टुप् जगत्यः शस्यन्ते ।
त्रिष्टुब् जगत्योर् ह वा एष आहित आदित्यः प्रतिष्ठितस् तपति ।
तद् एनम् प्रत्यक्षम् स्पृशन्ति ।

२५.७ विषुवत्कालः - दुरोहणम्, एकशतमृचः
प्र ते महे विदथे शंसिषम् हरी इति ।
तस्य नव शस्त्वा आहूय निविदम् दधाति ।
आविष् कृधि हरये सूर्याय इति सूर्यवत् ।
तद् एतस्य अह्नो रूपम् ।
सर्व हरेश् चतस्रो अभ्युदैति ।
आ सत्यो यातु मघवान् ऋजीषी इत्य् एकविंशतिः ।
महि ज्योती रुरुचुर् यद्द् ह वस्तोर् इत्य् एतेन रूपेण ।
ताः पञ्चविंशतिः ।
विश्वजिते धनजिते स्वर् जित इति षड् जगत्यः ।
इन्द्राय सोमम् यजताय हर्यतम् इत्य् एतेन रूपेण ।
ता एकत्रिंशत् ।
तासु जगतीषु दूरोहणम् रोहति ।
जागतो वा एष य एष तपति ।
यजमाना दूरोहणः ।
एतम् एव तद् यजमाना रोहन्ति ।
तद् अन्तरिक्ष लोकम् आप्नुवन्ति ।
त्रि पच्छस् तृतीयम् ।
तद् अमुंल् लोकम् आप्नुवन्ति ।
केवलीम् स आवेशः ।
त्रिपच्छो अर्धर्चशः पच्छः ।
तद् अस्मिंल् लोके प्रतितिष्ठन्ति ।
प्रतिष्ठायाम् अप्रच्युत्याम् ।
सा एषा दूरोहणीया संशस्ता सप्त जगत्यः सम्पद्यन्ते ।
ता अष्ट त्रिंशत् ।
एष प्र पूर्वीर् अव तस्य चंरिष इति जागतम् षडृचम् इन्द्रम् सिषक्त्य् उषसम् न सूर्य इति सूर्यवत् ।
तद् एतस्य अह्नो रूपम् ।
ताश् चतुश् चत्वारिंशत् ।
पतङ्गम् अक्तम् असुरस्य मायया इति तिस्रः ।
ताम् द्योतमानाम् स्वर्यम् मनोषाम् इत्य् एतेन रूपेण ।
ताः सप्त चत्वारिंशत् ।
उरुम् नो लोकम् अनु नेषि विद्वान् इति त्रिः शस्तया परिधानीयया ।
स्वर्वज् ज्योतिर् अभयम् स्वस्ति इत्य् एतेन रूपेण ।
ताः पञ्चाशत् ।
पूर्वा एक पञ्चाशत् ।
ता एक शतम् ऋचो भवन्ति ।
शत आयुर् वै पुरुषः शत पर्वा शत वीर्यः शत इन्द्रियः ।
उप या एक शततमी स यजमान लोकः ।
तद् अत्र एव यजमानान्त् संस्कुर्वन्ति ।
तद् अत्र यजमानान्त् संस्कृत्य आदौ महा व्रतीयेन अह्ना प्रजनयन्ति इति पङ्गी सम्पत् ।

