ऋग्वेदः सूक्तं ८.१०१

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ८.१०० ऋग्वेदः - मण्डल ८
सूक्तं ८.१०१
जमदग्निर्भार्गवः।
सूक्तं ८.१०२ →
दे. मित्रावरुणौ, ५ मित्रावरुणादित्याः, ६ आदित्याः, ७-८ अश्विनौ, ९-१० वायुः, ११-१२ सूर्यः, १३ उषाः सूर्यप्रभा वा, १४ पवमानः, १५-१६ गौः । १-२ प्रगाथः ( ), ३ गायत्री, ४ सतोबृहती, ५-१३ प्रगाथः ( ) , १४-१६ त्रिष्टुप् ।


ऋधगित्था स मर्त्यः शशमे देवतातये ।
यो नूनं मित्रावरुणावभिष्टय आचक्रे हव्यदातये ॥१॥
वर्षिष्ठक्षत्रा उरुचक्षसा नरा राजाना दीर्घश्रुत्तमा ।
ता बाहुता न दंसना रथर्यतः साकं सूर्यस्य रश्मिभिः ॥२॥
प्र यो वां मित्रावरुणाजिरो दूतो अद्रवत् ।
अयःशीर्षा मदेरघुः ॥३॥
न यः सम्पृच्छे न पुनर्हवीतवे न संवादाय रमते ।
तस्मान्नो अद्य समृतेरुरुष्यतं बाहुभ्यां न उरुष्यतम् ॥४॥
प्र मित्राय प्रार्यम्णे सचथ्यमृतावसो ।
वरूथ्यं वरुणे छन्द्यं वच स्तोत्रं राजसु गायत ॥५॥
ते हिन्विरे अरुणं जेन्यं वस्वेकं पुत्रं तिसॄणाम् ।
ते धामान्यमृता मर्त्यानामदब्धा अभि चक्षते ॥६॥
आ मे वचांस्युद्यता द्युमत्तमानि कर्त्वा ।
उभा यातं नासत्या सजोषसा प्रति हव्यानि वीतये ॥७॥
रातिं यद्वामरक्षसं हवामहे युवाभ्यां वाजिनीवसू ।
प्राचीं होत्रां प्रतिरन्तावितं नरा गृणाना जमदग्निना ॥८॥
आ नो यज्ञं दिविस्पृशं वायो याहि सुमन्मभिः ।
अन्तः पवित्र उपरि श्रीणानोऽयं शुक्रो अयामि ते ॥९॥
वेत्यध्वर्युः पथिभी रजिष्ठैः प्रति हव्यानि वीतये ।
अधा नियुत्व उभयस्य नः पिब शुचिं सोमं गवाशिरम् ॥१०॥
बण्महाँ असि सूर्य बळादित्य महाँ असि ।
महस्ते सतो महिमा पनस्यतेऽद्धा देव महाँ असि ॥११॥
बट् सूर्य श्रवसा महाँ असि सत्रा देव महाँ असि ।
मह्ना देवानामसुर्यः पुरोहितो विभु ज्योतिरदाभ्यम् ॥१२॥
इयं या नीच्यर्किणी रूपा रोहिण्या कृता ।
चित्रेव प्रत्यदर्श्यायत्यन्तर्दशसु बाहुषु ॥१३॥
प्रजा ह तिस्रो अत्यायमीयुर्न्यन्या अर्कमभितो विविश्रे ।
बृहद्ध तस्थौ भुवनेष्वन्तः पवमानो हरित आ विवेश ॥१४॥
माता रुद्राणां दुहिता वसूनां स्वसादित्यानाममृतस्य नाभिः ।
प्र नु वोचं चिकितुषे जनाय मा गामनागामदितिं वधिष्ट ॥१५॥
वचोविदं वाचमुदीरयन्तीं विश्वाभिर्धीभिरुपतिष्ठमानाम् ।
देवीं देवेभ्यः पर्येयुषीं गामा मावृक्त मर्त्यो दभ्रचेताः ॥१६॥


