सामग्री पर जाएँ

ऋग्वेदः सूक्तं ८.१४

विकिस्रोतः तः
← सूक्तं ८.१३ ऋग्वेदः - मण्डल ८
सूक्तं ८.१४
गोषूक्त्यश्वसूक्तिनौ काण्वायनौ।
सूक्तं ८.१५ →
दे. इन्द्रः। गायत्री।


यदिन्द्राहं यथा त्वमीशीय वस्व एक इत् ।
स्तोता मे गोषखा स्यात् ॥१॥
शिक्षेयमस्मै दित्सेयं शचीपते मनीषिणे ।
यदहं गोपतिः स्याम् ॥२॥
धेनुष्ट इन्द्र सूनृता यजमानाय सुन्वते ।
गामश्वं पिप्युषी दुहे ॥३॥
न ते वर्तास्ति राधस इन्द्र देवो न मर्त्यः ।
यद्दित्ससि स्तुतो मघम् ॥४॥
यज्ञ इन्द्रमवर्धयद्यद्भूमिं व्यवर्तयत् ।
चक्राण ओपशं दिवि ॥५॥
वावृधानस्य ते वयं विश्वा धनानि जिग्युषः ।
ऊतिमिन्द्रा वृणीमहे ॥६॥
व्यन्तरिक्षमतिरन्मदे सोमस्य रोचना ।
इन्द्रो यदभिनद्वलम् ॥७॥
उद्गा आजदङ्गिरोभ्य आविष्कृण्वन्गुहा सतीः ।
अर्वाञ्चं नुनुदे वलम् ॥८॥
इन्द्रेण रोचना दिवो दृळ्हानि दृंहितानि च ।
स्थिराणि न पराणुदे ॥९॥
अपामूर्मिर्मदन्निव स्तोम इन्द्राजिरायते ।
वि ते मदा अराजिषुः ॥१०॥
त्वं हि स्तोमवर्धन इन्द्रास्युक्थवर्धनः ।
स्तोतॄणामुत भद्रकृत् ॥११॥
इन्द्रमित्केशिना हरी सोमपेयाय वक्षतः ।
उप यज्ञं सुराधसम् ॥१२॥
अपां फेनेन नमुचेः शिर इन्द्रोदवर्तयः ।$
विश्वा यदजय स्पृधः ॥१३॥
मायाभिरुत्सिसृप्सत इन्द्र द्यामारुरुक्षतः ।
अव दस्यूँरधूनुथाः ॥१४॥
असुन्वामिन्द्र संसदं विषूचीं व्यनाशयः ।
सोमपा उत्तरो भवन् ॥१५॥


सायणभाष्यम्

'यदिन्द्राहम् ' इति पञ्चदशर्चं द्वितीयं सूक्तं गोषूक्त्यश्वसूक्तिनोः काण्वगोत्रयोरार्षं गायत्रमैन्द्रम् । तथा चानुक्रान्तं—'यदिन्द्र पञ्चोना गोषूक्त्यश्वसूक्तिनौ काण्वायनौ ' इति । महाव्रते निष्केवल्य एतत्सूक्तम् । तथैव पञ्चमारण्यके सूत्र्यते - यदिन्द्राहं यथा त्वं प्र सम्राजं चर्षणीनामिति सूक्ते' (ऐ. आ. ५. २. ५) इति । तृतीये पर्याये ब्रह्मशस्त्रेऽपीदं सूक्तम् । सूत्रितं च-'यदिन्द्राहं प्र ते महे' (आश्व. श्रौ. ६. ४) इति ॥


यदि॑न्द्रा॒हं यथा॒ त्वमीशी॑य॒ वस्व॒ एक॒ इत् ।

स्तो॒ता मे॒ गोष॑खा स्यात् ॥१

यत् । इ॒न्द्र॒ । अ॒हम् । यथा॑ । त्वम् । ईशी॑य । वस्वः॑ । एकः॑ । इत् ।

स्तो॒ता । मे॒ । गोऽस॑खा । स्या॒त् ॥१

यत् । इन्द्र । अहम् । यथा । त्वम् । ईशीय । वस्वः । एकः । इत् ।

स्तोता । मे । गोऽसखा । स्यात् ॥१

हे “इन्द्र “यथा “त्वम् “एक “इत् एक एव केवलं “वस्वः वसुनः धनस्य ईंशिषे एवम् “अहम् अपि यत् यदि “ईशीय ऐश्वर्ययुक्तः स्यां तदानीं “मे मम "स्तोता “गोसखा स्यात् गोभिः सहितो भवेत् । ईश्वरस्य तव स्तोता कुतो हेतोर्गोसहितो न भवेत् अपि तु भवेदित्यभिप्रायः ॥