२५.८ विषुवत्कालः - कौषीतकिमतम्
अथ कौषीतकेः ।
समानम् ओक्थ्य मुखीयायै ( उक्थ्य मुखीय )।
ऋतुर् जनित्रीयम् त्रयोदशर्चम् उद्धृत बृहद् रथन्तरे ।
तस्य एव एकादश स्व योनौ ।
नव अन्यत्र ।
तद् रूपा मिनन् तद् अपा एक ईयत इत्य् एतेन रूपेण ।
आ इन्द्र याहि हरिभिर् इति पञ्चदश ।
सरूपैर् आ सु नो गहि इत्य् एतेन रूपेण ।
बरोर् एकादश शस्त्वा निविदम् दधाति ।
मध्य एकशतस्य एक पञ्चाशतम् शस्त्वा द्वे बरोर् अभ्युदैति ।
आ सत्यो यातु मघवान् ऋजीषी इत्य् एकविंशतिस् तास् त्रयोविशंतिः ।
विश्वजित इति षट् ता एकयान त्रिंशत् (?)।
दूरोहणीयाः सप्त ता षट्त्रिंशत् ।
अभूर् एको रयि पते रयीणाम् इति त्रैष्टुभम् पञ्चर्चम् दश प्रपित्वे अध सूर्यस्य इति सूर्यवत् ।
तद् एतस्य अह्नो रूपम् ।
ता एक चत्वारिंशत् ।
त्यम् ऊ षु वाजिनम् देव जूतम् इति तार्क्ष्यस् तिस्रः ।
सूर्य इव ज्योतिषा अपस् ततान इत्य् एतेन रूपेण ।
ताश् चतुश् चत्वारिंशत् ।
पतङ्गस् तिस्रस् ताः सप्त चत्वारिंशत् ।
उरुम् नो लोकम् अनु नेषि विद्वान् इति त्रिः शस्तया परिधानीयया ताः पञ्चाशत् ।
पूर्वा एक पञ्चाशत् ।
ता एकशतम् ऋचो भवन्ति तासाम् उक्तम् ब्राह्मणम् ।

२५.९ विषुवत्कालः - वैश्वदेवाग्निमारुतशस्त्रे
तत्सवितुर्वृणीमहेऽद्या नो देव सवितरिति नित्यैव वैश्वदेवस्य प्रतिपदनुचरश्च तयोरुक्तं ब्राह्मणं
युञ्जते मन उत युञ्जते धिय इति सावित्रम् उत सूर्यस्य रश्मिभिः समुच्यसि इति सूर्यवत् ।
तद् एतस्य अह्नो रूपम् ।
ते हि द्यावा पृथिवी विश्व शम्भुवा इति द्यावा पृथिवीयम् देवो देवी धर्मणा सूर्यः शुचित् इति सूर्यवत् ।
तद् एतस्य अह्नो रूपम् ।
किम् उ श्रेष्ठः किम् यविष्ठो न आजगन्न् इत्य् आर्भवम् ।
यद् आवाख्यच् चमसान् चतुरः कृतान् इत्य् अवाख्यद् इत्य् एतेन रूपेण ।
देवान् हुवे बृहत् श्रवसः स्वस्तय इति वैश्वदेवम् ये सूर्यस्य ज्योतिषो भागम् आनशुर् इति सूर्यवज् ज्योतिष्मत् ।
तद् एतस्य अह्नो रूपम् ।
वैश्वानराय धिषणाम् ऋता वृध इति वैश्वानरीयम् रुरुचानम् भानुना ज्योतिषा महाम् इति रुचितवद् भानुमज् ज्योतिष्मत् ।
तद् एतस्य अह्नो रूपम् ।
प्रयज्यवो मरुतो भ्राजद् ऋष्टय इति मारुतम् विरोकिणः सूर्यस्य इव रश्मय इति सूर्यवत् ।
तद् एतस्य अह्नो रूपम् ।
वेदिषदे प्रिय धामाय सुद्युत इति जात वेदसीयम् ।
ज्योती रथम् शुक्र वर्णम् तम् ओहनम् इत्य् एतेन रूपेण ।
इत्य् आग्निमारुत सूक्तानि ।
इत्य् एतस्य अह्नः सूक्तानि ।
तद् अग्निष्टोमः संतिष्ठते ।
ज्योतिर् वा अग्निष्टोमः ।
ज्योतिर् एष य एष तपति ।
ज्योतिष्य् एव तज् ज्योतिः प्रतिष्ठापयन्ति ।
ते अमृतत्वम् आप्नुवन्ति ये वैषुवतम् अहर् उपयन्ति ।