सायणभाष्यम्

‘ऋधक्' इति षोडशर्चमष्टमं सूक्तम् । अत्रानुक्रम्यते - ‘ ऋधक् षोडश जमदग्निर्भार्गवो मैत्रावरुणं प्रागाथं त्रित्रिष्टुबन्तं तृतीयादि गायत्री सतोबृहती स्तोत्रं राजस्वृक्सपादादित्याश्विन्यौ वायव्ये सौर्यौ बृहत्युषस्या सूर्यप्रभास्तुतिर्वा पवमानी गव्ये ' इति । भृगुगोत्रो जमदग्निर्ऋषिः । चतुर्दश्याद्यास्तिस्रस्त्रिष्टुभः । त्रयोदशी बृहती शिष्टानामयुजो बृहत्यो युजः सतोबृहत्यः । तृतीया गायत्री। ‘ स्तोत्रं राजसु गायत' इति पादेन सहिता ते हिन्विरे' इत्यादित्यदेवताका । ‘ आ मे वचांसि ' इति द्वे अश्विदेवताके । ‘आ नो यज्ञं दिविस्पृशम्' इति द्वे वायुदेवत्ये। ‘ बण्महाँ असि सूर्य' इति द्वे सूर्यदेवताके । इयं या नीची' इत्येषा उषोदेवत्या । यद्वा । सूर्यप्रभानया स्तूयते । अतः सैव देवता । ‘प्रजा ह तिस्रः' इत्येषा पवमानदेवताका । ‘ माता रुद्राणाम्' इति द्वे गोदेवत्ये । शिष्टाः पञ्चर्चो मैत्रावरुण्यः । सूक्तविनियोगो लैङ्गिकः । संग्रामार्थं राज्ञः संनहने ‘प्र यो वां मित्रावरुणा' इति द्वे राजानं वाचयेत् । सूत्रितं च -- ‘ अभीवर्तं वाचयति प्र यो वां मित्रावरुणेति च द्वे' ( आश्व. गृ. ३. १२. १२) इति । पृष्ठ्यस्य पञ्चमेऽहनि प्रउगे वायव्यतृचस्य ‘आ नो यज्ञम्' इत्यादिके द्वे ऋचावाद्ये । सूत्रितं च - ‘आ नो यज्ञं दिविस्पृशमिति द्वे आ नो वायो महे तन इत्येका' (आश्व. श्रौ. ७. १२ ) इति । आश्विनं शंसिष्यन् होता ‘बण्महाँ असि सूर्य' इति द्वाभ्यामग्निं जुहुयात् । सूत्रितं च -- बण्महाँ असि सूर्येति द्वाभ्यामिन्द्रं वो विश्वतस्परीति च (आश्व. श्रौ. ६. ५) इति । माध्यंदिनसवने सोमातिरेक एकं शस्त्रमुपजायते । तत्र ‘बण्महाँ असि’ इति प्रगाथः स्तोत्रियः । सूत्रितं च - बण्महाँ असि सूर्योदु त्यद्दर्शतं वपुरिति प्रगाथौ स्तोत्रियानुरूपौ' ( आश्व. श्रौ. ६. ७ ) इति । अयमेव प्रगाथश्चातुर्विशिकेऽहनि माध्यंदिने ब्राह्मणाच्छंसिनो वैकल्पिकोऽनुरूपः । सूत्रितं च --- श्रायन्तइव सूर्यं बण्महाँ असि सूर्य' ( आश्व. श्रौ. ७. ४ ) इति । मधुपर्के गामुत्सृज्य ‘ माता रुद्राणाम्' इति जपेत् । सूत्रितं च - ‘ माता रुद्राणां दुहिता वसूनामिति जपित्वोमुत्सृजतेत्युत्स्रक्ष्यन्' ( आश्व. गृ. १. २४. २५ ) इति ॥


ऋध॑गि॒त्था स मर्त्य॑ः शश॒मे दे॒वता॑तये ।

यो नू॒नं मि॒त्रावरु॑णाव॒भिष्ट॑य आच॒क्रे ह॒व्यदा॑तये ॥१

ऋध॑क् । इ॒त्था । सः । मर्त्यः॑ । श॒श॒मे । दे॒वऽता॑तये ।

यः । नू॒नम् । मि॒त्रावरु॑णौ । अ॒भिष्ट॑ये । आ॒ऽच॒क्रे । ह॒व्यऽदा॑तये ॥१

ऋधक् । इत्था । सः । मर्त्यः । शशमे । देवऽतातये ।

यः । नूनम् । मित्रावरुणौ । अभिष्टये । आऽचक्रे । हव्यऽदातये ॥१

"यः मनुष्यः "नूनं क्षिप्रं "हव्यदातये हविषां प्रदात्रे यजमानाय “मित्रावरुणौ “अभिष्टये अभिमतसिद्धयर्थम् "आचक्रे अभिमुखौ करोति "सः "मर्त्यः मनुष्यः “ऋधक् सत्यम् "इत्था इत्थं “देवतातये यज्ञार्थं "शशमे हविः संस्करोति ॥