शिक्षे॑यमस्मै॒ दित्से॑यं॒ शची॑पते मनी॒षिणे॑ ।

यद॒हं गोप॑ति॒ः स्याम् ॥२

शिक्षे॑यम् । अ॒स्मै॒ । दित्से॑यम् । शची॑ऽपते । म॒नी॒षिणे॑ ।

यत् । अ॒हम् । गोऽप॑तिः । स्याम् ॥२

शिक्षेयम् । अस्मै । दित्सेयम् । शचीऽपते । मनीषिणे ।

यत् । अहम् । गोऽपतिः । स्याम् ॥२

हे "शचीपते शक्तिमन्निन्द्र “अस्मै मनीषिणे मनस ईशित्रे स्तोत्रे “दित्सेयं दातुमिच्छेयम् । तदनन्तरं “शिक्षेयं प्रार्थितं धनं दद्यां च । यत् यदि "अहं गोपतिः गवामधिपतिः "स्यां भवेयं त्वत्प्रसादादिति शेषः ॥


धे॒नुष्ट॑ इन्द्र सू॒नृता॒ यज॑मानाय सुन्व॒ते ।

गामश्वं॑ पि॒प्युषी॑ दुहे ॥३

धे॒नुः । ते॒ । इ॒न्द्र॒ । सू॒नृता॑ । यज॑मानाय । सु॒न्व॒ते ।

गाम् । अश्व॑म् । पि॒प्युषी॑ । दु॒हे॒ ॥३

धेनुः । ते । इन्द्र । सूनृता । यजमानाय । सुन्वते ।

गाम् । अश्वम् । पिप्युषी । दुहे ॥३

हे "इन्द्र ते तव "सूनृता स्तुतिरूपा वाक् “धेनुः दोग्ध्री गौर्भूत्वा "सुन्वते सोमाभिषवं कुर्वते "यजमानाय "गामश्वं च । उपलक्षणमेतत् । गवाश्वादिकं सर्वमभिलषितं “दुहे दुग्धे । किं कुवती । "पिप्युषी तमेव प्रवर्धयित्री ।।


न ते॑ व॒र्तास्ति॒ राध॑स॒ इन्द्र॑ दे॒वो न मर्त्य॑ः ।

यद्दित्स॑सि स्तु॒तो म॒घम् ॥४

न । ते॒ । व॒र्ता । अ॒स्ति॒ । राध॑सः । इन्द्र॑ । दे॒वः । न । मर्त्यः॑ ।

यत् । दित्स॑सि । स्तु॒तः । म॒घम् ॥४

न । ते । वर्ता । अस्ति । राधसः । इन्द्र । देवः । न । मर्त्यः ।

यत् । दित्ससि । स्तुतः । मघम् ॥४

हे “इन्द्र "ते तव "राधसः धनस्य स्तोतृभ्यो दातव्यस्य “वर्ता निवारकः "देवः "न अस्ति न विद्यते । "न “मर्त्यः मनुष्योऽपि निवारको नास्ति। “स्तुतः स्तोतृभिः प्रख्यापितगुणः सन् "यत् मह्यं "मघं मंहनीयं धनं "दित्ससि त्वं दातुमिच्छसि ॥


य॒ज्ञ इन्द्र॑मवर्धय॒द्यद्भूमिं॒ व्यव॑र्तयत् ।

च॒क्रा॒ण ओ॑प॒शं दि॒वि ॥५

य॒ज्ञः । इन्द्र॑म् । अ॒व॒र्ध॒य॒त् । यत् । भूमि॑म् । वि । अव॑र्तयत् ।

च॒क्रा॒णः । ओ॒प॒शम् । दि॒वि ॥५

यज्ञः । इन्द्रम् । अवर्धयत् । यत् । भूमिम् । वि । अवर्तयत् ।

चक्राणः । ओपशम् । दिवि ॥५

"यज्ञः यजमानैरनुष्ठीयमानो यागः “इन्द्रं देवम् "अवर्धयत् । श्रूयते हि -- इन्द्र इदं इविरजुषतावीवृधत महो ज्यायोऽकृत' (तै. ब्रा. ३. ५. १०. ३) इति । स इन्द्रः "यत् यस्मात् “भूमिं पृथिवीं “व्यवर्तयत् वृष्ट्यादिप्रदानेन विशेषेण वर्तमानामकरोत् । किं कुर्वन् । "दिवि अन्तरिक्षे मेघम् “ओपशम् उपेत्य शयानं "चक्राणः कुर्वन् । यद्वा । आत्मनि समवेतो वीर्यविशेष ओपशः । तमन्तरिक्षे कुर्वन् ॥ ॥ १४ ॥