२५.१० विषुवत्कालः - प्रातरनुवाकः
पुरादित्यस्यास्तमयादेतदहः संस्थापयिषेयुः ।
सप्रातरनुवाकम् एतद् अहर् दिवा कीर्त्यम् भवति ।
सप्रातर् अनुवाकेन सपत्नी सम्याजेन एतेन अह्ना पुराद् इत्य् अस्यास् तम् अयात् समीप्सेयुः ।
अग्निम् मन्ये पितरम् अग्निम् आपिम् इत्य् एतया होता तद् अहः प्रातरनुवाकम् प्रतिपद्यते ।
आपिम् इत्य् आपो रेवत्यै रूपेण ।
दिवि शुक्रम् यजतम् सूर्यस्य इति सूर्यवती ।
तद् एतस्य अह्नो रूपम् ।
तद् उ ह स्म आह कौषीतकिः ।
प्रजापतिर् वै प्रातर् अनुवाकः ।
न तमस एतम् यथा यथम् एव तम् उपाकुर्युः ।
तत् तस्य समृद्धम् ।
तथा यथा यथम् उपांश्व् अन्तर्यामौ हूयेते ।
तद् उ तयोः समृद्धम् इति ।
वसिष्ठम् आप्री सूक्तम् सम् रश्मिभिस् ततनः सूर्यस्य इति सूर्यवत् ।
तद् एतस्य अह्नो रूपम् ।
शुक्र एतस्य अह्नः पिङ्ग अक्षो होता स्याद् इति ह एक आहुः ।
अमुम् वा एतेन अह्ना ईप्सन्ति यो असौ तपति ।
तद् यथा श्रेयांसम् आहरन्न् उपेयाद् एवम् तत् ।
यथा उपपादम् इति त्व् एव स्थितम् ।
शस्त्रेण एव एतस्य अह्नो रूपम् सम्पाद्यिषेयुः ।
सौर्यः पशुर् उपालम्भ्यः सवनीयस्य ।
स उपांशु भवति ।
स यस् तम् निर्ब्रूयात् ।
यस् तम् तत्र ब्रूयात् ।
दुश्चर्मा किलासी भविष्यति इति तथा ह स्यात् ।
ते वा एते चत्वार एव पशव उपांशु भवन्ति ।
सौर्यः सावित्रः प्राजापत्यो वाग् देवत्य इति ।
अथ अन्ये निरुक्ताः ।
अथ त्रीन्त् स्वर साम्न आवृत्तान् उपयन्ति तेषाम् उक्तम् ब्राह्मणम् ।

२५.११ विश्वजित्
त्रयोदशम् अधिचरम् मासम् आप्नुवन्ति यद् विश्वजितम् उपयन्ति ।
एतावान् वै संवत्सरो यद् एष त्रयोदशो मासः ।
तद् अत्र एव सर्वः संवत्सर आप्तो भवति ।
तम् आहुर् एकाहः षडह इति ।
यद्य् अन्वहम् षडहे क्रियते ।
एकाहे तद् विश्वजिति क्रियते ।
तद् वा इदम् बहु विश्व रूपम् विश्वजिति क्रियते ।
यत् सर्वाणि प्ष्ठानि सर्वे स्तोमा उच्च अवचाः समवधीयन्ते ।
वैराजम् एव अस्य प्रत्यक्षम् पृष्ठम् भवति ।
माध्यंदिने पवमाने रथन्तरम् ।
बृहत् तृतीये पवमाने क्रियते ।
शाक्वरम् मैत्रावरुणस्य ।
वैरूपम् ब्राह्मणाच्छंसिनः ।
रैवतम् अच्छावाकस्य ।
त एतम् त्रयोदशम् अधिचरम् मासम् आप्नुवन्ति ।
एतद्द् हि त्रयोदशम् ।
पृष्ठ्यान्य् उपयन्ति ।
तस्य अग्निम् नरो दीधितिभिर् अरण्योर् इति वैराजम् आज्यम् ।
वैराजम् पृष्ठम् तस्य उक्तम् ब्राह्मणम् ।
वासिष्ठम् आज्यम् ।
वासिष्ठम् पृष्ठम् तस्य उक्तम् ब्राह्मणम् ।
माधुच् छन्दसः प्रौगस् तस्य उक्तम् ब्राह्मणम् ।
कया शुभा सवयसः सनीडा इति मरुत्वतीयम् ।
कद्वत् कया शुभीयम् ।
को वै प्रजापतिर् विश्वजित् ।
याव् एव अमू वैराजस्य स्तोत्रिय अनुरूपौ त स्तोत्रिय अनुरूपौ ।
तयोस् तथा एव न्यूङ्खयति यथा अदश् चतुर्थे अहन् (यथादश् चतुर्थे ) ।
न हि वैराजम् तत् स्थानम् अन्यूङ्खनाय ।
तद् इद् आस भुवनेषु ज्येष्ठम् इति निष्केवल्यम् ।
यज्ञो वै भुवनेषु ज्येष्ठः ।
यज्ञ उ वै प्रजापतिर् विश्वजित् ।
अथ यत् षष्ठस्य अह्नस् तृतीय सवनम् तत् तृतीय सवनम् ।
प्राजापत्यम् वै षष्ठम् अहः ।
प्रजापतिर् विश्वजित् ।
ऐकाहिकी प्रतिपद् ।
एकाहो वै विश्वजित् ।
प्रतिष्ठा वा एकाहः प्रतिष्ठित्या एवाभिवाननुचरस्तस्योक्तं ब्राह्मणम् ।