वर्षि॑ष्ठक्षत्रा उरु॒चक्ष॑सा॒ नरा॒ राजा॑ना दीर्घ॒श्रुत्त॑मा ।

ता बा॒हुता॒ न दं॒सना॑ रथर्यतः सा॒कं सूर्य॑स्य र॒श्मिभि॑ः ॥२

वर्षि॑ष्ठऽक्षत्रौ । उ॒रु॒ऽचक्ष॑सा । नरा॑ । राजा॑ना । दी॒र्घ॒श्रुत्ऽत॑मा ।

ता । बा॒हुता॑ । न । दं॒सना॑ । र॒थ॒र्य॒तः॒ । सा॒कम् । सूर्य॑स्य । र॒श्मिऽभिः॑ ॥२

वर्षिष्ठऽक्षत्रौ । उरुऽचक्षसा । नरा । राजाना । दीर्घश्रुत्ऽतमा ।

ता । बाहुता । न । दंसना । रथर्यतः । साकम् । सूर्यस्य । रश्मिऽभिः ॥२

"वर्षिष्ठक्षत्रौ अतिशयेन वृद्धबलौ “उरुचक्षसा महादर्शनौ "नरा नेतारौ कर्मणां "राजाना दीप्यमानौ "दीर्घश्रुत्तमा अतिशयेन विद्वांसौ “ता तौ मित्रावरुणौ "बाहुता “न भुजाविव "सूर्यस्य “रश्मिभिः किरणैः "साकं सह "दंसना दंसनानि कर्माणि। ‘अप्नः' दंसः ' इति कर्मनाममु पाठात् । “रथर्यतः प्राप्नुतः । यथा बाहू सह कर्म प्राप्नुतः तथा मित्रावरुणौ सह यज्ञं प्राप्नुत इत्यर्थः ॥


प्र यो वां॑ मित्रावरुणाजि॒रो दू॒तो अद्र॑वत् ।

अय॑ःशीर्षा॒ मदे॑रघुः ॥३

प्र । यः । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । अ॒जि॒रः । दू॒तः । अद्र॑वत् ।

अयः॑ऽशीर्षा । मदे॑ऽरघुः ॥३

प्र । यः । वाम् । मित्रावरुणा । अजिरः । दूतः । अद्रवत् ।

अयःऽशीर्षा । मदेऽरघुः ॥३

हे मित्रावरुणौ "वां युवाम् "अजिरः गमनशीलः "यः यजमानः "प्र “अद्रवत् अभिगच्छति स देवानां “दूतः भवति । "अयःशीर्षा हिरण्यालंकृतशिरस्कश्च भवति । “मदेरघुः मदकरे धने गन्ता च भवति ॥


न यः स॒म्पृच्छे॒ न पुन॒र्हवी॑तवे॒ न सं॑वा॒दाय॒ रम॑ते ।

तस्मा॑न्नो अ॒द्य समृ॑तेरुरुष्यतं बा॒हुभ्यां॑ न उरुष्यतम् ॥४

न । यः । स॒म्ऽपृच्छे॑ । न । पुनः॑ । हवी॑तवे । न । स॒म्ऽवा॒दाय॑ । रम॑ते ।

तस्मा॑त् । नः॒ । अ॒द्य । सम्ऽऋ॑तेः । उ॒रु॒ष्य॒त॒म् । बा॒हुऽभ्या॑म् । नः॒ । उ॒रु॒ष्य॒त॒म् ॥४