वा॒वृ॒धा॒नस्य॑ ते व॒यं विश्वा॒ धना॑नि जि॒ग्युष॑ः ।

ऊ॒तिमि॒न्द्रा वृ॑णीमहे ॥६

व॒वृ॒धा॒नस्य॑ । ते॒ । व॒यम् । विश्वा॑ । धना॑नि । जि॒ग्युषः॑ ।

ऊ॒तिम् । इ॒न्द्र॒ । आ । वृ॒णी॒म॒हे॒ ॥६

ववृधानस्य । ते । वयम् । विश्वा । धनानि । जिग्युषः ।

ऊतिम् । इन्द्र । आ । वृणीमहे ॥६

हे इन्द्र "वावृधानस्य वर्धमानस्य "विश्वा विश्वानि सर्वाणि “धनानि शत्रुसंबन्धीनि “जिग्युषः जितवतः “ते तव “ऊतिं रक्षां “वयम् "आ “वृणीमहे आभिमुख्येन संभजामहे ॥


चातुर्विशिकेऽहनि प्रातःसवने ब्रह्मशस्त्रे ‘ व्यन्तरिक्षमतरत्' इत्ययं पर्यासस्तृचः । सूत्र्यते हि- ‘ व्यन्तरिक्षमतिरच्छ्यावाश्वस्य सुन्वत इति तृचाः पर्यासाः' (आश्व. श्रौ. ७.२ ) इति । अहर्गणेषु द्वितीयादिष्वहःस्वपि तस्यैव तस्मिन्नेव शस्त्रेऽयं पर्यासस्तृचः । सूत्रितं च-पर्यासान्कद्वतोऽहरहःशस्यानीति ' होत्रका द्वितीयादिष्वेव' (आश्व. श्रौ. ७. १) इति ।।

व्य१॒॑न्तरि॑क्षमतिर॒न्मदे॒ सोम॑स्य रोच॒ना ।

इन्द्रो॒ यदभि॑नद्व॒लम् ॥७

वि । अ॒न्तरि॑क्षम् । अ॒ति॒र॒त् । मदे॑ । सोम॑स्य । रो॒च॒ना ।

इन्द्रः॑ । यत् । अभि॑नत् । व॒लम् ॥७

वि । अन्तरिक्षम् । अतिरत् । मदे । सोमस्य । रोचना ।

इन्द्रः । यत् । अभिनत् । वलम् ॥७

“सोमस्य पानेन "मदे हर्षे सति “रोचना रोचमानम् "अन्तरिक्षम् अयम् "इन्द्रः “वि "अतिरत् व्यवर्धयत् । "यत् यस्मात्कारणात् "वलम् आवृत्य स्थितमसुरं मेघं वा "अभिनत् व्यदारयत् ॥


उद्गा आ॑ज॒दङ्गि॑रोभ्य आ॒विष्कृ॒ण्वन्गुहा॑ स॒तीः ।

अ॒र्वाञ्चं॑ नुनुदे व॒लम् ॥८

उत् । गाः । आ॒ज॒त् । अङ्गि॑रःऽभ्यः । आ॒विः । कृ॒ण्वन् । गुहा॑ । स॒तीः ।

अ॒र्वाञ्च॑म् । नु॒नु॒दे॒ । व॒लम् ॥८

उत् । गाः । आजत् । अङ्गिरःऽभ्यः । आविः । कृण्वन् । गुहा । सतीः ।

अर्वाञ्चम् । नुनुदे । वलम् ॥८

"अङ्गिरोभ्यः ऋषिभ्यो वलानुचरैः पणिभिरपहृताः “गाः “उत् "आजत् उदगमयत् । किं कुर्वन् । “गुहा गुहायां बिले "सतीः विद्यमानाः यथा न दृश्यन्ते तथा पणिभिर्गूढास्ता गाः “आविष्कृण्वन् प्रकाशयन् । अपि च पणीनामधिपतिं "वलम् असुरमपि "अर्वाञ्चम् अधोमुखं "नुनुदे प्रेरितवान् ॥