२५.१२ विश्वजित्
तद् आहुर् अथ कस्माद् विश्वजिति सर्व पृष्ठ एकाहे तृतीय सवने शिल्पानि शस्यन्ते कस्माद् अग्निष्टोमे मध्यंदिन इति ।
ये वा इमे अवाञ्चः प्राणास् तानि शिल्पानि ।
पुरुषो वै यज्ञः ।
तस्य य ऊर्ध्वा प्राणास् तत् प्रातःसवनम् ।
आत्मा मध्यंदिनः ।
ये अवाञ्चस् तत् तृतीय सवनम् ताइ शिल्पानि ।
तस्मात् तृतीय सवने शिल्पानि शस्यन्ते ।
एतद्द् ह्य् एषाम् आयतनम् ।
अथ यद् अग्निष्टोमे सत्रिये सांवत्सरिके विश्वजिति सर्व पृष्ठे मध्यंदिने शिल्पानि शस्यन्ते ।
आत्मा वै पृष्ठानि ।
प्राणाः शिल्पानि ।
न वा अन्तरेण आत्मानम् प्राणाः ख्यायन्ते ।
न प्राणान् अन्तरेण आत्मा ।
नो एतन् नाना ।
तस्माद् अग्निष्टोम एव अपि मध्यंदिने शिल्पानि शस्यन्ते ।
न इत् प्राणेभ्य आत्मानम् अपादधानि इति ।
अथो प्रजापतिर् वै विश्वजित् ।
सर्वम् वै प्रजापतिर् विश्वजित् ।
तत् सर्वेण सर्वम् आप्नोति य एवम् वेद ।

२५.१३ विश्वजित्
तत्र अग्नि मारुते रौद्रीम् शस्त्वा होता एवया मरुतम् पङ्क्ति शंसम् शंसति (एवयामरुतम्?) ।
पाङ्क्तो वै यज्ञो यज्ञस्य एव अवाप्त्यै ।
न इद् अच्छावाकस्य शिल्पम् अन्तरयाम इति ।
अथो रुद्रो वै ज्येष्ठश् च श्रेष्ठश् च देवानाम् ।
अतिच्छन्दाश् छन्दसाम् ।
विश्वजिद् एकाहानाम् ।
तद् एनत् स्वेन छन्दसा समर्धयति ।
तस्य तिसृषु न्यूङ्खयति ।
न्यूङ्खयितुम् चेद् द्रियेत ।
सर्वास्व् एव न्यूङ्खयेत् ।
अन्नम् वै न्यूङ्खः ।
अन्नम् प्राणः ।
प्राणाः शिल्पानि ।
प्राण एव तत् प्राणान् दधाति ।
अथो विश्वजिता वै प्रजापतिः सर्वाः प्रजा अजनयत् सर्व उदजयत् ।
एतद् वा एष जायते विश्वजिता यो यजते ।
तस्मान् न्यूङ्खयति ।
न्यूङ्खमानक इव वै प्रथमम् चिचर्षंश् चरति ।
तद् एनम् अमृतात् छन्दसो अमृतत्वाय प्रजनयन्ति ।
ते अमृतत्वम् आप्नुवन्ति ये विश्वजितम् उपयन्ति ।