न । यः । सम्ऽपृच्छे । न । पुनः । हवीतवे । न । सम्ऽवादाय । रमते ।

तस्मात् । नः । अद्य । सम्ऽऋतेः । उरुष्यतम् । बाहुऽभ्याम् । नः । उरुष्यतम् ॥४

“यः शत्रुः "संपृच्छे संप्रश्नाय “न "रमते न क्रीडते न च पुनःपुनः “हवीतवे हवनाय रमते “न च "संवादाय रमते "तस्मात् शत्रोः "समृतेः संग्रामात् "नः अस्मान् "अद्य "उरुष्यतं हे मित्रावरुणौ युवां रक्षतम् । किंच तस्य शत्रोः "बाहुभ्यां "नः अस्मान् “उरुष्यतं रक्षतम् ॥


प्र मि॒त्राय॒ प्रार्य॒म्णे स॑च॒थ्य॑मृतावसो ।

व॒रू॒थ्यं१॒॑ वरु॑णे॒ छन्द्यं॒ वच॑ः स्तो॒त्रं राज॑सु गायत ॥५

प्र । मि॒त्राय॑ । प्र । अ॒र्य॒म्णे । स॒च॒थ्य॑म् । ऋ॒त॒व॒सो॒ इत्यृ॑तऽवसो ।

व॒रू॒थ्य॑म् । वरु॑णे । छन्द्य॑म् । वचः॑ । स्तो॒त्रम् । राज॑ऽसु । गा॒य॒त॒ ॥५

प्र । मित्राय । प्र । अर्यम्णे । सचथ्यम् । ऋतवसो इत्यृतऽवसो ।

वरूथ्यम् । वरुणे । छन्द्यम् । वचः । स्तोत्रम् । राजऽसु । गायत ॥५

हे “ऋतवसो यज्ञधन "मित्राय "सचथ्यं सेवार्हं "वरूथ्यं यज्ञगृहे भवं च स्तोत्रं "प्र "गायत प्रकर्षेण गायत। “अर्यम्णे च “प्र गायत। "वरुणे “छन्द्यं प्रीणनसाधनं चैतादृशं "वचः प्र गायत । प्रगायतेति बहुवचनं पूजार्थम् । एतदेव दर्शयति । "राजसु मित्रादिषु राजसु "स्तोत्रं गायत पठत । मित्रादींस्त्रीन्राज्ञः स्तुतेति समुदायार्थः ॥ ॥ ६ ॥


ते हि॑न्विरे अरु॒णं जेन्यं॒ वस्वेकं॑ पु॒त्रं ति॑सॄ॒णाम् ।

ते धामा॑न्य॒मृता॒ मर्त्या॑ना॒मद॑ब्धा अ॒भि च॑क्षते ॥६

ते । हि॒न्वि॒रे॒ । अ॒रु॒णम् । जेन्य॑म् । वसु॑ । एक॑म् । पु॒त्रम् । ति॒सॄ॒णाम् ।

ते । धामा॑नि । अ॒मृताः॑ । मर्त्या॑नाम् । अद॑ब्धाः । अ॒भि । च॒क्ष॒ते॒ ॥६

ते । हिन्विरे । अरुणम् । जेन्यम् । वसु । एकम् । पुत्रम् । तिसॄणाम् ।

ते । धामानि । अमृताः । मर्त्यानाम् । अदब्धाः । अभि । चक्षते ॥६

“अरुणम् अरुणवर्णं "जेन्यं जयसाधनं "वसु वासकं "तिसॄणां पृथिव्यादीनाम् "एकं "पुत्रं “ते देवाः “हिन्विरे प्रेरयन्ति त्रैलोक्यस्य तमोनिवारणाय । किंच “अदब्धाः केनाप्यहिँसिताः “अमृताः मरणरहिताः "ते देवाः "मर्त्यानां मनुष्याणां “धामानि स्थानानि “अभि "चक्षते अभिपश्यन्ति ॥


आ मे॒ वचां॒स्युद्य॑ता द्यु॒मत्त॑मानि॒ कर्त्वा॑ ।

उ॒भा या॑तं नासत्या स॒जोष॑सा॒ प्रति॑ ह॒व्यानि॑ वी॒तये॑ ॥७

आ । मे॒ । वचां॑सि । उत्ऽय॑ता । द्यु॒मत्ऽत॑मानि । कर्त्वा॑ ।

उ॒भा । या॒त॒म् । ना॒स॒त्या॒ । स॒ऽजोष॑सा । प्रति॑ । ह॒व्यानि॑ । वी॒तये॑ ॥७

आ । मे । वचांसि । उत्ऽयता । द्युमत्ऽतमानि । कर्त्वा ।

उभा । यातम् । नासत्या । सऽजोषसा । प्रति । हव्यानि । वीतये ॥७

हे "नासत्या नासत्यौ सत्यस्य प्रणेतारौ “सजोषसा संगतौ "उभा उभौ युवां "मे जमदग्नेर्मम “उद्यता उद्यतानि “द्युमत्तमानि दीप्ततमानि “वचांसि स्तोत्ररूपाणि वाक्यानि "कर्त्वा कर्माणि च “आ “यातम् । किंच "हव्यानि हवींषि "वीतये भक्षणाय "प्रति गच्छतम् ॥