इन्द्रे॑ण रोच॒ना दि॒वो दृ॒ळ्हानि॑ दृंहि॒तानि॑ च ।

स्थि॒राणि॒ न प॑रा॒णुदे॑ ॥९

इन्द्रे॑ण । रो॒च॒ना । दि॒वः । दृ॒ळ्हानि॑ । दृं॒हि॒तानि॑ । च॒ ।

स्थि॒राणि॑ । न । प॒रा॒ऽनुदे॑ ॥९

इन्द्रेण । रोचना । दिवः । दृळ्हानि । दृंहितानि । च ।

स्थिराणि । न । पराऽनुदे ॥९

"दिवः द्युलोकस्य संबन्धीनि “रोचना रोचमानानि देवगृहात्मकानि नक्षत्राणि “इन्द्रेण “दृळ्हानि दृढावयवानि बलवन्ति कृतानि “दृंहितानि “च दृढीकृतानि । यथैकत्र नैश्चल्येनावतिष्ठन्ते तथा कृतानीत्यर्थः । यद्वा । दृह दृहि वृहि वृद्धौ '। दृंहितानि वर्धितानि चेत्यर्थः । अपि च “स्थिराणि स्थास्नूनि दृढानि तानि “न "पराणुदे परानोदनीयानि न भवन्ति । न केनापि स्थानात् प्रच्यावयितुं शक्यानीत्यर्थः । ‘नुद प्रेरणे' । अस्मात् “ कृत्यार्थे ' इति केन्प्रत्ययः ॥


अ॒पामू॒र्मिर्मद॑न्निव॒ स्तोम॑ इन्द्राजिरायते ।

वि ते॒ मदा॑ अराजिषुः ॥१०

अ॒पाम् । ऊ॒र्मिः । मद॑न्ऽइव । स्तोमः॑ । इ॒न्द्र॒ । अ॒जि॒र॒ऽय॒ते॒ ।

वि । ते॒ । मदाः॑ । अ॒रा॒जि॒षुः॒ ॥१०

अपाम् । ऊर्मिः । मदन्ऽइव । स्तोमः । इन्द्र । अजिरऽयते ।

वि । ते । मदाः । अराजिषुः ॥१०

“अपां समुद्राणाम् "ऊर्मिः तरङ्गः "मदन्निव यथा माद्यन्नुपर्युपरि जायते । हे “इन्द्र "स्तोमः त्वदीयं स्तोत्रं तथा “अजिरायते । अजिरः क्षिप्रगामी । स इवाचरति । अपि च “ते त्वदीयाः “मदाः स्तोत्रजन्याः सोमपानजन्याश्च "वि “अराजिषुः विशेषेण राजन्ते दीप्यन्ते ॥ ॥ १५ ॥


त्वं हि स्तो॑म॒वर्ध॑न॒ इन्द्रास्यु॑क्थ॒वर्ध॑नः ।

स्तो॒तॄ॒णामु॒त भ॑द्र॒कृत् ॥११

त्वम् । हि । स्तो॒म॒ऽवर्ध॑नः । इन्द्र॑ । असि॑ । उ॒क्थ॒ऽवर्ध॑नः ।

स्तो॒तॄ॒णाम् । उ॒त । भ॒द्र॒ऽकृत् ॥११

त्वम् । हि । स्तोमऽवर्धनः । इन्द्र । असि । उक्थऽवर्धनः ।

स्तोतॄणाम् । उत । भद्रऽकृत् ॥११

हे "इन्द्र “त्वं "हि त्वं खलु "स्तोमवर्धनः स्तोमेन त्रिवृत्पञ्चदशादिना वर्धनीयः "असि । तथा “उक्थवर्धनः उक्थैः शस्त्रैर्वर्धनीयश्च त्वमेवासि । "उत अपि च "स्तोतॄणाम् अस्माकं “भद्रकृत् भद्रस्य कल्याणस्य फलस्य कर्तापि त्वमेवासि ॥


इन्द्र॒मित्के॒शिना॒ हरी॑ सोम॒पेया॑य वक्षतः ।

उप॑ य॒ज्ञं सु॒राध॑सम् ॥१२

इन्द्र॑म् । इत् । के॒शिना॑ । हरी॒ इति॑ । सो॒म॒ऽपेया॑य । व॒क्ष॒तः॒ ।

उप॑ । य॒ज्ञम् । सु॒ऽराध॑सम् ॥१२

इन्द्रम् । इत् । केशिना । हरी इति । सोमऽपेयाय । वक्षतः ।

उप । यज्ञम् । सुऽराधसम् ॥१२

"केशिना केशिनौ । मूर्धजानि लोमानि केशाः । तद्वन्तौ "हरी अश्वौ "सुराधसं शोभनधनम् “इन्द्रमित् इन्द्रमेव "यज्ञम् "उप अस्मद्यज्ञं प्रति "सोमपेयाय सोमपानार्थं "वक्षतः वहताम् । यद्वा । यज्ञं यष्टव्यमिन्द्रमुपवहताम् ॥