२५.१४ विश्वजित्
स सर्वस्तोमः सर्वपृष्ठोऽग्निष्टोमः संतिष्ठते ।
यः सत्रियः सांवत्सरिको विश्वजित् ।
प्रतिष्ठा वा अग्निष्टोमः प्रतिष्ठित्या एव ।
एकाह उ चेद् विश्वजिद् रात्रि सत्रस्य वा विषुवान् अतिरात्र एव स्यात् ।
स कृत्स्नो विश्वजिद् यो अतिरात्रः ।
अर्धम् वै विश्वजितो अह्ना क्रियते ।
अर्धम् रात्र्या ।
सर्व पराजिद् उ ह एव स यो अन्यत्र सर्व वेदसाद् वा सत्राद् वा क्रियते ।
सर्व ज्यानिर् ह एव सा ।
यो अन्यत्र विश्वजितः सर्वम् ददाति ।
विश्वजिच् चेत् सर्वम् एव ।
सर्वम् उ चेद् विश्वजिद् एव ।
यो ह वै न सर्वम् ददामि इति ब्रुवन् ।
कर्तपत्यम् एव तज् जीयते प्र वा मीयते इति ह स्म आह ।
सहस्रम् वा एनम् अवरुन्ध इति ह स्म आह कौषीतकिः ।
सर्वम् वै तद् यत् सहस्रम् ।
सर्वम् विश्वजित् ।
तत् सर्वेण सर्वम् आप्नोति य एवम् वेद ।

२५.१५ विश्वजित् - होत्रकमन्त्राः
वत्सछवीं परिदधीत ।
रिरिचान इव वा एतस्य आत्मा भवति यः सर्वम् ददाति ।
वत्सम् वै पशवो वाञ्छन्ति ।
पुनर् मा पशवो वाञ्छन्त्व् इति ।
उदुम्बरे वसेत् ।
ऊर्ग् वा अन्नाद्यम् उदुम्बरः ।
ऊर्जो अन्न अद्यस्य उपाप्त्यै ।
नैषादे वसेत् ।
एतद् वा अवर अर्ध्यम् अन्नाद्यम् नन् नैषादः ।
अवर अर्ध्यस्य अन्न अद्यस्य उपाप्त्यै ।
वैश्ये वसेत् ।
वैश्यो वै पुष्यति इव ।
यद् वैश्ये अन्नाद्यम् तस्य उपाप्त्यै ।
क्षत्रिये वसेत् ।
एतद् वै पर अर्ध्यम् अन्नाद्यम् यत् क्षत्रियः ।
पर अर्ध्यस्य अन्न अद्यस्य उपाप्त्यै ।
ब्राह्मणे समान् गोत्रे वसेत् ।
यत् समाने गोत्रे अन्नाद्यम् तस्य उपाप्त्यै ।
संवत्सरम् चरेद् अधः संवेश्य फाल कृष्टाश्य प्रतिगृह्णन् न अन्नम् याचन्न् इदम् तत् तद् अनुवसानः ( फाल कृष्टाश्यप्रति?) ।
तत् तेन अनुवस्ते ।
द्वादश रात्रम् चरित्वा अथ (?) अन्यस्यै बुभूषायै स्याद् इति ह स्म आह कौषीतकिः ।
द्वादश वै मासाः संवत्सरः ।
सा संवत्सरस्य प्रतिमा इति ।
प्राजापत्यान्य् अनिरुक्तानि होत्राणाम् आज्यानि भवन्ति ।
तस्य ता नः शक्तम् पार्थिवस्य युञ्जन्ति ब्रध्नम् अरुषम् ता हि शश्वन्त ईडते तम् ईडिष्व यो अर्चिषा इति वा स्तोत्रियाः ।
ये षष्ठस्य अह्नः स्तोत्रियास् ते विश्वजितो अनुरूपाः ।
प्राजापत्यम् वै षष्ठम् अहः ।
प्रजापतिर् विश्वजित् ।
इतरे पञ्च तद् उक्थम् ।
पर्यासैः परिदधति ।
प्रतिष्ठा वै पर्यासाः ।
प्रतिष्ठित्या एव प्रतिष्ठ्त्या एव ।