रा॒तिं यद्वा॑मर॒क्षसं॒ हवा॑महे यु॒वाभ्यां॑ वाजिनीवसू ।

प्राचीं॒ होत्रां॑ प्रति॒रन्ता॑वितं नरा गृणा॒ना ज॒मद॑ग्निना ॥८

रा॒तिम् । यत् । वा॒म् । अ॒र॒क्षस॑म् । हवा॑महे । यु॒वाभ्या॑म् । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू ।

प्राची॑म् । होत्रा॑म् । प्र॒ऽति॒रन्तौ॑ । इ॒त॒म् । न॒रा॒ । गृ॒णा॒ना । ज॒मत्ऽअ॑ग्निना ॥८

रातिम् । यत् । वाम् । अरक्षसम् । हवामहे । युवाभ्याम् । वाजिनीवसू इति वाजिनीऽवसू ।

प्राचीम् । होत्राम् । प्रऽतिरन्तौ । इतम् । नरा । गृणाना । जमत्ऽअग्निना ॥८

हे "वाजिनीवसू अन्नधनावश्विनौ "वां युवयोः संबन्धि "यत् "अरक्षसं रक्षोवर्जितं दानमस्ति तत् यदा "हवामहे । एतदेव विशदयति । "युवाभ्यां क्रियमाणां "रातिं दानं हवामहे इति । तदानीं "प्राचीं प्राङ्मुखां “होत्रां स्तुतिं "प्रतिरन्तौ वर्धयन्तौ "नरा नेतारौ "जमदग्निना ऋषिणा गृणानौ स्तूयमानौ च सन्तौ "इतम् आगच्छतम् ॥


आ नो॑ य॒ज्ञं दि॑वि॒स्पृशं॒ वायो॑ या॒हि सु॒मन्म॑भिः ।

अ॒न्तः प॒वित्र॑ उ॒परि॑ श्रीणा॒नो॒३॒॑ऽयं शु॒क्रो अ॑यामि ते ॥९

आ । नः॒ । य॒ज्ञम् । दि॒वि॒ऽस्पृश॑म् । वायो॒ इति॑ । या॒हि । सु॒मन्म॑ऽभिः ।

अ॒न्तरिति॑ । प॒वित्रे॑ । उ॒परि॑ । श्री॒णा॒नः । अ॒यम् । शु॒क्रः । अ॒या॒मि॒ । ते॒ ॥९

आ । नः । यज्ञम् । दिविऽस्पृशम् । वायो इति । याहि । सुमन्मऽभिः ।

अन्तरिति । पवित्रे । उपरि । श्रीणानः । अयम् । शुक्रः । अयामि । ते ॥९

हे "वायो त्वं “नः अस्माकं "दिविस्पृशं तं "यज्ञम् "आ "याहि । किमर्थमागमनमित्यत्राह । “सुमन्मभिः सुष्टुतिभिः “अन्तः "पवित्रे पवित्रस्य मध्ये “उपरि “श्रीणानः श्रयमाणो निषिच्यमानः “अयं “शुक्रः सोमः "ते तुभ्यम् "अयामि नियत आसीदिति ॥