अ॒पां फेने॑न॒ नमु॑चे॒ः शिर॑ इ॒न्द्रोद॑वर्तयः ।

विश्वा॒ यदज॑य॒ः स्पृध॑ः ॥१३

अ॒पाम् । फेने॑न । नमु॑चेः । शिरः॑ । इ॒न्द्र॒ । उत् । अ॒व॒र्त॒यः॒ ।

विश्वाः॑ । यत् । अज॑यः । स्पृधः॑ ॥१३

अपाम् । फेनेन । नमुचेः । शिरः । इन्द्र । उत् । अवर्तयः ।

विश्वाः । यत् । अजयः । स्पृधः ॥१३

पुरा किलेन्द्रोऽसुराञ्जित्वा नमुचिमसुरं ग्रहीतुं न शशाक । स च युध्यमानस्तेनासुरेण जगृहे । स च गृहीतमिन्द्रमेवमोचत् । त्वां विसृजामि रात्रावह्नि च शुषकेणार्द्रेण चायुधेन यदि मां मा हिंसीरिति । स इन्द्रस्तेन विसृष्टः सन्नहोरात्रयोः संधौ शुष्कार्दविलक्षणेन फेनेन तस्य शिरश्चिच्छेद। अयमर्थोऽस्यां प्रतिपाद्यते । हे “इन्द्र "अपां “फेनेन वज्रीभूतेन "नमुचेः असुरस्य "शिरः "उदवर्तयः शरीरादुद्गतमवर्तयः । अच्छैत्सीरित्यर्थः । कदेति चेत् । "यत् यदा "विश्वाः सर्वाः "स्पृधः स्पर्धमाना आसुरीः सेनाः "अजयः जितवानसि । इन्द्रो वृत्रं हत्वासुरान् ---... ॥


मा॒याभि॑रु॒त्सिसृ॑प्सत॒ इन्द्र॒ द्यामा॒रुरु॑क्षतः ।

अव॒ दस्यूँ॑रधूनुथाः ॥१४

मा॒याभिः॑ । उ॒त्ऽसिसृ॑प्सतः । इन्द्र॑ । द्याम् । आ॒ऽरुरु॑क्षतः ।

अव॑ । दस्यू॑न् । अ॒धू॒नु॒थाः॒ ॥१४

मायाभिः । उत्ऽसिसृप्सतः । इन्द्र । द्याम् । आऽरुरुक्षतः ।

अव । दस्यून् । अधूनुथाः ॥१४

.... हे "इन्द्र त्वम् "अव "अधूनुथाः अवाङ्मुखं प्रेरितवानसि ॥


अ॒सु॒न्वामि॑न्द्र सं॒सदं॒ विषू॑चीं॒ व्य॑नाशयः ।

सो॒म॒पा उत्त॑रो॒ भव॑न् ॥१५

अ॒सु॒न्वाम् । इ॒न्द्र॒ । स॒म्ऽसद॑म् । विषू॑चीम् । वि । अ॒ना॒श॒यः॒ ।

सो॒म॒ऽपाः । उत्ऽत॑रः । भव॑न् ॥१५

असुन्वाम् । इन्द्र । सम्ऽसदम् । विषूचीम् । वि । अनाशयः ।

सोमऽपाः । उत्ऽतरः । भवन् ॥१५

हे “इन्द्र त्वं "सोमपाः सोमस्य पाता भूत्वा “उत्तरः उत्कृष्टतरः "भवन् "असुन्वां सोमाभिषवहीनां "संसदं जनसंहतिं "विषूचीं परस्परविरोधेन विषु नाना गन्त्रीं “व्यनाशयः विशेषेण नाशयसि ॥ ॥ १६ ॥


टिप्पणी

८.१४.१ यदिन्द्राहं यथा त्वं इति

गौषूक्तं - आश्वसूक्तम् (ग्रामगेयः)


८.१४.१३ - नमुचि शब्दस्य संभावित व्याख्या

मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.१४&oldid=353462" इत्यस्माद् प्रतिप्राप्तम्