वेत्य॑ध्व॒र्युः प॒थिभी॒ रजि॑ष्ठै॒ः प्रति॑ ह॒व्यानि॑ वी॒तये॑ ।

अधा॑ नियुत्व उ॒भय॑स्य नः पिब॒ शुचिं॒ सोमं॒ गवा॑शिरम् ॥१०

वेति॑ । अ॒ध्व॒र्युः । प॒थिऽभिः॑ । रजि॑ष्ठैः । प्रति॑ । ह॒व्यानि॑ । वी॒तये॑ ।

अध॑ । नि॒यु॒त्वः॒ । उ॒भय॑स्य । नः॒ । पि॒ब॒ । शुचि॑म् । सोम॑म् । गोऽआ॑शिरम् ॥१०

वेति । अध्वर्युः । पथिऽभिः । रजिष्ठैः । प्रति । हव्यानि । वीतये ।

अध । नियुत्वः । उभयस्य । नः । पिब । शुचिम् । सोमम् । गोऽआशिरम् ॥१०

हे "नियुत्वः नियुत्संज्ञकाश्ववन् वायो "अध्वर्युः हविर्धानात् "रजिष्ठैः ऋजुतमैः "पथिभिः मार्गैः “वेति गच्छति । "वीतये भक्षणाय तव भक्षणानि “हव्यानि हवींषि च "प्रति नयतीति शेषः । "अध अथ “नः अस्माकं संबन्धिनम् “उभयस्य उभयविधं सोमम् । कर्मणि षष्ठी। “पिब । उभयविधत्वं दर्शयति । “शुचिं शुद्धं "सोमं "गवाशिरं गव्येन पयसा मिश्रितं चेति ॥ ॥ ७ ॥


बण्म॒हाँ अ॑सि सूर्य॒ बळा॑दित्य म॒हाँ अ॑सि ।

म॒हस्ते॑ स॒तो म॑हि॒मा प॑नस्यते॒ऽद्धा दे॑व म॒हाँ अ॑सि ॥११

बट् । म॒हान् । अ॒सि॒ । सू॒र्य॒ । बट् । आ॒दि॒त्य॒ । म॒हान् । अ॒सि॒ ।

म॒हः । ते॒ । स॒तः । म॒हि॒मा । प॒न॒स्य॒ते॒ । अ॒द्धा । दे॒व॒ । म॒हान् । अ॒सि॒ ॥११

बट् । महान् । असि । सूर्य । बट् । आदित्य । महान् । असि ।

महः । ते । सतः । महिमा । पनस्यते । अद्धा । देव । महान् । असि ॥११

हे "सूर्य त्वं "महान् तेजसाधिकः "असि । “बट् सत्यम्। नैतन्मिथ्येत्यर्थः। हे "आदित्य अदितेः पुत्र त्वं “महान् बलेनाप्यधिकः “असि । “बट् सत्यम् । "महः महतः "सतः भवतः “ते “महिमा महत्त्वं "पनस्यते स्तोतृभिः स्तूयते । हे "देव द्योतनादिगुणयुक्त सूर्य त्वं "महान् वीर्येणाप्यधिकः "असि भवसि । “अद्धा सत्यमेव । अत्र न संशय इत्यर्थः । ‘ बट् सत्रा अद्धा ' इति सत्यनामसु पाठात् ॥


बट् सू॑र्य॒ श्रव॑सा म॒हाँ अ॑सि स॒त्रा दे॑व म॒हाँ अ॑सि ।

म॒ह्ना दे॒वाना॑मसु॒र्य॑ः पु॒रोहि॑तो वि॒भु ज्योति॒रदा॑भ्यम् ॥१२

बट् । सू॒र्य॒ । श्रव॑सा । म॒हान् । अ॒सि॒ । स॒त्रा । दे॒व॒ । म॒हान् । अ॒सि॒ ।

म॒ह्ना । दे॒वाना॑म् । अ॒सु॒र्यः॑ । पु॒रःऽहि॑तः । वि॒ऽभु । ज्योतिः॑ । अदा॑भ्यम् ॥१२

बट् । सूर्य । श्रवसा । महान् । असि । सत्रा । देव । महान् । असि ।

मह्ना । देवानाम् । असुर्यः । पुरःऽहितः । विऽभु । ज्योतिः । अदाभ्यम् ॥१२

हे "सूर्य त्वं “श्रवसा श्रवणेन "महान् सर्वाधिकः असि “बट् सत्यम् । हे "देव द्योतमान सूर्य त्वं "देवानां मध्ये "मह्ना महत्त्वेन "महान् अधिकः "असि "सत्रा सत्यमेव । "असुर्यः असुराणां हन्ता चासि । किंच त्वं देवानां “पुरोहितः हितोपदेष्टासि। किंच ते "ज्योतिः तेजः "विभु महत् “अदाभ्यं केनाप्यहिंस्यं च ॥


इ॒यं या नीच्य॒र्किणी॑ रू॒पा रोहि॑ण्या कृ॒ता ।

चि॒त्रेव॒ प्रत्य॑दर्श्याय॒त्य१॒॑न्तर्द॒शसु॑ बा॒हुषु॑ ॥१३

इ॒यम् । या । नीची॑ । अ॒र्किणी॑ । रू॒पा । रोहि॑ण्या । कृ॒ता ।

चि॒त्राऽइ॑व । प्रति॑ । अ॒द॒र्शि॒ । आ॒ऽय॒ती । अ॒न्तः । द॒शऽसु॑ । बा॒हुषु॑ ॥१३

इयम् । या । नीची । अर्किणी । रूपा । रोहिण्या । कृता ।

चित्राऽइव । प्रति । अदर्शि । आऽयती । अन्तः । दशऽसु । बाहुषु ॥१३

अस्यामृचि उषसः स्तुतिः सूर्यप्रभाया वा । "या “इयं "नीची अवाङ्मुखी "अर्किणी स्तुतिमती "रूपा रूपवती "रोहिण्या प्रकाशयुक्ता "कृता उषाः सूर्यप्रभा वोत्पादिता सा "अन्तः ब्रह्माण्डस्य मध्ये "बाहुषु बाहुस्थानीयासु "दशसु दशसंख्याकासु दिक्षु "आयती आगच्छन्ती “चित्रेव चित्रा गौरिव “प्रत्यदर्शि सर्वैरदृश्यत ॥


प्र॒जा ह॑ ति॒स्रो अ॒त्याय॑मीयु॒र्न्य१॒॑न्या अ॒र्कम॒भितो॑ विविश्रे ।

बृ॒हद्ध॑ तस्थौ॒ भुव॑नेष्व॒न्तः पव॑मानो ह॒रित॒ आ वि॑वेश ॥१४

प्र॒ऽजाः । ह॒ । ति॒स्रः । अ॒ति॒ऽआय॑म् । ई॒युः॒ । नि । अ॒न्याः । अ॒र्कम् । अ॒भितः॑ । वि॒वि॒श्रे॒ ।

बृ॒हत् । ह॒ । त॒स्थौ॒ । भुव॑नेषु । अ॒न्तरिति॑ । पव॑मानः । ह॒रितः॑ । आ । वि॒वे॒श॒ ॥१४

प्रऽजाः । ह । तिस्रः । अतिऽआयम् । ईयुः । नि । अन्याः । अर्कम् । अभितः । विविश्रे ।

बृहत् । ह । तस्थौ । भुवनेषु । अन्तरिति । पवमानः । हरितः । आ । विवेश ॥१४

याः "तिस्रः "प्रजाः "अत्यायमीयुः अत्यायमायन् "अन्याः ता इमाः प्रजाः "अर्कम् अर्चनीयमग्निम् "अभितो "विविश्रे अभितो निविष्टास्ततो न पराबभूवुः । "भुवनेष्वन्तः मध्ये "बृहत् महान् असावादित्यः । प्रजापतिरित्येके । “तस्थौ प्रकाशयन्नतिष्ठत् । "हरितः दिशः "पवमानः वायुः “आ “विवेश आविष्टः । तथा चैतरेयब्राह्मणं - ‘प्रजा ह तिस्रो अत्यायमीयुरिति या वै ता इमाः प्रजास्तिस्रो अत्यायमायंस्तानीमानि वयांसि वङ्गावगधाश्चेरपादाः । न्यन्या अर्कमभितो विविश्र इति ता इमाः प्रजा अर्कमभितो निविष्टा इममेवाग्निं बृहद्ध तस्थौ भुवनेष्वन्तरित्यद उ एव बृहद्भुवनेष्वन्तरसावादित्यः पवमानो हरित आ विवेशेति वायुरेव पवमानो दिशो हरित आविष्टः ' (ऐ. आ. २. १. १) इति । वाजसनेयिनोऽप्यामनन्ति - ‘ स तपोऽतप्यत स प्रजा असृजत ता अस्य प्रजाः सृष्टाः पराबभूवुस्तानीमानि वयांसि ' इत्युपक्रम्य ‘ प्रजा ह तिस्रो अत्यायमीयुरिति या अमूः प्रजा अत्यायन् न्यन्या अर्कमभितो विविश्र इत्यग्निर्वा अर्कस्तमिमाः प्रजा अभितो निविष्टास्ता इमाः पराभूताः । बृहद्ध तस्थौ भुवनेष्वन्तरिति प्रजापतिमेवैतदभ्यनुक्तं पवमानो हरित आ विवेशेति दिशो वै हरितस्ता अयं पवमान आविष्टः ' (श. ब्रा. २. ५. १. १-५) इति ॥


मा॒ता रु॒द्राणां॑ दुहि॒ता वसू॑नां॒ स्वसा॑दि॒त्याना॑म॒मृत॑स्य॒ नाभि॑ः ।

प्र नु वो॑चं चिकि॒तुषे॒ जना॑य॒ मा गामना॑गा॒मदि॑तिं वधिष्ट ॥१५

मा॒ता । रु॒द्राणा॑म् । दु॒हि॒ता । वसू॑नाम् । स्वसा॑ । आ॒दि॒त्याना॑म् । अ॒मृत॑स्य । नाभिः॑ ।

प्र । नु । वो॒च॒म् । चि॒कि॒तुषे॑ । जना॑य । मा । गाम् । अना॑गाम् । अदि॑तिम् । व॒धि॒ष्ट॒ ॥१५

माता । रुद्राणाम् । दुहिता । वसूनाम् । स्वसा । आदित्यानाम् । अमृतस्य । नाभिः ।

प्र । नु । वोचम् । चिकितुषे । जनाय । मा । गाम् । अनागाम् । अदितिम् । वधिष्ट ॥१५

अस्मिन् द्वृचे गौः स्तूयते । या गौः "रुद्राणां मरुतां "माता जननी "वसूनां “दुहिता पुत्री “आदित्यानां "स्वसा भगिनी "अमृतस्य पयसः "नाभिः आवासस्थानं ताम् "अनागाम् अनागसम् “अदितिम् अदीनां “गां गोरूपां देवीं “मा "वधिष्ट हे जनाः मा हिंसिष्टेति "चिकितुषे चेतनावते “जनाय “नु इदानीं “प्र “वोचम् अहं प्रावोचमिति शुश्रूषमाणेभ्य उपदेशः ॥


व॒चो॒विदं॒ वाच॑मुदी॒रय॑न्तीं॒ विश्वा॑भिर्धी॒भिरु॑प॒तिष्ठ॑मानाम् ।

दे॒वीं दे॒वेभ्य॒ः पर्ये॒युषीं॒ गामा मा॑वृक्त॒ मर्त्यो॑ द॒भ्रचे॑ताः ॥१६

व॒चः॒ऽविद॑म् । वाच॑म् । उ॒त्ऽई॒रय॑न्तीम् । विश्वा॑भिः । धी॒भिः । उ॒प॒ऽतिष्ठ॑मानाम् ।

दे॒वीम् । दे॒वेभ्यः॑ । परि॑ । आ॒ऽई॒युषी॑म् । गाम् । आ । मा॒ । अ॒वृ॒क्त॒ । मर्त्यः॑ । द॒भ्रऽचे॑ताः ॥१६

वचःऽविदम् । वाचम् । उत्ऽईरयन्तीम् । विश्वाभिः । धीभिः । उपऽतिष्ठमानाम् ।

देवीम् । देवेभ्यः । परि । आऽईयुषीम् । गाम् । आ । मा । अवृक्त । मर्त्यः । दभ्रऽचेताः ॥१६

“वचोविदं वचसो लम्भयित्रीं "वाचम् "उदीरयन्तीं पयः पीत्वा पश्चाद्वाचमुदीरयन्तीम् । क्षुधितो हि जनो न वाचमुदीरयति भुक्त्वा पश्चादुदीरयति । "विश्वाभिः सर्वाभिः “धीभिः वाग्भिः “उपतिष्ठमानां "देवीं द्योतमानां "देवेभ्यः देवार्थं "मा माम् "एयुषीम् अवगच्छन्तीं "गां "दभ्रचेताः अल्पबुद्धिः "मर्त्यः मनुष्यः परि “आ “अवृक्त परिवर्जयति ॥ ॥ ८ ॥

मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.१०१&oldid=202006" इत्यस्माद् पुनः प्राप्तिः